Skip to main content

Kriyāyogasāra-khaṇḍa · Chapter 24

Chapter 24

Unit 691 of 693Kriyāyogasāra-khaṇḍa · Chapter 24Kriyāyogasāra-khaṇḍa · Chapter 241 source entries

Kriyāyogasāra-khaṇḍa · Chapter 24

Source

सूत उवाच- एकादश्याः फलं श्रुत्वा सुप्रीतो जैमिनिस्ततः । कृताञ्जलिरुवाचेदं कृष्णद्वैपायनं प्रभुम् १। जैमिनिरुवाच- विष्णोर्देवस्य माहात्म्यं त्वत्प्रसादाच्छ्रुतं मया । तुलस्या ब्रूहि माहात्म्यं शृण्वतां पापनाशनम् २। व्यास उवाच- इन्द्राद्यैर्दैवतैः सर्वैस्तुलसी भगवत्यसौ । संसेव्या सर्वदा विप्र चतुर्वर्गफलप्रदा ३। स्वर्गे मर्त्ये च पाताले तुलसी दुर्ल्लभा सताम् । चतुर्वर्गफलप्राप्तिस्तस्यां भक्तिः करोति वै ४। यत्रैकस्तुलसीवृक्षस्तिष्ठत्यपि च सत्तम । तत्रैव त्रिदशाः सर्वे ब्रह्मविष्णुशिवादयः ५। केशवः पत्रमध्ये च पत्राग्रे च प्रजापतिः । पत्रवृंते शिवस्तिष्ठेत्तुलस्याः सर्वदैव हि ६। लक्ष्मी सरस्वती चैव गायत्री चंडिका तथा । सर्वाश्चान्या देवपत्न्यस्तत्पत्रेषु वंसति च ७। इन्द्रो ऽग्नि शमनश्चैव नैरृतिर्वरुणस्तथा । पवनश्च कुबरेश्च तच्छाखायां वसंत्यमी ८। आदित्यादि ग्रहाः सर्वे विश्वेदेवाश्च सर्वदा । वसवो मुनयश्चैव तथा देवर्षयोऽखिलाः ९। कोटिब्रह्माण्डमध्येषु यानि तीर्थानि भूतले । तुलसीदलमाश्रित्य तान्येव निवसंति वै १०। तुलसीं सेवते यस्तु भक्तिभावसमन्वितः । सेवितास्तेन तीर्थाश्च देवा ब्रह्मादयस्तथा ११। छिन्दंति तृणजालानि तुलसीमूलजानि ये । तद्देहस्थां ब्रह्महत्यां क्षिणत्ति तत्क्षणाद्धरिः १२। ग्रीष्मकाले द्विजश्रेष्ठ सुगंधैः शीतलैर्जलैः । तुलसीसेचनं कृत्वा नरो निर्वाणमाप्नुयात् १३। चन्द्रातपं वा छत्रं वा तस्यै यस्तु प्रयच्छति । विशेषतो निदाघेषु स मुक्तः सर्वपातकैः १४। वैशाखेऽक्षतधाराभिरद्भिर्यस्तुलसीं जनः । सिंचयेत्सोऽश्वमेधस्य फलं प्राप्नोति नित्यशः १५। प्रसृतोदकमात्रेण तुलसीं यस्य सेचयेत् । सोऽपि स्वर्गमवाप्नोति सर्वपापविवर्जितः १६। कदाचित्तुलसीं दुग्धैः सेचयेद्यो नरोत्तमः । तस्य वेश्मनि विप्रर्षे लक्ष्मीर्भवति निश्चला १७। गोमयैस्तुलसीमूलं यः कुर्यादुपलेपनम् । संमार्जनं च विप्रर्षे तस्य पुण्यफलं शृणु १८। रजांसि तत्र यावंति दूरीभूतानि जैमिने । तावत्कल्पसहस्राणि मोदते विष्णुना सह १९। प्रदीपं यस्तु संध्यायां स्थापयेत्तुलसीतले । स याति मंदिरं विष्णोः कुलकोटिसमन्वितः २०। गोभ्यः श्वभ्यः खरेभ्यश्च मनुष्येभ्यश्च रक्षति । शिशुभ्यस्तुलसीं यस्तु तं रक्षेत्केशवः सदा २१। तुलस्यारोपणं यस्तु भक्तितः कुरुते नरः । स मृतः परमं मोक्षं प्राप्नोत्येव न संशयः २२। प्रभाते तुलसीं पश्येद्भक्तिमान्यो