Skip to main content

Pātāla-khaṇḍa · Chapter 83

Chapter 83

Unit 378 of 693Pātāla-khaṇḍa · Chapter 83Pātāla-khaṇḍa · Chapter 831 source entries

Pātāla-khaṇḍa · Chapter 83

Source

नारद उवाच- भगवन्सर्वमाख्यातं यद्यत्पृष्टं मया गुरो । अधुना श्रोतुमिच्छामि भावमार्गमनुत्तमम् १। शिव उवाच- साधु विप्र त्वया पृष्टं सर्वलोकहितैषिणा । रहस्यमपि वक्ष्यामि तन्मे निगदतः शृणु २। दास्यः सखायः पितरौ प्रेयस्यश्च हरेरिह । सर्वे नित्या मुनिश्रेष्ठ वसंति गुणशालिनः ३। यथा प्रकटलीलायां पुराणेषु प्रकीर्तिताः । तथा ते नित्यलीलायां संति वृंदावने भुवि ४। गमनागमने नित्यं करोति वनगोष्ठयोः । गोचारणं वयस्यैश्च विनाऽसुरविघातनम् ५। करकीयाभिमानिन्यस्तथा तस्य प्रिया जनाः । प्रच्छन्नेनैव भावेन रमयंति निजप्रियम् ६। आत्मानं चिंतयेत्तत्र तासां मध्ये मनोरमाम् । रूपयौवनसंपन्नां किशोरीं प्रमदाकृतिम् ७। नानाशिल्पकलाभिज्ञां कृष्णभोगानुरूपिणीम् । प्रार्थितामपि कृष्णेन तत्र भोगपराङ्मुखीम् ८। राधिकानुचरीं तत्र तत्सेवनपरायणाम् । कृष्णादप्यधिकं प्रेम राधिकायां प्रकुर्वतीम् ९। प्रीत्यानुदिवसं यत्नात्तयोः संगमकारिणीम् । तत्सेवनसुखाह्लादभावेनातिसुनिर्वृताम् १०। इत्यात्मानं विचिंत्यैव तत्र सेवां समाचरेत् । ब्राह्मं मुहूर्त्तमारभ्य यावत्स्यात्तु महानिशा ११। नारद उवाच- हरेर्दैनंदिनीं लीलां श्रोतुमिच्छामि तत्त्वतः । लीलामजानता सेव्यो मनसा तु कथं हरिः १२। शिव उवाच- नाहं जानामि तां लीलां हरेर्नारदतत्त्वतः । वृंदादेवीमितो गच्छ सा ते लीलां प्रवक्ष्यति १३। अविदूर इतः स्थानात्केशीतीर्थसमीपतः । सखीसंघवृता सास्ते गोविंदपरिचारिका १४। सूत उवाच- इत्युक्तस्तं परिक्रम्य हृष्टो नत्वा पुनः पुनः । वृंदाश्रमं जगामाथ नारदो मुनिसत्तमः १५। वृंदापि नारदं दृष्ट्वा प्रणम्य च पुनःपुनः । उवाच च मुनिश्रेष्ठ कथमत्रागतिस्तव १६। नारद उवाच- त्वत्तो वेदितुमिच्छामि नैत्यकं चरितं हरेः । तदादितो मम ब्रूहि यदि योग्योऽस्मि शोभने १७। वृंदोवाच- रहस्यमपिवक्ष्यामि कृष्णभक्तोसि नारद । न प्रकाश्यं त्वयाप्येतद्गुह्याद्गुह्यतरं महत् १८। मध्ये वृंदावने रम्ये पंचाशत्कुंजमंडिते । कल्पवृक्षनिकुंजे तु दिव्यरत्नमये गृहे १९। निद्रितौ तिष्ठतस्तल्पे निबिडालिंगितौ मिथः । मदाज्ञाकारिभिः पश्चात्पक्षिभिर्बोधितावपि २०। गाढालिंगनजानंदमाप्तौ तद्भंगकातरौ । न मनः कुरुतस्तल्पात्समुत्थातुं मनागपि २१। ततश्च सारिकासंघैः शुकाद्यैः परितो मुहुः । बोधितौ विविधैर्वाक्यैः स्वतल्पादुदतिष्ठताम् २२। उपविष्टौ ततो दृष्ट्वा सख्यस्तल्पे मुदान्वितौ । प्रविश्य सेवां कुर्वंति तत्काले ह्युचितां तयोः २३। पुनश्च सारिकावाक्यैस्तावुत्थाय स्वतल्पतः । गच्छतः स्वस्वभवनं भीत्युत्कंठाकुलौ ततः २४। प्रातश्च बोधितो मात्रा तल्पादुत्थाय सत्वरः । कृत्वा कृष्णो दंतकाष्ठं बलदेवसमन्वितः २५। मात्रानुमोदितो याति गोशालां सखिभिर्वृतः । राधापि बोधिता विप्र वयस्याभिः स्वतल्पतः २६। उत्थाय दंतकाष्ठादि कृत्वाभ्यंगं समाचरेत् । स्नानवेदीं ततो गत्वा स्नापिता सा निजालिभिः २७। भूषागृहे व्रजेत्तत्र वयस्या भूषयंत्यपि । भूषणैर्विविधैर्दिव्यैर्गंधमाल्यानुलेपनैः २८। ततः सखीजनैस्तस्याः श्वश्रूं संप्रार्थ्य यत्नतः । कर्तुमाहूयतेस्वन्नं ससखी सा यशोदया २९। नारद उवाच- कथमाहूयते देवि पाकार्थं तु यशोदया । सतीषु पाककर्त्रीषु रोहिणीप्रमुखास्वपि ३०। वृंदोवाच- पूर्वं दुर्वाससा दत्तो वरस्तस्यै महामुने । इति कात्यायनी वक्त्राच्छ्रुतमासीन्मया पुरा ३१। त्वया यत्पच्यते देवि तदन्नं मदनुग्रहात् । मिष्टं स्यादमृतस्पर्द्धि भोक्तुरायुष्करं तथा ३२। इत्याह्वयति तां नित्यं यशोदा पुत्रवत्सला । आयुष्मान्मे भवेत्पुत्रः स्वादुलोभात्तथा सती ३३। श्रुत्वानुमोदिता हृष्टा सापि नंदालयं व्रजेत् । ससखीप्रकरा तत्र गत्वा पाकं करोति च ३४। कृष्णोऽपि दुग्ध्वा गाः काश्चिद्दोहयित्वा जनैः पराः । आगच्छति पितुर्वाक्यात्स्वगृहं सखिभिर्वृतः ३५। अभ्यंगमर्दनं कृत्वा दासैः संस्नापितो मुदा । धौतवस्त्रधरः स्रग्वी चंदनाक्तकलेवरः ३६। द्विफालबद्धचिकुरैर्ग्रीवा भालोपरिस्फुरन् । चंद्राकारस्फुरद्भालतिलकालकरंजितः ३७। कंकणांगदकेयूर रत्नमुद्रा लसत्करः । मुक्ताहारस्फुरद्वक्षा