Skip to main content

Pātāla-khaṇḍa · Chapter 63

Chapter 63

Unit 358 of 693Pātāla-khaṇḍa · Chapter 63Pātāla-khaṇḍa · Chapter 631 source entries

Pātāla-khaṇḍa · Chapter 63

Source

शेष उवाच। लवं विमूर्च्छितं दृष्ट्वा बलिवैरिविदारणम् । शत्रुघ्नो जयमापेदे रणमूर्ध्नि महाबलः १। लवं बालं रथे स्थाप्य शिरस्त्राणाद्यलंकृतम् । रामप्रतिनिधिं मूर्त्या ततो गंतुमियेष सः २। स्वमित्रं शत्रुणा ग्रस्तमिति दुःखसमन्विताः । बालामात्रेऽस्य सीतायै त्वरिताः संन्यवेदयन् ३। बाला ऊचुः। मातर्जानकि ते पुत्रो बलाद्वाहमपाहरत् । कस्यचिद्भूपवर्यस्य बलयुक्तस्य मानिनः ४। ततो युद्धमभूद्घोरं तस्य सैन्येन जानकि । तदा वीरेण पुत्रेण तव सर्वं निपातितम् ५। पश्चादपि जयं प्राप्तः सुतस्तव मनोहरः । तं भूपं मूर्छितं कृत्वा जयमाप रणांगणे ६। ततो मूर्च्छां विहायैष राजा परमदारुणः । संकुप्य पातयामास तव पुत्रं रणांगणे ७। अस्माभिर्वारितः पूर्वं मा गृहाण हयोत्तमम् । अस्मान्सर्वांश्च धिक्कृत्य ब्राह्मणान्वेदपारगान् ८। इति वाक्यं शिशूनां सा समाकर्ण्य सुदारुणम् । पपात भूतलोपस्थे दुःखयुक्ता रुरोद ह ९। सीतोवाच। कथं नृपो दयाहीनो बालेन सह युध्यति । अधर्मकृतदुर्बुद्धिर्यो मद्बालं न्यपातयत् १०। लव वीरभवान्कुत्र वर्ततेऽति बलान्वितः । कथं त्वं निष्कृपस्याहो राज्ञोऽहार्षीद्धयोत्तमम् ११। त्वं बालस्ते दुराक्रांताः सर्वशस्त्रविशारदाः । रथस्था विरथस्त्वं वै कथं युद्धं समं भवेत् १२। ताताहं तु त्वया सार्द्धं रामत्यागासुखं जहौ । इदानीं रहिता युष्मत्कथं जीवामि कानने १३। एहि मां मुंच यज्ञाश्वं गच्छत्वेष महीपतिः । मद्दुःखं नाभिजानासि मम दुःखप्रमार्जकः १४। कुशो यद्यभविष्यत्स रणे वीरशिरोमणिः । अमोचयिष्यदधुना भवंतं भूपपार्श्वतः १५। सोऽपि मद्दैवतो नास्ति समीपे किं करोम्यतः । दैवमेव ममाप्यत्र कारणं दुःखसंभवे १६। एवमादि बहुश्रीमत्येषा वै विललाप ह । पादांगुष्ठेन लिखती भूमिं नेत्रद्वयाश्रुभिः १७। बालान्प्रति जगादासौ पृथुकः स च भूपतिः । कथं मत्सुतमापात्य रणे कुत्र गमिष्यति १८। इति वाक्यं वदत्येषा जानकी पतिदेवता । तावत्कुशस्तु संप्राप्त उज्जयिन्या महर्षिभिः १९। माघासितचतुर्दश्यां महाकालं समर्च्य च । प्राप्य भूरिवरांस्तस्मादागमन्मातृसन्निधौ २०। जानकीं विह्वलां दृष्ट्वा नेत्रोद्भूताश्रु विक्लवाम् । शोकविह्वलदीनांगीं बभाषे यावदुत्सुकः २१। तदा स्वबाहुरवदत्स्फुरद्युद्धाभिशंसनः । हृदये चरणोत्साहो बभूवातिरथस्य हि २२। स प्रत्युवाच जननीं दीनगद्गदभाषिणीम् । मातस्तव गतं दुःखं मयि पुत्र उपस्थिते २३। मयि जीवति ते नेत्रादश्रूणि भुवि नो पतन् । प्रसूमुवाचाश्रुखिन्नां दीनगद्गदभाषिणीम् २४। कुशो दुःखमितः सद्यो दुःखितां धीरमानसः । मम भ्राता लवः कुत्र वर्तते वैरिमर्दनः २५। सदा मामागतं ज्ञात्वा प्रहर्षन्सन्निधावियात् । न दृश्यते कथं वीरः कुत्र