Skip to main content

Pātāla-khaṇḍa · Chapter 82

Chapter 82

Unit 377 of 693Pātāla-khaṇḍa · Chapter 82Pātāla-khaṇḍa · Chapter 821 source entries

Pātāla-khaṇḍa · Chapter 82

Source

शिव उवाच- अथ दीक्षाविधिं वक्ष्ये शृणु नारद तत्त्वतः । श्रवणादेव मुच्येत विना तस्य विधानतः १। आविरंच्याज्जगत्सर्वं विज्ञाय नश्वरं बुधः । आध्यात्मिकादि त्रिविध दुःखमेवानुभूय च २। अनित्यत्वाच्च सर्वेषां सुखानां मुनिसत्तम । दुःखपक्षे विनिक्षिप्य तानि तेभ्यो विवर्जितः ३। विरज्य संसृतेर्हानौ साधनानि विचिंतयेत् । अनुत्तमसुखस्यापि संप्राप्तौ भृशनिर्वृतः ४। नराणां दुष्करत्वं हि विज्ञाय च महामतिः । भृशमार्त्तस्ततो विप्र मां गुरुं शरणं व्रजेत् ५। शांतो विमत्सरः कृष्णे भक्तोऽनन्यप्रयोजनः । अनन्यसाधनः श्रीमान्कामलोभविवर्जितः ६। श्रीकृष्णरसतत्त्वज्ञः कृष्णमंत्रविदां वरः । कृष्णमंत्राश्रयो नित्यं मंत्रभक्तः सदा शुचिः ७। सद्धर्मशासकोनित्यं सदाचारनियोजकः । संप्रदायी कृपापूर्णो विरागी गुरुरुच्यते ८। एवमादिगुणः प्रायः शुश्रूषुर्गुरुपादयोः । गुरौ नितांतभक्तश्च मुमुक्षुः शिष्य उच्यते ९। यत्साक्षात्सेवनं तस्य प्रेम्णा भागवतो भवेत् । स मोक्षः प्रोच्यते प्राज्ञैर्वेदवेदांगवेदिभिः १०। आश्रित्य स्वगुरोः पादौ निजवृत्तं निवेदयेत् । स संदेहानपाकृत्य बोधयित्वा पुनः पुनः ११। स्वपादप्रणतं शांतं शुश्रूषुं निजपादयोः । अतिहृष्टमनाः शिष्यं मनुमध्यापयेत्परम् १२। चंदनेन मृदा वापि विलिखेद्बाहुमूलयोः । वामदक्षिणयोर्विप्र शंखचक्रे यथाक्रमम् १३। ऊर्द्ध्वपुंड्रं ततः कुर्याद्भालादिषु विधानतः । ततोमंत्रद्वयं तस्य दक्षकर्णे विनिर्दिशेत् १४। मंत्रार्थं च वदेत्तस्मै यथावदनुपूर्वशः । दासशब्दयुतं नाम धार्यं तस्य प्रयत्नतः १५। ततोऽतिभक्त्या सस्नेहं वैष्णवान्भोजयेद्बुधः । श्रीगुरुं पूजयेच्चापि वस्त्रालंकरणादिभिः १६। सर्वस्वं गुरवे दद्यात्तदर्द्धं वा महामुने । स्वदेहमपि निक्षिप्य गुरौ स्थेयमकिंचनैः १७। य एतैः पंचभिर्विद्वान्संस्कारैः संस्कृतो भवेत् । दास्यभागी स कृष्णस्य नान्यथा कल्पकोटिभिः १८। अंकनं चोर्द्ध्वपुंड्रश्च मंत्रो नामविधारणम् । पंचमो याग इत्युक्ताः संस्काराः पूर्वसूरिभिः १९। अंकनं शंखचक्राद्यैः सच्छिद्रं पुंड्रमुच्यते । दासशब्दयुतं नाममंत्रो युगलसंज्ञकः २०। गुरुवैष्णवयोः पूजा याग इत्यभिधीयते । एते परमसंस्कारा मया ते परिकीर्तिताः २१। अथ तुभ्यं प्रपन्नानां धर्मान्वक्ष्यामि नारद । यानास्थाय गमिष्यंति हरिधाम नराः कलौ २२। इत्थं गुरोर्लब्धमंत्रो गुरुभक्तिपरायणः । सेवमानो गुरुं नित्यं तत्कृपां भावयेत्सुधीः २३। सतां धर्मां स्ततः शिक्षेत्प्रपन्नानां विशेषतः । स्वेष्टदेवधिया नित्यं वैष्णवान्परितोषयेत् २४। ताडनं भर्त्सनं कामिभोग्यत्वेन यथा स्त्रियः । गृह्णंति वैष्णवानां च तत्तद्ग्राह्यं तथा बुधैः २५। ऐहिक्यामुष्मिकी चिंता नैव कार्या कदाचन । ऐहिकं तु सदा भाव्यं पूर्वाचरितकर्मणा २६। आमुष्मिकं तथा कृष्णः स्वयमेव करिष्यति । अतो हि तत्कृते त्याज्यः प्रयत्नः सर्वथा नरैः २७। सर्वोपायपरित्यागः कृष्णीयात्मतयार्चनम् । सुचिरं प्रोषिते कांते यथा पतिपरायणा २८। प्रियानुरागिणी दीना तस्यसंगैककांक्षिणी । तद्गुणान्भावयेन्नित्यं गायत्यपि शृणोति च २९। श्रीकृष्णगुणलीलादि स्मरणादि तथाचरेत् । न पुनः साधनत्वेन कार्यं तत्तु कदाचन ३०। चिरं प्रोष्यागतं कांतं प्राप्य कांतधिया यथा । चुंबंती वा श्लिष्यंतीव नेत्रांते न पिबंत्यपि ३१। ब्रह्मानंदगतेवाशु सेवते परया मुदा । श्रीमदर्चावतारेण तथा परिचरेद्धरिम् ३२। अनन्यशरणो नित्यं तथैवानन्यसाधनः । अनन्यसाधनार्थत्वात्स्यादनन्य प्रयोजनः ३३। नान्यं च पूजयेद्देवं न नमेत्तं स्मरेन्न च । न च पश्येन्न गायेच्च न च निंदेत्कदाचन ३४। नान्योच्छिष्टं च भुंजीत नान्यशेषं च धारयेत् । अवैष्णवानां संभाषा वंदनादि विवर्जयेत् ३५। ईशवैष्णवयोर्निंदां शृणुयान्न कदाचन । कर्णौ पिधाय गंतव्यं शक्तौ दंडं समाचरेत् ३६। आश्रित्य चातकीं वृत्तिं देहपातावधि द्विज । द्वयस्यार्थं भावयित्वा स्थेयमित्येव मे मतिः ३७। सरः समुद्र नद्यादीन्विहाय चातको यथा । तृषितो म्रियते वापि याचते वा पयोधरम् ३८। एवमेव प्रयत्नेन साधनानि विचिंतयेत् । स्वेष्टदेवःसदायाच्योगतिस्त्वंमेभवेरिति ३९। स्वेष्टदेव तदीयानां गुरोरपि विशेषतः । आनुकूल्ये सदा स्थेयं प्रातिकूल्यं विवर्जयेत् ४०। सकृत्प्रपन्नो वक्ष्यामि कल्याणगुणतां तयोः । विचिंत्य विश्वसेदेतौ मामिमावुद्धरिष्यतः ४१। संसारसागरान्नाथ मित्र पुत्र गृहा कुलात् । गोप्तारौ मे युवामेव प्रपन्नभयभंजनौ ४२। योहं ममास्ति यत्किंचिदिह लोके परत्र च । तत्सर्वं भवतोरद्य चरणेषु समर्चितम् ४३। अहमस्म्यपराधानामालयस्त्यक्त साधनः । अगतिश्च ततो नाथौ भवंतावेव मे गतिः ४४। तवास्मि राधिकाकांत कर्मणा मनसा गिरा । कृष्णकांते तवैवास्मि युवामेव गतिर्मम ४५। शरणं वां प्रपन्नोऽस्मि करुणानिकराकरौ । प्रसादं कुरु तं दास्यं मयि दुष्टेऽपराधिनि ४६। इत्येवं जपता नित्यं स्थातव्यं पद्यपंचकम् । अचिरादेव तद्दास्यमिच्छता मुनिसत्तम ४७। बाह्यधर्मा मया ह्येते संक्षेपेणोपवर्णिताः । आंतरः परमो धर्मः प्रपन्नानामथोच्यते ४८। कृष्णप्रिया सखीभावं समाश्रित्य प्रयत्नतः । तयोः सेवां प्रकुर्वीत दिवानक्तमतंद्रितः ४९। उक्तो मंत्रस्तदंगानि तथा तस्याधिकारिणः । तद्धर्माश्च तथा तेभ्यः फलं मंत्रस्य नारद ५०। अनुतिष्ठ त्वमप्येतत्तयोर्दास्यमवाप्स्यसि । स्वाधिकारक्षये विप्र संदेहो नात्र कश्चन ५१। सकृन्मात्रप्रपन्नाय तवास्मीति च याचते । निजदास्यं हरिर्दद्यान्न मेऽत्रास्ति विचारणा ५२। अत्र ते वर्णयिष्यामि रहस्यं परमाद्भुतम् । श्रुतपूर्वं मया कृष्णात्साक्षाद्भगवतः परम् ५३। एष ते कथितो धर्म आंतरो मुनिसत्तम । गुह्यादेष गुह्यतमो गोपनीयः प्रयत्नतः ५४। मंत्ररत्नमहं पूर्वं जपन्कैलासमूर्द्धनि । ध्यायन्नारायणं देवमवसं गहने वने ५५। ततस्तु भगवांस्तुष्टः प्रादुरास ममाग्रतः । व्रियतां वर इत्युक्ते मयाप्युद्घाट्य लोचने ५६। दृष्टो देवःप्रिया सार्द्धं संस्थितो गरुडोपरि । प्रणिपत्यावोचमहं वरदं कमलापतिम् ५७। यद्रूपं ते कृपासिंधो परमानंददायकम् । सर्वानंदाश्रयं नित्यं मूर्तिमत्सर्वतोऽधिकम् ५८। निर्गुणं निष्क्रियं शांतं यद्ब्रह्मेति विदुर्बुधाः । तदहं द्रष्टुमिच्छामि चक्षुर्भ्यां परमेश्वर ५९। ततो मामाह भगवान्प्रपन्नं कमलापतिः । तदद्य द्रक्ष्यसे रूपं यत्ते मनसि कांक्षितम् ६०। यमुना पश्चिमे