मकराकृतिकुंडलः ३८। मुहुराकारितो मात्रा प्रविशेद्भोजनालयम् । अवलंब्य करं सख्युर्बलदेवमनुव्रतः ३९। भुंक्तेऽथ विविधान्नानि भ्रात्रा च सखिभिर्वृतः । हासयन्विविधैर्हास्यैः सखींस्तैर्हसति स्वयम् ४०। इत्थं भुक्त्वा तथाचम्य दिव्यखट्वोपरि क्षणम् । विश्रम्य सेवकैर्दत्तं तांबूलं विभजन्नदन् ४१। गोपवेषधरः कृष्णो धेनुवृंदपुरस्सरः । व्रजवासिजनैः प्रीत्या सर्वैरनुगतः पथि ४२। पितरं मातरं नत्वा नेत्रांते नापितं गणम् । यथायोग्यं तथा चान्यान्विनिवर्त्य वनं व्रजेत् ४३। वनं प्रविश्य सखिभिः क्रीडयित्वा क्षणं ततः । विहारैर्विविधैस्तत्र वने विक्रीडते मुदा ४४। वंचयित्वा ततः सर्वान्द्वित्रैः प्रियसखैर्वृतः । संकेतकं व्रजेद्धर्षात्प्रियासंदर्शनोत्सुकः ४५। सापि कृष्णं वनं यातं दृष्ट्वा स्वं गृहमागता । सूर्यादिपूजाव्याजेन कुसुमाहृतये तथा ४६। वंचयित्वा गुरून्याति प्रियसंगेच्छया वनम् । इत्थं तौ बहुयत्नेन मिलित्वा कानने ततः ४७। विहारैर्विविधैस्तत्र दिनं विक्रीडतो मुदा । दोलायां च समारूढौ सखिभिर्दोलितौ क्वचित् ४८। क्वापि वेणुं करस्रस्तं प्रिययापह्नुतं हरिः । अन्वेषयन्नुपालब्धो विप्रलब्धप्रियागणैः ४९। हसितैर्बहुधा ताभिर्हासितस्तत्र तिष्ठति । वसंतवायुना जुष्टं वनखण्डं मुदा क्वचित् ५०। प्रविश्य चंदनांभोभिः कुंकुमादिजलैरपि । निषिंचतो यंत्रमुक्तैस्तत्पंकैर्लिंपतो मिथः ५१। सख्योऽप्येवं निषिंचंति ताश्च तौ सिंचतः पुनः । वसंतवायुजुष्टेषु वनखंडेषु सर्वतः ५२। तत्तत्कालोचितैर्नानाविहारैः सगणौ द्विज । श्रांतौ क्वचिद्वृक्षमूलमासाद्य मुनिसत्तम ५३। उपविश्यासने दिव्ये मधुपानं प्रचक्रतुः । ततो मधुमदोन्मत्तौ निद्रया मीलितेक्षणौ ५४। मिथः पाणी समालंब्य कामबाणवशं गतौ । रिरंसूविशतःकुञ्जंस्खलद्वाङ्मनसौपथि ५५। क्रीडतश्च ततस्तत्र करिणीयूथपौ यथा । सख्योऽपि मधुभिर्मत्ता निद्रयापीडितेक्षणाः ५६। अभितो मंजुकुंजेषु सर्वा एवापि शिश्यिरे । पृथगेकेन वपुषा कृष्णोऽपि युगपद्विभुः ५७। सर्वासां संनिधिं गच्छेत्प्रियया प्रेरितो मुहुः । रमयित्वा च ताः सर्वाः करिणीर्गजराडिव ५८। प्रियया च तथा ताभिः क्रीडार्थं च सरो व्रजेत् । जलसेकैर्मिथस्तत्र क्रीडतः सगणौ ततः ५९। वासः स्रक्चंदनैर्दिव्यैर्भूषणैरपि भूषितौ । तत्रैव सरसस्तीरे दिव्यरत्नमये गृहे ६०। प्रागेव फलमूलानि कल्पितानि मया मुने । हरिस्तु प्रथमं भुक्त्वा कांतया परिवेष्टितः ६१। द्वित्राभिः सेवितो गच्छेच्छय्यां पुष्पविनिर्मिताम् । तांबूलैर्व्यजनैस्तत्र पादसंवाहनादिभिः ६२। सेव्यमानो हसंस्ताभिर्मोदते प्रेयसीं स्मरन् । राधिकापि हरौ सुप्ते सगणा मुदितांतरा ६३। अपि तत्र गतप्राणा तदुच्छिष्टं भुनक्ति च । किंचिदेव ततो भुक्त्वा व्रजेच्छय्यानिकेतनम् ६४। द्रष्टुं कांतमुखांभोजं चकोरीव निशाकरम् । तांबूलचर्वितं तस्य तत्रत्याभिर्निवेदितम् ६५। तांबूलान्यपि चाश्नाति विभजंती प्रियालिषु । कृष्णोऽपि तासां शुश्रूषुः स्वच्छंदं भाषितं मिथः ६६। प्राप्तनिद्र इवाभाति विनिद्रोऽपि पटावृतः । ताश्च क्ष्वेली क्षणं कृत्वा कुतश्चिदनुमानतः ६७। विदश्य रसनां दद्भिः पश्यंत्योऽन्योन्यमाननम् । विलीना इव लज्जाब्धौ क्षणमूचुर्न किंचन ६८। क्षणादेव ततो वस्त्रं दूरीकृत्य तदंगतः । साधुनिद्रां गतोऽसीति हासयंत्यो हसंति च ६९। एवं तैर्विविधैर्हास्यै रममाणौ गणैः सह । अनुभूय क्षणं निद्रा सुखं च मुनिसत्तम ७०। उपविश्यासने दिव्ये सगणौ विस्तृते मुदा । पणीकृत्य मिथोहार चुंबाश्लेषपरिच्छदान् ७१। अक्षै र्विक्रीडतः प्रेम्णा नर्मालापपुरस्सरम् । पराजितोऽपि प्रियया जितोहमिति वै ब्रुवन् ७२। हारादिग्रहणे तस्याः प्रवृत्तस्ताड्यते तया । तयैवं ताडितः कृष्णः करेणास्य सरोरुहे ७३। विषण्णमानसो भूत्वा गंतुं प्रकुरुते मतिम् । जितोऽस्मि चेत्त्वया देवि गृह्यतां यत्पणीकृतम् ७४। चुंबनादि मया दत्तमित्युक्त्वा सा तथाचरेत् । कौटिल्यं तद्भ्रुवोर्द्रष्टुं श्रोतुं तद्भर्त्सनं वचः ७५। ततः सारीशुकानां च श्रुत्वा वागाहवं मिथः । निर्गच्छतस्ततः स्थानाद्गंतुकामौ गृहं प्रति ७६। कृष्णः कांतामनुज्ञाप्य गवामभिमुखं व्रजेत् । सा तु सूर्यगृहं गच्छेत्सखीमंडलसंयुता ७७। कियद्दूरं ततो गत्वा परावृत्य हरिं पुनः । विप्रवेषं समास्थाय याति सूर्यगृहं प्रति ७८। सूर्यं प्रपूजयेत्तत्र