Skip to main content

Bhūmi-khaṇḍa · Chapter 42

Chapter 42

Unit 124 of 693Bhūmi-khaṇḍa · Chapter 42Bhūmi-khaṇḍa · Chapter 421 source entries

Bhūmi-khaṇḍa · Chapter 42

Source

द्विचत्वारिंशत्तमोऽध्यायः सख्य ऊचुः- सुदेवा का त्वया प्रोक्ता किमाचारा वदस्व नः । त्वया प्रोक्तं महाभागे वद नः सत्यमेव च १। सुकलोवाच- अयोध्यायां महाराजः स आसीद्धर्मकोविदः । मनुपुत्रो महाभागः सर्वधर्मार्थतत्परः २। इक्ष्वाकुर्नाम सर्वज्ञो देवब्राह्मणपूजकः । तस्य भार्या सदा पुण्या पतिव्रतपरायणा ३। तया सार्द्धं यजेद्यज्ञं तीर्थानि विविधानि च । वेदराजस्य वीरस्य काशीशस्य महात्मनः ४। सुदेवा नाम वै कन्या सत्याचारपरायणा । उपयेमे महाराज इक्ष्वाकुस्तां महीपतिः ५। सुदेवा चारुसर्वांगी सत्यव्रतपरायणा । तया सार्द्धं स वै राजा जनानां पुण्यनायकः ६। स रेमे नृपशार्दूलो नित्यं च प्रियया तया । एकदा तु महाराजस्तया सार्द्धं वनं ययौ ७। गंगारण्यं समासाद्य मृगयां क्रीडते सदा । सिंहान्हत्वा वराहांश्च गजांश्च महिषांस्तथा ८। क्रीडमानस्य तस्याग्रे वराहश्च समागतः । बहुशूकरयूथेन पुत्रपौत्रैरलंकृतः ९। एका च शूकरी तस्य प्रियापार्श्वे प्रतिष्ठिता । वराहैः शूकरैस्तस्य तमेव परिवारिता १०। दृष्ट्वा च राजराजेंद्रं दुर्जयं मृगयारतम् । पर्वताधारमाश्रित्य भार्यया सह शूकरः ११। तिष्ठत्येकः सुवीर्येण पुत्रान्पौत्रान्गुरूञ्छिशून् । ज्ञात्वा तेषां महाराज मृगाणां कदनं महत् १२। तानुवाच सुतान्पौत्रान्भार्यां तां च स शूकरः । कोशलाधिपतिर्वीरो मनुपुत्रो महाबलः १३। क्रीडते मृगयां कांते मृगान्संहरते बहून् । स मां दृष्ट्वा महाराज एष्यते नात्र संशयः १४। अन्येषां लुब्धकानां मे नास्ति प्राणभयं ध्रुवम् । ममरूपं नृपो दृष्ट्वा क्षमां नैव करिष्यति १५। हर्षेण महताविष्टो बाणपाणिर्धनुर्द्धरः । श्वभिर्युक्तो महातेजा लुब्धकैः परिवारितः १६। प्रिये करिष्यते घातं ममाप्येवं न संशयः १७। शूकर्युवाच- यदायदा पश्यसि लुब्धकान्बहून्महावने कांत समायुधान्बहून् । एतैस्तु पुत्रैर्ममपौत्रकैः समं दूरं नु भो यासि पलायमानः १८। त्यक्त्वा सुधैर्यं बलपौरुषं महन्महाभयेनापि विषण्णचेतनः । दृष्ट्वा नृपेंद्रं पुरुषोत्तमोत्तमं करोषि किं कांत वदस्वकारणम् १९। तस्यास्तु वाक्यं सनिशम्य कोल उवाच तां शूकरराजउत्तरम् । यदर्थभीतोस्मि सुलुब्धकात्प्रिये दृष्ट्वा गतो दूर निशम्यशूकरान् २०। सुलुब्धकाः पापकराः शठाः प्रिये कुर्वंति पापं गिरिदुर्गकंदरे । सदैव दुष्टा बहुपापचिंतका जाताश्च सर्वे परिपापिनां कुले २१। तेषां हि हस्तान्मरणाद्बिभेमि मृतोपि यास्यामि पुनश्च पापम् । दूरं गिरिं पर्वतकंदरं च व्रजामि कांते अपमृत्युभीतः २२। अयं हि पुण्यो नरनाथ आगतो विश्वाधिकः केशवरूप भूपः । युद्धं करिष्ये समरे महात्मना सार्द्धं प्रिये पौरुषविक्रमेण २३। जेष्यामि