Skip to main content

Pātāla-khaṇḍa · Chapter 64

Chapter 64

Unit 359 of 693Pātāla-khaṇḍa · Chapter 64Pātāla-khaṇḍa · Chapter 641 source entries

Pātāla-khaṇḍa · Chapter 64

Source

शेष उवाच। शत्रुघ्नं पतितं वीक्ष्य सुरथः प्रवरो नृपः । प्रययौ मणिना सृष्टे रथे तिष्ठन्महाद्भुते १। पुष्कलस्तु रणे पूर्वं पातितः स विचारयन् । लवं ययौ तदा योद्धुं महावीरबलोन्नतम् २। सुरथः कुशमासाद्य बाणान्मुंचन्ननेकधा । व्यथयामास समरे महावीरशिरोमणिः ३। सुरथं विरथं चक्रे बाणैर्दशभिरुच्छिखैः । धनुश्चिच्छेद तरसा सुदृढं गुणपूरितम् ४। अस्त्रप्रत्यस्त्रसंहारैः क्षैपणैः प्रतिक्षेपणैः । अभवत्तुमुलं युद्धं वीराणां रोमहर्षणम् ५। अत्यंतं समरोद्युक्ते सुरथे दुर्जये नृपे । कुशः संचिंतयामास किंकर्तव्यं रणे मया ६। विचार्य निशितं घोरं सायकं समुपाददे । हननाय नृपस्यास्य महाबलसमन्वितः ७। तमागतं शरं दृष्ट्वा कालानलसमप्रभम् । छेत्तुं मतिं चकाराशु तावल्लग्नो महाशरः ८। मुमूर्च्छ समरे वीरो महावीरबलस्ततः । पपात स्यंदनोपस्थे सारथिस्तमुपाहरत् ९। सुरथे पतिते दृष्ट्वा कुशं जयसमन्वितम् । त्रासयंतं वीरगणानियाय पवनात्मजः १०। समीरसूनुं प्रबलमायांतं वीक्ष्य वानरम् । जहास दर्शयन्दंतान्कोपयन्निव तं क्रुधा ११। उवाच च हनूमंतमेहि त्वं मम संमुखम् । भेत्स्ये बाणसहस्रेण मृतो यास्यसि यामिनीम् १२। इत्युक्तो हनुमाञ्ज्ञात्वा रामसूनुं महाबलम् । स्वामिकार्यं प्रकर्तव्यमिति कृत्वा प्रधावितः १३। शालमुत्पाट्य तरसा विशालं शतशाखिनम् । कुशं वक्षसि संलक्ष्य ययौ योद्धुं महाबलः १४। शालहस्तं समायांतं हनूमंतं महाबलम् । त्रिभिः क्षुरप्रैर्विव्याध हृदि चंद्रोपमैर्बली १५। स बाणविद्धस्तरसा कुशेन बलशालिना । शालेन हृदि संजघ्ने दंतान्निष्पिष्य मारुतिः १६। शालाहतस्तदा बालः किंचिन्नाकंपत स्मयात् । तदा वीराः प्रशंसां तु प्रचक्रुस्तस्य बाल्यतः १७। स शालेन हतो वीरः संहारास्त्रं समाददे । संहन्तुं वैरिणं कोपात्कुशः स परमास्त्रवित् १८। संहारास्त्रं समालोक्य दुर्जयं कुशमोचितम् । दध्यौ रामं स्वमनसा भक्तविघ्नविनाशकम् १९। तदा मुक्तं कुशेनाशु तदस्त्रं हृदि मारुतेः । लग्नं महाव्यथाकारि तेन मूर्च्छामितः पुनः २०। मूर्च्छां प्राप्तं तु तं दृष्ट्वा प्लवंगं बलसंयुतः । विव्याध सायकैस्तीक्ष्णैः सैन्यं तत्सकलं महत् २१। तस्य बाणायुतैर्भग्नं बलं सर्वं रणांगणे । पलायनपरं जातं चतुरंगसमन्वितम् २२। तदा कपिपतिः कोपात्सुग्रीवो रक्षको महान् । अभ्यधावन्नगान्नैकानुत्पाट्य कुशमुद्भटम् २३। कुशः सर्वान्प्रचिच्छेद लीलया प्रहसन्नगान् । पुनरप्यागतान्वृक्षांश्चिच्छेद तरसा बली २४। अनेकबाणव्यथितः सुग्रीवः समरांगणे । जग्राह पर्वतं घोरं कुशमस्तकमध्यतः २५। कुशस्तं नगमायांतं वीक्ष्य बाणैरनेकधा । निष्पिपेष चकाराशु