रंतुं गतो बली २६। केन वा सह बालत्वाद्गतो मां वै निरीक्षितुम् । किं त्वं रोदिषि मे मातर्लवः कुत्र स वर्तते २७। तन्मे कथय सर्वं यत्तव दुःखस्य कारणम् । तच्छ्रुत्वा पुत्रवाक्यं सा दुःखिता कुशमब्रवीत् २८। लवो धृतो नृपेणात्र केनचिद्धयरक्षिणा । बबंध बालको मेत्र हयं यागक्रियोचितम् २९। तद्रक्षकान्बहूञ्जिग्ये एकोऽनेकान्रिपून्बली । राजा तं मूर्च्छितं कृत्वा बबंध रणमूर्धनि ३०। बालका इति मामूचुः सहगंतार एव हि । ततोऽहं दुःखिता जाता निशम्य लवमाधृतम् ३१। त्वं मोचय बलात्तस्मात्काले प्राप्तो नृपोत्तमात् । निशम्य मातुर्वचनं कुशः कोपसमन्वितः । जगाद तां दशन्नोष्ठं दंतैर्दंतान्विनिष्पिषन् ३२। कुश उवाच। मातर्जानीहि तं मुक्तं लवं पाशस्य बंधनात् । इदानीं हन्मि तं बाणैः समग्रबलवाहनम् ३३। यदि देवोऽमरो वापि यदि शर्वः समागतः । तथापि मोचये तस्माद्बाणैर्निशितपर्वभिः ३४। मा रोदिषि मातरिह वीराणां रणमूर्छितम् । कीर्तयेऽत्र भवत्येव पलायनमकीर्तये ३५। देहि मे कवचं दिव्यं धनुर्गुणसमन्वितम् । शिरस्त्राणं च मे मातः करवालं तथाशितम् ३६। इदानीं यामि समरे पातयामि बलं महत् । मोचयामि भ्रातरं स्वं रणमध्याद्विमूर्छितम् ३७। न मोचयाम्यद्य पुत्रं तव मातर्महारणात् । तदा तौ मे भवत्पादौ संरुष्टौ भवतां क्षितौ ३८। शेष उवाच। इति वाक्येन संतुष्टा जानकी शुभलक्षणा । सर्वं प्रादादस्त्रवृंदं जयाशीर्भिर्नियुज्यतम् ३९। प्रयाहि पुत्र संग्रामं लवं मोचय मूर्च्छितम् । इत्याज्ञप्तः कुशः संख्ये कवची कुंडली बली ४०। मुकुटी करवाली च चर्मधारी धनुर्धरः । अक्षयाविषुधी कृत्वा स्कंधयोः सिंहवीर्ययोः ४१। जगाम तरसा नत्वा मातृपादौ रथाग्रणीः । वेगेन यावद्युद्धाय गच्छति क्षिप्रमाहवे ४२। तावद्ददर्श स्वलवं वैरिवृंदनिपातकम् । आयांतं तं कुशं वीरा ददृशुः सुमहाभटाः ४३। कृतांतमिव संहर्तुं सर्वं विश्वमुपस्थितम् । लवो महाबलं दृष्ट्वा कुशं भ्रातरमागतम् ४४। अत्यंतं वह्निवद्युद्धे दिदीपे वायुना समम् । रथादुन्मुच्य चात्मानं युद्धाय स विनिर्गतः ४५। कुशः सर्वान्रणस्थान्वै वीरान्पूर्वदिशि क्षिपत् । पश्चिमायां दिशि लवः कोपात्सर्वान्समैरयत् ४६। कुशबाणव्यथाव्याप्ता लवसायकपीडिताः । सैन्ये जना मुने सर्वे उत्कल्लोलांबुधिभ्रमाः ४७ उत्कल। कुशेन च लवेनाथ शरव्रातैः प्रपीडितम् । न शर्म लेभे सकलं सैन्यं वीरप्रपूरितम् ४८। इतस्ततः प्रभग्नं तद्बलं त्रस्तं पुनः पुनः । न कुत्रचिद्रणे स्थित्वा युद्धमैच्छद्बलान्वितः ४९। एतस्मिन्समये राजा शत्रुघ्नः परतापनः । कुशं वीरं ययौ योद्धुं तादृशं लवसन्निभम् ५०। कुशं दृष्ट्वा बलाक्रांतं राममूर्तिसमप्रभम् । रथे तिष्ठन्हेममये जगाद परवीरहा ५१। शत्रुघ्न उवाच। कोऽसि त्वं सन्निभो भ्रात्रा लवेन सुमहाबलः । किं नामासि महावीर कस्ते तातः क्व ते प्रसूः ५२। कथं वने द्विजैर्जुष्टे तिष्ठसि त्वं नरर्षभ । सर्वं शंस यथायुध्ये त्वया सह