भूपं यदि स्वेन तेजसा भोक्ष्यामि कीर्तिं त्वतुलां पृथिव्याम् । तेनाहतो वीरवरेण संगरे यास्यामि लोकं मधुसूदनस्य २४। ममांगभूतेन पलेनमेदसा तृप्तिं परां यास्यति भूमिनाथः । तृप्ता भविष्यंति सुलोकदेवता अस्मादयंचागतो वज्रपाणिः २५। अस्यैव हस्तान्मरणं यदाभवेल्लाभश्च मे सुंदरि कीर्तिरुत्तमा । तस्माद्यशो भूमितले जगत्त्रये व्रजामि लोकं मधुसूदनस्य २६। नैवं भीतोस्मि क्षुब्धोस्मि गतोऽहं गिरिसानुषु । पापाद्भीतो गतः कांतेधर्मं दृष्ट्वा स्थितोह्यहम् २७। न जाने पातकं पूर्वमन्यजन्मनि चार्जितम् । येनाहं शौकरीं योनिं गतोऽहं पापसंचयात् २८। क्षालयिष्याम्यहं घोरं पूर्वपातकसंचयम् । बाणोदकैर्महाघोरैः सुतीक्ष्णैर्निशितैः शतैः २९। पुत्रान्पौत्रांस्तु वाराहि कन्यां कुटुंबबालकम् । गिरिं गच्छ गृहीत्वा तु मम मोहमिमं त्यज ३०। ममस्नेहं परित्यज्य हरिरेष समागतः । अस्य हस्तात्प्रयास्यामि तद्विष्णोः परमं पदम् ३१। दैवेनापि ममाद्यैव स्वर्गद्वारमनुत्तमम् । उद्घाटितकपाटं तु यास्यामि सुमहादिवम् ३२। सुकलोवाच- तच्छ्रुत्वा वचनं तस्य शूकरस्य महात्मनः । उवाच तत्प्रिया सख्यः सीदमानांतरा तदा ३३। शूकर्युवाच- यस्मिन्यूथे भवान्स्वामी पुत्रपौत्रैरलंकृतः । मित्रैश्च भ्रातृभिश्चैव अन्यैः स्वजनबांधवैः ३४। त्वयैवालंकृतो यूथो भवता परिशोभते । त्वां विनायं महाभाग कीदृग्यूथो भविष्यति ३५। तवैव स्वबलेनापि गर्जमानाश्च शूकराः । विचरंति गिरौ कांत तनया मम बालकाः ३६। कंदान्मूलान्सुभक्षंति निर्भयास्तव तेजसा । दुर्गेषु वनकुंजेषु ग्रामेषु नगरेषु च ३७। न कुर्वंति भयं तीव्रं सिंहानामिह पर्वते । मनुष्याणां महाबाहो पालितास्तव तेजसा ३८। त्वया त्यक्ता अमी सर्वे बालका मम दारकाः । दीनाश्चैवाकुलाश्चैव भविष्यंति विचेतनाः ३९। नित्यमेव सुखं वर्त्म गत्वा पश्यंति बालकाः । पतिहीना यथा नारी शोभते नैव शोभना ४०। अलंकृता यथा दिव्यैरलंकारैः सकांचनैः । परिच्छदै रत्नवस्त्रैः पितृमातृसहोदरैः ४१। श्वश्रूश्वशुरकैश्चान्यैः पतिहीना न भाति सा । चंद्रहीना यथा रात्री पुत्रहीनं यथा कुलम् ४२। दीपहीनं यथा गेहं नैव भाति कदाचन । त्वां विनायं तथा यूथो नैव शोभेत मानद ४३। आचारेण विना मर्त्यो ज्ञानहीनो यतिर्यथा । मंत्रहीनो यथा राजा तथायं नैव शोभते ४४। कैवर्तेन विना नौर्वा संपूर्णा परिसागरे । न भात्येवं यथा सार्थः सार्थवाहेन वै विना ४५। सेनाध्यक्षेण च विना यथा सैन्यं न भाति च । त्वां विना वै तथा सैन्यं शूकराणां महामते ४६। दीनो भविष्यति तथा वेदहीनो यथा द्विजः । मयि भारं कुटुंबस्य विनिवेश्य प्रगच्छसि ४७। मरणं सुलभं ज्ञात्वा का प्रतिज्ञा तवेदृशी । त्वां विनाहं न शक्नोमि धर्तुं प्राणान्प्रियेश्वर ४८। त्वयैव सहिता स्वर्गं भूमिं वाथ महामते । नरकं वापि भोक्ष्यामि सत्यंसत्यं वदाम्यहम् ४९। त्वं वा पुत्रांस्तुपौत्रांस्तु गृहीत्वा यूथमुत्तमम् । आवां व्रजाव यूथेश दुर्गमेवं सुकंदरम् ५०। जीवितव्यं परित्यज्य रणाय परिगम्यते । तत्र को दृश्यते लाभो मरणे वद सांप्रतम् ५१। वाराह उवाच- वीराणां त्वं न जानासि सुधर्मं शृणु सांप्रतम् । युद्धार्थिना हि वीरेण वीरं गत्वा प्रयाचितम् ५२। देहि मे योधनं संख्ये युद्धार्थ्यहं समागतः । परेण याचितं युद्धं न ददाति यदा नरः ५३। कामाल्लोभाद्भयाद्वापि मोहाद्वा शृणु वल्लभे । कुंभीपाके तु नरके वसेद्युगसहस्रकम् ५४। क्षत्रियाणां परो धर्मो युद्धं देयं न संशयः । तद्युद्धं दीयमानेन रणभूमिगतेन वै ५५। निर्जितं तु परं तत्र यशःकीर्त्तिं प्रभुंजते । स वा हतो युध्यमानः पौरुषेणातिनिर्भयः ५६। वीरलोकमवाप्नोति दिव्यान्भोगान्प्रभुंजते । यावद्वर्षसहस्राणां विंशत्येकां प्रिये शृणु ५७। वीरलोके वसेत्तावद्देवाचारैर्महीयते । मनुपुत्रः समायात अयं वीरो न संशयः ५८। संग्रामं याचमानस्तु युद्धं देयं मया ध्रुवम् । युद्धातिथिः समायातो विष्णुरूपः सनातनः ५९। सत्कारो युद्धरूपेण कर्तव्यश्च मया शुभे । शूकर्युवाच- यदा युद्धं त्वया देयं राज्ञे चैव महात्मने ६०। ततोऽहं पौरुषं कांत पश्यामि तव कीदृशम् । एवमुक्त्वा प्रियान्पुत्रान्समाहूय त्वरान्विता ६१। उवाच पुत्रका यूयं शृणुध्वं वचनं मम । युद्धातिथिः समायातो विष्णुरूपः सनातनः ६२। मया तत्र प्रगंतव्यं यत्रायं हि गमिष्यति । यावत्तिष्ठति वै नाथो भवतां प्रतिपालकः ६३। यूयं गच्छत वै दूरं दुर्गं गिरिगुहामुखम् । सुखं जीवत मे वत्सा वर्जयित्वा सुलुब्धकान् ६४। मया तत्रैव गंतव्यं यत्रैष हि गमिष्यति । भवतां श्रेष्ठोऽयं भ्राता यूथरक्षां करिष्यति ६५। एते पितृव्यकाः सर्वे भवतां त्राणकारकाः । दूरं प्रयात वै सर्वे मां विहाय सुपुत्रकाः ६६। पुत्रा ऊचुः- अयं हि पर्वतश्रेष्ठो बहुमूलफलोदकः । भयं तु कस्य वै नास्ति सुखं जीवनमस्ति वै ६७। युवाभ्यां हि अकस्माद्वै इदमुक्तं भयंकरम् । तन्नो हि कारणं मातर्वद सत्यमिहैव हि ६८। शूकर्युवाच-। अयं राजा महारौद्रः कालरूपः समागतः । क्रीडते मृगया लुब्धो मृगान्हत्वा बहून्वने ६९। इक्ष्वाकुर्नाम दुर्धर्षो मनुपुत्रो महाबलः । संहरिष्यति कालोऽयं दूरं यात सुपुत्रकाः ७०। पुत्रा ऊचुः-। मातरं पितरं त्यक्त्वा यः प्रयाति स पापधीः । महारौद्रं सुघोरं तु नरकं प्रतिपद्यते ७१। मातुः पुण्यं पयः पीत्वा पुष्टो भवति निर्घृणः । मातरं पितरं त्यक्त्वा यः प्रयाति सुदुर्बलः ७२। पूयं नरकमेतीह कृमिदुर्गंधसंकुलम् । मातुस्तस्मान्न यास्यामो गुरुं त्यक्त्वा इहैव च ७३। एवं विषादः संजातस्तेषां धर्मार्थसंयुतः । व्यूहं कृत्वा स्थिताः सर्वे बलतेजः समाकुलाः ७४। साहसोत्साहसंपन्नाः पश्यंति नृपनंदनम् । नदंतः पौरुषैर्युक्ताः क्रीडमाना वने तदा ७५। इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने सुकलाचरित्रे द्विचत्वारिंशत्तमोऽध्यायः ४२।

