Sṛṣṭi-khaṇḍa · Chapter 65
Sourceव्यास उवाच-। नांदीमुखेषु सर्वेषु पूजयेद्यो गणाधिपम्। तस्य सर्वो भवेद्वश्यः पुण्यं भवति चाक्षयम्१। गणानां त्वेति मंत्रेण सर्वयज्ञघटेषु च। सर्वसिद्धिमवाप्नोति स्वर्गं मोक्षं लभेन्नरः२। मृण्मये प्रतिमायां च चित्रे चाथ दृषण्मये। द्वारदारुणि पात्रे च हेरंबं लेखयेद्बुधः३। अन्यस्मिन्नपि देशे तु सततं दृष्टिगोचरे। स्थापयित्वा तु हेरंबं शक्त्या यः पूजयेद्बुधः४। तस्य कार्याणि सिद्ध्यंति दयितानि समंततः। न विघ्नं जायते किंचित्त्रैलोक्यं वशमानयेत्५। विद्यार्थी लभते विद्यां वेदशास्त्रसमुद्भवाम्। अन्यां च शिल्पिविद्यां च विजयां स्वर्गदायिनीम्६। धनार्थी विपुलं वित्तं कन्यां साध्वीं मनोरमाम्। ऐश्वर्यं धर्मसाध्यं च तनयं कुलमोक्षदम्७। न रोगैः पीड्यते कश्चिन्न ग्रहैः प्रेतयोनिभिः। शृंगिभिर्नापि रक्षोभिर्विद्युद्भिर्वनतस्करैः८। न राजा कुप्यति गृहे न च मारी प्रवर्तते। न दौर्भिक्ष्यं न दौर्बल्यं पूजयित्वा विनायकम्९। अभिप्रेतार्थसिद्ध्यर्थं पूजितो यः सुरैरपि। सर्वविघ्नछिदे तस्मै गणाधिपतये नमः१०। मंत्रश्चायं ॐ नमो गणपतये। नारायणप्रियैः पुष्पैरन्यैश्चापि सुगंधिभिः। मोदकैः फलमूलैश्च द्रव्यैः कालोद्भवैस्तथा११। दधिदुग्धैः प्रियैर्वाद्यैरपि धूपसुगंधिभिः। पूजयेद्गणपं यस्तु सर्वसिद्धिमवाप्नुयात्१२। विशेषात्तस्य लिंगे तु यो ददाति वसुप्रियम्। पूजोपकरणं वस्त्रं सर्वं लक्षगुणं भवेत्१३। देशे च भारते वर्षे वनिता पूर्वसन्निधौ। लौहित्यदक्षिणे तीरे लिंगरूपो विनायकः१४। हरगौरीसमादेशाद्देवानां संमतेन च। स्थितो लोकप्रशांत्यर्थं सर्वविघ्नविनाशनात्१५। पूजयित्वा तु तं देवं शक्तितो द्रव्यसंचयैः। विनायकत्वमाप्नोति वेदशास्त्रार्थपारगः१६। सकृत्प्रदक्षिणं कृत्वा दृष्ट्वा स्पृष्ट्वा तु मानवः। अक्षयं लभते स्वर्गं सदा देवैः प्रपूज्यते१७। संसर्गिणां च म्लेछानां गत्यर्थं सुतपस्विनाम्। पुत्रार्थं सर्वलोकानां तत्र शंभुर्विनायकः१८। कृत्वाभिषेकं लौहित्ये स्पृशेद्यस्तु गणाधिपम्। सप्तजन्मकृतात्पापान्मुच्यते नात्र संशयः१९। न वैधव्यं न कार्पण्यं न शोकं न तु मत्सरम्। विनायकं समासाद्य जन्मजन्मनि संलभेत्२०। पुनः सिद्धिः पुनर्भोग्यं पुनः कीर्तिः पुनर्बलम्। पूजयित्वा तु गणपं नरस्य नात्र संशयः२१। अस्य पूजामकृत्वा च सर्वाभीष्टं विनश्यति। तत्र देवाश्च सुप्रीता ब्रह्मविष्णुहरादयः२२। मघोनो गणपस्याथ पूजाविरहितस्य च। अथासुरैर्महावीर्यैर्हिरण्याक्षमुखै रणे२३। मघवा तु जितो वीर्याद्धिरण्याक्षेण वै तदा। ततस्सुराश्च निर्वीर्या यावद्वर्षशतं पुरा२४। दैवासुरे महायुद्धे सुराणां च पराजयः। ततो देवाधिदेवे तु शिवे देवैर्निवेदितम्२५। भगवन्नसुरैर्नो हि जितं राज्यं गता मखाः। एतस्मिन्नंतरे शंभुर्देवान्वचनमब्रवीत्२६। हेरंबाय वरो दत्त उमया प्रीतया मया। पूजया ते परा सिद्धिर्देवादीनां भवत्विति२७। अवजानाति यो मोहात्पुरुषस्तु महोत्सवे। न भवेत्तस्य सिद्धिश्च रणे चापि पराजयः२८। महामखेन युष्माभिः पूजा गणपतेः कृता। हेलया न कृता मोहात्तस्मात्प्राप्तः पराजयः२९। शीघ्रं गच्छत वै पुण्यां गणपस्य महात्मनः। पूजां कुरुत धर्मज्ञा जयस्तूर्णं भविष्यति३०। ततो हरमुखाच्छ्रुत्वा वचः क्षेमपरं हितम्। प्रहृष्टा विबुधास्सर्वे गणपस्य पुरः स्थिताः३१। देवा ऊचुः-। गणाधिप नमस्तुभ्यं सर्वदेवैकपालक। स्वर्गभोगप्रद प्रीत्या हेरंब त्वां नताः स्म ह३२। जयदं सर्वयुद्धेषु सिद्धिदं सर्वकर्मसु। महामायं महाकायं हेरंब त्वां नताः स्म ह३३। एकदंतं महाप्राज्ञं लंबतुंडं विनायकम्। देवं महर्षिदेवानांमिंद्रस्य च नताः स्म ह३४। यत्ते पुरार्चनं यज्ञे न कृतं तत्क्षमस्व नः। सुराणां च गिरः श्रुत्वा गणपो वाक्यमब्रवीत्३५। युष्माभिर्व्रियतां देवा वरो मत्तो हि वांच्छितः। ततः शक्रादयः सर्वे बृहस्पतिपुरोगमाः३६। ऊचुर्गणपतिं देवा जयोस्माकं भवत्विति। देवानां वचनं श्रुत्वा गणेशो वाक्यमब्रवीत्३७। बाढमेव सुरश्रेष्ठा जयो वो भवतु द्रुतम्। ततो देवगणास्सर्वे हर्षनिर्भरमानसाः३८। गणेशं पूजयामासुर्गंधसारैस्तु मण्डनैः। दिव्यधूपैः सुवस्त्रैश्च कुसुमैर्नन्दनोद्भवैः३९। पारिजातादिभिः पुष्पैरन्यैर्देवमनोहरैः। पूजितो गणपो देवैरुवाच सुरसत्तमान्४०। गच्छध्वं विबुधा देवं विष्णुमद्भुतसाहसम्। स विधास्यति वः कामं वांच्छितं च ततः सुराः४१। स्वंस्वं रथं समारुह्य गतास्ते हरिमव्ययम्। पीतांबरं नमस्कृत्य ऊचुर्देवगणा मुदा४२। हरात्मजं तु संप्राप्य पूजयित्वा गणाधिपम्। आगतास्त्वत्सकाशं वै महात्मन्नद्य केशव४३। एतच्छ्रुत्वा तु देवानां वचनं हरिरव्ययः। यथातथ्यमुवाचेदं हनिष्ये दैत्यपुंगवान्४४। श्रुत्वा वागमृतं देवा नारायणमुखाच्च्युतम्। हृष्टाश्च सुमुदाविष्टा द्रव्यैरिष्टैः समर्चयन्४५। पुनर्विष्णुरुवाचेदं देवानिंद्रपुरोगमान्। स्वंस्वं बलं समाहृत्य सज्जी भवत विज्वराः४६। हरिष्ये तान्दुराचारान्बलं चैव समंततः। अस्त्रवृंदं तु संगृह्य यूयं तिष्ठत निर्भयाः४७। माधवस्य वचः श्रुत्वा प्रगताः सुरपुंगवाः। विमानानि समारुह्य सर्वे दिव्यास्त्रधारिणः४८। देवानां हर्षवाक्यानि दैत्यचारैः श्रुतानि वै। राजानं कथयामासुर्हिरण्याक्षं महाबलम्४९। श्रुत्वा दैत्यपतिस्तत्र