महाबल ५३। इति वाक्यं समाकर्ण्य कुशः प्रोवाच भूमिपम् । मेघगंभीरया वाचा नादयन्रणमंडलम् ५४। केवलं सुषुवे सीता पतिव्रतपरायणा । वने वसावो वाल्मीकेश्चरणार्चनतत्परौ ५५। मातृसेवासमुद्युक्तौ सर्वविद्याविशारदौ । कुशो लव इति प्रख्यामागतौ भूपतेऽनघ ५६। कस्त्वं वीरो रणश्लाघी किमर्थं हयसत्तमः । मुक्तोऽस्ति समरे त्वद्य जेतासि बलसंयुतः ५७। युध्यस्व त्वं मया सार्द्धं यदि वीरोऽसि भूमिप । इदानीं पातयिष्यामि भवंतं रणमूर्धनि ५८। शत्रुघ्नस्तं सुतं ज्ञात्वा सीताया रामसंभवम् । विसिष्माय स्वयं चित्ते कोपाद्धनुरुपाददत् ५९। तमात्तधनुषं दृष्ट्वा कुशः कोपसमन्वितः । विस्फारयामास धनुः स्वीयं सुदृढमुत्तमम् ६०। मुमोच बाणान्निशिताञ्छत्रुघ्नः सर्वशस्त्रवित् । तांश्चिच्छेद कुशः सर्वांल्लीलया प्रहसन्रणे ६१। बाणाश्च शतसाहस्राः कुशस्य च नृपस्य च । भुवनं व्याप्नुवन्सर्वं तच्चित्रमभवन्मुने ६२। अग्न्यस्त्रेण कुशः सर्वान्ददाह तरसा बली । शमयामास तं भूपः पर्जन्यास्त्रेण वीर्यवान् ६३। शमयामास तं भूपो वायव्येनातिविक्रमः । तदा वायुरभूत्तीव्रः सर्वतो रणमंडले । पर्वतास्त्रेण तं वायुं क्षोभयंतं समावृणोत् ६४। वज्रास्त्रेण नृपः संख्ये चिच्छेद सनगोपलान् । तदा नारायणास्त्रं स मुमोच कुश उद्भटः । नारायणं तदा भूपं नाशकत्परिबाधितुम् ६५। तदा प्रकुपितोऽत्यतं कुशः कोपपरायणः । उवाच भूपं शत्रुघ्नं महाबलपराक्रमम् ६६। जानामि त्वां महावीरं संग्रामे जयकारिणम् । यत्त्वां नारायणास्त्रं मे न बबाधे भयानकम् ६७। इदानीं पातयाम्यद्य भूमौ त्वां नृपते शरैः । त्रिभिश्चेन्नकरोम्येतत्प्रतिज्ञां तर्हि मे शृणु ६८। यो मनुष्यवपुः प्राप्य दुर्लभं पुण्यकोटिभिः । तन्नाद्रियेत संमोहात्तस्य मेस्त्वत्र पातकम् ६९। सावधानो भवानत्र भवतु प्रधनांगणे । पातयामि क्षितौ सद्य इत्युक्त्वा स्वशरासने ७०। शरं संरोपयामास घोरं कालानलप्रभम् । लक्षीकृत्य रिपोर्वक्षो विपुलं कठिनं महत् ७१। तं संधितं शरं दृष्ट्वा शत्रुघ्नः कोपमूर्च्छितः । मुमोच बाणान्निशितान्कुशत्वग्भेदकारकान् ७२। स बाणो हृदयं तस्य भेत्तुं तत्प्रचचाल वै । घोररूपो वह्निसमआशीविषवदुच्छ्वसन् ७३। स बाणो नृपवर्येण रामं स्मृत्वाशुलक्षितः । चिच्छेद कुशमुक्तं स सायकं शितपर्वकम् ७४। तदात्यंतं प्रकुपितः कुशो बाणस्य कृंतनात् । अपरं सायकं चापे दधार शितपर्वकम् ७५। स यावत्तदुरो भेत्तुं करोति च बलोद्धुरः । तं तावदच्छिनत्तस्य शरं कालानलप्रभम् ७६। तदा कुशो मातृपादौ स्मृत्वा रोषसमन्वितः । तृतीयं चापके स्वीये दधार शरमद्भुतम् ७७। शत्रुघ्नस्तमपि क्षिप्रं च्छेत्तुं बाणं समाददे । तावद्विद्धः शरेणासौ पपात धरणीतले ७८। हाहाकारो महानासीच्छत्रुघ्ने विनिपातिते । जयमापकुशस्तत्र स्वबाहुबलदर्पितः ७९। इति श्रीपद्मपुराणे पातालखण्डे शेषवात्स्यायनसंवादे रामाश्वमेधे। शत्रुघ्नमूर्च्छने कुशजयोनाम त्रिषष्टितमोऽध्यायः ६३।

