Skip to main content

Uttara-khaṇḍa · Chapter 186

Chapter 186

Unit 598 of 693Uttara-khaṇḍa · Chapter 186Uttara-khaṇḍa · Chapter 1861 source entries

Uttara-khaṇḍa · Chapter 186

Source

[https://www.youtube.com/watch?v=l15dNy7Huv8 यूट्यूबोपरि हिन्दी रूपान्तरम्]; मार्कण्डेयपुराणे [https://sa.wikisource.org/s/1adg ८१] दुर्गासप्तशत्यां यः आख्यानः अस्ति, तत्र मुख्यतः त्रयः अभिनेतारः सन्ति - मेधाऋषिः, सुरथराजा एवं समाधिवैश्यः। किन्तु अस्मिन् आख्याने द्वौ अभिनेतारौ स्तः - बृहद्रथः एवं सिद्धसमाधिब्राह्मणः। अयं प्रतीयते यत् अश्वमेधे यः अश्वः ब्रह्माण्डस्य भ्रमणं करोति, तस्मिन् द्वौ गत्यौ निहितौ स्तः - प्रेति एवं एति। यदि अश्वः बहिर्गच्छति किन्तु न पुनरायाति, तर्हि एतिसंज्ञका गतिः दोषपूर्णा अस्ति। प्रेति - समाधिं प्रति गमनम्। एति - समाधितः व्युत्थानम्। समाधितः व्युत्थाने ये दोषाः विद्यमानाः सन्ति, तेषां उपचारः सिद्धसमाधिसंज्ञकः ब्राह्मणः करोति। पुराणेषु उल्लेखाः सन्ति यत् क्षत्रियवीरस्य यः इषुः भवति, तत् शत्रुरुपरि घातं कृत्वा पुनः आवर्तनं कर्तुं शक्यते। महाभारते सौप्तिकपर्वे [https://sa.wikisource.org/s/2o7 १५.७] अश्वत्थामा एवं अर्जुनः परस्परयुद्धे दिव्यास्त्रयोः प्रयोगं कुर्वन्तः। सत्परामर्शोपरि, अर्जुनः स्वअस्त्रस्य आवर्तनं करोति, न अश्वत्थामा। कारणं - यः ब्रह्मचारी अस्ति, सैव आवर्तनकर्तुं शक्यते - ब्रह्मतेजोद्भवं तद्धि विसृष्टमकृतात्मना। न शक्यमावर्तयितुं ब्रह्मचर्यव्रतादृते।।) महादेव उवाच- अस्ति कोल्हापुरंपुराणेषु अन्यत्र कोलापुरः संज्ञा अस्ति - बभूवुः शत्रवो भूपाः कोलाविध्वंसिनस्तथा॥ (मार्कण्डेयपुराणम् [https://sa.wikisource.org/s/aqy ८१.४]), कोलानाम्नीं राजधानीं रुरुधुस्तस्य भूपतेः ।।- शिव [https://sa.wikisource.org/s/zho ५.४५.१७]। अयं कोला कुलः अस्ति, अथवा अन्यत् किंचित् भवति, अन्वेषणीयः। रजनीशमहोदयानुसारेण, हृदयस्य अनाहतचक्रस्य गुणः अयमस्ति यत् चेतनायाः अस्तित्वं पात्रतः बहिरपि अस्ति, अन्तरे अपि। कण्ठोपरि यः विशुद्धिचक्रः अस्ति, तस्मात् चेतनायाः बहिर्गमने - अन्तरागमने कोपि बाधा नास्ति। यः अनाहतचक्रः अस्ति, तत् वायोः महाभूतस्य स्थानमस्ति। अस्य अभिव्यक्तिः षट्कोणेन भवति। अयं षट्कोणः आधुनिकविज्ञाने कोल - कार्बनसंज्ञकस्य तत्त्वस्य आन्तरिकसंरचनायाः परिचायकः अस्ति। नाम नगरं दक्षिणापथे । सुखानां सदनं साध्वि साधूनां सिद्धिसंभवम् १। परशक्तेः परंपीठं सर्वदेवनिषेवितम् । पुराणेषु प्रसिद्धं यद्भुक्तिमुक्तिफलप्रदम् २। कोटिशस्तत्र तीर्थानि शिवलिंगानि कोटिशः । आस्ते रुद्रगया यत्र विशालं लोकविश्रुतम् ३। तुंगाचलमहावप्र गोपुरोल्लासितोरणम् । प्रासादशिखरे यत्र तुंगं च कनकध्वजम् ४। सोमकांतिमहासौधवलभीपंक्तिशोभितम् । जालरंध्रोद्गिरद्धूपधूमाऽमोदितदिक्तटम् ५। चलत्पताकविस्तीर्णच्छायं देवालयान्वितम् । चतुरैः सुंदरैः स्निग्धैः