चुकोपाति महाबलः। सचिवांस्तु समाहूय क्रुद्धो वचनमब्रवीत्५० 1.65.50। अधुनेंद्रादिदेवाश्च निखिलाः क्रूरबुद्धयः। माधवं च परीप्सन्तः शंभौ सर्वं न्यवेदयन्५१। कथं जयं च लप्स्यामो दैत्यवृंदेतिदारुणे। त्रिपुरारिरुवाचेदं गणेशं यजतामराः५२। पूजयित्वा तु तं देवं जेष्यथासुरदानवान्। ततो देवगणैर्हृष्टैः पूजितो गणनायकः५३। गणाधिपेन तुष्टेन क्रूरो दत्तो वरो महान्। जेष्यथाद्यासुरान्सर्वांस्ततो देवा मुदान्विताः५४। हरिं निवेदयामासुरस्मद्वधपरीप्सवः। हरेर्बाढमुपश्रुत्य रथिनः शस्त्रपाणयः५५। युद्धार्थमधितिष्ठंति निर्जरास्त्वभयामयि। यस्य या शक्तिरस्तीह देवाञ्जेतुं वदत्वलम्५६। ततो राज्ञोवचः श्रुत्वा मधुर्वचनमब्रवीत्। जेष्यामि च हरिं राजन्सहायं मे नियोजय५७। जिते नारायणे देवाः सभयास्त्रिदशा ध्रुवम्। तस्मान्नारायणोऽस्माकं भागः सर्वपुरंजयः५८। ततो धुंधुश्च सुंदश्च कालकेयो महाबलः। सहायश्च मधोस्तस्य जेष्यामो माधवं नृप५९। सर्वदैत्यबले मुख्याश्चत्वारो दृढविक्रमाः। कालमृत्युसमा वीराः सर्वास्त्रविधिपारगाः६०। बलस्तत्राब्रवीद्वाक्यं यस्मिन्जय उपस्थितः। तं च जेष्यामि जिष्णुं च प्रतिज्ञा मे दृढा नृप६१। नमुचिश्च मुचिश्चैव भ्रातरौ बलदर्पितौ। ऊचतुस्तौ नृपं ह्यावां जेष्यावो वै बलाद्बलौ६२। जम्भश्चैवाब्रवीद्वाक्यमिंद्रमिंद्रपुरोगमान्। जेष्यामि नात्र संदेहो दैत्या भवत विज्वराः६३। त्रिपुरश्चाब्रवीद्वाक्यं जेष्यामि च विनायकम्। तावदूचेऽथ सेनानीर्मयो देवांतको बली६४। कुबेरं प्रतिरक्षोभिः सर्वांश्चैव हिरण्यकान्। एतस्मिन्नंतरे तत्र नारदो मुनिसत्तमः६५। गत्वोवाच हिरण्याक्षं जिष्णुदूतोहमागतः। राज्यं त्यज स्ववाचा नः प्राणेषु यदि ते हितम्६६। न चेद्युध्यस्व मामद्य न वा गच्छ रसातलम्। ततः कोपादुवाचेदं नारदं मुनिसत्तमम्६७। अहिंस्यस्त्वं ब्राह्माणाद्य गच्छ तूर्णं ममाग्रतः। देवानां च विपत्तिं च कदनं निधनं पुरः६८। पश्य विप्र क्षणेनांतं प्राप्तं हरिहरादिकम्। एवमुक्त्वा स दैत्येंद्रो बलाध्यक्षमुवाच ह६९। सज्जीकृत्य बलं सर्वान्रथांश्चानयत द्रुतम्। दैत्यराजवचः श्रुत्वा बलाध्यक्षः समंततः७०। बलान्याहूय सहसा संत्रस्तास्तूर्णमागताः। कोटिकोटिसहस्राणि अक्षौहिण्यो बलानि च७१। एकैकस्य च वीरस्य वाहनानि महांति च। स्यंदनानि विचित्राणि गजोष्ट्राश्वखरानपि७२। सिंहव्याघ्रलुलायांश्च समारुह्य ययुस्तदा। वाद्यैः सर्वैश्च भूयिष्ठैः सिंहनादैर्भयानकैः७३। दिशस्तु पूरयामासुस्सिन्धुवेलाचला धराः। सर्वलोकाश्च वित्रेसुः समुद्राश्च चकंपिरे७४। देवदुंदुभयो नेदुः सर्वदेवैः समीरिताः। वाद्यैश्च विविधैरन्यैर्वायुपूर्णैर्घनस्वनैः७५। सर्वलोकाभयत्रस्ता ये च त्रैलोक्यवासिनः। भ्रष्टकामागताकाशं घोरं तीव्रं महाहवम्७६। परिघैः पाशशूलैश्च खड्गयष्टिपरश्वधैः। शरैश्च निशितैर्घोरैर्जघ्नुरन्योन्यमाहवे७७। शस्त्रास्त्रैर्बहुधामुक्तैर्दिशः सर्वा निरंतरम्। विगृहेषु धरण्यां च पर्वतेषु जलेषु च७८। देवस्थाने तथाकाशे पर्वताग्रेषु सानुषु। गह्वरेषु महारण्ये तयोर्युद्धमवर्तत७९। पुष्कलादि घनानां च वर्षधारा जलं यथा। पतंत्यस्त्राणि सैन्येषु शतशोथ सहस्रशः८०। केचित्पेतुः पृथिव्यां तु शरैः संभिन्नविग्रहाः। शक्तिभिर्मुसलैश्चान्ये छत्रशूलपरश्वधैः८१। पतिताः संमुखे शूरा युद्धेषु न्यायवर्तिनः। गच्छंति सुरसद्मानि स्वाम्यर्थे ये त्वभीरवः८२। ये चान्ये कातराः पापा हंतारो विमुखान्रणे। अन्यायैर्ये च योद्धारस्ते यान्ति यममंदिरं८३। त्रिदिवस्था गजारोहाः सैन्धवस्थास्तथापरान्। रथस्थांश्च रथारोहाः पदगांश्च पदातयः८४। परस्परं विनिघ्नंति शूरा युद्धाभिकांक्षिणः। मुदिताः सत्वसंपन्ना धर्मिष्ठा बलसंवृताः८५। केषांचिद्वाहवश्छिन्ना मुसलैर्भिन्नमस्तकाः। केशाश्शिरांसि वस्त्राणि निपेतुर्धरणीतले८६। मध्यच्छिन्नास्तथा भिन्नाः पेतुरुर्व्यां महाबलाः। खड्गपातैस्तथा चोग्रैश्छ्रिन्नभिन्नाः परश्वधैः८७। गामेव पतिता धीरा दिव्यालंकारभूषिताः। प्रदीप्तोभूद्धरादेशो वीरैर्नागैर्हयै रथैः८८। विविधाभरणैर्नष्टैः पताकाभिश्च केतुभिः। ततो वसुंधरा सर्वा सशैलवनकानना८९। रुधिरौघप्लुता तत्र विबुधासुरयोर्युधि। क्रव्यादैर्बहुभिस्तत्र खादितो द्रव्यसंचयः९०। लोहितं प्रचुरं पीतं रक्षोभिश्च वृकादिभिः। अन्यैर्महागणैरेव क्षतजं पवनान्वितम्९१। खादितं प्रीतिमद्भिश्च फेरुगृध्रगणैर्मुदा। एतस्मिन्नंतरे सूरिः सुरपूज्यो बृहस्पतिः९२। मृतसंजीवनीविद्यां सुराणां संजजाप ह। विशल्यकरणीं दिव्यां ब्रह्मविद्यां महाबलां९३। ततो धन्वंतरिर्विद्वान्सुरवैद्यो मनोजवः। औषधैस्तत्प्रयोगैश्च रणे पर्यटते मुदा९४। तत्र देवाश्च जीवंति ये मृताश्च महाहवे। अव्रणा बलसंपन्नाः प्रयुध्यंति भृशं पुनः९५। एवं शतसहस्रं तु गणं दैत्यस्य चोद्धतम्। पतितं पुण्ययोगाच्च शरैर्निर्भिन्नकंधरम्९६। ततस्तु जयशब्देन नंदंति सिद्धचारणाः। ऋषयः खेचराश्चान्ये ये चैवाप्सरसां गणाः९७। गीतिं गायंति गंधर्वाः शशंसुः परमर्षयः। अथ क्रुद्धो महातेजा दैत्यमुख्यो महाबलः९८। कालकेय इति ख्यातः सेनानीर्दैत्यपस्य च। स्यन्दनस्थो महावीर्यो धनुरादाय तत्र च९९। जघान सुरसंघांस्तान्नर्तयामास भूतले। निरंतरशरौघेण च्छादितं गगनं तदा१०० 1.65.100। निपतंति