प्रार्थितस्तत्सखीजनैः । तदैव कल्पितैर्वेदैः परिहासविगर्भितैः ७९। ततस्ता ज्ञापितं कांतं परिज्ञाय विचक्षणाः । आनंदसागरे मग्ना न विदुः स्वं न चापरम् ८०। विहारैर्विविधैरेवं सार्द्धयामद्वयं मुने । नीत्वा गृहं व्रजेयुस्ताः स च कृष्णो गवां व्रजेत् ८१। संगम्य स्वसखीन्कृष्णो गृहीत्वा गाः समंततः । आगच्छति व्रजं हर्षान्नादयन्मुरलद्यं मुने ८२। ततो नंदादयः सर्वे श्रुत्वा वेणुरवं हरेः । गोधूलिपटलव्याप्तं दृष्ट्वा चापि नभस्तलम् ८३। विसृज्य सर्वकर्माणि स्त्रियो बालादयोऽपि च । कृष्णस्याभिमुखं यांति तद्दर्शनसमुत्सुकाः ८४। राजमार्गे व्रजद्वारि यत्र सर्वे व्रजौकसः । कृष्णोऽपि तान्समागम्य यथावदनुपूर्वशः ८५। दर्शनस्पर्शनैर्वाचा स्मितपूर्वावलोकनैः । गोपवृद्धान्नमस्कारैः कायिकैर्वाचिकैरपि ८६। अष्टांगपातैः पितरौ रोहिणीमपि नारद । नेत्रांतसूचितेनैव विनयेन प्रियां तथा ८७। एवं तैस्तद्यथायोग्यं व्रजौकोभिः प्रपूजितः । गवालये तथा गाश्च संप्रवेश्य समंततः ८८। पितृभ्यामर्थितो याति भ्रात्रा सह निजालयम् । स्नात्वा पीत्वा तत्र किंचिद्भुक्त्वा मात्रानुमोदितः ८९। गवालयं पुनर्याति दोग्धुकामो गवां पयः । ताश्च दुग्ध्वा दोहयित्वा पाययित्वा च काश्चन ९०। पित्रा सार्द्धं गृहं याति तत्र भावशतानुगः । तत्र पित्रा पितृव्यैश्च तत्पुत्रैश्च बलेन च ९१। भुनक्ति विविधान्नानि चर्व्यचोष्यादिकानि च । तन्मतिः प्रार्थनात्पूर्वं राधिका च तदैव ह ९२। प्रस्थापयेत्सखीद्वारा पक्वान्नानि तदालयम् । श्लाघयंश्च हरिस्तानि भुक्त्वा पित्रादिभिः सह ९३। सभागृहं व्रजेत्तैश्च जुष्टं बंदिजनादिभिः । पक्वान्नानि गृहीत्वा याः सख्यस्तत्र पुरागताः ९४। बहूनि च पुनस्तानि प्रदत्तानि यशोदया । सख्यस्तत्र तया दत्तं कृष्णोच्छिष्टं नयंति च ९५। सर्वं ताभिः समानीय राधिकायै निवेद्यते । सापि भुक्त्वा सखीवर्गयुता तदनुपूर्वशः ९६। सखीभिर्मंडिता तिष्ठेदभिसर्त्तुं समुद्यता । प्रस्थाप्यते मया काचिदित एव ततः सखी ९७। तयाभिसारिता साथ यमुनायाः समीपतः । कल्पवृक्षनिकुंजेऽस्मिन्दिव्यरत्नमये गृहे ९८। सितकृष्णनिशायोग्यवेषा याति सखीवृता । कृष्णोऽपि विविधं तत्र दृष्ट्वा कौतूहलं ततः ९९। कात्यायन्या मनोज्ञानि श्रुत्वा संगीतकान्यपि । धनधान्यादिभिस्ताश्च प्रीणयित्वा विधानतः १००। जनैराराधितो मात्रा याति सख्यानिकेतनम् । मातरि प्रस्थितायां च भोजयित्वा ततो गृहम् १०१। संकेतकं कांतयात्र समागच्छेदलक्षितः । मिलित्वा तावुभावत्र क्रीडतो वनराजिषु १०२। विहारैर्विविधै रासलास्यहासपुरस्सरैः । सार्द्धयामद्वयं नीत्वा रात्रेरेवं विहारतः १०३। सुषुप्सू विशतः कुंजं पक्षिणीभिरलक्षितौ । एकांते कुसुमैः कॢप्ते केलितल्पे मनोहरे १०४। सुप्ता वा तिष्ठतस्तत्र सेव्यमानौ निजालिभिः । इति ते सर्वमाख्यातं नैत्यकं चरितं हरेः १०५। पापिनोऽपि विमुच्यंते श्रवणादस्य नारद । नारद उवाच- धन्योऽस्म्यनुगृहीतोऽस्मि त्वया देवि न संशयः १०६। हरेर्दैनंदिनीलीला यतो मेऽद्य प्रकाशिता । सूत उवाच- इत्युक्त्वा तां परिक्रम्य तया चापि प्रपूजितः १०७। अंतर्धानं गतो ब्रह्मन्नारदो मुनिसत्तमः । मयाप्येतच्चानुपूर्व्यात्सर्वमेव प्रकीर्तितम् १०८। जपेन्नित्यं प्रयत्नेन मंत्रयुग्ममनुत्तमम् । कृष्णवक्त्रादिदं लब्धं पुरा रुद्रेण यत्नतः १०९। तेनोक्तं नारदायापि नारदेन ममोदितम् । संस्कारांश्च विधायैव मयाप्येतत्तवोदितम् ११०। त्वयाप्येतद्गोपनीयं रहस्यं परमाद्भुतम् । शौनक उवाच- कृतकृत्योभवं साक्षात्त्वत्प्रसादादहं गुरो १११। रहस्यानां रहस्यं यत्त्वया मह्यं प्रकाशितम् । सूत उवाच- धर्मानेतानुपातिष्ठञ्जल्पन्मंत्रमहर्निशम् ११२। अचिरादेव तद्दास्यमवाप्स्यसि न संशयः । मयापि गम्यते ब्रह्मन्नित्यमायतनं विभोः ११३। गुरोर्गुरोर्भानुजायाः कूले गोपीश्वरस्य च ११४। इदं चरित्रं परमं पवित्रं प्रोक्तं महेशेन महानुभावम् । शृण्वंति ये भक्तियुता मनुष्यास्ते यांति नित्यं पदमच्युतस्य ११५। धन्यं यशस्यमायुष्यमारोग्याभीष्टसिद्धिदम् । स्वर्गापवर्गसंपत्तिकारणं पापनाशनम् ११६। भक्त्या पठंति ये नित्यं मानवा विष्णुतत्पराः । न तेषां पुनरावृत्तिर्विष्णुलोकात्कथंचन ११७। इति श्रीपद्मपुराणे पातालखंडे वृंदावनमाहात्म्ये त्र्यशीतितमोऽध्यायः ८३। समाप्तं वृंदावनमाहात्म्यम् ।