dvicatvāriṃśattamo'dhyāyaḥ sakhya ūcuḥ- sudevā kā tvayā proktā kimācārā vadasva naḥ | tvayā proktaṃ mahābhāge vada naḥ satyameva ca 1| sukalovāca- ayodhyāyāṃ mahārājaḥ sa āsīddharmakovidaḥ | manuputro mahābhāgaḥ sarvadharmārthatatparaḥ 2| ikṣvākurnāma sarvajño devabrāhmaṇapūjakaḥ | tasya bhāryā sadā puṇyā pativrataparāyaṇā 3| tayā sārddhaṃ yajedyajñaṃ tīrthāni vividhāni ca | vedarājasya vīrasya kāśīśasya mahātmanaḥ 4| sudevā nāma vai kanyā satyācāraparāyaṇā | upayeme mahārāja ikṣvākustāṃ mahīpatiḥ 5| sudevā cārusarvāṃgī satyavrataparāyaṇā | tayā sārddhaṃ sa vai rājā janānāṃ puṇyanāyakaḥ 6| sa reme nṛpaśārdūlo nityaṃ ca priyayā tayā | ekadā tu mahārājastayā sārddhaṃ vanaṃ yayau 7| gaṃgāraṇyaṃ samāsādya mṛgayāṃ krīḍate sadā | siṃhānhatvā varāhāṃśca gajāṃśca mahiṣāṃstathā 8| krīḍamānasya tasyāgre varāhaśca samāgataḥ | bahuśūkarayūthena putrapautrairalaṃkṛtaḥ 9| ekā ca śūkarī tasya priyāpārśve pratiṣṭhitā | varāhaiḥ śūkaraistasya tameva parivāritā 10| dṛṣṭvā ca rājarājeṃdraṃ durjayaṃ mṛgayāratam | parvatādhāramāśritya bhāryayā saha śūkaraḥ 11| tiṣṭhatyekaḥ suvīryeṇa putrānpautrāngurūñchiśūn | jñātvā teṣāṃ mahārāja mṛgāṇāṃ kadanaṃ mahat 12| tānuvāca sutānpautrānbhāryāṃ tāṃ ca sa śūkaraḥ | kośalādhipatirvīro manuputro mahābalaḥ 13| krīḍate mṛgayāṃ kāṃte mṛgānsaṃharate bahūn | sa māṃ dṛṣṭvā mahārāja eṣyate nātra saṃśayaḥ 14| anyeṣāṃ lubdhakānāṃ me nāsti prāṇabhayaṃ dhruvam | mamarūpaṃ nṛpo dṛṣṭvā kṣamāṃ naiva kariṣyati 15| harṣeṇa mahatāviṣṭo bāṇapāṇirdhanurddharaḥ | śvabhiryukto mahātejā lubdhakaiḥ parivāritaḥ 16| priye kariṣyate ghātaṃ mamāpyevaṃ na saṃśayaḥ 17| śūkaryuvāca- yadāyadā paśyasi lubdhakānbahūnmahāvane kāṃta samāyudhānbahūn | etaistu putrairmamapautrakaiḥ samaṃ dūraṃ nu bho yāsi palāyamānaḥ 18| tyaktvā sudhairyaṃ balapauruṣaṃ mahanmahābhayenāpi viṣaṇṇacetanaḥ | dṛṣṭvā nṛpeṃdraṃ puruṣottamottamaṃ karoṣi kiṃ kāṃta vadasvakāraṇam 19| tasyāstu vākyaṃ saniśamya kola uvāca tāṃ śūkararājauttaram | yadarthabhītosmi sulubdhakātpriye dṛṣṭvā gato dūra niśamyaśūkarān 20| sulubdhakāḥ pāpakarāḥ śaṭhāḥ priye kurvaṃti pāpaṃ giridurgakaṃdare | sadaiva duṣṭā bahupāpaciṃtakā jātāśca sarve paripāpināṃ kule 21| teṣāṃ hi hastānmaraṇādbibhemi mṛtopi yāsyāmi punaśca pāpam | dūraṃ giriṃ parvatakaṃdaraṃ ca vrajāmi kāṃte apamṛtyubhītaḥ 22| ayaṃ hi puṇyo naranātha āgato viśvādhikaḥ keśavarūpa bhūpaḥ | yuddhaṃ kariṣye samare mahātmanā sārddhaṃ priye pauruṣavikrameṇa 23| jeṣyāmi bhūpaṃ yadi svena tejasā bhokṣyāmi kīrtiṃ tvatulāṃ pṛthivyām | tenāhato vīravareṇa saṃgare yāsyāmi lokaṃ madhusūdanasya 24| mamāṃgabhūtena palenamedasā tṛptiṃ parāṃ yāsyati bhūmināthaḥ | tṛptā bhaviṣyaṃti sulokadevatā asmādayaṃcāgato vajrapāṇiḥ 25| asyaiva hastānmaraṇaṃ yadābhavellābhaśca me suṃdari kīrtiruttamā | tasmādyaśo bhūmitale jagattraye vrajāmi lokaṃ madhusūdanasya 26| naivaṃ bhītosmi kṣubdhosmi gato'haṃ girisānuṣu | pāpādbhīto gataḥ kāṃtedharmaṃ dṛṣṭvā sthitohyaham 27| na jāne pātakaṃ pūrvamanyajanmani cārjitam | yenāhaṃ śaukarīṃ yoniṃ gato'haṃ pāpasaṃcayāt 28| kṣālayiṣyāmyahaṃ ghoraṃ pūrvapātakasaṃcayam | bāṇodakairmahāghoraiḥ sutīkṣṇairniśitaiḥ śataiḥ 29| putrānpautrāṃstu vārāhi kanyāṃ kuṭuṃbabālakam | giriṃ gaccha gṛhītvā tu mama mohamimaṃ tyaja 30| mamasnehaṃ parityajya harireṣa samāgataḥ | asya hastātprayāsyāmi tadviṣṇoḥ paramaṃ padam 31| daivenāpi mamādyaiva svargadvāramanuttamam | udghāṭitakapāṭaṃ tu yāsyāmi sumahādivam 32| sukalovāca- tacchrutvā vacanaṃ tasya śūkarasya mahātmanaḥ | uvāca tatpriyā sakhyaḥ sīdamānāṃtarā tadā 33| śūkaryuvāca- yasminyūthe bhavānsvāmī putrapautrairalaṃkṛtaḥ | mitraiśca bhrātṛbhiścaiva anyaiḥ svajanabāṃdhavaiḥ 34| tvayaivālaṃkṛto yūtho bhavatā pariśobhate | tvāṃ vināyaṃ mahābhāga kīdṛgyūtho bhaviṣyati 35| tavaiva svabalenāpi garjamānāśca śūkarāḥ | vicaraṃti girau kāṃta tanayā mama bālakāḥ 36| kaṃdānmūlānsubhakṣaṃti nirbhayāstava tejasā | durgeṣu vanakuṃjeṣu grāmeṣu nagareṣu ca 37| na kurvaṃti bhayaṃ tīvraṃ siṃhānāmiha parvate | manuṣyāṇāṃ mahābāho pālitāstava tejasā 38| tvayā tyaktā amī sarve bālakā mama dārakāḥ | dīnāścaivākulāścaiva bhaviṣyaṃti vicetanāḥ 39| nityameva sukhaṃ vartma gatvā paśyaṃti bālakāḥ | patihīnā yathā nārī śobhate naiva śobhanā 40| alaṃkṛtā yathā divyairalaṃkāraiḥ sakāṃcanaiḥ | paricchadai ratnavastraiḥ pitṛmātṛsahodaraiḥ 41| śvaśrūśvaśurakaiścānyaiḥ patihīnā na bhāti sā | caṃdrahīnā yathā rātrī putrahīnaṃ yathā kulam 42| dīpahīnaṃ yathā gehaṃ naiva bhāti kadācana | tvāṃ vināyaṃ tathā yūtho naiva śobheta mānada 43| ācāreṇa vinā martyo jñānahīno yatiryathā | maṃtrahīno yathā rājā tathāyaṃ naiva śobhate 44| kaivartena vinā naurvā saṃpūrṇā parisāgare | na bhātyevaṃ yathā sārthaḥ sārthavāhena vai vinā 45| senādhyakṣeṇa ca vinā yathā sainyaṃ na bhāti ca | tvāṃ vinā vai tathā sainyaṃ śūkarāṇāṃ mahāmate 46| dīno bhaviṣyati tathā vedahīno yathā dvijaḥ | mayi bhāraṃ kuṭuṃbasya viniveśya pragacchasi 47| maraṇaṃ sulabhaṃ jñātvā kā pratijñā tavedṛśī | tvāṃ vināhaṃ na śaknomi dhartuṃ prāṇānpriyeśvara 48| tvayaiva sahitā svargaṃ bhūmiṃ vātha mahāmate | narakaṃ vāpi bhokṣyāmi satyaṃsatyaṃ vadāmyaham 49| tvaṃ vā putrāṃstupautrāṃstu gṛhītvā yūthamuttamam | āvāṃ vrajāva yūtheśa durgamevaṃ sukaṃdaram 