शराः सैन्ये कोटिकोटि सहस्रशः। निपतंति ततो देवाः संयुगेष्वनिवर्तिनः१०१। रुधिरोद्गारिणस्सर्वे सिद्धगंधर्वकिन्नराः। विशिखैः पीडिता देवा निपेतुर्धरणीतले१०२। केचिच्छरशतैर्भिन्नास्सहस्रैरयुतैस्तथा। पेतुरुर्व्यां महावीर्या ये रणे सुरपुंगवाः१०३। व्यथिताश्चाभवन्सर्वे स्यंदनस्था दिवौकसः। शरैः प्रव्यथितास्ते तु स्थातुं शक्ता न संमुखे१०४। तेनावगाहितं सैन्यं गजेनेव सरोवनम्। शरैस्तस्यार्दिता देवा वज्रानलसमप्रभैः१०५। न शेकुः समरे स्थातुं मघवंतं ययुस्तदा। चित्ररथ इति ख्यातो देवश्शस्त्रभृतां वरः१०६। ययौ स्यंदनमारुह्य युद्धं प्रति धनुर्धरः। अब्रवीद्वचनं सोपि सेनान्यं तु महासुरम्१०७। यथा हंसि महाशूर सुरसेनां मुदान्वितः। स त्वं प्रशंसनीयश्च शूरोसि सुरसंमतः१०८। हिरण्याक्षप्रियं कर्म कृतं युद्धे त्वयाधुना। इदानीं मम बाणैश्च गच्छस्व यममंदिरम्१०९। ततश्च कालकेयस्तु स्मितो वचनमब्रवीत्। पुरैव विजितो देव गणः सर्वः प्रलीलया११०। इदानीं तु स्थितं युद्धे बलं सर्वं तु हेलया। यदि ते निधने प्रीतिरस्तीह सुरपुंगव१११। एभिस्त्वां निशितैर्बाणैर्नयामि यममंदिरम्। इत्युक्त्वा परमक्रुद्धो बाणमंतकसन्निभम्११२। जघान समरे वीरस्त्रिभिश्चिच्छेद सोंबरे। पुनर्बाणांश्च समरे योजयित्वा द्रुतं रुषा११३। जघान प्रचुरान्दैत्यांस्तांश्चकर्त्त स लाघवात्। ततोन्योन्यं शरैस्तीक्ष्णैः कालानलसमप्रभैः११४। युद्धे धनुष्मतां श्रेष्ठश्चिच्छेद भुवि वेगतः। तद्युद्धमभवद्देवदैत्ययोर्धर्मतो भृशम्११५। द्रष्टुकामागताः पार्श्वमृषि देवाः सुरोरगाः। एवं शतसहस्राणि बाणानां विधृतानि च११६। अन्योन्यं समरे वीरौ विजयाय विरेजतुः। अथ क्रुद्धो महातेजा गंधर्वाणां पतिस्तदा११७। त्रिभिर्बिभेद बाणैश्च ललाटे हृदि पंचभिः। सप्तभिर्जठरे नाभौ बस्तौ तस्य स पंचभिः११८। शरैः संपातितो दैत्यो मुग्धः कश्मलतां गतः। शिथिलीकृतचापश्च लेभे संज्ञां चिराद्बली११९। मधुसंज्ञं त्रिभिर्बाणैस्स बिभेद सुरोत्तमम्। चकर्त्त धनुरस्त्रैश्च दैत्यराजस्य पश्यतः१२०। ततो बाणसहस्रैस्तु कालांतकसमप्रभैः। बिभेद दैत्यसिंहं तु सुराणामुत्तमो बली१२१। हतचेताः स दैत्येंद्रो बहुशोणितसंस्रवः। विह्वलो बहुबाणार्तः शूलं जग्राह दानवः१२२। शूलहस्तस्य तस्यैव चतुर्भिस्तुरगान्शरैः। हत्वा च पातयामास त्रिभिर्यंतारमेव च१२३। जघान शूलमुर्वीष्ठस्ततो गंधर्वसत्तमम्। विचकर्त्त त्रिभिर्बाणैः शूलं चित्ररथो बली१२४। शूलं च नष्टकं दृष्ट्वा हतभोगमिवोरगम्। गृहीत्वा मुद्गरं घोरं प्रदुद्राव सुरं बली१२५। स मुद्गरं समायातं दैत्यसेनाधिपं तदा। विचकर्त्त शिरो देहादर्धचंद्रेण संभ्रमात्१२६। स पपात महीपृष्ठे संचचाल वसुंधरा। ततो दैत्यगणाः सर्वे विमुखा विप्रदुद्रुवुः१२७। इति श्रीपाद्मपुराणे प्रथमे सृष्टिखंडे कालकेयवधोनाम पंचषष्टितमोऽध्यायः६५। ।
vyāsa uvāca-| nāṃdīmukheṣu sarveṣu pūjayedyo gaṇādhipam| tasya sarvo bhavedvaśyaḥ puṇyaṃ bhavati cākṣayam1| gaṇānāṃ tveti maṃtreṇa sarvayajñaghaṭeṣu ca| sarvasiddhimavāpnoti svargaṃ mokṣaṃ labhennaraḥ2| mṛṇmaye pratimāyāṃ ca citre cātha dṛṣaṇmaye| dvāradāruṇi pātre ca heraṃbaṃ lekhayedbudhaḥ3| anyasminnapi deśe tu satataṃ dṛṣṭigocare| sthāpayitvā tu heraṃbaṃ śaktyā yaḥ pūjayedbudhaḥ4| tasya kāryāṇi siddhyaṃti dayitāni samaṃtataḥ| na vighnaṃ jāyate kiṃcittrailokyaṃ vaśamānayet5| vidyārthī labhate vidyāṃ vedaśāstrasamudbhavām| anyāṃ ca śilpividyāṃ ca vijayāṃ svargadāyinīm6| dhanārthī vipulaṃ vittaṃ kanyāṃ sādhvīṃ manoramām| aiśvaryaṃ dharmasādhyaṃ ca tanayaṃ kulamokṣadam7| na rogaiḥ pīḍyate kaścinna grahaiḥ pretayonibhiḥ| śṛṃgibhirnāpi rakṣobhirvidyudbhirvanataskaraiḥ8| na rājā kupyati gṛhe na ca mārī pravartate| na daurbhikṣyaṃ na daurbalyaṃ pūjayitvā vināyakam9| abhipretārthasiddhyarthaṃ pūjito yaḥ surairapi| sarvavighnachide tasmai gaṇādhipataye namaḥ10| maṃtraścāyaṃ oṃ namo gaṇapataye| nārāyaṇapriyaiḥ puṣpairanyaiścāpi sugaṃdhibhiḥ| modakaiḥ phalamūlaiśca dravyaiḥ kālodbhavaistathā11| dadhidugdhaiḥ priyairvādyairapi dhūpasugaṃdhibhiḥ| pūjayedgaṇapaṃ yastu sarvasiddhimavāpnuyāt12| viśeṣāttasya liṃge tu yo dadāti vasupriyam| pūjopakaraṇaṃ vastraṃ sarvaṃ lakṣaguṇaṃ bhavet13| deśe ca bhārate varṣe vanitā pūrvasannidhau| lauhityadakṣiṇe tīre liṃgarūpo vināyakaḥ14| haragaurīsamādeśāddevānāṃ saṃmatena ca| sthito lokapraśāṃtyarthaṃ sarvavighnavināśanāt15| pūjayitvā tu taṃ devaṃ śaktito dravyasaṃcayaiḥ| vināyakatvamāpnoti vedaśāstrārthapāragaḥ16| sakṛtpradakṣiṇaṃ kṛtvā dṛṣṭvā spṛṣṭvā tu mānavaḥ| akṣayaṃ labhate svargaṃ sadā devaiḥ prapūjyate17| saṃsargiṇāṃ ca mlechānāṃ gatyarthaṃ sutapasvinām| putrārthaṃ sarvalokānāṃ tatra śaṃbhurvināyakaḥ18| kṛtvābhiṣekaṃ lauhitye spṛśedyastu gaṇādhipam| saptajanmakṛtātpāpānmucyate nātra saṃśayaḥ19| na vaidhavyaṃ na kārpaṇyaṃ na śokaṃ na tu matsaram| vināyakaṃ samāsādya janmajanmani saṃlabhet20| punaḥ siddhiḥ punarbhogyaṃ punaḥ kīrtiḥ punarbalam| pūjayitvā tu gaṇapaṃ narasya nātra saṃśayaḥ21| asya pūjāmakṛtvā ca sarvābhīṣṭaṃ vinaśyati| tatra devāśca suprītā brahmaviṣṇuharādayaḥ22| maghono gaṇapasyātha pūjāvirahitasya ca| athāsurairmahāvīryairhiraṇyākṣamukhai raṇe23| maghavā tu jito vīryāddhiraṇyākṣeṇa vai tadā| tatassurāśca nirvīryā yāvadvarṣaśataṃ purā24| daivāsure mahāyuddhe surāṇāṃ ca parājayaḥ| tato devādhideve tu śive devairniveditam25| bhagavannasurairno hi jitaṃ rājyaṃ gatā makhāḥ| etasminnaṃtare śaṃbhurdevānvacanamabravīt26| heraṃbāya varo datta umayā prītayā mayā| pūjayā te parā siddhirdevādīnāṃ bhavatviti27| avajānāti yo mohātpuruṣastu mahotsave| na bhavettasya siddhiśca raṇe cāpi parājayaḥ28| mahāmakhena yuṣmābhiḥ pūjā gaṇapateḥ kṛtā| helayā na kṛtā mohāttasmātprāptaḥ parājayaḥ29| śīghraṃ gacchata vai puṇyāṃ gaṇapasya mahātmanaḥ| pūjāṃ kuruta dharmajñā jayastūrṇaṃ bhaviṣyati30| tato haramukhācchrutvā vacaḥ kṣemaparaṃ hitam| prahṛṣṭā vibudhāssarve gaṇapasya puraḥ sthitāḥ31| devā ūcuḥ-| gaṇādhipa namastubhyaṃ sarvadevaikapālaka| svargabhogaprada prītyā heraṃba tvāṃ natāḥ sma ha32| jayadaṃ sarvayuddheṣu siddhidaṃ sarvakarmasu| mahāmāyaṃ mahākāyaṃ heraṃba tvāṃ natāḥ sma ha33| ekadaṃtaṃ mahāprājñaṃ laṃbatuṃḍaṃ vināyakam| devaṃ maharṣidevānāṃmiṃdrasya ca natāḥ sma ha34| yatte purārcanaṃ yajñe na kṛtaṃ tatkṣamasva naḥ| surāṇāṃ ca giraḥ śrutvā gaṇapo vākyamabravīt35| yuṣmābhirvriyatāṃ devā varo matto hi vāṃcchitaḥ| tataḥ śakrādayaḥ sarve bṛhaspatipurogamāḥ36| ūcurgaṇapatiṃ devā jayosmākaṃ bhavatviti| devānāṃ vacanaṃ śrutvā gaṇeśo vākyamabravīt37| bāḍhameva suraśreṣṭhā jayo vo bhavatu drutam| tato devagaṇāssarve harṣanirbharamānasāḥ38| gaṇeśaṃ pūjayāmāsurgaṃdhasāraistu maṇḍanaiḥ| divyadhūpaiḥ suvastraiśca kusumairnandanodbhavaiḥ39| pārijātādibhiḥ puṣpairanyairdevamanoharaiḥ| pūjito gaṇapo devairuvāca surasattamān40| gacchadhvaṃ vibudhā devaṃ viṣṇumadbhutasāhasam| sa vidhāsyati vaḥ kāmaṃ vāṃcchitaṃ ca tataḥ surāḥ41| svaṃsvaṃ rathaṃ samāruhya gatāste harimavyayam| pītāṃbaraṃ namaskṛtya ūcurdevagaṇā mudā42| harātmajaṃ tu saṃprāpya pūjayitvā gaṇādhipam| āgatāstvatsakāśaṃ vai mahātmannadya keśava43| etacchrutvā tu devānāṃ vacanaṃ hariravyayaḥ| yathātathyamuvācedaṃ haniṣye daityapuṃgavān44| śrutvā vāgamṛtaṃ devā nārāyaṇamukhāccyutam| hṛṣṭāśca sumudāviṣṭā dravyairiṣṭaiḥ samarcayan45| punarviṣṇuruvācedaṃ devāniṃdrapurogamān| svaṃsvaṃ balaṃ samāhṛtya sajjī bhavata vijvarāḥ46| hariṣye tāndurācārānbalaṃ caiva samaṃtataḥ| astravṛṃdaṃ tu saṃgṛhya yūyaṃ tiṣṭhata nirbhayāḥ47| mādhavasya vacaḥ śrutvā pragatāḥ surapuṃgavāḥ| vimānāni samāruhya sarve divyāstradhāriṇaḥ48| devānāṃ harṣavākyāni daityacāraiḥ śrutāni vai| rājānaṃ kathayāmāsurhiraṇyākṣaṃ mahābalam49| śrutvā daityapatistatra cukopāti mahābalaḥ| sacivāṃstu samāhūya kruddho vacanamabravīt50 1.65.50| adhuneṃdrādidevāśca nikhilāḥ krūrabuddhayaḥ| mādhavaṃ ca parīpsantaḥ śaṃbhau sarvaṃ nyavedayan51| kathaṃ jayaṃ ca lapsyāmo daityavṛṃdetidāruṇe| tripurāriruvācedaṃ gaṇeśaṃ yajatāmarāḥ52| pūjayitvā tu taṃ devaṃ jeṣyathāsuradānavān| tato devagaṇairhṛṣṭaiḥ pūjito gaṇanāyakaḥ53| gaṇādhipena tuṣṭena krūro datto varo mahān| jeṣyathādyāsurānsarvāṃstato devā mudānvitāḥ54| hariṃ nivedayāmāsurasmadvadhaparīpsavaḥ| harerbāḍhamupaśrutya rathinaḥ śastrapāṇayaḥ55| yuddhārthamadhitiṣṭhaṃti nirjarāstvabhayāmayi| yasya yā śaktirastīha devāñjetuṃ vadatvalam56| tato rājñovacaḥ śrutvā madhurvacanamabravīt| jeṣyāmi ca hariṃ rājansahāyaṃ me niyojaya57| jite nārāyaṇe devāḥ sabhayāstridaśā dhruvam| tasmānnārāyaṇo'smākaṃ bhāgaḥ sarvapuraṃjayaḥ58| tato dhuṃdhuśca suṃdaśca kālakeyo mahābalaḥ| sahāyaśca madhostasya jeṣyāmo mādhavaṃ nṛpa59| sarvadaityabale mukhyāścatvāro dṛḍhavikramāḥ| kālamṛtyusamā vīrāḥ sarvāstravidhipāragāḥ60| balastatrābravīdvākyaṃ yasminjaya upasthitaḥ| taṃ ca jeṣyāmi jiṣṇuṃ ca pratijñā me dṛḍhā nṛpa61| namuciśca muciścaiva bhrātarau baladarpitau| ūcatustau nṛpaṃ hyāvāṃ jeṣyāvo vai balādbalau62| jambhaścaivābravīdvākyamiṃdramiṃdrapurogamān| jeṣyāmi nātra saṃdeho daityā bhavata vijvarāḥ63| tripuraścābravīdvākyaṃ jeṣyāmi ca vināyakam| tāvadūce'tha senānīrmayo devāṃtako balī64| kuberaṃ pratirakṣobhiḥ sarvāṃścaiva hiraṇyakān| etasminnaṃtare tatra nārado munisattamaḥ65| gatvovāca hiraṇyākṣaṃ jiṣṇudūtohamāgataḥ| rājyaṃ tyaja svavācā naḥ prāṇeṣu yadi te hitam66| na cedyudhyasva māmadya na vā gaccha rasātalam| tataḥ kopāduvācedaṃ nāradaṃ munisattamam67| ahiṃsyastvaṃ brāhmāṇādya gaccha tūrṇaṃ mamāgrataḥ| devānāṃ ca vipattiṃ ca kadanaṃ nidhanaṃ puraḥ68| paśya vipra kṣaṇenāṃtaṃ prāptaṃ hariharādikam| evamuktvā sa daityeṃdro balādhyakṣamuvāca ha69| sajjīkṛtya balaṃ sarvānrathāṃścānayata drutam| daityarājavacaḥ śrutvā balādhyakṣaḥ samaṃtataḥ70| balānyāhūya sahasā saṃtrastāstūrṇamāgatāḥ| koṭikoṭisahasrāṇi akṣauhiṇyo balāni ca71| ekaikasya ca vīrasya vāhanāni mahāṃti ca| syaṃdanāni vicitrāṇi gajoṣṭrāśvakharānapi72| siṃhavyāghralulāyāṃśca samāruhya yayustadā| vādyaiḥ sarvaiśca bhūyiṣṭhaiḥ siṃhanādairbhayānakaiḥ73| diśastu pūrayāmāsussindhuvelācalā dharāḥ| sarvalokāśca vitresuḥ samudrāśca cakaṃpire74| devaduṃdubhayo neduḥ sarvadevaiḥ samīritāḥ| vādyaiśca vividhairanyairvāyupūrṇairghanasvanaiḥ75| sarvalokābhayatrastā ye ca trailokyavāsinaḥ| bhraṣṭakāmāgatākāśaṃ ghoraṃ tīvraṃ mahāhavam76| parighaiḥ pāśaśūlaiśca khaḍgayaṣṭiparaśvadhaiḥ| śaraiśca niśitairghorairjaghnuranyonyamāhave77| śastrāstrairbahudhāmuktairdiśaḥ sarvā niraṃtaram| vigṛheṣu dharaṇyāṃ ca parvateṣu jaleṣu ca78| devasthāne tathākāśe parvatāgreṣu sānuṣu| gahvareṣu mahāraṇye tayoryuddhamavartata79| puṣkalādi ghanānāṃ ca varṣadhārā jalaṃ yathā| pataṃtyastrāṇi sainyeṣu śataśotha sahasraśaḥ80| kecitpetuḥ pṛthivyāṃ tu śaraiḥ saṃbhinnavigrahāḥ| śaktibhirmusalaiścānye chatraśūlaparaśvadhaiḥ81| patitāḥ saṃmukhe śūrā yuddheṣu nyāyavartinaḥ| gacchaṃti surasadmāni svāmyarthe ye tvabhīravaḥ82| ye cānye kātarāḥ pāpā haṃtāro vimukhānraṇe| anyāyairye ca yoddhāraste yānti yamamaṃdiraṃ83| tridivasthā gajārohāḥ saindhavasthāstathāparān| rathasthāṃśca rathārohāḥ padagāṃśca padātayaḥ84| parasparaṃ vinighnaṃti śūrā yuddhābhikāṃkṣiṇaḥ| muditāḥ satvasaṃpannā dharmiṣṭhā balasaṃvṛtāḥ85| keṣāṃcidvāhavaśchinnā musalairbhinnamastakāḥ| keśāśśirāṃsi vastrāṇi nipeturdharaṇītale86| madhyacchinnāstathā bhinnāḥ petururvyāṃ mahābalāḥ| khaḍgapātaistathā cograiśchrinnabhinnāḥ paraśvadhaiḥ87| gāmeva patitā dhīrā divyālaṃkārabhūṣitāḥ| pradīptobhūddharādeśo vīrairnāgairhayai rathaiḥ88| vividhābharaṇairnaṣṭaiḥ patākābhiśca ketubhiḥ| tato vasuṃdharā sarvā saśailavanakānanā89| rudhiraughaplutā tatra vibudhāsurayoryudhi| kravyādairbahubhistatra khādito dravyasaṃcayaḥ90| lohitaṃ pracuraṃ pītaṃ rakṣobhiśca vṛkādibhiḥ| anyairmahāgaṇaireva kṣatajaṃ pavanānvitam91| khāditaṃ prītimadbhiśca pherugṛdhragaṇairmudā| etasminnaṃtare sūriḥ surapūjyo bṛhaspatiḥ92| mṛtasaṃjīvanīvidyāṃ surāṇāṃ saṃjajāpa ha| viśalyakaraṇīṃ divyāṃ brahmavidyāṃ mahābalāṃ93| tato dhanvaṃtarirvidvānsuravaidyo manojavaḥ| auṣadhaistatprayogaiśca raṇe paryaṭate mudā94| tatra devāśca jīvaṃti ye mṛtāśca mahāhave| avraṇā balasaṃpannāḥ prayudhyaṃti bhṛśaṃ punaḥ95| evaṃ śatasahasraṃ tu gaṇaṃ daityasya coddhatam| patitaṃ puṇyayogācca śarairnirbhinnakaṃdharam96| tatastu jayaśabdena naṃdaṃti siddhacāraṇāḥ| ṛṣayaḥ khecarāścānye ye caivāpsarasāṃ gaṇāḥ97| gītiṃ gāyaṃti gaṃdharvāḥ śaśaṃsuḥ paramarṣayaḥ| atha kruddho mahātejā daityamukhyo mahābalaḥ98| kālakeya iti khyātaḥ senānīrdaityapasya ca| syandanastho mahāvīryo dhanurādāya tatra ca99| jaghāna surasaṃghāṃstānnartayāmāsa bhūtale| niraṃtaraśaraugheṇa cchāditaṃ gaganaṃ tadā100 1.65.100| nipataṃti śarāḥ sainye koṭikoṭi sahasraśaḥ| nipataṃti tato devāḥ saṃyugeṣvanivartinaḥ101| rudhirodgāriṇassarve siddhagaṃdharvakinnarāḥ| viśikhaiḥ pīḍitā devā nipeturdharaṇītale102| keciccharaśatairbhinnāssahasrairayutaistathā| petururvyāṃ mahāvīryā ye raṇe surapuṃgavāḥ103| vyathitāścābhavansarve syaṃdanasthā divaukasaḥ| śaraiḥ pravyathitāste tu sthātuṃ śaktā na saṃmukhe104| tenāvagāhitaṃ sainyaṃ gajeneva sarovanam| śaraistasyārditā devā vajrānalasamaprabhaiḥ105| na śekuḥ samare sthātuṃ maghavaṃtaṃ yayustadā| citraratha iti khyāto devaśśastrabhṛtāṃ varaḥ106| yayau syaṃdanamāruhya yuddhaṃ prati dhanurdharaḥ| abravīdvacanaṃ sopi senānyaṃ tu mahāsuram107| yathā haṃsi mahāśūra surasenāṃ mudānvitaḥ| sa tvaṃ praśaṃsanīyaśca śūrosi surasaṃmataḥ108| hiraṇyākṣapriyaṃ karma kṛtaṃ yuddhe tvayādhunā| idānīṃ mama bāṇaiśca gacchasva yamamaṃdiram109| tataśca kālakeyastu smito vacanamabravīt| puraiva vijito deva gaṇaḥ sarvaḥ pralīlayā110| idānīṃ tu sthitaṃ yuddhe balaṃ sarvaṃ tu helayā| yadi te nidhane