nārada uvāca- bhagavansarvamākhyātaṃ yadyatpṛṣṭaṃ mayā guro | adhunā śrotumicchāmi bhāvamārgamanuttamam 1| śiva uvāca- sādhu vipra tvayā pṛṣṭaṃ sarvalokahitaiṣiṇā | rahasyamapi vakṣyāmi tanme nigadataḥ śṛṇu 2| dāsyaḥ sakhāyaḥ pitarau preyasyaśca hareriha | sarve nityā muniśreṣṭha vasaṃti guṇaśālinaḥ 3| yathā prakaṭalīlāyāṃ purāṇeṣu prakīrtitāḥ | tathā te nityalīlāyāṃ saṃti vṛṃdāvane bhuvi 4| gamanāgamane nityaṃ karoti vanagoṣṭhayoḥ | gocāraṇaṃ vayasyaiśca vinā'suravighātanam 5| karakīyābhimāninyastathā tasya priyā janāḥ | pracchannenaiva bhāvena ramayaṃti nijapriyam 6| ātmānaṃ ciṃtayettatra tāsāṃ madhye manoramām | rūpayauvanasaṃpannāṃ kiśorīṃ pramadākṛtim 7| nānāśilpakalābhijñāṃ kṛṣṇabhogānurūpiṇīm | prārthitāmapi kṛṣṇena tatra bhogaparāṅmukhīm 8| rādhikānucarīṃ tatra tatsevanaparāyaṇām | kṛṣṇādapyadhikaṃ prema rādhikāyāṃ prakurvatīm 9| prītyānudivasaṃ yatnāttayoḥ saṃgamakāriṇīm | tatsevanasukhāhlādabhāvenātisunirvṛtām 10| ityātmānaṃ viciṃtyaiva tatra sevāṃ samācaret | brāhmaṃ muhūrttamārabhya yāvatsyāttu mahāniśā 11| nārada uvāca- harerdainaṃdinīṃ līlāṃ śrotumicchāmi tattvataḥ | līlāmajānatā sevyo manasā tu kathaṃ hariḥ 12| śiva uvāca- nāhaṃ jānāmi tāṃ līlāṃ harernāradatattvataḥ | vṛṃdādevīmito gaccha sā te līlāṃ pravakṣyati 13| avidūra itaḥ sthānātkeśītīrthasamīpataḥ | sakhīsaṃghavṛtā sāste goviṃdaparicārikā 14| sūta uvāca- ityuktastaṃ parikramya hṛṣṭo natvā punaḥ punaḥ | vṛṃdāśramaṃ jagāmātha nārado munisattamaḥ 15| vṛṃdāpi nāradaṃ dṛṣṭvā praṇamya ca punaḥpunaḥ | uvāca ca muniśreṣṭha kathamatrāgatistava 16| nārada uvāca- tvatto veditumicchāmi naityakaṃ caritaṃ hareḥ | tadādito mama brūhi yadi yogyo'smi śobhane 17| vṛṃdovāca- rahasyamapivakṣyāmi kṛṣṇabhaktosi nārada | na prakāśyaṃ tvayāpyetadguhyādguhyataraṃ mahat 18| madhye vṛṃdāvane ramye paṃcāśatkuṃjamaṃḍite | kalpavṛkṣanikuṃje tu divyaratnamaye gṛhe 19| nidritau tiṣṭhatastalpe nibiḍāliṃgitau mithaḥ | madājñākāribhiḥ paścātpakṣibhirbodhitāvapi 20| gāḍhāliṃganajānaṃdamāptau tadbhaṃgakātarau | na manaḥ kurutastalpātsamutthātuṃ manāgapi 21| tataśca sārikāsaṃghaiḥ śukādyaiḥ parito muhuḥ | bodhitau vividhairvākyaiḥ svatalpādudatiṣṭhatām 22| upaviṣṭau tato dṛṣṭvā sakhyastalpe mudānvitau | praviśya sevāṃ kurvaṃti tatkāle hyucitāṃ tayoḥ 23| punaśca sārikāvākyaistāvutthāya svatalpataḥ | gacchataḥ svasvabhavanaṃ bhītyutkaṃṭhākulau tataḥ 24| prātaśca bodhito mātrā talpādutthāya satvaraḥ | kṛtvā kṛṣṇo daṃtakāṣṭhaṃ baladevasamanvitaḥ 25| mātrānumodito yāti gośālāṃ sakhibhirvṛtaḥ | rādhāpi bodhitā vipra vayasyābhiḥ svatalpataḥ 26| utthāya daṃtakāṣṭhādi kṛtvābhyaṃgaṃ samācaret | snānavedīṃ tato gatvā snāpitā sā nijālibhiḥ 27| bhūṣāgṛhe vrajettatra vayasyā bhūṣayaṃtyapi | bhūṣaṇairvividhairdivyairgaṃdhamālyānulepanaiḥ 28| tataḥ sakhījanaistasyāḥ śvaśrūṃ saṃprārthya yatnataḥ | kartumāhūyatesvannaṃ sasakhī sā yaśodayā 29| nārada uvāca- kathamāhūyate devi pākārthaṃ tu yaśodayā | satīṣu pākakartrīṣu rohiṇīpramukhāsvapi 30| vṛṃdovāca- pūrvaṃ durvāsasā datto varastasyai mahāmune | iti kātyāyanī vaktrācchrutamāsīnmayā purā 31| tvayā yatpacyate devi tadannaṃ madanugrahāt | miṣṭaṃ syādamṛtasparddhi bhokturāyuṣkaraṃ tathā 32| ityāhvayati tāṃ nityaṃ yaśodā putravatsalā | āyuṣmānme bhavetputraḥ svādulobhāttathā satī 33| śrutvānumoditā hṛṣṭā sāpi naṃdālayaṃ vrajet | sasakhīprakarā tatra gatvā pākaṃ karoti ca 34| kṛṣṇo'pi dugdhvā gāḥ kāściddohayitvā janaiḥ parāḥ | āgacchati piturvākyātsvagṛhaṃ sakhibhirvṛtaḥ 35| abhyaṃgamardanaṃ kṛtvā dāsaiḥ saṃsnāpito mudā | dhautavastradharaḥ sragvī caṃdanāktakalevaraḥ 36| dviphālabaddhacikurairgrīvā bhāloparisphuran | caṃdrākārasphuradbhālatilakālakaraṃjitaḥ 37| kaṃkaṇāṃgadakeyūra ratnamudrā lasatkaraḥ | muktāhārasphuradvakṣā makarākṛtikuṃḍalaḥ 38| muhurākārito mātrā praviśedbhojanālayam | avalaṃbya karaṃ sakhyurbaladevamanuvrataḥ 39| bhuṃkte'tha