50| jīvitavyaṃ parityajya raṇāya parigamyate | tatra ko dṛśyate lābho maraṇe vada sāṃpratam 51| vārāha uvāca- vīrāṇāṃ tvaṃ na jānāsi sudharmaṃ śṛṇu sāṃpratam | yuddhārthinā hi vīreṇa vīraṃ gatvā prayācitam 52| dehi me yodhanaṃ saṃkhye yuddhārthyahaṃ samāgataḥ | pareṇa yācitaṃ yuddhaṃ na dadāti yadā naraḥ 53| kāmāllobhādbhayādvāpi mohādvā śṛṇu vallabhe | kuṃbhīpāke tu narake vasedyugasahasrakam 54| kṣatriyāṇāṃ paro dharmo yuddhaṃ deyaṃ na saṃśayaḥ | tadyuddhaṃ dīyamānena raṇabhūmigatena vai 55| nirjitaṃ tu paraṃ tatra yaśaḥkīrttiṃ prabhuṃjate | sa vā hato yudhyamānaḥ pauruṣeṇātinirbhayaḥ 56| vīralokamavāpnoti divyānbhogānprabhuṃjate | yāvadvarṣasahasrāṇāṃ viṃśatyekāṃ priye śṛṇu 57| vīraloke vasettāvaddevācārairmahīyate | manuputraḥ samāyāta ayaṃ vīro na saṃśayaḥ 58| saṃgrāmaṃ yācamānastu yuddhaṃ deyaṃ mayā dhruvam | yuddhātithiḥ samāyāto viṣṇurūpaḥ sanātanaḥ 59| satkāro yuddharūpeṇa kartavyaśca mayā śubhe | śūkaryuvāca- yadā yuddhaṃ tvayā deyaṃ rājñe caiva mahātmane 60| tato'haṃ pauruṣaṃ kāṃta paśyāmi tava kīdṛśam | evamuktvā priyānputrānsamāhūya tvarānvitā 61| uvāca putrakā yūyaṃ śṛṇudhvaṃ vacanaṃ mama | yuddhātithiḥ samāyāto viṣṇurūpaḥ sanātanaḥ 62| mayā tatra pragaṃtavyaṃ yatrāyaṃ hi gamiṣyati | yāvattiṣṭhati vai nātho bhavatāṃ pratipālakaḥ 63| yūyaṃ gacchata vai dūraṃ durgaṃ giriguhāmukham | sukhaṃ jīvata me vatsā varjayitvā sulubdhakān 64| mayā tatraiva gaṃtavyaṃ yatraiṣa hi gamiṣyati | bhavatāṃ śreṣṭho'yaṃ bhrātā yūtharakṣāṃ kariṣyati 65| ete pitṛvyakāḥ sarve bhavatāṃ trāṇakārakāḥ | dūraṃ prayāta vai sarve māṃ vihāya suputrakāḥ 66| putrā ūcuḥ- ayaṃ hi parvataśreṣṭho bahumūlaphalodakaḥ | bhayaṃ tu kasya vai nāsti sukhaṃ jīvanamasti vai 67| yuvābhyāṃ hi akasmādvai idamuktaṃ bhayaṃkaram | tanno hi kāraṇaṃ mātarvada satyamihaiva hi 68| śūkaryuvāca-| ayaṃ rājā mahāraudraḥ kālarūpaḥ samāgataḥ | krīḍate mṛgayā lubdho mṛgānhatvā bahūnvane 69| ikṣvākurnāma durdharṣo manuputro mahābalaḥ | saṃhariṣyati kālo'yaṃ dūraṃ yāta suputrakāḥ 70| putrā ūcuḥ-| mātaraṃ pitaraṃ tyaktvā yaḥ prayāti sa pāpadhīḥ | mahāraudraṃ sughoraṃ tu narakaṃ pratipadyate 71| mātuḥ puṇyaṃ payaḥ pītvā puṣṭo bhavati nirghṛṇaḥ | mātaraṃ pitaraṃ tyaktvā yaḥ prayāti sudurbalaḥ 72| pūyaṃ narakametīha kṛmidurgaṃdhasaṃkulam | mātustasmānna yāsyāmo guruṃ tyaktvā ihaiva ca 73| evaṃ viṣādaḥ saṃjātasteṣāṃ dharmārthasaṃyutaḥ | vyūhaṃ kṛtvā sthitāḥ sarve balatejaḥ samākulāḥ 74| sāhasotsāhasaṃpannāḥ paśyaṃti nṛpanaṃdanam | nadaṃtaḥ pauruṣairyuktāḥ krīḍamānā vane tadā 75| iti śrīpadmapurāṇe bhūmikhaṃḍe venopākhyāne sukalācaritre dvicatvāriṃśattamo'dhyāyaḥ 42|