तीरे गच्छ वृंदावनं मम । इत्युक्त्वांतर्दधे देवः प्रियासार्द्धं जगत्पतिः ६१। अहमप्यागतस्तर्हि यमुनायास्तटं शुभम् । तत्र कृष्णमपश्यं च सर्वदेवेश्वरेश्वरम् ६२। गोपवेषधरं कांतं किशोरवयसान्वितम् । प्रियास्कंधे सुविन्यस्त वामहस्तं मनोहरम् ६३। हसंतं हासयतं तां मध्ये गोपीकदंबके । स्निग्धमेघसमाभासं कल्याणगुणमंदिरम् ६४। प्रहस्य च ततः कृष्णो मामाहामृतभाषणः । अहं ते दर्शनं यातो ज्ञात्वा रुद्र तवेप्सितम् ६५। यदद्य मे त्वया दृष्टमिदं रूपमलौकिकम् । घनीभूतामलप्रेम सच्चिदानंदविग्रहम् ६६। नीरूपं निर्गुणं व्यापि क्रियाहीनं परात्परम् । वदंत्युपनिषत्संघा इदमेव ममानघम् ६७। प्रकृत्युत्थगुणाभावादनंतत्वात्तथेश्वरम् । असिद्धत्वान्मद्गुणानां निर्गुणं मां वदंति हि ६८। अदृश्यत्वान्ममैतस्य रूपस्य चर्मचक्षुषा । अरूपं मां वदंत्येते वेदाः सर्वे महेश्वर ६९। व्यापकत्वाच्चिदंशेन ब्रह्मेति च विदुर्बुधाः । अकर्तृत्वात्प्रपंचस्य निष्क्रियं मां वदंति हि ७०। मायागुणैर्यतोमेंऽशा कुर्वंति सर्जनादिकम् । न करोमि स्वयं किंचित्सृष्ट्यादिकमहं शिव ७१। अहमासां महादेव गोपीनां प्रेमविह्वलः । क्रियांतरं न जानामि नात्मानमपि नारद ७२। विहराम्यनया नित्यमस्याः प्रेमवशीकृतः । इमां तु मत्प्रियां विद्धि राधिकां परदेवताम् ७३। अस्याश्च परितः पश्य सख्यः शतसहस्रशः । नित्याः सर्वा इमा रुद्र यथाहं नित्यविग्रहः ७४। गोपा गावो गोपिकाश्च सदा वृंदावनं मम । सर्वमेतन्नित्यमेव चिदानंदरसात्मकम् ७५। इदमानंदकंदाख्यं विद्धि वृंदावनं मम । यस्मिन्प्रवेशमात्रेण न पुनः संसृतिं विशेत् ७६। मद्वनं प्राप्य यो मूढः पुनरन्यत्र गच्छति । स आत्महा भवेदेव सत्यं सत्यं मयोदितम् ७७। वृंदावनं परित्यज्य नैव गच्छाम्यहं क्वचित् । निवसाम्यनया सार्द्धमहमत्रैव सर्वदा ७८। इत्येवं सर्वमाख्यातं यत्ते रुद्र हृदि स्थितम् । कथयस्व ममेदानीं किमन्यच्छ्रोतुमिच्छसि ७९। ततस्तमब्रवं देवमहं च मुनिसत्तम । ईदृशस्त्वं कथं लभ्यस्तमुपायं वदस्व मे ८०। ततो मामाह भगवान्साधु रुद्र तवोदितम् । अतिगुह्यतमं ह्येतद्गोपनीयं प्रयत्नतः ८१। सकृदावां प्रपन्नो यस्त्यक्तोपाय उपासते । गोपीभावेन देवेश स मामेति न चेतरः ८२। सकृदावां प्रपन्नो वा मत्प्रियामेकिकामुत । सेवतेनन्यभावेन स मामेति न संशयः ८३। यो मामेव प्रपन्नश्च मत्प्रियां न महेश्वर । न कदापि स चाप्नोति मामेवं ते मयोदितम् ८४। सकृदेव प्रपन्नोयस्तवास्मीति वदेदपि । साधनेन विनाप्येव मामाप्नोति न संशयः ८५। तस्मात्सर्वप्रयत्नेन मत्प्रियां शरणं व्रजेत् । आश्रित्य मत्प्रियां रुद्र मां वशीकर्त्तुमर्हसि ८६। इदं रहस्यं परमं मया ते परिकीर्तितम् । त्वयाप्येतन्महादेव गोपनीयं प्रयत्नतः ८७। त्वमप्येनां समाश्रित्य राधिकां मम वल्लभाम् । जपन्मे युगलं मंत्रं सदा तिष्ठ मदालये ८८। शिव उवाच-। इत्युक्त्वा दक्षिणे कर्णे मम कृष्णो दयानिधिः । उपदिश्य परं मंत्रं संस्कारांश्च विधाय हि ८९। सगणोंऽतर्दधे विप्र तत्रैव मम पश्यतः । अहमप्यत्र तिष्ठामि तदारभ्य निरंतरम् ९०। सर्वमेतन्मया तुभ्यं सांगमेव प्रकीर्त्तितम् । अधुना वद विप्रेंद्र किं भूयः श्रोतुमिच्छसि ९१। इति श्रीपद्मपुराणे पातालखंडे वृंदावनमाहात्म्ये द्व्यशीतितमोऽध्यायः ८२।