महारुद्रांगयोग्यताम् २६। सुग्रीवस्तन्महत्कर्म दृष्ट्वा बालेन निर्मितम् । जयाशाप्रतिनिर्वृत्तो बभूव समरांगणे २७। रणमध्ये दुराक्रांतं कुशं लांगूलताडकम् । अत्यमर्षीरुषाक्रांतस्तं हंतुं नगमाददे २८। आत्मानं हंतुमुद्युक्तं वीक्ष्य सुग्रीवमादरात् । ताडयामास बहुभिः सायकैः शितपर्वभिः २९। स ताडितो बहुविधैः शरैः पीडासमन्वितः । कुशं हंतुं समारब्धो ययौ शालं समाददे ३०। तदापि च कुशो वीरो वारुणास्त्रं समाददे । बबंध तं च पाशेन दृढेन स लवाग्रजः ३१। स बद्धः पाशकैः स्निग्धैः कुशेन बलशालिना । पपात रणमध्ये वै महावीरैरलंकृते ३२। सुग्रीवं पतितं दृष्ट्वा वीराः सर्वत्र दुद्रुवुः । जयमाप लवभ्राता महावीरशिरोमणिः ३३। तावल्लवो भटाञ्जित्वा पुष्कलं चांगदं तथा । प्रतापाग्र्यं वीरमणिं तथान्यानपि भूभुजः ३४। जयं प्राप्य रणे वीरो लवो भ्रातरमागमत् । संग्रामे जयकर्तारं वैरिकोटिनिपातकम् ३५। परस्परं प्रहृषितौ परिरंभं प्रकुर्वतः । जयं प्राप्तौ तदा वार्तां मुने चक्रतुरुन्मदौ ३६। लव उवाच। भ्रातस्तव प्रसादेन निस्तीर्णो रणतोयधिः । इदानीं वीररणकं शोधयावः सुशोभितम् ३७। इत्युक्त्वा त्वरितं वीरो जग्मतुस्तौ कुशीलवौ । राज्ञो मौलिमणिं चित्रं जग्राह कनकाचितम् ३८। पुष्कलस्य लवो वीरो जग्राह मुकुटं शुभम् । अंगदे च महानर्घ्ये शत्रुघ्नस्यापरस्य च ३९। गृहीत्वा शस्त्रसंघातं हनूमंतं कपीश्वरम् । सुग्रीवं सविधे गत्वा उभावपि बबंधतुः ४०। पुच्छे वायुसुतस्यायं गृहीत्वा तु कुशानुजः । भ्रातरं प्रत्युवाचेदं नेष्यामि स्वकमंदिरम् ४१। आवयोर्जननी प्रीत्यै गृहीत्वा पुच्छके त्वहम् । क्रीडार्थमृषिपुत्राणां कौतुकार्थं ममैव च ४२। एतच्छ्रुत्वा ततो वाक्यमुवाच च कुशो लवम् । अहमेनं ग्रहीष्यामि वानरं बलिनं दृढम् ४३। इत्येवं भाषमाणौ तौ बद्ध्वा तौ बलिनां वरौ । पुच्छयोर्बलिनौ धृत्वा जग्मतुः स्वाश्रमं प्रति ४४। स्वाश्रमाय प्रगच्छंतौ वीक्ष्य तौ कपिसत्तमौ । कंपमानौ जगदतुरन्योन्यं भीतया गिरा ४५। हनूमान्कपिराजानं प्रत्युवाच भयार्द्रधीः । एतौ रामसुतावस्मान्नेष्यतः स्वाश्रमं प्रति ४६। मया पूर्वं कृतं कर्म जानकीं प्रतिगच्छता । तत्र मे जानकी देवी संमुखाभून्मनोहरा ४७। सा मां द्रक्ष्यति वैदेही बद्धं पाशेन वैरिणा । तदा हसिष्यति वरा त्रपा मेऽत्र भविष्यति ४८। मया किमत्र कर्तव्यं प्राणत्यागो भविष्यति । महद्दुःखं चापतितं स रामः किं करिष्यति ४९। सुग्रीवस्तद्वचः श्रुत्वा ममाप्येवं महाकपे । नेष्यते यदि मामेवं निधनं तु भविष्यति ५०। एवं कथयतोरेव ह्यन्योन्यं भयभीतयोः । कुशो लवश्च भवनं मातुः प्रापतुरोजसा ५१। तावायातौ समीक्ष्यैव जहर्ष जननी तयोः । अन्योन्यं परमप्रीत्या परिरेभे निजौ सुतौ ५२। ताभ्यां पुच्छगृहीतौ तौ वानरौ वीक्ष्य जानकी । हनूमंतं च सुग्रीवं सर्ववीरं कपीश्वरम् ५३। जहास पाशबद्धौ तौ वीक्षमाणा वरांगना । उवाच च विमोक्षार्थं वदंती वचनं वरम् ५४। पुत्रौ प्रमुंचतं कीशौ महावीरौ महाबलौ । ईक्षंतौ मां यदि स्फीतौ प्राणत्यागं करिष्यतः ५५। अयं वै हनुमान्वीरो यो ददाह दनोः पुरीम् । अयमप्यृक्षराजो हि सर्ववानरभूमिपः ५६। किमर्थं विधृतौ कुत्र किं वा कृतमनादरात् । पुच्छे युवाभ्यां विधृतौ स महान्विस्मयोऽस्ति मे ५७। इति मातुर्वचः श्लक्ष्णं वीक्ष्यतां पुत्रकौ तदा । ऊचतुर्विनयश्रेष्ठौ महाबलसमन्वितौ ५८। मातः कश्चन भूपालो रामो दाशरथिर्बली । तेन मुक्तो हयः स्वर्णभालपत्रः सुशोभितः ५९। तत्रैवं लिखितं मातरेकवीराप्रसूर्मम । ये क्षत्रियास्ते गृह्णन्तु नोचेत्पादतलार्चकाः ६०। तदा मया विचारो वै कृतः स्वांते पतिव्रते । भवती क्षत्रिया किं न वीरसूः किं न वा भवेत् ६१। धार्ष्ट्यं तद्वीक्ष्य भूपस्य गृहीतोऽश्वो मया बलात् । जितं कुशेन वीरेण सैन्यं तत्पातितं रणे ६२। मुकुटोऽयं भूमिपतेर्जानीहि पतिदेवते । अयमप्यन्यवीरस्य पुष्कलस्य महात्मनः ६३। जानीहि मुकुटं त्वन्यं मणिमुक्ताविराजितम् । अश्वोऽयं मे मनोहारी कामयानो हि भूपतेः ६४। आरोहणाय मद्भ्रातुर्जानीहि बलिनो वरे । इमौ कीशौ मया रंतुमानीतौ बलिनां वरौ ६५। कौतुकार्थं तवैवैतौ संग्रामे युद्धकारकौ । इति वाक्यं समाकर्ण्य जानकी पतिदेवता ६६। जगाद पुत्रौ तौ वीरौ मोचयेथां पुनः पुनः । सीतोवाच। युवाभ्यामनयः सृष्टो हृतो रामहयो महान् ६७। अनेके पातिता वीरा इमौ बद्धौ कपीश्वरौ । पितुस्तव हयो वीरो यागार्थं मोचितोऽमुना ६८। तस्यापि हृतवंतौ किं वाजिनं मखसत्तमे । मुंचतं प्लवगावेतौ मुंचतं वाजिनां वरम् ६९। क्षाम्यतां भूपतेर्भ्राता शत्रुघ्नः परकोपनः । जनन्यास्तद्वचः श्रुत्वा ऊचतुस्तां बलान्वितौ ७०। क्षात्रधर्मेण तं भूपं जितवंतौ बलान्वितम् । नास्माकमनयोर्भावि क्षात्रधर्मेण युध्यताम् ७१। वाल्मीकिना पुरा प्रोक्तमस्माकं पठतां पुरः ७२। कण्वस्याश्रमकेवाहं धृत्वा यागक्रियोचितम् । तस्मात्सुतः स्वपित्रापि युध्येद्भ्रात्रापि चानुजः ७३। गुरुणा शिष्य एवापि तस्मान्नो पापसंभवः । त्वदाज्ञातो ऽधुना चावां दास्यावो हयमुत्तमम् ७४। मोक्ष्यावः कीशावेतौ हि करिष्यावो वचस्तव । इत्युक्त्वा मातरं वीरौ गतौ रणे कपीश्वरौ ७५। अमुंचतां हयं चापि हयमेधक्रियोचितम् । सीतादेवी स्वपुत्राभ्यां श्रुत्वा सैन्यं निपातितम् ७६। श्रीरामं मनसा ध्यात्वा भानुमैक्षत साक्षिणम् । यद्यहं मनसा वाचा कर्मणा रघुनायकम् ७७। भजामि नान्यं मनसा तर्हि जीवेदयं नृपः । सैन्यं चापि महत्सर्वं यन्नाशितमिदं बलात् ७८। पुत्राभ्यां तत्तु जीवेत मत्सत्याज्जगतांपते । इति यावद्वचो ब्रूते जानकीपतिदेवता ७९। तावद्बलं च तत्सर्वं जीवितं रणमूर्द्धनि ८०। इति श्रीपद्मपुराणे पातालखण्डे शेषवात्स्यायनसंवादे रामाश्वमेधे। सैन्यजीवनंनाम चतुःषष्टितमोऽध्यायः ६४।