English translation

The friends said :

1. Who is that Sudevā about whom you talked? Tell us as to how she behaved. You have told (about her). Tell us the truth.

Sukalā said :

2-7a. The great, glorious king, Manu ’s son, Ikṣvāku by name, lived in Ayodhyā . He knew the rules of conduct; he was exclusively devoted to religious ends; he knew everything, and he honoured gods and brāhmaṇas ; his wife was ever meritorious and devoted to her husband. With her he performed many sacrifices and (visited) various holy places. Sudevā, devoted to truthful conduct, was the daughter of Vedarāja, the brave and illustrious king of Kāśī . King Ikṣvāku married her. Sudevā was beautiful in all limbs, and was devoted to the vow of truth. With her, his beloved,the best king, the meritorious leader of people, enjoyed.

7b-17. Once that great king went with her to a forest. Having reached a forest (on the bank) of Gaṅgā , he always enjoyed hunting, (by) killing lions, boars, elephants and buffaloes. In front of him, who was (thus) sporting, a boar, adorned with (i.e. accompanied by) a large herd of boars and (his) sons and grandsons, arrived. His only beloved female hog remained by his side. With (other) boars and hogs she surrounded him only. The hog, seeing the king of kings who was difficult to conquer and who was engaged in hunting, remained very courageously with his wife and by his sons, grandsons, elders and young ones after having taken the shelter of a mountain. O great king, knowing the great slaughter of those beasts (in the forest), the hog said to his sons, grandsons and wife: “O darling, the very powerful and brave lord of Kosala , Manu’s son, is enjoying hunting, and is destroying many beasts. There is no doubt that the great king, after seeing me, will come here. I have certainly no danger to my life from other hunters; (but) the king, seeing my form, will not forgive me. O dear one, there is no doubt that he, the very lustrous one, full of great joy, with arrows in his hand, holding a bow, accompanied by dogs and surrounded by hunters, will kill me.”

The female hog said :

18-19. O dear one, whenever, in this great forest, you see many hunters equipped with many weapons, you give up your great courage, power and valour, and with your heart dejected through great fear, run away, along with these my sons and grandsons. (Now) seeing this lord of kings and the best of men, what will you do? O dear one, tell me the reason.

20-32. Hearing her words, the boar, the king of hogs, gave the (following) answer to her: “O dear one, listen why I am afraid of a great hunter and go away. Hearing the (sound of) hogs, the great hunters, who are sinful and cunning, commit evils in the inaccessible caves of the mountain. They all are always wicked, always conceive many sins, and are born in the families of sinners. I am scared of dying at their hands; (for) though I die (after being shot by them), I shall again go to a sinful (existence). O darling, scared of an untimely death, I shall go away to a mountain or a mountain-cave. This king, greater than the world, a king of the nature of Viṣṇu , has come. O dear one, on the battlefield I shall fight with valour and bravery with the glorious one. If, by means of my own lustre I shall conquer the king, I shall enjoy incomparable fame on the earth. (If I am) killed in the battle by that best hero, I shall go to Viṣṇu’s heaven. The lord of the earth will be highly satisfied with the flesh and marrow of my body. Due to him the deities of the good worlds will be gratified. This one, with the thunderbolt in his hand, has come. O beautiful one, when I meet with death at his hands, it will be a gain and excellent fame for me. Due to him I shall have glory on the earth and in the three worlds; (and) I (shall) go to Viṣṇu’s world. I was not scared like this; I went agitated, (so) I went to the mountain-peaks. I went there as I was afraid of a sinful (hunter), O dear one; (and) on seeing (this king practising) piety, I have remained (here). I do not know my former sin, committed in another (i.e. former) existence, by the accumulation of which, I went to (i.e. was born in) the species of hogs. I shall (now) wash the former, terrible accumulation of sins with the water of hundreds of very sharp and whetted arrows. O you female hog, giving up your love for me, and taking with you our sons, grandsons, daughters and children in the family, go to the mountain, Give up your folly (i.e. foolish love) for me. This Viṣṇu has come. By his hand (i.e. killed by him) I shall go to that highest position of Viṣṇu. Fortune also has laid open the gates of heaven for me. I shall go to the best heaven.”

Sukalā said :

33. O friends, having heard those words of the magnanimous hog, his beloved, with her heart sinking, then spoke.

The female hog said :