śiva uvāca- atha dīkṣāvidhiṃ vakṣye śṛṇu nārada tattvataḥ | śravaṇādeva mucyeta vinā tasya vidhānataḥ 1| āviraṃcyājjagatsarvaṃ vijñāya naśvaraṃ budhaḥ | ādhyātmikādi trividha duḥkhamevānubhūya ca 2| anityatvācca sarveṣāṃ sukhānāṃ munisattama | duḥkhapakṣe vinikṣipya tāni tebhyo vivarjitaḥ 3| virajya saṃsṛterhānau sādhanāni viciṃtayet | anuttamasukhasyāpi saṃprāptau bhṛśanirvṛtaḥ 4| narāṇāṃ duṣkaratvaṃ hi vijñāya ca mahāmatiḥ | bhṛśamārttastato vipra māṃ guruṃ śaraṇaṃ vrajet 5| śāṃto vimatsaraḥ kṛṣṇe bhakto'nanyaprayojanaḥ | ananyasādhanaḥ śrīmānkāmalobhavivarjitaḥ 6| śrīkṛṣṇarasatattvajñaḥ kṛṣṇamaṃtravidāṃ varaḥ | kṛṣṇamaṃtrāśrayo nityaṃ maṃtrabhaktaḥ sadā śuciḥ 7| saddharmaśāsakonityaṃ sadācāraniyojakaḥ | saṃpradāyī kṛpāpūrṇo virāgī gururucyate 8| evamādiguṇaḥ prāyaḥ śuśrūṣurgurupādayoḥ | gurau nitāṃtabhaktaśca mumukṣuḥ śiṣya ucyate 9| yatsākṣātsevanaṃ tasya premṇā bhāgavato bhavet | sa mokṣaḥ procyate prājñairvedavedāṃgavedibhiḥ 10| āśritya svaguroḥ pādau nijavṛttaṃ nivedayet | sa saṃdehānapākṛtya bodhayitvā punaḥ punaḥ 11| svapādapraṇataṃ śāṃtaṃ śuśrūṣuṃ nijapādayoḥ | atihṛṣṭamanāḥ śiṣyaṃ manumadhyāpayetparam 12| caṃdanena mṛdā vāpi vilikhedbāhumūlayoḥ | vāmadakṣiṇayorvipra śaṃkhacakre yathākramam 13| ūrddhvapuṃḍraṃ tataḥ kuryādbhālādiṣu vidhānataḥ | tatomaṃtradvayaṃ tasya dakṣakarṇe vinirdiśet 14| maṃtrārthaṃ ca vadettasmai yathāvadanupūrvaśaḥ | dāsaśabdayutaṃ nāma dhāryaṃ tasya prayatnataḥ 15| tato'tibhaktyā sasnehaṃ vaiṣṇavānbhojayedbudhaḥ | śrīguruṃ pūjayeccāpi vastrālaṃkaraṇādibhiḥ 16| sarvasvaṃ gurave dadyāttadarddhaṃ vā mahāmune | svadehamapi nikṣipya gurau stheyamakiṃcanaiḥ 17| ya etaiḥ paṃcabhirvidvānsaṃskāraiḥ saṃskṛto bhavet | dāsyabhāgī sa kṛṣṇasya nānyathā kalpakoṭibhiḥ 18| aṃkanaṃ corddhvapuṃḍraśca maṃtro nāmavidhāraṇam | paṃcamo yāga ityuktāḥ saṃskārāḥ pūrvasūribhiḥ 19| aṃkanaṃ śaṃkhacakrādyaiḥ sacchidraṃ puṃḍramucyate | dāsaśabdayutaṃ nāmamaṃtro yugalasaṃjñakaḥ 20| guruvaiṣṇavayoḥ pūjā yāga ityabhidhīyate | ete paramasaṃskārā mayā te parikīrtitāḥ 21| atha tubhyaṃ prapannānāṃ dharmānvakṣyāmi nārada | yānāsthāya gamiṣyaṃti haridhāma narāḥ kalau 22| itthaṃ gurorlabdhamaṃtro gurubhaktiparāyaṇaḥ | sevamāno guruṃ nityaṃ tatkṛpāṃ bhāvayetsudhīḥ 23| satāṃ dharmāṃ stataḥ śikṣetprapannānāṃ viśeṣataḥ | sveṣṭadevadhiyā nityaṃ vaiṣṇavānparitoṣayet 24| tāḍanaṃ bhartsanaṃ kāmibhogyatvena yathā striyaḥ | gṛhṇaṃti vaiṣṇavānāṃ ca tattadgrāhyaṃ tathā budhaiḥ 25| aihikyāmuṣmikī ciṃtā naiva kāryā kadācana | aihikaṃ tu sadā bhāvyaṃ pūrvācaritakarmaṇā 26| āmuṣmikaṃ tathā kṛṣṇaḥ svayameva kariṣyati | ato hi tatkṛte tyājyaḥ prayatnaḥ sarvathā naraiḥ 27| sarvopāyaparityāgaḥ kṛṣṇīyātmatayārcanam | suciraṃ proṣite kāṃte yathā patiparāyaṇā 28| priyānurāgiṇī dīnā tasyasaṃgaikakāṃkṣiṇī | tadguṇānbhāvayennityaṃ gāyatyapi śṛṇoti ca 29| śrīkṛṣṇaguṇalīlādi smaraṇādi tathācaret | na punaḥ sādhanatvena kāryaṃ tattu kadācana 30| ciraṃ proṣyāgataṃ kāṃtaṃ prāpya kāṃtadhiyā yathā | cuṃbaṃtī vā śliṣyaṃtīva netrāṃte na pibaṃtyapi 31| brahmānaṃdagatevāśu sevate parayā mudā | śrīmadarcāvatāreṇa tathā paricareddharim 32| ananyaśaraṇo nityaṃ tathaivānanyasādhanaḥ | ananyasādhanārthatvātsyādananya prayojanaḥ 33| nānyaṃ ca pūjayeddevaṃ na namettaṃ smarenna ca | na ca paśyenna gāyecca na ca niṃdetkadācana 34| nānyocchiṣṭaṃ ca bhuṃjīta nānyaśeṣaṃ ca dhārayet | avaiṣṇavānāṃ saṃbhāṣā vaṃdanādi vivarjayet 35| īśavaiṣṇavayorniṃdāṃ śṛṇuyānna kadācana | karṇau pidhāya gaṃtavyaṃ śaktau daṃḍaṃ samācaret 36| āśritya cātakīṃ vṛttiṃ dehapātāvadhi dvija | dvayasyārthaṃ bhāvayitvā stheyamityeva me matiḥ 37| saraḥ samudra nadyādīnvihāya cātako yathā | tṛṣito mriyate vāpi yācate vā payodharam 38| evameva prayatnena sādhanāni viciṃtayet | sveṣṭadevaḥsadāyācyogatistvaṃmebhaveriti 39| sveṣṭadeva tadīyānāṃ gurorapi viśeṣataḥ | ānukūlye sadā stheyaṃ prātikūlyaṃ vivarjayet 40| sakṛtprapanno vakṣyāmi kalyāṇaguṇatāṃ tayoḥ | viciṃtya viśvasedetau māmimāvuddhariṣyataḥ 41| saṃsārasāgarānnātha mitra putra gṛhā kulāt | goptārau me yuvāmeva prapannabhayabhaṃjanau 42| yohaṃ mamāsti yatkiṃcidiha loke paratra ca | tatsarvaṃ bhavatoradya caraṇeṣu samarcitam 43| ahamasmyaparādhānāmālayastyakta sādhanaḥ | agatiśca tato nāthau bhavaṃtāveva me gatiḥ 44| tavāsmi rādhikākāṃta karmaṇā manasā girā | kṛṣṇakāṃte tavaivāsmi yuvāmeva gatirmama 45| śaraṇaṃ vāṃ prapanno'smi karuṇānikarākarau | prasādaṃ kuru taṃ dāsyaṃ mayi duṣṭe'parādhini 46| ityevaṃ japatā nityaṃ sthātavyaṃ padyapaṃcakam | acirādeva taddāsyamicchatā munisattama 47| bāhyadharmā mayā hyete saṃkṣepeṇopavarṇitāḥ | āṃtaraḥ paramo dharmaḥ prapannānāmathocyate 48| kṛṣṇapriyā sakhībhāvaṃ samāśritya prayatnataḥ | tayoḥ sevāṃ prakurvīta divānaktamataṃdritaḥ 49| ukto maṃtrastadaṃgāni tathā tasyādhikāriṇaḥ | taddharmāśca tathā tebhyaḥ phalaṃ maṃtrasya nārada 50| anutiṣṭha tvamapyetattayordāsyamavāpsyasi | svādhikārakṣaye vipra saṃdeho nātra kaścana 51| sakṛnmātraprapannāya tavāsmīti ca yācate | nijadāsyaṃ harirdadyānna me'trāsti vicāraṇā 52| atra te varṇayiṣyāmi rahasyaṃ paramādbhutam | śrutapūrvaṃ mayā kṛṣṇātsākṣādbhagavataḥ param 53| eṣa te kathito dharma āṃtaro munisattama | guhyādeṣa guhyatamo gopanīyaḥ prayatnataḥ 54| maṃtraratnamahaṃ pūrvaṃ japankailāsamūrddhani | dhyāyannārāyaṇaṃ devamavasaṃ gahane vane 55| tatastu bhagavāṃstuṣṭaḥ prādurāsa mamāgrataḥ | vriyatāṃ vara ityukte mayāpyudghāṭya locane 56| dṛṣṭo devaḥpriyā sārddhaṃ saṃsthito garuḍopari | praṇipatyāvocamahaṃ varadaṃ kamalāpatim 57| yadrūpaṃ te kṛpāsiṃdho paramānaṃdadāyakam | sarvānaṃdāśrayaṃ nityaṃ mūrtimatsarvato'dhikam 58| nirguṇaṃ niṣkriyaṃ śāṃtaṃ yadbrahmeti vidurbudhāḥ | tadahaṃ draṣṭumicchāmi cakṣurbhyāṃ parameśvara 59| tato māmāha bhagavānprapannaṃ kamalāpatiḥ | tadadya drakṣyase rūpaṃ yatte manasi kāṃkṣitam 60| yamunā paścime tīre gaccha vṛṃdāvanaṃ mama | ityuktvāṃtardadhe devaḥ priyāsārddhaṃ jagatpatiḥ 