नरोत्तमः । स विष्णुदर्शनस्यैव फलं प्राप्नोति चाक्षयम् २३। तुलसीं प्रणमेद्यस्तु नरो भक्तिसमन्वितः । आयुर्बलं यशोवित्तं संततिस्तस्य वर्द्धते २४। तुलसीस्मरणेनैव सर्वपापं विनश्यति । तुलसीस्पर्शनेनैव नश्यंति व्याधयो नृणाम् २५। योऽश्नाति तुलसीपत्रं सर्वपापहरं शुभम् । तच्छरीरांतरस्थायि पापं नश्यति तत्क्षणात् २६। तुलसीकाष्ठसंभूतां मालां वहति यो नरः । तद्देहे पातकं नास्ति सत्यमेतन्मयोच्यते २७। तुलसीपत्रगलितं यस्तोयं शिरसा वहेत् । गंगायाः स्नानजं पुण्यं लभते नात्र संशयः २८। दूर्वाभिरक्षतैः पुष्पैर्नैवेद्यैस्तुलसीं शुभाम् । समाराध्य नरो भक्त्या विष्णुपूजा फलं लभेत् २९। येनार्चिता भगवती तुलसी कदाचिन्नैवेद्य पुष्पवरधूपघृतप्रदीपैः । धर्मार्थकामपरमामृतदायि विप्राः किं तस्य विष्णुचरणापचितिप्रयोगैः ३०। स्थानेषु दोषरहितेषु सुरौघसेव्यामारोपयंति तुलसीं हरितुष्टिकर्त्रीम् । तुष्टो हरिस्त्रिजगतामधिपोऽमुरारिस्तेभ्यो ददाति परमं पदमाशु विप्र ३१। यज्ञं व्रतं च पितृपूजनमच्युतार्च्चां दानं यदन्यदपि कर्मशुभं मनुष्याः । कुर्वंति दोषरहिते तुलसीतले च तान्यक्षयाणि सकलानि भवंति नूनम् ३२। यद्धर्मकर्मकुरुते मनुजः पृथिव्यां नारायणप्रियतमां तुलसीं विना च । तत्सर्वमेव विफलं भवति द्विजेन्द्र पद्मेक्षणोऽपि न हि तुष्यति देवदेवः ३३। यात्रासु पश्यति शुभां तुलसीं पवित्रां यो भक्तिभावसहितो मनुजो हि नूनम् । यात्राफलं सकलमेव हरिप्रसादात्तस्याशु सिद्ध्यति वचः सुदृढं ममैतत् ३४। त्यक्त्वा सुगन्धिकुसुमं भुवनैकनाथो मंदारकुन्दनलिनादिकमप्यनंतः । गृह्णाति सद्गुणमयीं तुलसीं प्रमोदैः शुष्कामपि प्रचुरपापविनाशरक्षाम् ३५। उत्पाट्य चैव तुलसीं भुवि निक्षिपंति पापाशयाऽमृतलताभ निदानभूताम् । अज्ञानतो नरहरिस्तुलसीप्रियोऽसौ तेषां श्रियं हरति संततमेव सत्यम् ३६। मूत्रं पुरीषं तुलसीतलेषु कुर्वंति येऽपि च मलं सततं मनुष्याः । देवाश्रये संचित पातकानां तेषां हरत्याशु हरिर्धनानि ३७। नारायणस्यपूजार्थं चिनोमि त्वां नमोस्तुते । कुसुमैः पारिजाताद्यैर्गंधाद्यैरपि केशवः ३८। त्वया विना नैति तृप्तिं चिनोमि त्वामतः शुभे । त्वया विना महाभागे समस्तं कर्म निष्फलम् ३९। अतस्तु तुलसी देवि चिनोमि वरदा भव । चयनोद्भव दुःखं ते यद्देवि हृदि जायते ४०। तत्क्षमस्व जगन्नाथे तुलसि त्वां नमाम्यहम् । कृताञ्जलिरिमान्मन्त्रान्पठित्वा वैष्णवो जनः ४१। करतालद्वयं दत्वा चिनोति तुलसीदलम् । यथा न कंपते शाखा तुलस्या द्विजसत्तम ४२। पत्रस्य चयने देवी भग्नशाखा यदा भवेत् । तदा हृदि व्यथा विष्णोर्ज्जायते तुलसीपतेः ४३। शाखाग्रात्पतितं भूमौ पत्रं पत्रं पुरातनम् । तेनापि पूज्यो