prītirastīha surapuṃgava111| ebhistvāṃ niśitairbāṇairnayāmi yamamaṃdiram| ityuktvā paramakruddho bāṇamaṃtakasannibham112| jaghāna samare vīrastribhiściccheda soṃbare| punarbāṇāṃśca samare yojayitvā drutaṃ ruṣā113| jaghāna pracurāndaityāṃstāṃścakartta sa lāghavāt| tatonyonyaṃ śaraistīkṣṇaiḥ kālānalasamaprabhaiḥ114| yuddhe dhanuṣmatāṃ śreṣṭhaściccheda bhuvi vegataḥ| tadyuddhamabhavaddevadaityayordharmato bhṛśam115| draṣṭukāmāgatāḥ pārśvamṛṣi devāḥ suroragāḥ| evaṃ śatasahasrāṇi bāṇānāṃ vidhṛtāni ca116| anyonyaṃ samare vīrau vijayāya virejatuḥ| atha kruddho mahātejā gaṃdharvāṇāṃ patistadā117| tribhirbibheda bāṇaiśca lalāṭe hṛdi paṃcabhiḥ| saptabhirjaṭhare nābhau bastau tasya sa paṃcabhiḥ118| śaraiḥ saṃpātito daityo mugdhaḥ kaśmalatāṃ gataḥ| śithilīkṛtacāpaśca lebhe saṃjñāṃ cirādbalī119| madhusaṃjñaṃ tribhirbāṇaissa bibheda surottamam| cakartta dhanurastraiśca daityarājasya paśyataḥ120| tato bāṇasahasraistu kālāṃtakasamaprabhaiḥ| bibheda daityasiṃhaṃ tu surāṇāmuttamo balī121| hatacetāḥ sa daityeṃdro bahuśoṇitasaṃsravaḥ| vihvalo bahubāṇārtaḥ śūlaṃ jagrāha dānavaḥ122| śūlahastasya tasyaiva caturbhisturagānśaraiḥ| hatvā ca pātayāmāsa tribhiryaṃtārameva ca123| jaghāna śūlamurvīṣṭhastato gaṃdharvasattamam| vicakartta tribhirbāṇaiḥ śūlaṃ citraratho balī124| śūlaṃ ca naṣṭakaṃ dṛṣṭvā hatabhogamivoragam| gṛhītvā mudgaraṃ ghoraṃ pradudrāva suraṃ balī125| sa mudgaraṃ samāyātaṃ daityasenādhipaṃ tadā| vicakartta śiro dehādardhacaṃdreṇa saṃbhramāt126| sa papāta mahīpṛṣṭhe saṃcacāla vasuṃdharā| tato daityagaṇāḥ sarve vimukhā vipradudruvuḥ127| iti śrīpādmapurāṇe prathame sṛṣṭikhaṃḍe kālakeyavadhonāma paṃcaṣaṣṭitamo'dhyāyaḥ65| |
English translation
Vyāsa said :
1. He, who would worship the lord of the Gaṇas in the Nāndimukha [1] , has everyone under his control, and his merit becomes inexhaustible.
2. A man obtains all (kinds of) prosperity in all sacrifices by means of (the recital of) the hymns ‘Gaṇānām tvā’ and would obtain heaven and salvation.
3. A wise man should draw the figure of Gaṇeśa on a clay idol, or in a picture (carved out) of stone or on the wood of the door, or in a pot.
4-5. A wise man, who, after having installed the idol of Gaṇeśa, even in any other place which would always be visible, would worship Gaṇeśa according to his capacity, fully gets his desired objects fulfilled. He has no difficulty and he would bring the three worlds under his control.
6. A student obtains knowledge from the Vedas and sacred texts, and also other knowledge (like that) of the fine arts, which is successful and which would give (i.e. lead) him (to) heaven.
7. A man longing for wealth, gets ample wealth and a good charming daughter, grandeur that is lawfully obtained, and a son giving (taking) the members of the family (to) salvation.
8. He is never troubled by diseases, or planets or evil spirits, horned animals, demons, lightning or robbers in a forest.
9. The king is not angry with him; plague does not occur in his house; he does not feel the dearth (of anything); he does not suffer from weakness after (i.e. due to his) having worshipped Gaṇeśa.
10. “(My) salutation to the chief of the Gaṇas, who removes all difficulties, who was worshipped even by gods for accomplishing their desired objects.”
11-12. The sacred formula is: “Om, salutation to Gaṇapati .” He, who would worship the protector of the Gaṇas, with flowers dear to Viṣṇu , and other fragrant flowers, with modakas , fruits, roots and other seasonal things, with curds and milk, pleasing musical instruments, and with incense and (other) fragrant (objects) obtains success in all undertakings.
13. He who especially offers money and materials of worship dear to him and cloth on his (i.e. Gaṇeśa’s) idol, has it (as reward) a lakh times.
14. In the proximity of the east, in the country of Bhāratavarṣa , on the southern bank of the Lauhitya (river), Vināyaka (i.e. Gaṇeśa remains) in the form of an idol.
15. For bringing about peace to all worlds, and removing obstacles he has stayed (there) by the order of Śiva and Pārvatī and with the consent of gods.
16. (A man) who has mastered the meaning of Vedas and sacred books, having worshipped that deity according to his capacity with collection of materials, becomes (identical with) Vināyaka.