61| ahamapyāgatastarhi yamunāyāstaṭaṃ śubham | tatra kṛṣṇamapaśyaṃ ca sarvadeveśvareśvaram 62| gopaveṣadharaṃ kāṃtaṃ kiśoravayasānvitam | priyāskaṃdhe suvinyasta vāmahastaṃ manoharam 63| hasaṃtaṃ hāsayataṃ tāṃ madhye gopīkadaṃbake | snigdhameghasamābhāsaṃ kalyāṇaguṇamaṃdiram 64| prahasya ca tataḥ kṛṣṇo māmāhāmṛtabhāṣaṇaḥ | ahaṃ te darśanaṃ yāto jñātvā rudra tavepsitam 65| yadadya me tvayā dṛṣṭamidaṃ rūpamalaukikam | ghanībhūtāmalaprema saccidānaṃdavigraham 66| nīrūpaṃ nirguṇaṃ vyāpi kriyāhīnaṃ parātparam | vadaṃtyupaniṣatsaṃghā idameva mamānagham 67| prakṛtyutthaguṇābhāvādanaṃtatvāttatheśvaram | asiddhatvānmadguṇānāṃ nirguṇaṃ māṃ vadaṃti hi 68| adṛśyatvānmamaitasya rūpasya carmacakṣuṣā | arūpaṃ māṃ vadaṃtyete vedāḥ sarve maheśvara 69| vyāpakatvāccidaṃśena brahmeti ca vidurbudhāḥ | akartṛtvātprapaṃcasya niṣkriyaṃ māṃ vadaṃti hi 70| māyāguṇairyatomeṃ'śā kurvaṃti sarjanādikam | na karomi svayaṃ kiṃcitsṛṣṭyādikamahaṃ śiva 71| ahamāsāṃ mahādeva gopīnāṃ premavihvalaḥ | kriyāṃtaraṃ na jānāmi nātmānamapi nārada 72| viharāmyanayā nityamasyāḥ premavaśīkṛtaḥ | imāṃ tu matpriyāṃ viddhi rādhikāṃ paradevatām 73| asyāśca paritaḥ paśya sakhyaḥ śatasahasraśaḥ | nityāḥ sarvā imā rudra yathāhaṃ nityavigrahaḥ 74| gopā gāvo gopikāśca sadā vṛṃdāvanaṃ mama | sarvametannityameva cidānaṃdarasātmakam 75| idamānaṃdakaṃdākhyaṃ viddhi vṛṃdāvanaṃ mama | yasminpraveśamātreṇa na punaḥ saṃsṛtiṃ viśet 76| madvanaṃ prāpya yo mūḍhaḥ punaranyatra gacchati | sa ātmahā bhavedeva satyaṃ satyaṃ mayoditam 77| vṛṃdāvanaṃ parityajya naiva gacchāmyahaṃ kvacit | nivasāmyanayā sārddhamahamatraiva sarvadā 78| ityevaṃ sarvamākhyātaṃ yatte rudra hṛdi sthitam | kathayasva mamedānīṃ kimanyacchrotumicchasi 79| tatastamabravaṃ devamahaṃ ca munisattama | īdṛśastvaṃ kathaṃ labhyastamupāyaṃ vadasva me 80| tato māmāha bhagavānsādhu rudra tavoditam | atiguhyatamaṃ hyetadgopanīyaṃ prayatnataḥ 81| sakṛdāvāṃ prapanno yastyaktopāya upāsate | gopībhāvena deveśa sa māmeti na cetaraḥ 82| sakṛdāvāṃ prapanno vā matpriyāmekikāmuta | sevatenanyabhāvena sa māmeti na saṃśayaḥ 83| yo māmeva prapannaśca matpriyāṃ na maheśvara | na kadāpi sa cāpnoti māmevaṃ te mayoditam 84| sakṛdeva prapannoyastavāsmīti vadedapi | sādhanena vināpyeva māmāpnoti na saṃśayaḥ 85| tasmātsarvaprayatnena matpriyāṃ śaraṇaṃ vrajet | āśritya matpriyāṃ rudra māṃ vaśīkarttumarhasi 86| idaṃ rahasyaṃ paramaṃ mayā te parikīrtitam | tvayāpyetanmahādeva gopanīyaṃ prayatnataḥ 87| tvamapyenāṃ samāśritya rādhikāṃ mama vallabhām | japanme yugalaṃ maṃtraṃ sadā tiṣṭha madālaye 88| śiva uvāca-| ityuktvā dakṣiṇe karṇe mama kṛṣṇo dayānidhiḥ | upadiśya paraṃ maṃtraṃ saṃskārāṃśca vidhāya hi 89| sagaṇoṃ'tardadhe vipra tatraiva mama paśyataḥ | ahamapyatra tiṣṭhāmi tadārabhya niraṃtaram 90| sarvametanmayā tubhyaṃ sāṃgameva prakīrttitam | adhunā vada vipreṃdra kiṃ bhūyaḥ śrotumicchasi 91| iti śrīpadmapurāṇe pātālakhaṃḍe vṛṃdāvanamāhātmye dvyaśītitamo'dhyāyaḥ 82|