गोविन्दो मधुकैटभमर्द्दनः ४४। कोमलैस्तुलसीपत्रैर्योऽर्चयेदच्युतं प्रभुम् । सर्वं स लभते शीघ्रं यद्यदिच्छति चेतसा ४५। जैमिनिरुवाच- तुलसीवृक्षसदृशः कोवृक्षोऽस्ति द्विजर्षभ । तमहं ज्ञातुमिच्छामि ब्रूहि सत्यवतीसुत ४६। व्यास उवाच- यथा प्रियतमा विष्णोस्तुलसी सततं द्विज । तथा प्रियतमा धात्री सर्वपापप्रणाशिनी ४७। तुलसीवृक्षमासाद्य या यास्तिष्ठंति देवताः । आमलक्यास्तले तास्ता निवसंति द्विजोत्तम ४८। गंगादीनि च तीर्थानि तत्रैव द्विजसत्तम । विष्णुप्रियतमा धात्री पवित्रा यत्र तिष्ठति ४९। अशुभं वाशुभं वापि यत्कर्मामलकीतले । क्रियते मानवैर्विंप्र भवेत्तत्सत्यमक्षयम् ५० 7.24.50। पवित्रैर्नूतनेः पत्रैर्धात्र्या यः पूजयेद्धरिम् । स मुक्तः पापजालेन सायुज्यं लभते हरेः ५१। धात्री च तुलसीदेवी न तिष्ठेद्यत्र जैमिने । स्थानं तदपवित्रं स्यान्न च क्रियाफलं लभेत् ५२। न तिष्ठत्याश्रमे यस्य धात्री च तुलसी शुभा । तेन कर्म कृतं सर्वं नूनं गच्छति निष्फलम् ५३। धात्र्या तुलस्या हीनं च निलयं यस्य भूसुर । अलक्ष्मीः पातकं सर्वं कलिश्च तेन तोषितः ५४। स्थाने तस्मिन्द्विजश्रेष्ठ न धात्री तुलसी न च । श्मशानतुल्यं स्थानं तद्विज्ञेयं तत्वदर्शिभिः ५५। धात्री च तुलसी यत्र तिष्ठेत्तत्राखिलाः सुराः । न धात्री तुलसी पत्रं तत्रैवाखिलपातकम् ५६। धात्रीफलस्रजं यस्तु पापहर्त्रीं वहेद्बुधः । तस्याश्रित्य तनुं विष्णुः सदा तिष्ठेच्छ्रिया सह ५७। धात्रीकाष्ठस्य मालां च यो वहेन्मतिमान्नरः । तस्य देहं समाश्रित्य तिष्ठंति सर्वदेवताः ५८। धात्रीफलस्रजं गृह्णन्यत्कर्म कुरुते नरः । तत्सर्वमक्षयं प्रोक्तं शुभं वा यदि वाशुभम् ५९। यस्तु धात्रीफलं भुंक्ते मानवोऽखिलतत्ववित् । तद्देहाभ्यंतरस्थायि सर्वं पापं विनश्यति ६०। धात्रीफलमयीं मालां यो वहेद्दिवजसत्तम । ब्रवीमि शृणु माहात्म्यं सर्वपापहरं परम् ६१। श्मशानेऽपि यदा मृत्युस्तस्य स्याद्दैवयोगतः । गङ्गामरणजं पुण्यं संप्राप्नोति न संशयः ६२। तं दृष्ट्वा पापिनः सर्वे पापजालैः सुदारुणैः । सद्य एव प्रमुच्यंते जन्मकोटिशतैरपि ६३। नित्यं गृह्णाति विप्रेंद्र यो धात्रीफलकर्द्दमम् । दिने दिने लभेत्पुण्यं संप्राप्नोति न संशयः ६४। धात्रीतरुं च यो हंति सर्वदेवगणाश्रयम् । स ददाति हरेरंगे घातं नास्त्यत्र संशयः ६५। सर्वदेवमयी धात्री विशेषात्केशवप्रिया । सम्यग्वक्तुं गुणं तस्या ब्रह्मणापि न शक्यते ६६। धात्र्यास्तुलस्या विदधाति भक्तिं यो मानवो ज्ञातसमस्ततत्वः । भुक्त्वा च भोगान्सकलां स्ततोंऽते स मुक्तिमाप्नोति हरेः प्रसादात् ६७। इति श्रीपद्मपुराणे क्रियायोगसारे तुलसीमाहात्म्यं नाम चतुर्विंशोऽध्यायः २४ ।