śeṣa uvāca| lavaṃ vimūrcchitaṃ dṛṣṭvā balivairividāraṇam | śatrughno jayamāpede raṇamūrdhni mahābalaḥ 1| lavaṃ bālaṃ rathe sthāpya śirastrāṇādyalaṃkṛtam | rāmapratinidhiṃ mūrtyā tato gaṃtumiyeṣa saḥ 2| svamitraṃ śatruṇā grastamiti duḥkhasamanvitāḥ | bālāmātre'sya sītāyai tvaritāḥ saṃnyavedayan 3| bālā ūcuḥ| mātarjānaki te putro balādvāhamapāharat | kasyacidbhūpavaryasya balayuktasya māninaḥ 4| tato yuddhamabhūdghoraṃ tasya sainyena jānaki | tadā vīreṇa putreṇa tava sarvaṃ nipātitam 5| paścādapi jayaṃ prāptaḥ sutastava manoharaḥ | taṃ bhūpaṃ mūrchitaṃ kṛtvā jayamāpa raṇāṃgaṇe 6| tato mūrcchāṃ vihāyaiṣa rājā paramadāruṇaḥ | saṃkupya pātayāmāsa tava putraṃ raṇāṃgaṇe 7| asmābhirvāritaḥ pūrvaṃ mā gṛhāṇa hayottamam | asmānsarvāṃśca dhikkṛtya brāhmaṇānvedapāragān 8| iti vākyaṃ śiśūnāṃ sā samākarṇya sudāruṇam | papāta bhūtalopasthe duḥkhayuktā ruroda ha 9| sītovāca| kathaṃ nṛpo dayāhīno bālena saha yudhyati | adharmakṛtadurbuddhiryo madbālaṃ nyapātayat 10| lava vīrabhavānkutra vartate'ti balānvitaḥ | kathaṃ tvaṃ niṣkṛpasyāho rājño'hārṣīddhayottamam 11| tvaṃ bālaste durākrāṃtāḥ sarvaśastraviśāradāḥ | rathasthā virathastvaṃ vai kathaṃ yuddhaṃ samaṃ bhavet 12| tātāhaṃ tu tvayā sārddhaṃ rāmatyāgāsukhaṃ jahau | idānīṃ rahitā yuṣmatkathaṃ jīvāmi kānane 13| ehi māṃ muṃca yajñāśvaṃ gacchatveṣa mahīpatiḥ | madduḥkhaṃ nābhijānāsi mama duḥkhapramārjakaḥ 14| kuśo yadyabhaviṣyatsa raṇe vīraśiromaṇiḥ | amocayiṣyadadhunā bhavaṃtaṃ bhūpapārśvataḥ 15| so'pi maddaivato nāsti samīpe kiṃ karomyataḥ | daivameva mamāpyatra kāraṇaṃ duḥkhasaṃbhave 16| evamādi bahuśrīmatyeṣā vai vilalāpa ha | pādāṃguṣṭhena likhatī bhūmiṃ netradvayāśrubhiḥ 17| bālānprati jagādāsau pṛthukaḥ sa ca bhūpatiḥ | kathaṃ matsutamāpātya raṇe kutra gamiṣyati 18| iti vākyaṃ vadatyeṣā jānakī patidevatā | tāvatkuśastu saṃprāpta ujjayinyā maharṣibhiḥ 19| māghāsitacaturdaśyāṃ mahākālaṃ samarcya ca | prāpya bhūrivarāṃstasmādāgamanmātṛsannidhau 20| jānakīṃ vihvalāṃ dṛṣṭvā netrodbhūtāśru viklavām | śokavihvaladīnāṃgīṃ babhāṣe yāvadutsukaḥ 21| tadā svabāhuravadatsphuradyuddhābhiśaṃsanaḥ | hṛdaye caraṇotsāho babhūvātirathasya hi 22| sa pratyuvāca jananīṃ dīnagadgadabhāṣiṇīm | mātastava gataṃ duḥkhaṃ mayi putra upasthite 23| mayi jīvati te netrādaśrūṇi bhuvi no patan | prasūmuvācāśrukhinnāṃ dīnagadgadabhāṣiṇīm 24| kuśo duḥkhamitaḥ sadyo duḥkhitāṃ dhīramānasaḥ | mama bhrātā lavaḥ kutra vartate vairimardanaḥ 25| sadā māmāgataṃ jñātvā praharṣansannidhāviyāt | na dṛśyate kathaṃ vīraḥ kutra raṃtuṃ gato balī 26| kena vā saha bālatvādgato māṃ vai nirīkṣitum | kiṃ tvaṃ rodiṣi me mātarlavaḥ kutra sa vartate 27| tanme kathaya sarvaṃ yattava duḥkhasya kāraṇam | tacchrutvā putravākyaṃ sā duḥkhitā kuśamabravīt 28| lavo dhṛto nṛpeṇātra kenaciddhayarakṣiṇā | babaṃdha bālako metra hayaṃ yāgakriyocitam 29| tadrakṣakānbahūñjigye eko'nekānripūnbalī | rājā taṃ mūrcchitaṃ kṛtvā babaṃdha raṇamūrdhani 30| bālakā iti māmūcuḥ sahagaṃtāra eva hi | tato'haṃ duḥkhitā jātā niśamya lavamādhṛtam 31| tvaṃ mocaya balāttasmātkāle prāpto nṛpottamāt | niśamya māturvacanaṃ kuśaḥ kopasamanvitaḥ | jagāda tāṃ daśannoṣṭhaṃ daṃtairdaṃtānviniṣpiṣan 32| kuśa uvāca| mātarjānīhi taṃ muktaṃ lavaṃ pāśasya baṃdhanāt | idānīṃ hanmi taṃ bāṇaiḥ samagrabalavāhanam 33| yadi devo'maro vāpi yadi śarvaḥ samāgataḥ | tathāpi mocaye tasmādbāṇairniśitaparvabhiḥ 34| mā rodiṣi mātariha vīrāṇāṃ raṇamūrchitam | kīrtaye'tra bhavatyeva palāyanamakīrtaye 35| dehi me kavacaṃ divyaṃ dhanurguṇasamanvitam | śirastrāṇaṃ ca me mātaḥ karavālaṃ tathāśitam 36| idānīṃ yāmi samare pātayāmi balaṃ mahat | mocayāmi bhrātaraṃ svaṃ raṇamadhyādvimūrchitam 37| na mocayāmyadya putraṃ tava mātarmahāraṇāt | tadā tau me bhavatpādau saṃruṣṭau bhavatāṃ kṣitau 38| śeṣa uvāca| iti vākyena saṃtuṣṭā jānakī śubhalakṣaṇā | sarvaṃ prādādastravṛṃdaṃ jayāśīrbhirniyujyatam 39| prayāhi putra saṃgrāmaṃ lavaṃ mocaya mūrcchitam | ityājñaptaḥ kuśaḥ saṃkhye kavacī kuṃḍalī balī 40| mukuṭī karavālī ca carmadhārī dhanurdharaḥ | akṣayāviṣudhī kṛtvā skaṃdhayoḥ siṃhavīryayoḥ 41| jagāma tarasā natvā mātṛpādau rathāgraṇīḥ | vegena yāvadyuddhāya gacchati kṣipramāhave 42| tāvaddadarśa svalavaṃ vairivṛṃdanipātakam | āyāṃtaṃ taṃ kuśaṃ vīrā dadṛśuḥ sumahābhaṭāḥ 43| kṛtāṃtamiva saṃhartuṃ sarvaṃ viśvamupasthitam | lavo mahābalaṃ dṛṣṭvā kuśaṃ bhrātaramāgatam 44| atyaṃtaṃ vahnivadyuddhe didīpe vāyunā samam | rathādunmucya cātmānaṃ yuddhāya sa vinirgataḥ 45| kuśaḥ sarvānraṇasthānvai vīrānpūrvadiśi kṣipat | paścimāyāṃ diśi lavaḥ kopātsarvānsamairayat 46| kuśabāṇavyathāvyāptā lavasāyakapīḍitāḥ | sainye janā mune sarve utkallolāṃbudhibhramāḥ 47 utkala| kuśena ca lavenātha śaravrātaiḥ prapīḍitam | na śarma lebhe sakalaṃ sainyaṃ vīraprapūritam 48| itastataḥ prabhagnaṃ tadbalaṃ trastaṃ punaḥ punaḥ | na kutracidraṇe sthitvā yuddhamaicchadbalānvitaḥ 49| etasminsamaye rājā śatrughnaḥ paratāpanaḥ | kuśaṃ vīraṃ yayau yoddhuṃ tādṛśaṃ lavasannibham 50| kuśaṃ dṛṣṭvā balākrāṃtaṃ rāmamūrtisamaprabham | rathe tiṣṭhanhemamaye jagāda paravīrahā 51| śatrughna uvāca| ko'si tvaṃ sannibho bhrātrā lavena sumahābalaḥ | kiṃ nāmāsi mahāvīra kaste tātaḥ kva te prasūḥ 52| kathaṃ vane dvijairjuṣṭe tiṣṭhasi tvaṃ nararṣabha | sarvaṃ śaṃsa yathāyudhye tvayā saha mahābala 53| iti vākyaṃ samākarṇya kuśaḥ provāca bhūmipam | meghagaṃbhīrayā