vividhānnāni bhrātrā ca sakhibhirvṛtaḥ | hāsayanvividhairhāsyaiḥ sakhīṃstairhasati svayam 40| itthaṃ bhuktvā tathācamya divyakhaṭvopari kṣaṇam | viśramya sevakairdattaṃ tāṃbūlaṃ vibhajannadan 41| gopaveṣadharaḥ kṛṣṇo dhenuvṛṃdapurassaraḥ | vrajavāsijanaiḥ prītyā sarvairanugataḥ pathi 42| pitaraṃ mātaraṃ natvā netrāṃte nāpitaṃ gaṇam | yathāyogyaṃ tathā cānyānvinivartya vanaṃ vrajet 43| vanaṃ praviśya sakhibhiḥ krīḍayitvā kṣaṇaṃ tataḥ | vihārairvividhaistatra vane vikrīḍate mudā 44| vaṃcayitvā tataḥ sarvāndvitraiḥ priyasakhairvṛtaḥ | saṃketakaṃ vrajeddharṣātpriyāsaṃdarśanotsukaḥ 45| sāpi kṛṣṇaṃ vanaṃ yātaṃ dṛṣṭvā svaṃ gṛhamāgatā | sūryādipūjāvyājena kusumāhṛtaye tathā 46| vaṃcayitvā gurūnyāti priyasaṃgecchayā vanam | itthaṃ tau bahuyatnena militvā kānane tataḥ 47| vihārairvividhaistatra dinaṃ vikrīḍato mudā | dolāyāṃ ca samārūḍhau sakhibhirdolitau kvacit 48| kvāpi veṇuṃ karasrastaṃ priyayāpahnutaṃ hariḥ | anveṣayannupālabdho vipralabdhapriyāgaṇaiḥ 49| hasitairbahudhā tābhirhāsitastatra tiṣṭhati | vasaṃtavāyunā juṣṭaṃ vanakhaṇḍaṃ mudā kvacit 50| praviśya caṃdanāṃbhobhiḥ kuṃkumādijalairapi | niṣiṃcato yaṃtramuktaistatpaṃkairliṃpato mithaḥ 51| sakhyo'pyevaṃ niṣiṃcaṃti tāśca tau siṃcataḥ punaḥ | vasaṃtavāyujuṣṭeṣu vanakhaṃḍeṣu sarvataḥ 52| tattatkālocitairnānāvihāraiḥ sagaṇau dvija | śrāṃtau kvacidvṛkṣamūlamāsādya munisattama 53| upaviśyāsane divye madhupānaṃ pracakratuḥ | tato madhumadonmattau nidrayā mīlitekṣaṇau 54| mithaḥ pāṇī samālaṃbya kāmabāṇavaśaṃ gatau | riraṃsūviśataḥkuñjaṃskhaladvāṅmanasaupathi 55| krīḍataśca tatastatra kariṇīyūthapau yathā | sakhyo'pi madhubhirmattā nidrayāpīḍitekṣaṇāḥ 56| abhito maṃjukuṃjeṣu sarvā evāpi śiśyire | pṛthagekena vapuṣā kṛṣṇo'pi yugapadvibhuḥ 57| sarvāsāṃ saṃnidhiṃ gacchetpriyayā prerito muhuḥ | ramayitvā ca tāḥ sarvāḥ kariṇīrgajarāḍiva 58| priyayā ca tathā tābhiḥ krīḍārthaṃ ca saro vrajet | jalasekairmithastatra krīḍataḥ sagaṇau tataḥ 59| vāsaḥ srakcaṃdanairdivyairbhūṣaṇairapi bhūṣitau | tatraiva sarasastīre divyaratnamaye gṛhe 60| prāgeva phalamūlāni kalpitāni mayā mune | haristu prathamaṃ bhuktvā kāṃtayā pariveṣṭitaḥ 61| dvitrābhiḥ sevito gacchecchayyāṃ puṣpavinirmitām | tāṃbūlairvyajanaistatra pādasaṃvāhanādibhiḥ 62| sevyamāno hasaṃstābhirmodate preyasīṃ smaran | rādhikāpi harau supte sagaṇā muditāṃtarā 63| api tatra gataprāṇā taducchiṣṭaṃ bhunakti ca | kiṃcideva tato bhuktvā vrajecchayyāniketanam 64| draṣṭuṃ kāṃtamukhāṃbhojaṃ cakorīva niśākaram | tāṃbūlacarvitaṃ tasya tatratyābhirniveditam 65| tāṃbūlānyapi cāśnāti vibhajaṃtī priyāliṣu | kṛṣṇo'pi tāsāṃ śuśrūṣuḥ svacchaṃdaṃ bhāṣitaṃ mithaḥ 66| prāptanidra ivābhāti vinidro'pi paṭāvṛtaḥ | tāśca kṣvelī kṣaṇaṃ kṛtvā kutaścidanumānataḥ 67| vidaśya rasanāṃ dadbhiḥ paśyaṃtyo'nyonyamānanam | vilīnā iva lajjābdhau kṣaṇamūcurna kiṃcana 68| kṣaṇādeva tato vastraṃ dūrīkṛtya tadaṃgataḥ | sādhunidrāṃ gato'sīti hāsayaṃtyo hasaṃti ca 69| evaṃ tairvividhairhāsyai ramamāṇau gaṇaiḥ saha | anubhūya kṣaṇaṃ nidrā sukhaṃ ca munisattama 70| upaviśyāsane divye sagaṇau vistṛte mudā | paṇīkṛtya mithohāra cuṃbāśleṣaparicchadān 71| akṣai rvikrīḍataḥ premṇā narmālāpapurassaram | parājito'pi priyayā jitohamiti vai bruvan 72| hārādigrahaṇe tasyāḥ pravṛttastāḍyate tayā | tayaivaṃ tāḍitaḥ kṛṣṇaḥ kareṇāsya saroruhe 73| viṣaṇṇamānaso bhūtvā gaṃtuṃ prakurute matim | jito'smi cettvayā devi gṛhyatāṃ yatpaṇīkṛtam 74| cuṃbanādi mayā dattamityuktvā sā tathācaret | kauṭilyaṃ tadbhruvordraṣṭuṃ śrotuṃ tadbhartsanaṃ vacaḥ 75| tataḥ sārīśukānāṃ ca śrutvā vāgāhavaṃ mithaḥ | nirgacchatastataḥ sthānādgaṃtukāmau gṛhaṃ prati 76| kṛṣṇaḥ kāṃtāmanujñāpya gavāmabhimukhaṃ vrajet | sā tu sūryagṛhaṃ gacchetsakhīmaṃḍalasaṃyutā 77| kiyaddūraṃ tato gatvā parāvṛtya hariṃ punaḥ | vipraveṣaṃ samāsthāya yāti sūryagṛhaṃ prati 78| sūryaṃ prapūjayettatra prārthitastatsakhījanaiḥ | tadaiva kalpitairvedaiḥ parihāsavigarbhitaiḥ 79| tatastā jñāpitaṃ kāṃtaṃ parijñāya vicakṣaṇāḥ | ānaṃdasāgare magnā na viduḥ svaṃ na cāparam 80| vihārairvividhairevaṃ sārddhayāmadvayaṃ mune | nītvā gṛhaṃ vrajeyustāḥ sa ca kṛṣṇo gavāṃ vrajet 81| saṃgamya svasakhīnkṛṣṇo gṛhītvā gāḥ samaṃtataḥ | āgacchati vrajaṃ harṣānnādayanmuraladyaṃ mune 82| tato naṃdādayaḥ sarve śrutvā veṇuravaṃ hareḥ | godhūlipaṭalavyāptaṃ dṛṣṭvā cāpi nabhastalam 83| visṛjya sarvakarmāṇi striyo bālādayo'pi ca | kṛṣṇasyābhimukhaṃ yāṃti taddarśanasamutsukāḥ 84| rājamārge vrajadvāri yatra sarve vrajaukasaḥ | kṛṣṇo'pi tānsamāgamya yathāvadanupūrvaśaḥ 85| darśanasparśanairvācā smitapūrvāvalokanaiḥ | gopavṛddhānnamaskāraiḥ kāyikairvācikairapi 86| aṣṭāṃgapātaiḥ pitarau rohiṇīmapi nārada | netrāṃtasūcitenaiva vinayena priyāṃ tathā 87| evaṃ taistadyathāyogyaṃ vrajaukobhiḥ prapūjitaḥ | gavālaye tathā gāśca saṃpraveśya samaṃtataḥ 88| pitṛbhyāmarthito yāti bhrātrā saha nijālayam | snātvā pītvā tatra kiṃcidbhuktvā mātrānumoditaḥ 89| gavālayaṃ punaryāti dogdhukāmo gavāṃ payaḥ | tāśca dugdhvā dohayitvā pāyayitvā ca kāścana 90| pitrā sārddhaṃ gṛhaṃ yāti tatra bhāvaśatānugaḥ | tatra pitrā pitṛvyaiśca tatputraiśca balena ca 91| bhunakti vividhānnāni carvyacoṣyādikāni ca | tanmatiḥ prārthanātpūrvaṃ rādhikā ca tadaiva ha 92| prasthāpayetsakhīdvārā pakvānnāni tadālayam | ślāghayaṃśca haristāni bhuktvā pitrādibhiḥ saha 93| sabhāgṛhaṃ vrajettaiśca juṣṭaṃ baṃdijanādibhiḥ | pakvānnāni gṛhītvā yāḥ sakhyastatra purāgatāḥ 94| bahūni ca punastāni pradattāni yaśodayā | sakhyastatra tayā dattaṃ kṛṣṇocchiṣṭaṃ nayaṃti ca 95| sarvaṃ tābhiḥ samānīya rādhikāyai nivedyate | sāpi bhuktvā sakhīvargayutā tadanupūrvaśaḥ 96| sakhībhirmaṃḍitā tiṣṭhedabhisarttuṃ samudyatā | prasthāpyate mayā kācidita eva tataḥ sakhī 97| tayābhisāritā sātha yamunāyāḥ samīpataḥ | kalpavṛkṣanikuṃje'smindivyaratnamaye gṛhe 98| sitakṛṣṇaniśāyogyaveṣā yāti sakhīvṛtā | kṛṣṇo'pi vividhaṃ tatra dṛṣṭvā kautūhalaṃ tataḥ 99| kātyāyanyā manojñāni śrutvā saṃgītakānyapi | dhanadhānyādibhistāśca prīṇayitvā vidhānataḥ 100| janairārādhito mātrā yāti sakhyāniketanam | mātari prasthitāyāṃ ca bhojayitvā tato gṛham 101| saṃketakaṃ kāṃtayātra samāgacchedalakṣitaḥ | militvā tāvubhāvatra krīḍato vanarājiṣu 102| vihārairvividhai rāsalāsyahāsapurassaraiḥ | sārddhayāmadvayaṃ nītvā rātrerevaṃ vihārataḥ 103| suṣupsū viśataḥ kuṃjaṃ pakṣiṇībhiralakṣitau | ekāṃte kusumaiḥ kḷpte kelitalpe manohare 104| suptā vā tiṣṭhatastatra sevyamānau nijālibhiḥ | iti te sarvamākhyātaṃ naityakaṃ caritaṃ hareḥ 105| pāpino'pi vimucyaṃte śravaṇādasya nārada | nārada uvāca- dhanyo'smyanugṛhīto'smi tvayā devi na saṃśayaḥ 106| harerdainaṃdinīlīlā yato me'dya prakāśitā | sūta uvāca- ityuktvā tāṃ parikramya tayā cāpi prapūjitaḥ 107| aṃtardhānaṃ gato brahmannārado munisattamaḥ | mayāpyetaccānupūrvyātsarvameva prakīrtitam 108| japennityaṃ prayatnena maṃtrayugmamanuttamam | kṛṣṇavaktrādidaṃ labdhaṃ purā rudreṇa yatnataḥ 109| tenoktaṃ nāradāyāpi nāradena mamoditam | saṃskārāṃśca vidhāyaiva mayāpyetattavoditam 110| tvayāpyetadgopanīyaṃ rahasyaṃ paramādbhutam | śaunaka uvāca- kṛtakṛtyobhavaṃ sākṣāttvatprasādādahaṃ guro 111| rahasyānāṃ rahasyaṃ yattvayā mahyaṃ prakāśitam | sūta uvāca- dharmānetānupātiṣṭhañjalpanmaṃtramaharniśam 112| acirādeva taddāsyamavāpsyasi na saṃśayaḥ | mayāpi gamyate brahmannityamāyatanaṃ vibhoḥ 113| gurorgurorbhānujāyāḥ kūle gopīśvarasya ca 114| idaṃ caritraṃ paramaṃ pavitraṃ proktaṃ maheśena mahānubhāvam | śṛṇvaṃti ye bhaktiyutā manuṣyāste yāṃti nityaṃ padamacyutasya 115| dhanyaṃ yaśasyamāyuṣyamārogyābhīṣṭasiddhidam | svargāpavargasaṃpattikāraṇaṃ pāpanāśanam 116| bhaktyā paṭhaṃti ye nityaṃ mānavā viṣṇutatparāḥ | na teṣāṃ punarāvṛttirviṣṇulokātkathaṃcana 117| iti śrīpadmapurāṇe pātālakhaṃḍe vṛṃdāvanamāhātmye tryaśītitamo'dhyāyaḥ 83| samāptaṃ vṛṃdāvanamāhātmyam |