sūta uvāca- ekādaśyāḥ phalaṃ śrutvā suprīto jaiministataḥ | kṛtāñjaliruvācedaṃ kṛṣṇadvaipāyanaṃ prabhum 1| jaiminiruvāca- viṣṇordevasya māhātmyaṃ tvatprasādācchrutaṃ mayā | tulasyā brūhi māhātmyaṃ śṛṇvatāṃ pāpanāśanam 2| vyāsa uvāca- indrādyairdaivataiḥ sarvaistulasī bhagavatyasau | saṃsevyā sarvadā vipra caturvargaphalapradā 3| svarge martye ca pātāle tulasī durllabhā satām | caturvargaphalaprāptistasyāṃ bhaktiḥ karoti vai 4| yatraikastulasīvṛkṣastiṣṭhatyapi ca sattama | tatraiva tridaśāḥ sarve brahmaviṣṇuśivādayaḥ 5| keśavaḥ patramadhye ca patrāgre ca prajāpatiḥ | patravṛṃte śivastiṣṭhettulasyāḥ sarvadaiva hi 6| lakṣmī sarasvatī caiva gāyatrī caṃḍikā tathā | sarvāścānyā devapatnyastatpatreṣu vaṃsati ca 7| indro 'gni śamanaścaiva nairṛtirvaruṇastathā | pavanaśca kubareśca tacchākhāyāṃ vasaṃtyamī 8| ādityādi grahāḥ sarve viśvedevāśca sarvadā | vasavo munayaścaiva tathā devarṣayo'khilāḥ 9| koṭibrahmāṇḍamadhyeṣu yāni tīrthāni bhūtale | tulasīdalamāśritya tānyeva nivasaṃti vai 10| tulasīṃ sevate yastu bhaktibhāvasamanvitaḥ | sevitāstena tīrthāśca devā brahmādayastathā 11| chindaṃti tṛṇajālāni tulasīmūlajāni ye | taddehasthāṃ brahmahatyāṃ kṣiṇatti tatkṣaṇāddhariḥ 12| grīṣmakāle dvijaśreṣṭha sugaṃdhaiḥ śītalairjalaiḥ | tulasīsecanaṃ kṛtvā naro nirvāṇamāpnuyāt 13| candrātapaṃ vā chatraṃ vā tasyai yastu prayacchati | viśeṣato nidāgheṣu sa muktaḥ sarvapātakaiḥ 14| vaiśākhe'kṣatadhārābhiradbhiryastulasīṃ janaḥ | siṃcayetso'śvamedhasya phalaṃ prāpnoti nityaśaḥ 15| prasṛtodakamātreṇa tulasīṃ yasya secayet | so'pi svargamavāpnoti sarvapāpavivarjitaḥ 16| kadācittulasīṃ dugdhaiḥ secayedyo narottamaḥ | tasya veśmani viprarṣe lakṣmīrbhavati niścalā 17| gomayaistulasīmūlaṃ yaḥ kuryādupalepanam | saṃmārjanaṃ ca viprarṣe tasya puṇyaphalaṃ śṛṇu 18| rajāṃsi tatra yāvaṃti dūrībhūtāni jaimine | tāvatkalpasahasrāṇi modate viṣṇunā saha 19| pradīpaṃ yastu saṃdhyāyāṃ sthāpayettulasītale | sa yāti maṃdiraṃ viṣṇoḥ kulakoṭisamanvitaḥ 20| gobhyaḥ śvabhyaḥ kharebhyaśca manuṣyebhyaśca rakṣati | śiśubhyastulasīṃ yastu taṃ rakṣetkeśavaḥ sadā 21| tulasyāropaṇaṃ yastu bhaktitaḥ kurute naraḥ | sa mṛtaḥ paramaṃ mokṣaṃ prāpnotyeva na saṃśayaḥ 22| prabhāte tulasīṃ paśyedbhaktimānyo narottamaḥ | sa viṣṇudarśanasyaiva phalaṃ prāpnoti cākṣayam 23| tulasīṃ praṇamedyastu naro bhaktisamanvitaḥ | āyurbalaṃ yaśovittaṃ saṃtatistasya varddhate 24| tulasīsmaraṇenaiva sarvapāpaṃ vinaśyati | tulasīsparśanenaiva naśyaṃti vyādhayo nṛṇām 25| yo'śnāti tulasīpatraṃ sarvapāpaharaṃ śubham | taccharīrāṃtarasthāyi pāpaṃ naśyati tatkṣaṇāt 26| tulasīkāṣṭhasaṃbhūtāṃ mālāṃ vahati yo naraḥ | taddehe pātakaṃ nāsti satyametanmayocyate 27| tulasīpatragalitaṃ yastoyaṃ śirasā vahet | gaṃgāyāḥ snānajaṃ puṇyaṃ labhate nātra saṃśayaḥ 28| dūrvābhirakṣataiḥ puṣpairnaivedyaistulasīṃ śubhām | samārādhya naro bhaktyā viṣṇupūjā phalaṃ labhet 29| yenārcitā bhagavatī tulasī kadācinnaivedya puṣpavaradhūpaghṛtapradīpaiḥ | dharmārthakāmaparamāmṛtadāyi viprāḥ kiṃ tasya viṣṇucaraṇāpacitiprayogaiḥ 30| sthāneṣu doṣarahiteṣu suraughasevyāmāropayaṃti tulasīṃ harituṣṭikartrīm | tuṣṭo haristrijagatāmadhipo'murāristebhyo dadāti paramaṃ padamāśu vipra 31| yajñaṃ vrataṃ ca pitṛpūjanamacyutārccāṃ dānaṃ yadanyadapi karmaśubhaṃ manuṣyāḥ | kurvaṃti doṣarahite tulasītale ca tānyakṣayāṇi sakalāni bhavaṃti nūnam 32| yaddharmakarmakurute manujaḥ pṛthivyāṃ nārāyaṇapriyatamāṃ tulasīṃ vinā ca | tatsarvameva viphalaṃ bhavati dvijendra padmekṣaṇo'pi na hi tuṣyati devadevaḥ 33| yātrāsu paśyati śubhāṃ tulasīṃ pavitrāṃ yo bhaktibhāvasahito manujo hi nūnam | yātrāphalaṃ sakalameva