श्रीमद्भिः शुचिमानसैः ६। अधिष्ठितं सदाचारैः पुरुषेर्भूरिभूषणैः । कुरंगनयनाश्चंद्रवदनाः कुटिलालकाः ७। उत्फुल्लचंपकच्छायाः पीनतुंगपयोधराः । कृशमध्या निम्ननाभि वलित्रयविराजिताः ८। विशालजघनाश्चारुजंघा युग्मा वरांघ्रयः । वाचालमेखलादामनिक्वणन्मणिनूपुराः ९। रणत्कंकणहस्ताब्ज स्फुरत्करज रश्मयः । वसंति प्रमदा यत्र मादयंत्यो मुनीनपि १०। समस्तवस्तुसंयुक्तं सर्वभोगसमन्वितम् । मंगलैः सकलैर्युक्तं महालक्ष्मीसमन्वितम् ११। तत्रागच्छत्पुमान्कश्चिद्युवा गौरं सुलोचनः । कंबुकंठः पृथुस्कंधो महावक्षा महाभुजः १२। समस्तलक्षणोपेतो गोचरासक्तमानसः । प्रविश्य नगरं पश्यन्शोभां सौधेषु सर्वतः १३। उत्कंठितमना द्रष्टुं महालक्ष्मीं सुरेश्वरीम् । मणिकुंडे कृतः स्नानः संपन्न पितॄतर्पणः १४। महालक्ष्मीं महामायां नत्वा तुष्टाव भक्तितः । जयत्यपारकरुणाशरण्या जगदंबिका १५। कुर्वाणा जगतो जन्म पालनं क्षपणं दृशा । यया शक्त्या कृतादिष्टः परमेष्ठी सृजत्यसौ १६। अवष्टभ्य च तां शक्तिं पालयत्यच्युतो जगत् । यया शक्त्या कृतावेशः संहरत्यखिलं हरः १७। तां भजे परमां शक्तिं सर्गस्थितिलयोर्जिताम् । योगिध्येयांघ्रिकमले कमले कमलालये १८। स्वभावानखिलान्नस्त्वं गृह्णासींद्रियगोचरान् । त्वमेव कल्पनाजालं तत्कल्पं कुरुषे मनः १९। इच्छाज्ञानक्रियारूपा परसंवित्स्वरूपिणी । निष्फला निर्मला नित्या निराकारा निरंजना २०। निरंतरा निरातंका निरालंबा निरामया । तवैवं महिमानं हि को वर्णयितुमीशते २१। वंदे निर्भिन्नषट्चक्रद्वादशांतर्विहारिणीम् । अनाहतध्वनिमयीं बिंदुनादकलात्मिकाम् २२ । मातस्त्वं पूर्णशीतांशु गलत्पीयूषवाहिनी । पुष्णासि वत्सले बालान्सनकादीन्दिगंबरान् २३। अनुस्यूता शिवा संविज्जाग्रत्स्वप्नसुषुप्तिषु । तुरीयायां वर्त्तमानां दयासूनृतसंधिषु २४। ददासि प्राणिनां सर्वाः सततं ब्रह्मसंपदः । संहृत्य तत्वसंघातं तुरीयातीतया त्वया २५। योगिनां बिंबतादत्म्यं दीयते निर्विकल्पया । परां नमामि पश्यंतीं मध्यमां वैखरीमपि २६। रूपाणि देवि गृह्णासि जगत्संत्राणहेतवे । त्वं ब्राह्मी वैष्णवी च त्वं माहेशी च त्वमंबिके २७। वाराहि त्वं महालक्ष्मीर्नारसिंही त्वमैंद्रिका । त्वं कौमारी चंडिका त्वं लक्ष्मीस्त्वं विश्वपावनी २८। सावित्री त्वं जगन्माता शशिनी त्वं च रोहिणी । त्वं स्वाहा त्वं स्वधा त्वं हि त्वं सुधा परमेश्वरी २९। चंडमुंडभुजादंडखंडदोर्दंडमंडिते । रक्तबीजगलद्रक्तपानघूर्णितलोचने ३०। उन्मत्तमहिषग्रीवोन्मूलनप्रौढ दोर्युगे । शुंभासुरमहादैत्यदारणायातविक्रमे ३१। अनंतचरिते तुभ्यं नमस्त्रैलोक्यमातृके । भक्तकल्पलते मह्यं प्रसीद परमेश्वरि ३२। इति तेन स्तुता देवी महालक्ष्मीस्ततः स्वयम् । निजरूपं समास्थाय पुरुषं प्रत्युवाच तम् ३३। श्रीलक्ष्मीरुवाच-। राजपुत्र प्रसन्नाऽहं वृणीष्व वरमुत्तमम् । राजपुत्र उवाच। पिता मे धरणीपालो वाजिमेधं महाक्रतुम् ३४। कुर्वाणो दैवयोगेन रोगाक्रांतो दिवं ययौ । तद्वपुस्तप्ततैलेन शोषयित्वा मया ततः ३५। स्थापितस्तत्र यागोऽसौ यथापूर्वमवर्तत । अथ क्रांतमहीचक्रो यूपे यागतुरंगमः ३६। निशीथे बंधनं हित्वा नीतः केनापि कुत्रचित् । अदृष्ट्वा तद्गतं क्वापि निवृत्तेषु जनेष्वहम् ३७। आमंत्र्य ऋत्विजः सर्वाञ्छरणं त्वामुपागतः । प्रसन्ना यदि देवि त्वं तन्मे यागतुरंगमः ३८। दृष्टो भवतु यागोऽसौ संपूर्णो जायते यथा । आनृण्यं मम तातस्य तेन राज्ञो भविष्यति ३९। तथा कुरु जगद्धात्रि शरणागतवत्सले । देव्युवाच। ममद्वारं द्विजः सिद्धसमाधिरिति विश्रुतः ४०। ममाज्ञया स ते सर्वं कार्यं निष्पादयिष्यति । इत्युक्तः श्रीमहालक्ष्म्या ततो राजकुमारकः ४१। आजगाम मुनिः सिद्धसमाधिर्यत्र तिष्ठति । प्रणम्य तस्यपादाब्जं कृतांजलिरवस्थितः ४२। तमुवाच ततो विप्रः प्रहितोऽसि त्वमंबया । त्वदीप्सितमिदं सर्वं साधयामि विलोकय ४३। इत्युक्त्वा त्रिदशान्सर्वानाचकर्ष स मांत्रिकः । एक्षत क्षितिपालस्य तनयोऽसौ तदा सुरान् ४४। कृतांजलिपुटान्देवान्वेपमानकलेवरान् । अथ तानमरान्सर्वान्संबभाषे द्विजोत्तमः ४५। अमुष्य राजपुत्रस्य वाजी यज्ञाय कल्पितः । नीतोस्ति देवराजेन क्षपायामपहृत्य सः ४६। गीर्वाणा अश्वमेवास्य समानयत मा चिरम् । अथ तस्य मुनेर्वाक्याद्देवैर्यज्ञतुरंगमः ४७। समर्पितस्ततस्तेन तेऽनुज्ञात्वा दिवौकसः । आकृष्टानमरान्दृष्ट्वा गतं लब्ध्वा तुरंगमम् ४८। महीपतिसुतो नत्वा तं मुनिं वाक्यमब्रवीत् । आश्चर्यमिदमेतत्ते सामर्थ्यमृषिसत्तम ४९। कृतं त्वया चित्रमिदं त्रिदशाकर्षणं क्षणात् । हस्तादाकृष्य दत्तो मे यज्ञीयोऽयं तुरंगमः 6.186.५०। न किंचिदपरं यावद्दुष्करं यत्सुरैरपि । प्रभविष्यति तत्कर्तुं भवानेव न चापरः ५१। शृणु विप्र महीपाल पितासीन्मे बृहद्रथः । प्रारब्ध हयमेधोऽसौ दैवेन निधनं गतः ५२। अद्यापि तस्य देहोस्ति तप्ततैलेन शोषितः । तस्य संजीवनं भूयः कर्त्तुमर्हसि सत्तम ५३। इत्याकर्ण्य स्मितं कृत्वा स जगाद महामुनिः । यामस्तत्र पिता यत्र तावको यागमंडपः ५४। अथागत्य समं तेन तत्र सिद्धः समाधिना । पयोऽभिमंत्र्य विदधे तस्य प्रेतस्य मूर्द्धनि ५५। ततः प्राप नृपः संज्ञामुत्तस्थे वै ददर्श च । स तं पप्रच्छ विप्रेंद्रं कोऽसि धर्मेति भूपतिः ५६। ततो राजसुतः सर्वं भूपालाय न्यवेदयत् । स नत्वा ब्राह्मणं राजा तं पुनर्दत्तजीवितम् ५७। बभाषे केन पुण्येन त्वयि शक्तिरलौकिकी । यया मे जीवितं दत्तमाकृष्टाश्च दिवौकसः ५८। यागश्चोद्धरितो विप्र येनमेतन्निरूपय । इत्युक्तस्तेनविप्रोऽसौ जगाद श्लक्ष्णया गिरा ५९। गीतानां द्वादशाध्यायं जपाम्यहमतंद्रितः । तेन शक्तिरियं राजन्यया प्राप्तोसि जीवितम् ६०। एतदाकर्ण्य राजाऽसौ द्वादशाध्यायमुत्तमम् । पपाठ तस्माद्विप्रर्षेः सकाशात्ब्राह्मणान्वितम् ६१। तस्याध्यायस्य माहत्म्यात्ते सर्वे सद्गतिं ययुः । अन्ये पठित्वा जीवाश्च मुक्तिमापुरहो पराम् ६२। इति श्रीपाद्मे महापुराणे पंचपंचाशत्सहस्रसंहितायामुत्तरखंडे गीतामाहात्म्ये षडशीत्यधिकशततमोऽध्यायः १८६।