17. A man having gone (i.e. who goes) round (Gaṇeśa’s idol even) once, having seen (i.e. who sees) or having touched (i.e. who touches) his idol, obtains heaven eternally, and is always honoured by gods.
18. There is Śambhu Vināyaka for leading those who have been in contact with the mlecchas , who are good ascetics and for (granting) sons to all the people.
19. He, who, having bathed in the Lauhitya (river). would touch (the idol of) Gaṇeśa, becomes free from sins committed during seven births; there is no doubt about this.
20. (A woman) would not suffer from widowhood, one would not be reduced to poverty, nor would one have grief or jealousy for birth after birth after having reached Gaṇeśa.
21. There is no doubt that a man would repeatedly get success, enjoyments, fame and power by worshipping Gaṇeśa.
22. All desired objects perish by not worshipping him. All gods like Brahma , Viṣṇu and Śiva are pleased (if one performs his worship).
23-30. When Indra had not worshipped the bountiful Gaṇeśa, he was conquered by Hiraṇyākṣa in the battle with great demons led by Hiraṇyākṣa. Then, in the olden days, the gods remained powerless for a hundred years; and in the war between the gods and the demons, the gods were defeated. Then the gods told (this) to Śiva, the god of gods: “O sir, our kingdom has been conquered by the demons; our sacrifices are lost.” In the meanwhile, Śiva said (these) words to the gods: “By Umā, who was pleased, and by me a boon is granted to Gaṇeśa: ‘May gods attain great success by worshipping you. A man, who, through delusion, disregards (you), during great festival, would not attain success and would be defeated in a battle.’ In the great sacrifice, you did not through disrespect and delusion, worship Gaṇeśa; therefore you have been defeated. Go quickly; offer an auspicious worship to the great Gaṇeśa, O you, who are conversant with the moral law, you will soon meet with success.”
31. Then, having heard from Śiva’s mouth, beneficial and wholesome words, the gods became glad, and all of them stood before Gaṇeśa.
The gods said :
32. O lord of the Gaṇas, O only guardian of all gods, O granter of heaven and enjoyments, our salutation to you; O Heramba , we bow to you with love.
33. O Heramba, we bow to you, who give (i.e. bring about) victory in all wars, who give success in all undertakings, who have great divine power and whose body is great.
34. We bow to Heramba, having one tusk, a prolonged mouth (i.e. a trunk), the highly intelligent god of great sages, gods and Indra.
35a. Forgive us (our fault viz.) that we did not formerly worship you at the sacrifice.
35b-37. Having heard the words of the gods, Gaṇeśa said (these) words: “O gods, choose from me the boon of your liking.” Then all gods like Indra, led by Bṛhaspati , said to Gaṇeśa: “Let victory be ours (i.e. Let us be victorious).” Hearing the words of the gods, Gaṇeśa said (these) words:
38-40. “O best gods, all right; may you have victory quickly.” Then all the hosts of gods, with their minds full of joy, worshipped Gaṇeśa with sandal, ornaments, divine incense fine garments, flowers like Pārijāta growing in (the) Nandana (garden), and other divine and attractive flowers. The lord of Gaṇas, worshipped by gods, said to the best gods:
41. “O gods, go to Viṣṇu, having a wonderful courage. Then, O gods, he will bring about your desired object.”
42. Then they, getting into their own respective chariots, went to the immutable Viṣṇu. The hosts of gods, having saluted him, who had put on a yellow garment (i.e. Viṣṇu), joyfully said to him:
43. “O great-souled Viṣṇu, having gone to Gaṇeśa, and having worshipped him, we have today come to you.”
44. Having heard these words of the gods, the imperishable Viṣṇu, spoke precisely: “I shall kill the preeminent demons.”
45. Having heard the nectar in the form of (these) words the gods being pleased and full of great joy worshipped him with the desired materials.
46-47. Viṣṇu again said to the gods led by Indra: “Collecting your own army, be ready without any distress. I shall vanquish the wicked ones as well as their army on all sides. Gathering the group of missiles, you remain fearless.”
48. All the best gods, having divine missiles, after having heard the words of Viṣṇu, got into (their) aeroplanes, and left.
49. The words of gods, uttered with joy, were heard by the spies of the demons. They reported the same to the very mighty Hiraṇyākṣa, (their) king.
50. The very powerful lord of the demons, having heard the words (as reported by his spies) got angry. The angry one called his ministers and said to them:
51-56. “Now all the wicked-minded gods like Indra, desiring to have Viṣṇu (as their leader), told everything to Śiva: ‘How shall we get victory, when the army of the demons is so fierce?’ Śiva said these words: ‘O gods, worship Gaṇeśa. By worshipping him you will (be able to) conquer the demons.’ Then the hosts of gods, who were delighted, worshipped the chief of the Gaṇas. The lord of the Gaṇas, being pleased, granted them a great (but) cruel boon: ‘Today you will conquer all demons.’ Then the gods, being (very) joyful, and desiring to kill us, told this to Viṣṇu. Having heard (the words) ‘all right’, from Viṣṇu, the fearless gods, seated in (their) chariots, and with weapons in their hands, stood (ready) for fighting with me. He who has whatever capacity to vanquish the gods should (now) speak out fully.”
57-59. Then, hearing the words of the king, Madhu said (these) words: “O king, I shall conquer Viṣṇu. Give me an assistant. When god Viṣṇu is conquered, all gods will certainly be frightened. Therefore, Viṣṇu, the conquerer of the enemies’ cities, will be our portion (i.e. we shall vanquish him). O king, we, with Dhundhu , Sunda , and the very mighty Kālakeya as assistants, will conquer Viṣṇu.”
60. In the entire army of the demons (these) four (viz. Madhu, Dhundhu, Sunda and Kālakeya) were very brave heroes resembling Death and had mastered the science of (employing) all weapons.
61. Bala then said (these) words: “I shall vanquish that Viṣṇu due to whom victory (of gods) is coming about. O king, this is my strong pledge.”
62. The two brothers, Namuci and Muci, proud of their might, said to the king: “We too, the mighty ones will conquer (the gods) with force.”
63. Jambha said these words: “I shall conquer Indra and (other gods) led by Indra. There is no doubt about it. O demons, give up your worry.”
64a. And Tripura said (these) words: “I shall conquer Vināyaka.”
64b-65a. Then, the mighty general Maya , the destroyer of gods, said: “With (the help of) the demons I shall (conquer) Kubera and all Hiraṇyakas.”
65b-67a. In the meanwhile, the best sage Nārada went and said to Hiraṇyākṣa: “I have come as a messenger of Viṣṇu. By our (i.e. my) words (i.e. order) abandon your kingdom, if you have interest in your life. Otherwise fight with me and go to the nether world.”
67b-69a. Then angrily he spoke these words to the best sage Nārada: “O brāhmaṇa , you are not to be killed. Quickly go (away) from my presence. See in front of you (i.e. under your very nose) the disaster and destruction of the gods. O brāhmaṇa, (see that) Viṣṇu, Śiva and others will, in a moment, meet with death.”
69b-70a. Saying so the lord of demons said to the General of his army: “Making the entire army ready, quickly bring all the chariots.”
70b-7la. Hearing the words of the king of demons the General of the army suddenly summoned the army. (The soldiers) getting frightened, came (there) quickly.
71b-72. The army (consisted of) thousands of crores (of soldiers) and of akṣauhiṇīs [2] . Each one of the brave soldiers had large vehicles, wonderful chariots, and elephants, camels and donkeys also.
73-74. Mounting on lions, tigers and buffaloes they proceeded. They filled the quarters with all musical instruments and many frightening roars like lions. The sea-coast, mountains, earth, and all the worlds were frightened. The oceans also were agitated.