English translation

Śiva said :

1-4. O Nārada , I shall now accurately tell the rite of initiation. Listen to it. Even without doing it a man would be freed just by listening to it. The wise one, realising that all this world from Brahmā is evanescent, having experienced the threefold misery like that of the mind, and due to all pleasures being transitory, putting them on the side of (i.e. looking upon them as) misery, and being free from them, and being detached should think about the means of the cessation of the worldly existence. He should be very much satisfied to obtain highest happiness.

5-8. The very intelligent one knowing the wickedness of men, being very much afflicted, should, O brāhmaṇa , seek refuge of me, the great one. A teacher is said to be calm, free from jealousy, devoted to Kṛṣṇa , having no other aim (than reaching Kṛṣṇa), having no other means, having virtue, free from lust and greed, knowing the truth in the interest in Śrīkṛṣṇa , the best among those who know prayers (addressed) to Kṛṣṇa, always resorting and attached to prayers of (i.e. addressed to) Kṛṣṇa, always pure, teaching good ways of life, always prescribing good practices, following the tradition, full of compassion and detached.

9-10. A disciple is said to be one who has mostly these qualities and who is desirous of serving his teacher’s feet, who is extremely devoted to his teacher, and who desires salvation. The actual service offered to him through love is said to be the salvation of the Vaiṣṇavite by the wise knowing the Vedas and the Vedāṅgas .

11-18. Having resorted to the feet of one’s teacher one should tell him one’s account. He (i.e. the teacher) removing doubts, repeatedly instructing him, should, with a very much delighted heart, teach the other one (i.e. the disciple) who has bowed down to his feet, who is calm and who desires to serve his feet. O brāhmaṇa, on the left and right shoulder-blades he should draw, with sandal or clay, a conch and a disc. In the same way he should then draw, according to the rules, the upright mark on the forehead etc. Then he (i.e. the teacher) should indicate (i.e. whisper) the two prayers into his right ear. Then in proper order and properly he should tell him the meaning of the prayers. He should carefully give him a name along with the word dāsa . Then the wise one should affectionately feed the devotees ofViṣṇu. He should also honour his honourable teacher with garments, ornaments etc. O great sage, he should give all his possessions to the teacher or half their number. The poor ones should even remain after throwing down their bodies (i.e. should throw down their own bodies) for the teacher. The wise one who is consecrated with these five sacred rites, shares the service of Kṛṣṇa; not otherwise even for crores of kalpas .

19-21. The former learned ones have described these to be the five sacred rites: marking (the body with mark of a conch etc.), the upright mark, the prayer, taking up a name and the fifth one is sacrifice. Marking is (done) with a conch, a disc etc.; the upright mark is said to have a hole; name is connected with the word dāsa ; the prayers are two. Sacrifice is the worship of the teacher and a devotee of Viṣṇu . I have told you these five great sacred rites.

22-24. O Nārada, I shall now tell you the duties of those who have taken refuge (with Kṛṣṇa or Viṣṇu), resorting to which men will go to Viṣṇu’s abode in Kali (age). A wise one, having thus obtained the hymn from his teacher, and greatly devoted to his teacher, serving the teacher every day, would obtain his favour. Then he should learn the duties of the good, especially of those who have taken refuge (with Viṣṇu). He should always gratify the devotees of Viṣṇu looking upon them as his own desired deity.

25-27. As women due to being the objects of enjoyment by lustful persons get beating and reproach, in the same way the wise ones should get the respective things of the devotees of Viṣṇu. They should never worry about worldly things or things in the next world. The worldly things always come according to the deeds done in the former (existence). In the same way Kṛṣṇa will bring about the things in the next world. Therefore, men should always give up (making) effort for them.

28-32. All expedients should be given up and Kṛṣṇa should be worshipped thinking oneself to be Kṛṣṇa. As a woman devoted to her husband and loving him, is afflicted when the lover has gone on a journey for a long time, and as she, desiring his company only, would always think about his qualities and sings and listens to them (i.e. qualities), so he should think of the qualities and sports of Śrīkṛṣṇa. It should never be adopted as a means (to reaching Kṛṣṇa). As the woman (devoted to her husband) kisses, embraces, and drinks with the corner of her eye, her husband looking upon him as her lover who has come after travelling for a long time, in the same way a devotee should serve Hari with adoration.

33-37. He (should) never seek the refuge of anyone else; he should never have any other means. Because of his having no other means he would have no other aim (than Viṣṇu). He should not worship any other deity; should not bow to or remember any other deity. He should never see or sing about or censure (any other deity). He should not eat what is left over by another person. He should not wear what is given up by another person. He should avoid talking to or saluting those who are not devotees of Viṣṇu. He should cover his ears and go. If he has power he should punish (the person censuring these deities). O brāhmaṇa, I think that he, resorting to the course of a cātaka till the body falls, should concentrate on the meaning of the two (hymns).

38-46. As a cātaka, when thirsty, abandons a lake, a river, a sea etc. and either dies or appeals to a cloud, in the same way a man should think about the means. He should always solicit his desired deity, saying ‘You should be my recourse’. He should always remain in (i.e seek) the favour of his deity, those belonging to the deity, and especially of the teacher also; and should, avoid their disfavour. I who have sought their refuge once, will tell about their propitiousness. Thinking ‘these two will emancipate me’, he should have faith in them. “O lord(s), you who destroy the fear of him who has taken your refuge, are the saviour (of your devotee) from the worldly existence, and from friends, sons, home and family. Who I am, whatever I have in this and the next world, all that I have today dedicated to your feet. I am the abode of sins; I have given up the means; I have no (other) course; therefore, O lord, you alone are my recourse. O lover of Rādhikā , through my acts, mind and speech, I am yours. O Kṛṣṇa’s beloved, I belong to you. You two only are my refuge. O you heaps and mines of compassion, I have sought your shelter. Favour (me) by (giving) me, the wicked and sinful one, (the opportunity) of serving (you)”.

47-50a. Thus, muttering to himself these five verses, he, desiring their service, should quickly remain (thinking about Kṛṣṇa), O best sage. I have briefly described these external qualities. Now I shall describe the essential, internal quality of those who have sought refuge (with Kṛṣṇa). Having, with effort, resorted to the condition of the friend of Kṛṣṇa’s beloved, he should carefully serve both of them day and night. I have told (you) the hymn, the constituents of it and (about) those who are entitled to it.