[https://www.youtube.com/watch?v=l15dNy7Huv8 yūṭyūbopari hindī rūpāntaram]; mārkaṇḍeyapurāṇe [https://sa.wikisource.org/s/1adg 81] durgāsaptaśatyāṃ yaḥ ākhyānaḥ asti, tatra mukhyataḥ trayaḥ abhinetāraḥ santi - medhāṛṣiḥ, suratharājā evaṃ samādhivaiśyaḥ| kintu asmin ākhyāne dvau abhinetārau staḥ - bṛhadrathaḥ evaṃ siddhasamādhibrāhmaṇaḥ| ayaṃ pratīyate yat aśvamedhe yaḥ aśvaḥ brahmāṇḍasya bhramaṇaṃ karoti, tasmin dvau gatyau nihitau staḥ - preti evaṃ eti| yadi aśvaḥ bahirgacchati kintu na punarāyāti, tarhi etisaṃjñakā gatiḥ doṣapūrṇā asti| preti - samādhiṃ prati gamanam| eti - samādhitaḥ vyutthānam| samādhitaḥ vyutthāne ye doṣāḥ vidyamānāḥ santi, teṣāṃ upacāraḥ siddhasamādhisaṃjñakaḥ brāhmaṇaḥ karoti| purāṇeṣu ullekhāḥ santi yat kṣatriyavīrasya yaḥ iṣuḥ bhavati, tat śatrurupari ghātaṃ kṛtvā punaḥ āvartanaṃ kartuṃ śakyate| mahābhārate sauptikaparve [https://sa.wikisource.org/s/2o7 15.7] aśvatthāmā evaṃ arjunaḥ parasparayuddhe divyāstrayoḥ prayogaṃ kurvantaḥ| satparāmarśopari, arjunaḥ svaastrasya āvartanaṃ karoti, na aśvatthāmā| kāraṇaṃ - yaḥ brahmacārī asti, saiva āvartanakartuṃ śakyate - brahmatejodbhavaṃ taddhi visṛṣṭamakṛtātmanā| na śakyamāvartayituṃ brahmacaryavratādṛte||) mahādeva uvāca- asti kolhāpuraṃpurāṇeṣu anyatra kolāpuraḥ saṃjñā asti - babhūvuḥ śatravo bhūpāḥ kolāvidhvaṃsinastathā|| (mārkaṇḍeyapurāṇam [https://sa.wikisource.org/s/aqy 81.4]), kolānāmnīṃ rājadhānīṃ rurudhustasya bhūpateḥ ||- śiva [https://sa.wikisource.org/s/zho 5.45.17]| ayaṃ kolā kulaḥ asti, athavā anyat kiṃcit bhavati, anveṣaṇīyaḥ| rajanīśamahodayānusāreṇa, hṛdayasya anāhatacakrasya guṇaḥ ayamasti yat cetanāyāḥ astitvaṃ pātrataḥ bahirapi asti, antare api| kaṇṭhopari yaḥ viśuddhicakraḥ asti, tasmāt cetanāyāḥ bahirgamane - antarāgamane kopi bādhā nāsti| yaḥ anāhatacakraḥ asti, tat vāyoḥ mahābhūtasya sthānamasti| asya abhivyaktiḥ ṣaṭkoṇena bhavati| ayaṃ ṣaṭkoṇaḥ ādhunikavijñāne kola - kārbanasaṃjñakasya tattvasya āntarikasaṃracanāyāḥ paricāyakaḥ asti| nāma nagaraṃ dakṣiṇāpathe | sukhānāṃ sadanaṃ sādhvi sādhūnāṃ siddhisaṃbhavam 1| paraśakteḥ paraṃpīṭhaṃ sarvadevaniṣevitam | purāṇeṣu prasiddhaṃ yadbhuktimuktiphalapradam 2| koṭiśastatra tīrthāni śivaliṃgāni koṭiśaḥ | āste rudragayā yatra viśālaṃ lokaviśrutam 3| tuṃgācalamahāvapra gopurollāsitoraṇam | prāsādaśikhare yatra tuṃgaṃ ca kanakadhvajam 4| somakāṃtimahāsaudhavalabhīpaṃktiśobhitam | jālaraṃdhrodgiraddhūpadhūmā'moditadiktaṭam 5| calatpatākavistīrṇacchāyaṃ devālayānvitam | caturaiḥ suṃdaraiḥ snigdhaiḥ śrīmadbhiḥ śucimānasaiḥ 6| adhiṣṭhitaṃ sadācāraiḥ puruṣerbhūribhūṣaṇaiḥ | kuraṃganayanāścaṃdravadanāḥ kuṭilālakāḥ 7| utphullacaṃpakacchāyāḥ pīnatuṃgapayodharāḥ | kṛśamadhyā nimnanābhi valitrayavirājitāḥ 8| viśālajaghanāścārujaṃghā yugmā varāṃghrayaḥ | vācālamekhalādāmanikvaṇanmaṇinūpurāḥ 9| raṇatkaṃkaṇahastābja sphuratkaraja raśmayaḥ | vasaṃti pramadā yatra mādayaṃtyo munīnapi 10| samastavastusaṃyuktaṃ sarvabhogasamanvitam | maṃgalaiḥ sakalairyuktaṃ mahālakṣmīsamanvitam 11| tatrāgacchatpumānkaścidyuvā gauraṃ sulocanaḥ | kaṃbukaṃṭhaḥ pṛthuskaṃdho mahāvakṣā mahābhujaḥ 12| samastalakṣaṇopeto gocarāsaktamānasaḥ | praviśya nagaraṃ paśyanśobhāṃ saudheṣu sarvataḥ 13| utkaṃṭhitamanā draṣṭuṃ mahālakṣmīṃ sureśvarīm | maṇikuṃḍe kṛtaḥ snānaḥ saṃpanna pitṝtarpaṇaḥ 14| mahālakṣmīṃ mahāmāyāṃ natvā tuṣṭāva bhaktitaḥ | jayatyapārakaruṇāśaraṇyā jagadaṃbikā 15| kurvāṇā jagato janma pālanaṃ kṣapaṇaṃ dṛśā | yayā śaktyā kṛtādiṣṭaḥ parameṣṭhī sṛjatyasau 16| avaṣṭabhya ca tāṃ śaktiṃ pālayatyacyuto jagat | yayā śaktyā kṛtāveśaḥ saṃharatyakhilaṃ haraḥ 17| tāṃ bhaje paramāṃ śaktiṃ sargasthitilayorjitām | yogidhyeyāṃghrikamale kamale kamalālaye 18| svabhāvānakhilānnastvaṃ gṛhṇāsīṃdriyagocarān | tvameva kalpanājālaṃ tatkalpaṃ kuruṣe manaḥ 19| icchājñānakriyārūpā parasaṃvitsvarūpiṇī | niṣphalā nirmalā nityā nirākārā niraṃjanā 20| niraṃtarā nirātaṃkā nirālaṃbā nirāmayā | tavaivaṃ mahimānaṃ hi ko varṇayitumīśate 21| vaṃde nirbhinnaṣaṭcakradvādaśāṃtarvihāriṇīm | anāhatadhvanimayīṃ biṃdunādakalātmikām 22 | mātastvaṃ pūrṇaśītāṃśu galatpīyūṣavāhinī | puṣṇāsi vatsale bālānsanakādīndigaṃbarān 23| anusyūtā śivā saṃvijjāgratsvapnasuṣuptiṣu | turīyāyāṃ varttamānāṃ dayāsūnṛtasaṃdhiṣu 24| dadāsi prāṇināṃ sarvāḥ satataṃ brahmasaṃpadaḥ | saṃhṛtya tatvasaṃghātaṃ turīyātītayā tvayā 25| yogināṃ biṃbatādatmyaṃ dīyate nirvikalpayā | parāṃ namāmi paśyaṃtīṃ madhyamāṃ vaikharīmapi 26| rūpāṇi devi gṛhṇāsi jagatsaṃtrāṇahetave | tvaṃ brāhmī vaiṣṇavī ca tvaṃ māheśī ca tvamaṃbike 27| vārāhi tvaṃ mahālakṣmīrnārasiṃhī tvamaiṃdrikā | tvaṃ kaumārī caṃḍikā tvaṃ lakṣmīstvaṃ viśvapāvanī 28| sāvitrī tvaṃ jaganmātā śaśinī tvaṃ ca rohiṇī | tvaṃ svāhā tvaṃ svadhā tvaṃ hi tvaṃ sudhā parameśvarī 29| caṃḍamuṃḍabhujādaṃḍakhaṃḍadordaṃḍamaṃḍite | raktabījagaladraktapānaghūrṇitalocane 30| unmattamahiṣagrīvonmūlanaprauḍha doryuge | śuṃbhāsuramahādaityadāraṇāyātavikrame 31| anaṃtacarite tubhyaṃ namastrailokyamātṛke | bhaktakalpalate mahyaṃ prasīda parameśvari 32| iti tena stutā devī mahālakṣmīstataḥ svayam | nijarūpaṃ samāsthāya puruṣaṃ pratyuvāca tam 33| śrīlakṣmīruvāca-| rājaputra prasannā'haṃ vṛṇīṣva varamuttamam | rājaputra uvāca| pitā me dharaṇīpālo vājimedhaṃ mahākratum 34| kurvāṇo daivayogena rogākrāṃto divaṃ yayau | tadvapustaptatailena śoṣayitvā mayā tataḥ 35| sthāpitastatra yāgo'sau yathāpūrvamavartata | atha krāṃtamahīcakro yūpe yāgaturaṃgamaḥ 36| niśīthe baṃdhanaṃ hitvā nītaḥ kenāpi kutracit | adṛṣṭvā tadgataṃ kvāpi nivṛtteṣu janeṣvaham 37| āmaṃtrya ṛtvijaḥ sarvāñcharaṇaṃ tvāmupāgataḥ | prasannā yadi devi tvaṃ tanme yāgaturaṃgamaḥ 38| dṛṣṭo bhavatu yāgo'sau saṃpūrṇo jāyate yathā | ānṛṇyaṃ mama tātasya tena rājño bhaviṣyati 39| tathā kuru jagaddhātri śaraṇāgatavatsale | devyuvāca| mamadvāraṃ dvijaḥ siddhasamādhiriti viśrutaḥ 40| mamājñayā sa te sarvaṃ kāryaṃ niṣpādayiṣyati | ityuktaḥ śrīmahālakṣmyā tato rājakumārakaḥ 41| ājagāma muniḥ siddhasamādhiryatra tiṣṭhati | praṇamya tasyapādābjaṃ kṛtāṃjaliravasthitaḥ 42| tamuvāca tato vipraḥ prahito'si tvamaṃbayā | tvadīpsitamidaṃ sarvaṃ sādhayāmi vilokaya 43| ityuktvā tridaśānsarvānācakarṣa sa māṃtrikaḥ | ekṣata kṣitipālasya tanayo'sau tadā surān 44| kṛtāṃjalipuṭāndevānvepamānakalevarān | atha tānamarānsarvānsaṃbabhāṣe dvijottamaḥ 45| amuṣya rājaputrasya vājī yajñāya kalpitaḥ | nītosti devarājena kṣapāyāmapahṛtya saḥ 46| gīrvāṇā aśvamevāsya samānayata mā ciram | atha tasya munervākyāddevairyajñaturaṃgamaḥ 47| samarpitastatastena te'nujñātvā divaukasaḥ | ākṛṣṭānamarāndṛṣṭvā gataṃ labdhvā turaṃgamam 48| mahīpatisuto natvā taṃ muniṃ vākyamabravīt | āścaryamidametatte sāmarthyamṛṣisattama 49| kṛtaṃ tvayā citramidaṃ tridaśākarṣaṇaṃ kṣaṇāt | hastādākṛṣya datto me yajñīyo'yaṃ turaṃgamaḥ 6.186.50| na kiṃcidaparaṃ yāvadduṣkaraṃ yatsurairapi | prabhaviṣyati tatkartuṃ bhavāneva na cāparaḥ 51| śṛṇu vipra mahīpāla pitāsīnme bṛhadrathaḥ | prārabdha hayamedho'sau daivena nidhanaṃ gataḥ 52| adyāpi tasya dehosti taptatailena śoṣitaḥ | tasya saṃjīvanaṃ bhūyaḥ karttumarhasi sattama 53| ityākarṇya smitaṃ kṛtvā sa jagāda mahāmuniḥ | yāmastatra pitā yatra tāvako yāgamaṃḍapaḥ 54| athāgatya samaṃ tena tatra siddhaḥ samādhinā | payo'bhimaṃtrya vidadhe tasya pretasya mūrddhani 55| tataḥ prāpa nṛpaḥ saṃjñāmuttasthe vai dadarśa ca | sa taṃ papraccha vipreṃdraṃ ko'si dharmeti bhūpatiḥ 56| tato rājasutaḥ sarvaṃ bhūpālāya nyavedayat | sa natvā brāhmaṇaṃ rājā taṃ punardattajīvitam 57| babhāṣe kena puṇyena tvayi śaktiralaukikī | yayā me jīvitaṃ dattamākṛṣṭāśca divaukasaḥ 58| yāgaścoddharito vipra yenametannirūpaya | ityuktastenavipro'sau jagāda ślakṣṇayā girā 59| gītānāṃ dvādaśādhyāyaṃ japāmyahamataṃdritaḥ | tena śaktiriyaṃ rājanyayā prāptosi jīvitam 60| etadākarṇya rājā'sau dvādaśādhyāyamuttamam | papāṭha tasmādviprarṣeḥ sakāśātbrāhmaṇānvitam 61| tasyādhyāyasya māhatmyātte sarve sadgatiṃ yayuḥ | anye paṭhitvā jīvāśca muktimāpuraho parām 62| iti śrīpādme mahāpurāṇe paṃcapaṃcāśatsahasrasaṃhitāyāmuttarakhaṃḍe gītāmāhātmye ṣaḍaśītyadhikaśatatamo'dhyāyaḥ 186|

English translation

[ Note : this page corresponds to chapter 186 of the Book 6 (Uttarakhaṇḍa) of the translation of The Padmapurāṇa ]

Mahādeva said :

1-11. In the southern country there is a city named Kolhā-pura . O good one, it is the abode of pleasures, and the source of accomplishment of superhuman powers for the good ones. It is a great seat of the Parāśakti (Supreme Power), and is resorted to by all gods. It is well-known in the Purāṇas as giving enjoyments and salvation. There are crores of holy places there, and crores of phalluses of Śiva . There is Rudragayā It is large and well-known in the world. The ramparts are like high mountains, and the banners on the gates are shining. On the top of the palace there is a high golden banner. The city is adorned with a row of high mansions and topmost of the houses resembling the moon. The quarters were made fragrant with the smoke of the incense coming out of the holes of windows. It has a great shadow due to the moving banners. It is endowed with temples. It is inhabited by clever, handsome, affectionate, rich, pure men, of good conduct and having many ornaments. Women live there, whose eyes are like those of deer, whose faces resemble the moon, whose hair is curly, who resemble the blooming campaka , whose breasts are stout and high, who are adorned with deep navels and three folds (on their bellies), whose hips are large, whose pairs of shanks are charming, whose feet are excellent, whose girdles are making sounds, whose jewelled anklets are jingling, whose lotus-like hands have bracelets that are tinkling, and the rays from whose nails are flashing, and that fascinate even sages. The city is endowed with all objects, and full of all enjoyments. It possesses all auspicious things, and has Mahālakṣmī (living in it).

12-33. There came some young, fair man of charming eyes. His neck was conch-like; his shoulders were broad; his chest was large; his arms were long. He was endowed with all (good) marks; was fair and handsome in all limbs. Entering the city he saw the beauty in all the high mansions. His mind was eager to see Mahālakṣmī, the chief goddess. He bathed in Maṇikuṇḍa and offered oblations to his dead ancestors. Having seen Mahālakṣmī, Mahāmāyā , he devoutly praised her. “The mother of the world, the protector, having infinite pity, brings about by her glance the existence and protection of the world. Lord Brahmā ordered by that Power creates (the world). ViṣṇU depending upon that Power, maintains the world. Śiva being entered by that Power destroys everything. I worship that great Power, mighty due to her creating, maintaining and destroying (the world). O you whose lotus-like feet are meditated upon by meditating ascetics, O Kamalā , O you having a lotus as your abode, You grasp all our innate properties within the range of the senses. You alone are the mass of thoughts. You make the mind fit for that. You are of the form of desires, knowledge and acts. You are of the form of the highest consciousness. You desire no fruit; you are spotless; you are eternal; you are formless; you are unstained. You are constant; you are free from agony; you are independent; you are free from disease. Who is capable of describing your greatness like this? I salute you, moving in the twelve (months) after disclosing the collection of the six (seasons). You are of the nature of anāhata śabda 1 (sound produced without beating); you are of the nature of nāda 1 , bindu 1 and kalā 1 . O mother, you are the river of the nectar oozing from the full moon. O affectionate one, you nourish children like Sanaka etc. who are naked. You are auspicious, consciousness attached to (the states of) waking, dream and deep sleep. You are in the fourth state; you are in the combination of pity and courteous language. To all living beings the entire wealth of Brahman is given by you who are beyond the fourth state after having withdrawn the group of all the reals. By you who are indeterminate, identity with bimba (?) is granted to the yogins . I salute the Parā , Paśyantī , Madhyamā and Vaikharī (the four kinds of vāc—speech) also. O goddess, for the proper protection of the world you take up (various) forms. You are Brāhmī , Vaiṣṇavī , Māheśī , O mother. O Vārāhī , you are Mahālakṣmī, Nārasiṃhī and Aindrikā. You are Kaumārī , Caṇḍikā , Lakṣmī , the purifier of everything; you are Sāvitrī , the mother of the world, Śaśinī and Rohiṇī . You are Svāhā , Svadhā ; you are the divine nectar. You are Durgā ; you are adorned with a mass of clubs and staff-like arms. O you with your eyes reeling due to drinking blood dropping from the body of Raktabīja (a demon), O you having the strong pair of arms taken out from the neck of an intoxicated he-buffalo, O you who put in great valour in tearing the great demon called Śumbha , O you having unlimited acts, O you mother of the three worlds, I salute you. O you wish-fulfilling tree to your devotees, O you goddess, favour me.” Thus praised by him goddess Mahālakṣmī then took up her own form and spoke to that man.