75-76. Drums beaten by all gods gave out sounds. All the people and the residents of the three worlds were frightened by various other musical instruments of a deep sound (after they were) filled with air. Their desires were frustrated. They went to wage the great, fierce, bright war.
77. In the war they struck one another with iron bars, nooses, lances, swords, sticks, hatchets and sharp fierce arrows.
78-80. All the quarters were full with the weapons and missiles hurled in various ways. Their fight took place in big houses, on the ground, on mountains, in water, in temples, in the sky, on tops of mountains and on their peaks, in thickets, and in a great forest. Missiles in hundreds and thousands fell on the armies as the water of showers from clouds like Puṣkala [3] would fall in streams.
81. Some fell on the ground with their bodies pierced with arrows. Others (fell on the ground with their bodies struck with) missiles like śakti , pestles and lances and hatchets.
82. The brave, dauntless warriors, fighting justly in the war for their lord, fell (just) before their enemies (i.e. they did not run away from the battle-field) and went to the abodes of gods.
83. Others, who were timid and sinful, and who struck those running away from the battle-field, and who fought unjustly went to Yama ’s abode.
84. The gods mounted upon elephants and on horses struck the enemies. Those brave (soldiers) desiring to fight and occupying chariots struck those (enemies) who had occupied chariots, and the foot-soldiers struck the foot-soldiers (in the enemy’s army).
85-89a. They were glad, were full of energy, were most dutiful and full of power. The arms of some were cut off. The hair, heads and garments of some whose heads were broken with pestles, fell on the ground. (Some) very mighty (soldiers), with their waists pierced and broken, fell on the ground. The brave ones, decorated with divine ornaments, whose bodies received cuts and were pierced due to the falls of swords and with fierce hatchets, fell on the ground. The region became bright with heroes, elephants, horses, chariots, fallen ornaments, banners and flags.
89b-92a. At that time the whole earth with mountains, forests and groves was flooded with blood, during the war between the gods and the demons. The collection of materials there was eaten by many goblins. Demons and wolves drank ample blood. So also other hosts (of demons etc.) and of jackals and vultures gladly drank blood mixed with water.
92b-93. In the meanwhile, the learned Bṛhaspati, honoured by gods, muttered for gods, the lore that brings the dead back to life, which removed troubles, which was a divine and very powerful lore of Brahmā . I. 308
94. Then Dhanvantari , the physician of gods, gladly moved on the battle-field with the speed of mind (carrying) medicines with him and employing them.
95. Then the gods that were dead in the great war, again came back to life, were without any wound, endowed with power, and again fought very much.
96. Thus, a hundred thousand haughty (fighters of the) army of the demons, with their necks cut off with arrows fell down due to the merit (of the gods).
97. Then Siddhas , Cāraṇas , sages, semi-divine beings and hosts of celestial nymphs greeted (the gods) with cries of victory.
98a. Gandharvas sang songs and great sages praised (the gods).
98b-100. Then the very mighty and powerful foremost demon, the General of the demon-king, Kālakeya by name, seated in a chariot took his bow there (i.e. in the chariot) only, and the very mighty one killed groups of gods and made them dance on the ground. At that time the sky was screened with a continuous flow (i.e. volley) of arrows.
101. Arrows in thousands of crores fell on the army (of the gods). Then gods, not returning (i.e. not fleeing) from the battle fell (there).
102. All the Siddhas and Gandharvas ejected blood. Gods injured by the arrows dropped on the ground.
103. Certain prominent and very mighty gods who (had participated) in the war, pierced with hundreds and thousands and myriads of arrows fell on the ground.
104. All gods who remained in the chariots were vexed. Being tormented by the arrows they could not stand before (the demons).
105. He (i.e. Kalakeya ) plunged into the (gods’) army, as an elephant would plunge into a lake. Gods were hurt by his arrows strong like the thunderbolt and fire.
106-107. They could not stand in the battle-field, and then went to Indra. A god, known as Citraratha , best among the soldiers, and an archer, went to fight, after having got into a chariot; and he said (these) words to the great demon, the General (of the demons’) army:
108-109. “Since, O you very brave (demon), you, full of joy, are killing the army of the gods, you deserve to be praised; you are brave and are liked by gods. You have now executed a mission dear to Hiraṇyākṣa; and now (pierced) by my arrows go to Yama’s abode.”
110-112a. Then Kālakeya smiled and said (these) words: “Formerly I have easily vanquished the entire host of gods. Now also (I shall) easily (conquer) the (gods’) army that is standing (before me) in the battle. O best of gods, if you love death, then by (piercing you) with these sharp arrows, I shall take you to Yama’s abode.”
112b. Saying these words, he, who was extremely angry, struck (i.e. discharged) an arrow (at Citraratha).
113-114a. The hero (i.e. Citraratha) cut it off in the sky (itself, i.e. before it struck him), with three arrows. Angrily he again quickly employed arrows in the battle, and with dexterity killed many demons.
114b-115a. Then, in the battle, the best among archers speedily struck each other on the ground with sharp arrows resembling the destructive fire at the end of the world.
115b-116. That fight between the god and the demon was (fought) much justly. Sages, gods and divine serpents desiring to see (that fight) went there. Thus hundreds of thousands of arrows were directed (by them towards each other).
117-118. The two heroes shone (there) to conquer each other in the battle. Then the angry and very lustrous lord of the Gandharvas (i.e. Citraratha) pierced (Kālakeya) in his forehead with three arrows, in his chest with five arrows, in his belly and navel with seven arrows, and in his abdomen with five arrows.
119. The demon struck down with the arrows became confused and depressed in spirits. With his bow loosened, he, the powerful one, regained consciousness after a long time.
120. The god pierced the best demon, named Madhu, with three arrows. He cut off his bow (even) while the demon-king was observing it (i.e. under his very nose).
121. The best among gods, the powerful one (i.e. Citraratha) pierced (the body of) the demon-lion (i.e. the brave demon) with thousands of arrows, bright like god of death.
122. The lord of the Daityas , the demon, with his heart depressed, profusely bleeding, agitated and struck by many arrows, took up a spear.
123. He (i.e. Citraratha) struck and overthrew the horses of him who had (held) the spear in his hand, with four arrows, and his charioteer with three (arrows).
124. Then, remaining on the ground, he (i.e. Kālakeya) struck the best of the Gandharvas (with) the spear. The powerful Citraratha cut off the spear with three arrows.
125. The mighty (demon), seeing his spear destroyed, and resembling a serpent bereft of his hood, took up a mallet and rushed at the god.
126-127. Citraratha hastily cut off, with an arrow with a crescent-shaped head [4] , the head from the body of the lord of demons who approached him. He dropped on the ground, and the earth quaked. Then all the hosts of demons, with their faces turned away, fled.
[1]: [1] : Nāndīmukha—A śrāddha ceremony performed in memory of manes, preliminary to any festive occasion such as marriage etc.
[2]: [2] : Akṣauhiṇī—A large army consisting of 21870 chariots, as many elephants, 65610 horses, and 108350 foot-soldiers.
[3]: [3] : Puṣkala—An epithet of a class of clouds said to be the cause of drought or famine.
[4]: [4] : Ardhacandra—An arrow with a crescent-shaped head.
Complete chapter-aligned witnesses. Sanskrit Wikisource page 36936, revision 334587 (2022-04-06T08:32:24Z). English is N. A. Deshpande’s complete translation, controlled against its chapter page at https://www.wisdomlib.org/hinduism/book/the-padma-purana/d/doc364188.html and the ten-volume archival witness. The witnesses are aligned at chapter level; no unsupported verse-by-verse equivalence is asserted.