50b-59. I have described their duties, the fruit of the hymn (accruing) to them. O Nārada you (should) also do it. You will obtain their servantship ( dāsya ). O brāhmaṇa, here there is never a doubt about the (consequent) loss of one’s authority (ego?). I have no doubt that Hari would grant his (servantship) to him who has but once sought his refuge, and who has appealed to him, saying, ‘I am yours’. Now I shall tell you a great, wonderful secret which formerly I had heard from lord Kṛṣṇa himself. O best sage, I have told you the secret course of conduct. This is more secret than a secret; it has to be guarded carefully. Formerly, muttering this gem of a hymn and pondering over god Nārāyaṇa , I lived on the top of Kailāsa in a dense forest. Then the lord was pleased and appeared before me. “Choose a boon”. When this was said (by him), I too opened my eyes and saw the god with his wife and seated upon Garuḍa . Having saluted the lord of Kamalā , the giver of boons, I said to him: “O ocean of compassion, O highest god, I desire to see with my eyes that form of yours which gives great joy, which is the abode of joy, which is eternal, which is embodied, which is superior to everything (else), which is qualityless, actionless, calm, and which the wise know as Brahman .”

60-64. Then, the glorious lord of Kamalā said to me who had sought his refuge: “Today you will see that form (of mine) which is desired in (i.e. by) your mind. Go to my Vṛndāvana , to the western bank of Yamunā .” Saying so, the lord of the world vanished along with his beloved. Then I also came to the auspicious bank of Yamunā. There I saw Kṛṣṇa, the lord of all gods, who had put on the dress of a cowherd, who was lovely, who was of the age of a boy, who had properly put his charming left hand on the shoulder of his beloved, who was laughing and making her laugh in the group of the cowherdesses, who was bright like a glossy cloud, who is the abode of auspicious qualities.

65-73a. Then, having laughed, Kṛṣṇa, speaking (sweetly) like nectar, said to me: “O Rudra , having known your desire, I have appeared before you, since you have today seen this uncommon form of mine, which is the embodiment of spotless love that is solidified and of goodness, intelligence and joy (i.e. Brahman), which is (at the same time) formless, qualityless, (all-)pervading, actionless, and higher than the highest. The groups of the Upaniṣads describe this faultless form of mine only. Because my qualities have not sprung from the constituents of Prakṛti , and because of their being endless, and because of their not being effected, they call me the qualityless lord. O Maheśvara (i.e. Śiva ), because this form of mine is not visible to the physical eyes, all the Vedas describe me to be formless. The wise ones also know me to be Brahman, as a part of the supreme spirit, because of my (all-)prevading nature. As I am not the agent of the visible world, they (also) call me actionless; since my portions through power of Māyā perform creation etc., I do not myself perform creation etc., O Śiva. O Mahādeva , I am overcome with the love of these cowherdesses. I do not know any other act, even myself, O Nārada(?). Being influenced by her love, I always sport with her.

73b-79. Know this my beloved Rādhikā to be a great deity. Around her see her friends in hundreds and thousands. O Rudra, they are eternal as I having an eternal body. The cowherds, cows, cowherdesses and this my Vṛndāvana always (exist). All this is eternal, and full of the joy of intelligence. Know this called Ānandakanda (‘the root of delight’) to be my Vṛndāvana, merely by entering which a man would not again get into the worldly existence. The fool who, after having reached my grove, goes elsewhere, would be self-killer only. I have told the truth and the truth (only). I never leave Vṛndāvana and go anywhere else. With her I always live here only. O Rudra, I have thus told everything (I) had in mind. Tell me now, what else do you want to hear.”

80-88. O best sage, then I said to the god: “Tell me the means by which you would be obtaind like this.” Then the lord said to me: “O Rudra, you have spoken well. This is a very great secret, (and) it is to be guarded carefully. The man who has once sought our refuge, worships us, after giving up (other) means, as a cowherdess, comes to me, O lord of gods. He who has sought the refuge of the two of us, or only of my beloved, and serves us or her with unswerving devotion, comes to me. There is no doubt about it. O Maheśvara, he who has sought my refuge and of my beloved, undoubtedly comes to me. Thus I have told you. He who has but once sought (our) refuge and would say, ‘I am yours’, comes to me without any (other) means. There is no doubt about it. Therefore, with all efforts a man should seek the refuge of my beloved. O Rudra, having resorted to my beloved, you can impress me. I have told you this great secret. O Mahādeva, you have also to guard it carefully. You too, having resorted to this my beloved Rādhikā, and muttering this couple of hymns, always live in my abode.”

Śiva said :

89-91. Having thus spoken, and having taught the great hymn, and sacred rites into my right ear, Kṛṣṇa, the treasure of compassion, disappeared along with attendants there only when I was looking (at him). Since then I have been constantly here. I have fully told you all this. Now, O best brāhmaṇa, tell me what more you want to hear.

Complete chapter-aligned witnesses. Sanskrit Wikisource page 43971, revision 336123 (2022-04-18T20:41:26Z). English is N. A. Deshpande’s complete translation, controlled against its chapter page at https://www.wisdomlib.org/hinduism/book/the-padma-purana/d/doc365394.html and the ten-volume archival witness. The witnesses are aligned at chapter level; no unsupported verse-by-verse equivalence is asserted.