Śrī Lakṣmī said :

34a. O prince, I am pleased, ask for an excellent boon.

The prince said :

34b-40a. My father, a king, while performing a great horse-sacrifice, was unfortunately overcome by a disease and died. Having dried his body with heated oil, I have kept it. The sacrifice continued as before. The horse that had wandered over the earth, (was tied) to a post. Someone at night cut off the bond and took him somewhere. When (my) men after not finding him, came back, I, addressing all priests, have sought your refuge. O goddess, if you are pleased, then may my horse of the sacrifice be seen, so that the sacrifice will be completed and my father, the king, will be free from debt. O mother of the world, O you who love those who seek your refuge, do like that.

The goddess said :

40b-42. A brāhmaṇa , known as Siddhasamādhi, is at my door. By my order he will accomplish all your work.

Thus addressed by Śrī Mahālakṣmī, the prince then came to the place where the sage Siddhasamādhi was. Having saluted his lotus-like feet, he stood there with his palms joined.

43-60. Then the brāhmaṇa said to him: “You are sent by Ambā . See, I shall accomplish all that is desired by you.” Speaking like this, the māntrika (knower of spells) drew (to his presence) all gods. The son of the king then saw the gods having joined their palms and with their bodies trembling. Then the best brāhmaṇa spoke to all the gods: “This prince’s horse meant for a sacrifice was snatched and taken away at night by the lord of gods. O gods, bring (back) his horse, do not delay.” Having heard the sage’s words, the gods gave him (back) the horse. He allowed the gods (to go). Having seen the gods drawn (by him), and having received the lost horse, the king’s son bowed to the sage, and said to him: “O best sage, this your power is a wonder. You have done a marvel by drawing on the gods in a moment. Having drawn the horse give me (back) my horse meant for the sacrifice. There is nothing else which is difficult to be done even by gods. You alone, and none else, will be capable of doing it. O brāhmaṇa, listen. My father was king Bṛhadratha . He commenced a horse-sacrifice, but died through (bad) luck. Even now his body lies, dried with heated oil. O best one, please bring him back to life again.” “We shall go there where (the body of) your father is, and where your sacrificial hall is.” Having come (there) along with that Siddhasamādhi, he consecrated water and threw it on the head of the dead body. Then the king got (back) consciousness, and saw (the people there). The king asked him: “O Dharma (i.e. pious one), who are you?” Then the prince told everything to the king. The king saluted the brāhmaṇa who had given (back) his life again. He said: “Due to which religious merit have you this uncommon power by means of which you gave (back) my life and called the gods, and also by means of which (power) you rescued the sacrifice? Tell (me) that”. Being thus addressed, the brāhmaṇa spoke in soft words. “I carefully mutter the twelfth chapter of the Gītā . Due to that (I have) this power by means of which you (re-)gained life.”

61-62. Hearing these words the king learnt the excellent twelfth chapter from that brāhmaṇa sage along with brāhmaṇas . Due to the greatness of that chapter all of them obtained good position. Other living beings also, after having recited it, obtained great salvation.

Complete chapter-aligned witnesses. Sanskrit Wikisource page 44905, revision 337158 (2022-05-05T00:48:17Z). English is N. A. Deshpande’s complete translation, controlled against its chapter page at https://www.wisdomlib.org/hinduism/book/the-bhagavad-gita-mahatmya/d/doc365768.html and the ten-volume archival witness. The witnesses are aligned at chapter level; no unsupported verse-by-verse equivalence is asserted.