vācā nādayanraṇamaṃḍalam 54| kevalaṃ suṣuve sītā pativrataparāyaṇā | vane vasāvo vālmīkeścaraṇārcanatatparau 55| mātṛsevāsamudyuktau sarvavidyāviśāradau | kuśo lava iti prakhyāmāgatau bhūpate'nagha 56| kastvaṃ vīro raṇaślāghī kimarthaṃ hayasattamaḥ | mukto'sti samare tvadya jetāsi balasaṃyutaḥ 57| yudhyasva tvaṃ mayā sārddhaṃ yadi vīro'si bhūmipa | idānīṃ pātayiṣyāmi bhavaṃtaṃ raṇamūrdhani 58| śatrughnastaṃ sutaṃ jñātvā sītāyā rāmasaṃbhavam | visiṣmāya svayaṃ citte kopāddhanurupādadat 59| tamāttadhanuṣaṃ dṛṣṭvā kuśaḥ kopasamanvitaḥ | visphārayāmāsa dhanuḥ svīyaṃ sudṛḍhamuttamam 60| mumoca bāṇānniśitāñchatrughnaḥ sarvaśastravit | tāṃściccheda kuśaḥ sarvāṃllīlayā prahasanraṇe 61| bāṇāśca śatasāhasrāḥ kuśasya ca nṛpasya ca | bhuvanaṃ vyāpnuvansarvaṃ taccitramabhavanmune 62| agnyastreṇa kuśaḥ sarvāndadāha tarasā balī | śamayāmāsa taṃ bhūpaḥ parjanyāstreṇa vīryavān 63| śamayāmāsa taṃ bhūpo vāyavyenātivikramaḥ | tadā vāyurabhūttīvraḥ sarvato raṇamaṃḍale | parvatāstreṇa taṃ vāyuṃ kṣobhayaṃtaṃ samāvṛṇot 64| vajrāstreṇa nṛpaḥ saṃkhye ciccheda sanagopalān | tadā nārāyaṇāstraṃ sa mumoca kuśa udbhaṭaḥ | nārāyaṇaṃ tadā bhūpaṃ nāśakatparibādhitum 65| tadā prakupito'tyataṃ kuśaḥ kopaparāyaṇaḥ | uvāca bhūpaṃ śatrughnaṃ mahābalaparākramam 66| jānāmi tvāṃ mahāvīraṃ saṃgrāme jayakāriṇam | yattvāṃ nārāyaṇāstraṃ me na babādhe bhayānakam 67| idānīṃ pātayāmyadya bhūmau tvāṃ nṛpate śaraiḥ | tribhiścennakaromyetatpratijñāṃ tarhi me śṛṇu 68| yo manuṣyavapuḥ prāpya durlabhaṃ puṇyakoṭibhiḥ | tannādriyeta saṃmohāttasya mestvatra pātakam 69| sāvadhāno bhavānatra bhavatu pradhanāṃgaṇe | pātayāmi kṣitau sadya ityuktvā svaśarāsane 70| śaraṃ saṃropayāmāsa ghoraṃ kālānalaprabham | lakṣīkṛtya riporvakṣo vipulaṃ kaṭhinaṃ mahat 71| taṃ saṃdhitaṃ śaraṃ dṛṣṭvā śatrughnaḥ kopamūrcchitaḥ | mumoca bāṇānniśitānkuśatvagbhedakārakān 72| sa bāṇo hṛdayaṃ tasya bhettuṃ tatpracacāla vai | ghorarūpo vahnisamaāśīviṣavaducchvasan 73| sa bāṇo nṛpavaryeṇa rāmaṃ smṛtvāśulakṣitaḥ | ciccheda kuśamuktaṃ sa sāyakaṃ śitaparvakam 74| tadātyaṃtaṃ prakupitaḥ kuśo bāṇasya kṛṃtanāt | aparaṃ sāyakaṃ cāpe dadhāra śitaparvakam 75| sa yāvattaduro bhettuṃ karoti ca baloddhuraḥ | taṃ tāvadacchinattasya śaraṃ kālānalaprabham 76| tadā kuśo mātṛpādau smṛtvā roṣasamanvitaḥ | tṛtīyaṃ cāpake svīye dadhāra śaramadbhutam 77| śatrughnastamapi kṣipraṃ cchettuṃ bāṇaṃ samādade | tāvadviddhaḥ śareṇāsau papāta dharaṇītale 78| hāhākāro mahānāsīcchatrughne vinipātite | jayamāpakuśastatra svabāhubaladarpitaḥ 79| iti śrīpadmapurāṇe pātālakhaṇḍe śeṣavātsyāyanasaṃvāde rāmāśvamedhe| śatrughnamūrcchane kuśajayonāma triṣaṣṭitamo'dhyāyaḥ 63|