hariprasādāttasyāśu siddhyati vacaḥ sudṛḍhaṃ mamaitat 34| tyaktvā sugandhikusumaṃ bhuvanaikanātho maṃdārakundanalinādikamapyanaṃtaḥ | gṛhṇāti sadguṇamayīṃ tulasīṃ pramodaiḥ śuṣkāmapi pracurapāpavināśarakṣām 35| utpāṭya caiva tulasīṃ bhuvi nikṣipaṃti pāpāśayā'mṛtalatābha nidānabhūtām | ajñānato naraharistulasīpriyo'sau teṣāṃ śriyaṃ harati saṃtatameva satyam 36| mūtraṃ purīṣaṃ tulasītaleṣu kurvaṃti ye'pi ca malaṃ satataṃ manuṣyāḥ | devāśraye saṃcita pātakānāṃ teṣāṃ haratyāśu harirdhanāni 37| nārāyaṇasyapūjārthaṃ cinomi tvāṃ namostute | kusumaiḥ pārijātādyairgaṃdhādyairapi keśavaḥ 38| tvayā vinā naiti tṛptiṃ cinomi tvāmataḥ śubhe | tvayā vinā mahābhāge samastaṃ karma niṣphalam 39| atastu tulasī devi cinomi varadā bhava | cayanodbhava duḥkhaṃ te yaddevi hṛdi jāyate 40| tatkṣamasva jagannāthe tulasi tvāṃ namāmyaham | kṛtāñjalirimānmantrānpaṭhitvā vaiṣṇavo janaḥ 41| karatāladvayaṃ datvā cinoti tulasīdalam | yathā na kaṃpate śākhā tulasyā dvijasattama 42| patrasya cayane devī bhagnaśākhā yadā bhavet | tadā hṛdi vyathā viṣṇorjjāyate tulasīpateḥ 43| śākhāgrātpatitaṃ bhūmau patraṃ patraṃ purātanam | tenāpi pūjyo govindo madhukaiṭabhamarddanaḥ 44| komalaistulasīpatrairyo'rcayedacyutaṃ prabhum | sarvaṃ sa labhate śīghraṃ yadyadicchati cetasā 45| jaiminiruvāca- tulasīvṛkṣasadṛśaḥ kovṛkṣo'sti dvijarṣabha | tamahaṃ jñātumicchāmi brūhi satyavatīsuta 46| vyāsa uvāca- yathā priyatamā viṣṇostulasī satataṃ dvija | tathā priyatamā dhātrī sarvapāpapraṇāśinī 47| tulasīvṛkṣamāsādya yā yāstiṣṭhaṃti devatāḥ | āmalakyāstale tāstā nivasaṃti dvijottama 48| gaṃgādīni ca tīrthāni tatraiva dvijasattama | viṣṇupriyatamā dhātrī pavitrā yatra tiṣṭhati 49| aśubhaṃ vāśubhaṃ vāpi yatkarmāmalakītale | kriyate mānavairviṃpra bhavettatsatyamakṣayam 50 7.24.50| pavitrairnūtaneḥ patrairdhātryā yaḥ pūjayeddharim | sa muktaḥ pāpajālena sāyujyaṃ labhate hareḥ 51| dhātrī ca tulasīdevī na tiṣṭhedyatra jaimine | sthānaṃ tadapavitraṃ syānna ca kriyāphalaṃ labhet 52| na tiṣṭhatyāśrame yasya dhātrī ca tulasī śubhā | tena karma kṛtaṃ sarvaṃ nūnaṃ gacchati niṣphalam 53| dhātryā tulasyā hīnaṃ ca nilayaṃ yasya bhūsura | alakṣmīḥ pātakaṃ sarvaṃ kaliśca tena toṣitaḥ 54| sthāne tasmindvijaśreṣṭha na dhātrī tulasī na ca | śmaśānatulyaṃ sthānaṃ tadvijñeyaṃ tatvadarśibhiḥ 55| dhātrī ca tulasī yatra tiṣṭhettatrākhilāḥ surāḥ | na dhātrī tulasī patraṃ tatraivākhilapātakam 56| dhātrīphalasrajaṃ yastu pāpahartrīṃ vahedbudhaḥ | tasyāśritya tanuṃ viṣṇuḥ sadā tiṣṭhecchriyā saha 57| dhātrīkāṣṭhasya mālāṃ ca yo vahenmatimānnaraḥ | tasya dehaṃ samāśritya tiṣṭhaṃti sarvadevatāḥ 58| dhātrīphalasrajaṃ gṛhṇanyatkarma kurute naraḥ | tatsarvamakṣayaṃ proktaṃ śubhaṃ vā yadi vāśubham 59| yastu dhātrīphalaṃ bhuṃkte mānavo'khilatatvavit | taddehābhyaṃtarasthāyi sarvaṃ pāpaṃ vinaśyati 60| dhātrīphalamayīṃ mālāṃ yo vaheddivajasattama | bravīmi śṛṇu māhātmyaṃ sarvapāpaharaṃ param 61| śmaśāne'pi yadā mṛtyustasya syāddaivayogataḥ | gaṅgāmaraṇajaṃ puṇyaṃ saṃprāpnoti na saṃśayaḥ 62| taṃ dṛṣṭvā pāpinaḥ sarve pāpajālaiḥ sudāruṇaiḥ | sadya eva pramucyaṃte janmakoṭiśatairapi 63| nityaṃ gṛhṇāti vipreṃdra yo dhātrīphalakarddamam | dine dine labhetpuṇyaṃ saṃprāpnoti na saṃśayaḥ 64| dhātrītaruṃ ca yo haṃti sarvadevagaṇāśrayam | sa dadāti hareraṃge ghātaṃ nāstyatra saṃśayaḥ 65| sarvadevamayī dhātrī viśeṣātkeśavapriyā | samyagvaktuṃ guṇaṃ tasyā brahmaṇāpi na śakyate 66| dhātryāstulasyā vidadhāti bhaktiṃ yo mānavo jñātasamastatatvaḥ | bhuktvā ca bhogānsakalāṃ statoṃ'te sa muktimāpnoti hareḥ prasādāt 67| iti śrīpadmapurāṇe kriyāyogasāre tulasīmāhātmyaṃ nāma caturviṃśo'dhyāyaḥ 24 |