English translation

Nārada said :

1. O lord, O great one, you have told me whatever I had asked (for). Now I desire to know the excellent path of devotion.

Śiva said :

2-11. O brāhmaṇa , you, desiring the well-being of all the worlds, have asked well. I shall tell you the secret also. Listen as I (shall) tell it to you. O greatest sage, the maid-servants, friends, parents and beloveds of Hari live here. All of them are eternal and virtuous. As they are described in the Purāṇas (indulging) in open sports, in the same way they remain in sports on the Vṛndāvana ground. They always go from the grove to the cow-pen and come back. They, along with their friends, also graze the cows without any harm from the demons. Similarly people dear to him are proud of those having water-pitchers (the ascetics). With secret devotion they delight their beloved persons. A man should there look upon himself among them as one who is charming, who is endowed with beauty and youth, who is a young woman, who has the form of a young beautiful woman, who knows many crafts and arts, who is fit for Kṛṣṇa ’s enjoyment, who is averse to enjoyment though solicited by Kṛṣṇa, who is the follower of Rādhikā and who is devoted to serving her, who loves Rādhikā and who is devoted to serving her, who loves Rādhikā even more than Kṛṣṇa, who, through love, day by day brings about the union of the two (i.e. Kṛṣṇa and Rādhā ), who is extremely happy due to the pleasure and joy of serving them. Thus looking upon oneself, one should, beginning with the early part of the day till late night, offer service there.

Nārada said :

12. I desire to hear correctly the everyday sport of Hari. How can I mentally serve Hari without knowing his sport?

Śiva said :

13-14. O Nārada , I do not correctly know that sport. From here go to Vṛndādevī. She will tell you the sport. She, the attendant of Govinda , surrounded by the group of her friends, lives near Keśītīrtha, not far from here.

Sūta said :

15-16. Then the best sage Nārada, who was addressed like this, went round him, and being delighted, saluted him again and again and went to Vṛndāvana. Vṛndā too, seeing Nārada, repeatedly saluted him and asked the greatest sage, “How have you come here (i.e. what brings you here)?”

Nārada said :

17. I desire to hear from you (about) the daily life of Hari. O auspicious one, if I am fit, then tell it (to me) from the beginning.

Vṛndā said :

18-30. O Nārada, I shall also tell you the secret (since) you are a devotee of Kṛṣṇa. You too are not to disclose this great secret which is a greater secret than a secret (i.e. the greatest secret). In Vṛndāvana which is charming and adorned with fifty bowers, in a chamber with divine gems, in an arbour of the desire-yielding tree, the two embracing each other remain (in a) sleeping (position), though later they are awakened by birds obeying my orders. They have obtained great joy due to a close embrace and are afraid of its being disturbed. They do not at all desire to get up from the bed. Then they have to get up from their bed when awakened with various notes made on all sides and repeatedly by groups of sārikās and parrots etc. Seeing them seated gladly on the bed, the friends enter (the bower) and offer the two service appropriate for that time. Then the two, having got up from the bed by the notes of sārikās, overcome with eagerness go to their respective houses. In the morning, Kṛṣṇa, awakened by his mother, quickly gets up, and having with Baladeva brushed his teeth and being allowed by his mother, goes, being surrounded by his friends, to the cowstall. O brāhmaṇa, Rādhā too, awakened by her friends, gets up from her bed, and having brushed her teeth would then smear her body with unctuous substances. Then she goes to the quandrangular for bath. There she is bathed by her friends. (Then) she would go to the chamber for decoration, and there her friends decorate her with ornaments and various divine fragrant flowers and unguents. Then when, with effort, her friends request her mother-in-law she is invited along with her friends by Yaśodā to cook good food.

Nārada said :

31. How is it, O goddess, that she is invited by Yaśodā to cook food, when there are foremost cooks like Rohiṇī ?

Vṛndā said :

32-43. I have formerly heard from the mouth of Kātyāyanī that in olden days she was granted a boon by Durvāsas , O great sage. (The boon was:) “O respectable lady, the food which is cooked by you, would be, as a result of my favour, sweet and vying with nectar, and would in the same way promote long life of the eater (of it).” Therefore, Yaśodā, loving her son, everyday calls her thinking, ‘my son, due to longing for sweet (food), would, (after eating it) live a long life.’ Allowed by her mother-in-law, she, being delighted, would go to the house of Nanda . Going there with the multitude of her friends she cooks there also. Kṛṣṇa also, having milked the cows and having some others got milked by (other) men, comes home surrounded by his friends at the words (i.e. order) of his father. Having smeared his body with unctuous substances and having had shampooing and after being gladly bathed by servants, he puts on washed garments, a garland, and has his body smeared with sandal. With his neck and forehead shining due to the hair on his head separated and tied at two places, with the hair reddened by the dot on the forehead resembling the moon, and shining, with his hands delightfully glittering with jewelled bracelets, armlets, and bracelets worn on the upper arm, with his chest shining due to a pearl necklace, having put on ear-rings resembling crocodiles, he, holding the hand of his friend, and being followed by Baladeva, would enter the dining hall, after being again and again called by his mother. Then, surrounded by his friends and brother, making them laugh by means of (anecdotes etc. causing) laughter, and himself laughing with them, he eats various kinds of food. Having thus eaten (food), having sipped (water), having rested on a cot for a while, and distributing and chewing the tāmbūla given by the servants, Kṛṣṇa, having put on the dress of a cowherd, with the flock of cows going ahead of him, followed on the path by all the residents of Vraja with love, having saluted his father and mother, and having sent back properly the host (following him) with a glance, would go to the forest.

44-52. Having entered the forest and having played there with his friends for a while, he then gladly sports there, in the forest by means of various pastimes. Then, having deceived all, and surrounded by two or three friends, he, being eager to see his beloved, would gladly go to the rendezvous. She too, who had come home, on seeing Kṛṣṇa, goes, after deceiving her elders, under the pretext of Sun-worship etc. or for collecting, flowers, to the forest with a desire to meet her lover. Thus the two, having, after many efforts, met in the forest, gladly sport there for the (whole) day with various pastimes. Sometimes the two get upon a swing and are rocked to and fro by their friends. Sometimes, Hari, deceived by the bevies of his beloveds, is seen, searching his flute dropped from his hand, and hidden by his beloved. He, made to laugh by them by means of merriment, remains there. At times the two enter the forest endowed with vernal breezes, and sprinkle each other with water (mixed with) sandal, or with water (mixed with) safron etc., released from syringes, or smear each other with mud. In the same way, the friends also sprinkle them (with water etc.) and the two also sprinkle them.

53- 59a. Then the two, O brāhmaṇa, being tired due to many pastimes proper for the time in the groves endowed with vernal breezes on all sides, resort, with their attendants, to the root of a tree, and sitting on a divine seat, drink liquor, O best sage. Then the two, intoxicated due to the liquor, with their eyes closed due to sleep, holding each other’s hands, being under the influence of Cupid’s arrows, and desiring to sport, enter, with their words and mind stumbling on the path. There they sport like a female elephant and (the male elephant,) the lord of the herd. All the friends also, intoxicated by wine, and with their eyes troubled by sleep (i.e. drowsy) sleep all around in the charming bowers. Again and again incited by his beloved, Kṛṣṇa, the lord, would go near all, with a separate body (for each) and simultaneously. Having satisfied all of them as a lord of elephants satisfies the female elephants, he would, along with his beloved and with them, go to the lake to sport.