English translation

Śeṣa said :

1-3. Seeing Lava , the destroyer of his enemies, unconscious, Śatrughna , the very mighty one, obtained victory in the battle. Putting Lava, the boy adorned with a helmet etc. and the likeness of Rāma in form, in the chariot he desired to go from there. Seeing that their friend was arrested by the enemy, the boys who were full of grief, quickly reported it to his mother, Sītā .

The boys said :

4-9. O mother Jānakī , your son forcibly snatched the horse of some proud king endowed with power. Then, O Jānakī, the great brave boy vanquished all the army. Later also he got victory. Having made that king unconscious, he obtained victory in the battle. Then the very fearful king, having given up the swoon (i.e. having regained consciousness), got angry and knocked down your son on the battlefield. We had in the beginning warded him off (saying): “Do not seize this excellent horse.” Despising all of us, the brāhmaṇas who have mastered the Vedas , (he seized him).”

Hearing these very terrible words of the boys, she fell on the ground and full of grief she wept.

Sītā said :

10-20. How is the cruel king fighting with the boy? He who has vanquished my son, has a wicked mind as a result of impious deeds. O hero Lava, where are you, full of great power? How (is it that) you seized the excellent horse of the unkind king? You are a boy, they are invincible and proficient in (the use of) all weapons. They were in their chariots, (while) you were without a chariot? How can the fight (be said to) be (between two) equal (parties)? With you (i.e. in your company) I gave up (i.e. did not mind) the unhappiness due to Rāma’s having abandoned me. Now without you, how shall I live in the forest? Come to me; release the sarcificial horse; let this king go. You who wash away (i.e. remove) my sorrow, do not realise my sorrow. Had Kuśa , the crest-jewel of the brave, been here today, he would have (by) now freed you from the vicinity of the king. Due to my (bad) luck he too is not nearby. Now what shall I do? It is just my fate that is the cause for the rise of (this) sorrow.

The glorious one scratching the earth with the toe of her foot and with tears in both her eyes, wept much like this. She said to the boys: “This one (i.e. Lava) is a child, and he (i.e. Śatrughna) is a king. How and where will he go on having vanquished my son in the battle?” When this Jānakī who looked upon her husband as her god was speaking like this, Kuśa along with great sages came (back) from Ujjayinī . After having worshipped Mahākāla on the fourteenth day of the dark half of Māgha and after having secured many boons from him, he came in the vicinity of (i.e. to) his mother.

21-28a. Seeing Jānakī afflicted and overcome with fear and with tears produced in her eyes, and helpless due to being overcome with grief, he, being anxious, said. At that time, his (right) arm, throbbing and indicating fight, said (to him). In the heart of the mighty warrior there was great enthusiasm to fight. He spoke to his mother, speaking piteously in a faltering voice: “When I, your son, have stood by you, your affliction has gone. When I am alive, tears should not fall from (your) eyes.” He, of a courageous mind, said to his mother who was sad with tears, who was speaking in a piteous and faltering voice, who was instantly unhappy due to Lava’s being bounded by grief. “Where is my brother, the destroyer of his enemies, who having come to have known that I have arrived, would always come near me? How (is it that) the hero is not seen? Where has the hero gone to play? Or with whom has he, due to his being a child, gone to see (i.e. look for) me? O my mother, why do you weep? Where is that Lava (now)? Tell me all that is the cause of your grief.”

28b-32. Hearing those words of her son, she who was afflicted, said to Kuśa: “Some king, protecting a horse, has seized Lava. My boy bound here the horse fit for the sacrificial rite. The mighty one, all alone vanquished many guards (of the horse). The king, having made him unconscious, bound him in the battle. The boys who had gone with him, told me like this. Then having heard that Lava was arrested, I became distressed. (Now) you who have come in time (should) forcibly release him from the excellent king.” Having heard his mother’s words, Kuśa, full of anger, biting his lips and gnawing his teeth, said to her:

Kuśa said :

33-38. O mother, know that Lava is (surely) freed from the binding by the noose. With my arrows I (shall) now kill him with his entire army and horses (and elephants). Even if a god or a deity comes, or even Śiva comes, I shall free him with arrows having sharp joints. O mother, do not weep; vigourous fight here (i.e. in this world) leads to fame; (but) running away leads to infamy. O mother, give me a divine armour, and a bow with a string, so also a helmet and a sharp sword. Now I shall go to the battlefield; I shall vanquish the mighty army; I shall free my brother fainted on the battlefield. If, O mother, I do not today release your son from the great battle, then let your feet be angry with me on the earth.

Śeṣa said :

39-44a. With these words Jānakī, of auspicious characteristics, endowed him with blessings and gave him all the multitude of missiles: “O (my) son, go to fight, and free the unconscious Lava”: Thus ordered, Kuśa who had put on an armour, who was decorated with ear-rings, who was powerful, who had worn a crown, who had a sword, who had a shield, who held a bow after putting the inexhaustible quiver on his shoulders powerful like those of the lion, and who was the best among the warriors, saluted his mother’s feet, and quickly went (to fight). When he speedily and quickly went to fight, he saw his (brother) Lava, the destroyer of hosts of enemies. The very great warriors saw Kuśa coming like Yama approaching to destrory the entire universe.