English translation

Sūta said :

1-2. Jaimini , being very much pleased on hearing the fruit of the Ekādaśī (vow), spoke, with the palms of his hands joined, these (words) to lord Kṛṣṇa Dvaipāyana (i.e. Vyāsa ): “Through your grace I have heard the greatness of god Viṣṇu . (Now) tell me about the greatness of tulasī which destroys the sins of the listeners.”

Vyāsa said :

3-6. O brāhmaṇa , this revered tulasī should always be worshipped by all deities like Indra . It gives the fruit of the four goals of human life. To the good tulasī is difficult to be obtained in heaven, in the mortal world and in the nether world. Devotion to it secures the four goals of human life. O best one, at that place only where one tulasī-plant stands, all gods like Brahmā , Viṣṇu and Śiva dwell. Always Keśava dwells in the middle of the leaf, Prajāpati at the tip of the leaf, and Śiva at the foot-stalk of the leaf of tulasī.

7-10. Lakṣmī , Sarasvatī , so also Gāyatrī and Caṇḍikā , likewise all other wives of (other) gods dwell in the leaves of that (tulasī-plant). These, viz. Indra, Agni , Śamana , Nairṛti , so also Varuṇa , Vāyu and Kubera dwell in the branch of the tulasī-plant. All planets like the Sun, the Viśvedevas , [1] Vasus , [2] all sages and all divine sages, so also all the holy places that are there in the crores of universes and on the earth, live by resorting to (i.e. in) the tulasī plant.