34-51. The herd, of which you are the lord, (shines) being adorned by sons, grandsons, friends, brothers and other kinsmen and relatives. The herd, adorned by you only, shines. O you glorious one, what will be the condition of this herd without you? O dear one, due to your power only these roaring boars, my young sons, roam on the mountain. Fearless on account of your lustre, they eat well the bulbs and roots. Due to your lustre, they are not very much scared of lions and men in inaccessible places, forest-bowers, villages and cities and on this mountain, as they are protected by your lustre, O you very valorous one. Abandoned by you, all these young sons of me will be afflicted, confounded and senseless. All these young ones will never see (i.e. have) a happy course after going (from here). A beautiful woman does not at all look charming without her husband. (Even though she is) decorated with divine, golden ornaments, garments, food, clothes, father, mother, brothers and sisters, mother-in-law, father-in-law and others, she does not shine without her husband, as the night without the moon, (or) a family without a son (does not shine), (or) as a house without a lamp never shines. Similarly, O you, who cut off (i.e. remove) the pride (of your enemies), the herd does not at all shine without you. As a man does not shine without (good) behaviour, (or) an ascetic does not shine without knowledge, (or) as a king does not shine without (good) counsel, in the same way this (herd) does not shine (without you). As a boat full (of goods) does not (go on well) in an ocean without a fisherman, (or) as a caravan does not (shine) without its leader, similarly this (herd) does not (shine without you). As an army does not shine without a general, similarly this army of hogs (does not shine) without you, O you highly intelligent one. It will be helpless like a brāhmaṇa without (the study of) the Veda . Having entrusted the responsibility of the family to me you are going (to fight). Knowing that death is easy (i.e. would come easily) how are you having such a pledge? O dear lord, I shall not be able to sustain my life without you. O you highly intelligent one, with you alone I shall enjoy heaven, earth or even hell. I am telling you the truth and the truth only. O lord of the herd, we two—you and I—taking the sons and grandsons and the excellent herd (with us) shall go to an inaccessible place with a big cave. One goes to fight (only) after abandoning (i.e. being prepared to abandon) one’s life. Tell me now what gain will there be in death (i.e. dying at the hands of the king)?

The boar said :

52-60a. You do not know the excellent way of life of the brave. Now listen to it. If a warrior desiring to fight with another warrior, goes to him (and says): ‘Fight with me, I have come (here) to fight (with you)’, (and if the man) does not give (i.e. is not ready to have) a fight with (that) other man through desire, greed or delusion, then, listen, O dear one, he would dwell in the Kumbhīpāka hell for a thousand yugas . There is no doubt that it is the highest duty of kṣatriyas to fight (when challenged to fight). If the fight fought by him after going to the battlefield is won by him, he enjoys great glory and fame. If he, extremely fearless due to his valour, is killed while fighting, he obtains (i.e. goes to) the world of the brave and enjoys divine pleasures. O dear one, listen, he would dwell in the world of the brave for twenty thousand years, and during that period he is honoured with the practices of gods. There is no doubt. Here comes the brave son of Manu, asking for a fight. I must certainly give it. The welcome guest asking for a fight, and of the form of the eternal Viṣṇu has arrived. O auspicious one, I must offer him a reception in the form of a fight.

The female hog said :

60b-61 a. O dear one, how shall I (be able to) see your valour when you would fight with the magnanimous king?

61b-66. Saying so, and hurriedly calling her dear sons, she said (to them): “O sons, listen to my words. The welcome guest in the form of the eternal Viṣṇu asking for a fight, has come. I have to go where this (my lord) will go. As long as (this my) lord, your protector, remains here, you go away to the inaccessible opening of a mountain-cave. O (my) children, live there happily, avoiding skilful hunters. I must go there only where he (i.e. my lord) will go. This your eldest brother will protect the herd. All these (your) uncles will protect you. O my good sons, leaving me (here), go away, all of you.”

The sons said :

67-68. This best mountain is full of many roots, fruits and much water. There is no fear for anyone. Life is happy. You have both, all of a sudden, uttered these, fearful (words). O mother, tell us the reason for all this.

The female hog said :

69-70. This very terrible king, of the form of Kāla (i.e. god of death) has arrived. Longing for hunting, he sports in the forest by killing many beasts. He is the very powerful and unassailable son of Manu, named Ikṣvāku. O my good sons, this (god of) death will kill (you). My good sons, go away.

The sons said :

71-73. He, who goes (away) after abandoning his mother and father is wicked-hearted. He goes to a very terrible and fearful hell. He who, after drinking the holy milk of his mother, becomes shameless and spiritless, and goes (away) leaving his mother and father, goes to a pussy hell, stinking with the bad smell of insects. Therefore, we shall leave (our) father here only, but shall take our mother (with us).

74-75. In this way depression of spirits for the sake of Dharma and Artha (moral duty and worldly interest) overcame them. All of them full of power and lustre remained after having grouped themselves into an array. Full of daring courage and energy, and with valour, they, roaring and sporting, saw (there) the king’s son.

Complete chapter-aligned witnesses. Sanskrit Wikisource page 20388, revision 335468 (2022-04-08T23:54:43Z). English is N. A. Deshpande’s complete translation, controlled against its chapter page at https://www.wisdomlib.org/hinduism/book/the-padma-purana/d/doc364249.html and the ten-volume archival witness. The witnesses are aligned at chapter level; no unsupported verse-by-verse equivalence is asserted.