44b-51. Lava, seeing his very mighty brother Kuśa resembling wind, coming, shone very much like fire. Having freed himself from the chariot, he went out to fight. Kuśa threw all the heroes on the battlefield into the eastern direction. Lava, through anger, urged on (i.e. made flee) all of them into the western direction. O sage, the men in the army, pervaded by affliction caused by Kuśa’s arrows and troubled by Lava’s arrows resembled the eddies in the ocean with the waves rising. The entire army, troubled by the volleys of the arrows of Kuśa and Lava, did not get happiness. The frightened army repeatedly scattered here and there. No one endowed with might remained anywhere on the battlefield and desired to fight. At this time Śatrughna who tormented his enemies went to fight with the hero Kuśa resembling Lava. The killer of the heroes of his enemy seated in a golden chariot, seeing Kuśa full of power and resembling Rāma’s form, said:

Śatrughna said :

52-56. Who are you, very mighty one, and resembling your brother Lava? O great hero, what is your name? Who is your father? Who is your mother? O best of men, how (is it that) you are staying in the forest resorted to by brāhmaṇas? O very powerful one, tell me everything so that I shall fight with you.

Hearing these words, Kuśa, filling with noise the battlefield with his voice grave like that of the clouds, spoke to the king: “(I know) only (that) Sītā, devoted to her husband, gave me birth. Devoted to worshipping the feet of Vālmīki , we two live in the forest. O sinless king, we are engaged in serving our mother, are proficient in all lores (sciences and arts); we are known as Kuśa and Lava.

57-65. Who are you, the hero, desiring to fight? Why is the excellent horse let loose? Today in the fight, you, possessing power, are the victor. O king, if you are a warrior, fight with me. Now I shall knock you down in the battle.” Śatrughna, knowing him to be the son of Sītā from Rāma, was amazed in his heart and angrily took his bow. Seeing him having taken a bow, Kuśa, full of anger, stretched his own very strong and excellent bow. Śatrughna who knew (the use of) all weapons discharged sharp arrows. Kuśa, laughing, easily cut them off in the battle. O sage, hundreds and thousands of arrows of (i.e. discharged by) Kuśa and the king (i.e. Śatrughna) pervaded the entire world. It was a wonder. The mighty Kuśa quickly burnt all of them with the missile presided ovey [over?] by the Fire. The brave king quelled it with the missile presided over by Rain. The king who was very brave, put it down with the missile presided over by Vāyu . Then everywhere on the battlefield strong wind blew. He covered the wind that disturbed (everything) with the missile presided over by Mountain. The king cut off the mountain-stones with a thunderbolt-like missile. Then that very great warrior Kuśa discharged the missile presided over by Nārāyaṇa (i.e. Viṣṇu ). That missile presided over by Nārāyaṇa, was not able to hurt the king.

66-79. Then Kuśa got very angry. He, given to anger, spoke to Śatrughna having great might and valour: “I think you are a great hero, getting victory in the battle, as my fearful missile presided over by Nārāyaṇa, did not hurt you. O king, today with three arrows I shall knock you down on the ground. If I do not do this, hear my solemn declaration. I shall have in this world the sin of the man who, having obtained human body (i.e. birth) due to crores of religious deeds, does not honour it through delusion. On this battlefield you should be attentive. I shall instantly knock you down on the ground.” Saying so, he fixed on his bow a fierce arrow resembling the destructive fire at the end of the world after aiming it at the great expansive, hard chest of the enemy. Seeing that arrow fixed, Śatrughna, full of anger, discharged sharp arrows piercing the skin of Kuśa. The arrow of a terrible form, resembling fire, and hissing like a serpent, went forth to pierce his chest. The best king, remembering Rāma, quickly noticed the arrow. He cut off that arrow having sharp joints and discharged by Kuśa. Then, Kuśa who was very angry due to his arrow being cut off, fixed on his bow an other arrow with sharp joints. While he, full of power decided to pierce his chest (with an arrow), he cut off his arrow resembling the destructive fire at the end of the world. Then Kuśa, full of anger, remembered his mother’s feet, and fixed on his arrow a third wonderful arrow. Śatrughna too, quickly took an arrow to cut it off. Just then, he, pierced by the arrow fell on the ground. When Śatrughna fell, there was a great wailing. Kuśa. proud of his might, obtained victory then.

Complete chapter-aligned witnesses. Sanskrit Wikisource page 43955, revision 334638 (2022-04-07T01:39:03Z). English is N. A. Deshpande’s complete translation, controlled against its chapter page at https://www.wisdomlib.org/hinduism/book/the-padma-purana/d/doc365374.html and the ten-volume archival witness. The witnesses are aligned at chapter level; no unsupported verse-by-verse equivalence is asserted.