11-17. He who devoutly worships tulasī, has worshipped the holy places, so also all gods like Brahmā. Viṣṇu just at that moment destroys (the sin of) the murder of a brāhmaṇa remaining in the body of those who remove the masses of grass at the root of tulasī. O best brāhmaṇa, by sprinkling the tulasī plant with fragrant and cold water in summer a man would obtain eternal bliss. He who gives it moonlight or an umbrella, especially in summer, is freed from all sins. A man who would everyday sprinkle the tulasī plant with continuous streams in Vaiśākha obtains the fruit of a horse-sacrifice. He who would sprinkle the tulasī plant with water from the hand stretched out and hollowed also obtains heaven after being freed from all sins. O brāhmaṇa sage, in the house of that man who would sometime sprinkle the tulasī plant with milk, Lakṣmī is steady.

18-22. O brāhmaṇa sage, listen to the fruit of the merit of him who would smear the root of the tulasī plant with cow-dung. For as many thousands of kalpas as the dust particles removed from there, he rejoices with Viṣṇu, O Jaimini. He who would place a lamp at the root of the tulasī plant at twilight, goes along with a crore (members) of his family to Viṣṇu’s abode. Viṣṇu would always protect him who protects the tulasī plant from cows, dogs, asses, men and children. There is no doubt that he who devoutly plants a tulasī plant, obtains the highest liberation after death.

23. That best devout man who would see the tulasī plant in the morning uninterruptedly obtains the fruit of seeing Viṣṇu.

24. The life, strength, fame, wealth, progeny of one who would devoutly salute the tulasī plant, grow.

25. By remembering tulasī, all sin perishes. The diseases of men perish on just touching the tulasī (plant).

26-27. The sin in the body of him who eats the auspicious tulasī leaf, removing all sins, perishes at that moment (only). In the body of the man who wears a rosary made of tulasī wood there is no sin. This is the truth that I tell.

28. There is no doubt that he who bears on his head the water dropped from the leaves of tulasī, obtains the religious merit due to a bath in Gaṅgā .

29. A man having devoutly worshipped the auspicious tulasī with dūrvās , sacred rice grains, flowers, offerings of eatables, would obtain the fruit of the worship (offered) to Viṣṇu.

30. O brāhmaṇas (?), what is the use of worshipping Viṣṇu’s feet to him who has sometime worshipped revered tulasī, giving the highest nectar of piety, material welfare and sensual enjoyment, with offerings of eatables, flowers, excellent incense and ghee -lamps?

31. O brāhmaṇa, Viṣṇu is pleased with them who plant tulasī pleasing Viṣṇu and fit to be worshipped by gods, at places free from blemishes; and Mura ’s enemy, the lord of the three worlds, quickly gives them the highest position.

32. Whatever auspicious act—a sacrifice, a vow, honouring the dead ancestors, worship of Viṣṇu, giving gifts—and other auspicious act(s) that men perform at the blemishless root of tulasi —all those indeed become inexhaustible.

33. O best brāhmaṇa, all that pious act which a man does on the earth without tulasī, dear to Viṣṇu, becomes fruitless. The god of gods, the lotus-eyed one (i.e. Viṣṇu) is also not pleased.

34. A man who, with devotion, sees the auspicious, pure tulasī during pilgrimages, quickly gets the fruit of the pilgrimages through Viṣṇu’s grace. This statement is very firm.

35-36. Ananta (i.e. Viṣṇu), the only lord of the world, abandoning fragrant flowers like mandāra , kunda , lotus, gladly accepts even dry tulasī full of virtues and the security for the destruction of sins. Hari (i.e. Viṣṇu) to whom tulasī is dear always snatches the wealth of those wicked men who, through ignorance, uproot a tulasī (plant) purifying like the nectar-giving creeping plant, and place it on the ground. This is the truth.

37. Viṣṇu quickly snatches the wealth of those men who always urinate or excrete or put dirt at the root of tulasī, the abode of gods, and thus collect sins.

38-42. “I am collecting (the leaves of) you for worshipping Viṣṇu. I am collecting (the leaves of) you since even with flowers like (those of) pārijāta , so also with sandal etc., put without you Viṣṇu is not satisfied. O holy one, without you every act is fruitless. Therefore, O goddess Tulasī, I am collecting (the leaves of) you. Grant me a boon. O leader of the world, pardon me that pain which is produced in your heart due to (your leaves) being plucked. O Tulasī I salute you.” A devotee of Viṣṇu, joining the palms of his hands recites these two hymns and then clapping twice collects tulasī leaves in such a way that the tulasī branch does not shake, O best brāhmaṇa.