59b-69. Then the two, with their attendants, sport between themselves by sprinkling water (on each other). They are adorned with garments, garlands, sandal(-pastes), and also with divine ornaments. O sage, I have there, in a chamber full of divine gems, on the bank of the lake, already arranged fruits and roots. Hari, having eaten first, and being clasped by his beloved, and being served by two or three (maids) would go to a bed made of flowers. There, being served (by them) with tāmbūlas , fans and shampooing of his feet, he laughing with them, and remembering his beloved rejoices. Rādhikā too, when Hari is asleep, extremely delighted along with her attendants, having put her heart into him, eats what is left over (by him). Having but eaten a little there, she would go to the bed-chamber to see her lover’s face as the female cakora bird sees the moon. The maids there have told (her) about his having chewed the tāmbūla. She also chews tāmbūlas and distributes them among: her dear friends. Kṛṣṇa too, desiring to hear their free mutual talk, though sleepless, covers himself with a piece of cloth, appearing as if he is asleep. Those too, looking at one another in jest, and getting the hint from somewhere, biting their tongues with their teeth, look at one another’s face. Merged as it were into the ocean of bashfulness, they do not say anything for a moment. Just after a moment, having removed the piece of cloth from his body, and saying ‘You were really asleep’ they laugh and make him laugh.

70-75. Thus sporting with the attendants by means (of jokes etc. causing) laughter, and having, for a moment, experienced the pleasure of sleep, he sits upon the seat gladly spread by his attendants, and the two having mutually staked necklaces, kisses, embraces and garments, play with dice preceded by jocular talk. Though defeated by his beloved he, saying, ‘I have won’, proceeds to seize her necklace etc. and is beaten by her. Thus beaten by her on his lotus-like face with her hand Kṛṣṇa, being dejected in his mind, thinks of going. “If, O honourable lady, I am defeated, then accept what is staked (viz.) kisses etc. offered by me.” On his saying so she would act like that to see the crookedness of his eyebrows and to hear his words of reproach.

76-80. Then having heard the mutual wordy fight among the sārikās and the parrots, they two, desiring to go home, move out from that place. Having allowed his beloved (to go), Kṛṣṇa would go to the cows. She, accompanied by the circle of her world goes to the Sun’s abode (temple). Having gone a little away from there, Hari, again, returning, after having put on the dress of a brāhmaṇa, goes to the Sun’s abode. Requested by her friends, he would worship the Sun there, with Vedas (hymns), containing jokes and composed then only. Then the clever ones, having recognised their lover who makes himself known, merge in the ocean of joy, and do not know themselves or other (persons).

81-9la. Having thus passed two watches and a half in various sports, they would go home, and Kṛṣṇa would go (to the place) of the cows. O sage, Kṛṣṇa, joining his friends, and taking the cows from all sides, comes playing upon the flute joyfully to Vraja. Then, all like Nanda and others, so also women and children, hearing the sound of Hari’s flute, and also seeing the sky full of dust (raised) by the cows, give up all their jobs, and being eager to see Kṛṣṇa go towards him. Kṛṣṇa also, joining all the residents of Vraja, on the royal path, at Vraja-gate—wherever they are—(honours all) as before in due order—by means of seeing them, touching them, speaking to them, looking them with a smile, saluting with words and physically the old cowherds, and saluting his parents and Rohiṇī also (in such a way that) the eight parts (of the body touch the ground), O Nārada, so also his beloved with a modest side glance. Thus very much and properly respected by the residents of Vraja, having sent the cows to the cowstall, he goes, after being requested by his parents to his abode with his brother. Having bathed there, having drunk (milk), having eaten a little, and being allowed by his mother, he, with a desire to milk the cows, again goes to the cowstall. Having milked them, and got them milked, having made some of them drink (water), he, being followed by hundreds of venerable men goes home with his father.

91b-101a. There with his father, paternal uncles, their sons, and Baladeva, he eats various kinds of foods like those that are chewed, those that are sucked etc. Even before he entertains a desire, Rādhikā, through her friends, would send dressed foods to his house. Hari, praising them, and eating them with his father etc. would, with the bards, go to the assembly hall. The friends (of Rādhā), that had come there having brought with them many foods, take (from his house) many kinds (of food) given by Yaśodā there and also whatever is left over by Kṛṣṇa. Having brought all that, they inform Rādhikā of it. She too, along with her group of friends, having eaten it in order and being decorated by her friends, would be (ready) to meet by appointment (her lover i.e. Kṛṣṇa). ‘From here or there some friend is sent away by me’. Met by her, she, surrounded by her friends, and having put on a dress proper for white (i.e. bright) or black (i.e. dark) night goes to the chamber having divine jewels, near Yamunā . Kṛṣṇa also, seeing their curious things, then having heard delightful music from Kātyāyanī, and having properly pleased them with (gifts of) wealth and grains, and propitiated by people, goes with his mother to the house of his friend.

101b-106a. When his mother departs, he, having eaten, comes here—to the rendezvous—unnoticed and with his beloved. Both of them meet here and play in the groves of trees, with many sports, with Kṛṣṇa’s dance with the cowherdess, accompanied with singing and instrumental music and laughter. Thus having spent two watches and a half of the night in sporting, the two desiring to sleep, enter, unnoticed by female birds, the bower. There, in the solitary place, the two sleep on a charming bed made of flowers and for sport, and are served by their female friends. Thus I have told you the full daily life of Hari. O Nārada, even sinners are freed on hearing it.

Nārada said :

106b-107a. O goddess, I am blessed; I am favoured by you. There is no doubt about it, since today you have disclosed to me the delightful sport of Hari.

Sūta said :

107b-111a. Saying so, going round her, and honoured by her also, Nārada, the best sage, vanished, O brāhmaṇa. I too have told you all (the account) in due order. One should daily carefully mutter this couple of prayers. Formerly Rudra obtained it with effort from Kṛṣṇa’s mouth. He told it to Nārada; and Nārada told it to me. Prescribing the sacred rites like this, I have told it to you. You too have to guard this very wonderful secret.

Śaunaka said :

111b-112a. O great one, I have been actually contented by your favour, since you disclosed to me the secret of secrets (i.e. the greatest secret).

Sūta said :

112b-117. Practising these modes, and muttering the hymn, day and night, you will soon obtain the position of his attendant. There is no doubt about it. O brāhmaṇa, I too have to go to the eternal abode of the supreme lord of lords on the bank of Yamunā. Those men who, full of devotion, listen to this glorious and very pure account narrated by Maheśa , go to the eternal place of Acyuta (i.e. Viṣṇu ). It is excellent, it gives glory, promotes (long) life, health and gives desired success. It is the cause of the wealth in the form of heaven and salvation, and. destroys sins. Those men, devoted to Viṣṇu, who everyday-devoutly recite it, never come back from the heaven of Viṣṇu.

Complete chapter-aligned witnesses. Sanskrit Wikisource page 43972, revision 336125 (2022-04-18T20:43:30Z). English is N. A. Deshpande’s complete translation, controlled against its chapter page at https://www.wisdomlib.org/hinduism/book/the-padma-purana/d/doc365395.html and the ten-volume archival witness. The witnesses are aligned at chapter level; no unsupported verse-by-verse equivalence is asserted.