43. When at the time of plucking a leaf, a branch of goddess (Tulasī) would be broken, then anguish is produced in the heart of Viṣṇu, Tulasī’s lord.

44. Viṣṇu, the destroyer of (the demons) Madhu and Kaiṭabha should be worshipped even with every old leaf fallen from the tip of a branch.

45. He who would worship lord Viṣṇu with tender tulasī leaves, quickly gets whatever he desires with (i.e. in) his heart.

Jaimini said :

46. O best brāhmaṇa, what (other) tree is like that of tulasī? I desire to know it. O son of Satyavatī , (please) tell it.

Vyāsa said :

47-51. O brāhmaṇa, as tulasī is always most dear to Viṣṇu, so is dhātrī , destroying all sins. O best brāhmaṇa, all those deities who dwell in the plant after having reached it, stay at the root of āmalakī . O best brāhmaṇa, holy places like Gaṅgā dwell just there where pure dhātrī, most dear to Viṣṇu, remains. That act, auspicious or inauspicious, which is done by men at the root of āmalakī, would certainly become inexhaustible, O brāhmaṇa. He who would worship Viṣṇu with pure, fresh leaves of dhātrī, is freed from mass of sins and secures absorption into Viṣṇu.

52-56. O Jaimini, that place where there would be neither dhātrī nor tulasī is impure. (A man) does not obtain the fruit -of his act (performed there). All the (pious) acts done by him in his hermitage where the auspicious dhātrī or tulasī does not exist indeed become fruitless. O brāhmaṇa, (in the house) of him, which is without dhātrī and tulasī, poverty and sin (remain) and by that Kali is pleased. The wise should look upon that place where there is neither tulasī nor dhātrī as a cremation ground, O best brāhmaṇa. All gods dwell there where dhātri and tulasī exist. All sin exists there where there is neither a leaf of dhātrī nor of tulasī.

57-60. Viṣṇu, along with Lakṣmī, would remain by resorting to the body of the wise man who would wear a rosary of dhātrī-fruits. All deities live by resorting to the body of the intelligent man who would wear a garland of dhātrī wood. All the act, auspicious or inauspicious, which a man wearing a garland (i.e. rosary) of dhātrī fruits does, is said to be inexhaustible. The entire sin remaining in the body of that man knowing the entire nature of Brahman , who eats the dhātri fruit, perishes.

61-63. O best brāhmaṇa, I (shall) tell (you) the greatness destroying all sins (of the man) who would wear a rosary of the dhātrī fruits. Listen (to it). Even if he by chance dies in a cremation ground, he obtains the religious merit due to a bath in Gaṅgā. There is no doubt about it. Seeing him, all sinners are instantly freed from very fierce heaps of sins, (committed) even during hundreds of crores of existences.

64-66. There is no doubt, O best brāhmaṇa, that he who-everyday takes a lump of the dhātri fruit would obtain religious merit everyday and store it. There is no doubt that he who harms the dhātri tree, the resort of all gods, gives blows on the body of Viṣṇu. Dhātrī is full of all gods. It is especially dear to Viṣṇu. Even Brahmā cannot correctly describe its virtues.

67. That man who, having known the entire truth, has devotion for dhātrī and tulasī, enjoys all pleasures, and then in the end obtains liberation due to Viṣṇu’s grace.

[1]: [1] : Viśvedeva (Viśvedevāḥ)—Name of a particular group of deities ten in number and supposed to be sons of Viśvā; their names are: Vasu, Satya, Kratu, Dakṣa, Kāla, Kāma, Dhṛti, Kuru, Purūravas, and Mādravas.

[2]: [2] : Vasu (Vasavaḥ)—Vasus are a class of deities. They are eight in number: Āpa, Dhruva, Soma, Dhara or Dhava, Anila, Anala, Pratyūṣa, and Prabhāsa.

Complete chapter-aligned witnesses. Sanskrit Wikisource page 14109, revision 336772 (2022-04-27T03:58:20Z). English is N. A. Deshpande’s complete translation, controlled against its chapter page at https://www.wisdomlib.org/hinduism/book/the-padma-purana/d/doc365865.html and the ten-volume archival witness. The witnesses are aligned at chapter level; no unsupported verse-by-verse equivalence is asserted.