śeṣa uvāca| śatrughnaṃ patitaṃ vīkṣya surathaḥ pravaro nṛpaḥ | prayayau maṇinā sṛṣṭe rathe tiṣṭhanmahādbhute 1| puṣkalastu raṇe pūrvaṃ pātitaḥ sa vicārayan | lavaṃ yayau tadā yoddhuṃ mahāvīrabalonnatam 2| surathaḥ kuśamāsādya bāṇānmuṃcannanekadhā | vyathayāmāsa samare mahāvīraśiromaṇiḥ 3| surathaṃ virathaṃ cakre bāṇairdaśabhirucchikhaiḥ | dhanuściccheda tarasā sudṛḍhaṃ guṇapūritam 4| astrapratyastrasaṃhāraiḥ kṣaipaṇaiḥ pratikṣepaṇaiḥ | abhavattumulaṃ yuddhaṃ vīrāṇāṃ romaharṣaṇam 5| atyaṃtaṃ samarodyukte surathe durjaye nṛpe | kuśaḥ saṃciṃtayāmāsa kiṃkartavyaṃ raṇe mayā 6| vicārya niśitaṃ ghoraṃ sāyakaṃ samupādade | hananāya nṛpasyāsya mahābalasamanvitaḥ 7| tamāgataṃ śaraṃ dṛṣṭvā kālānalasamaprabham | chettuṃ matiṃ cakārāśu tāvallagno mahāśaraḥ 8| mumūrccha samare vīro mahāvīrabalastataḥ | papāta syaṃdanopasthe sārathistamupāharat 9| surathe patite dṛṣṭvā kuśaṃ jayasamanvitam | trāsayaṃtaṃ vīragaṇāniyāya pavanātmajaḥ 10| samīrasūnuṃ prabalamāyāṃtaṃ vīkṣya vānaram | jahāsa darśayandaṃtānkopayanniva taṃ krudhā 11| uvāca ca hanūmaṃtamehi tvaṃ mama saṃmukham | bhetsye bāṇasahasreṇa mṛto yāsyasi yāminīm 12| ityukto hanumāñjñātvā rāmasūnuṃ mahābalam | svāmikāryaṃ prakartavyamiti kṛtvā pradhāvitaḥ 13| śālamutpāṭya tarasā viśālaṃ śataśākhinam | kuśaṃ vakṣasi saṃlakṣya yayau yoddhuṃ mahābalaḥ 14| śālahastaṃ samāyāṃtaṃ hanūmaṃtaṃ mahābalam | tribhiḥ kṣuraprairvivyādha hṛdi caṃdropamairbalī 15| sa bāṇaviddhastarasā kuśena balaśālinā | śālena hṛdi saṃjaghne daṃtānniṣpiṣya mārutiḥ 16| śālāhatastadā bālaḥ kiṃcinnākaṃpata smayāt | tadā vīrāḥ praśaṃsāṃ tu pracakrustasya bālyataḥ 17| sa śālena hato vīraḥ saṃhārāstraṃ samādade | saṃhantuṃ vairiṇaṃ kopātkuśaḥ sa paramāstravit 18| saṃhārāstraṃ samālokya durjayaṃ kuśamocitam | dadhyau rāmaṃ svamanasā bhaktavighnavināśakam 19| tadā muktaṃ kuśenāśu tadastraṃ hṛdi māruteḥ | lagnaṃ mahāvyathākāri tena mūrcchāmitaḥ punaḥ 20| mūrcchāṃ prāptaṃ tu taṃ dṛṣṭvā plavaṃgaṃ balasaṃyutaḥ | vivyādha sāyakaistīkṣṇaiḥ sainyaṃ tatsakalaṃ mahat 21| tasya bāṇāyutairbhagnaṃ balaṃ sarvaṃ raṇāṃgaṇe | palāyanaparaṃ jātaṃ caturaṃgasamanvitam 22| tadā kapipatiḥ kopātsugrīvo rakṣako mahān | abhyadhāvannagānnaikānutpāṭya kuśamudbhaṭam 23| kuśaḥ sarvānpraciccheda līlayā prahasannagān | punarapyāgatānvṛkṣāṃściccheda tarasā balī 24| anekabāṇavyathitaḥ sugrīvaḥ samarāṃgaṇe | jagrāha parvataṃ ghoraṃ kuśamastakamadhyataḥ 25| kuśastaṃ nagamāyāṃtaṃ vīkṣya bāṇairanekadhā | niṣpipeṣa cakārāśu mahārudrāṃgayogyatām 26| sugrīvastanmahatkarma dṛṣṭvā bālena nirmitam | jayāśāpratinirvṛtto babhūva samarāṃgaṇe 27| raṇamadhye durākrāṃtaṃ kuśaṃ lāṃgūlatāḍakam | atyamarṣīruṣākrāṃtastaṃ haṃtuṃ nagamādade 28| ātmānaṃ haṃtumudyuktaṃ vīkṣya sugrīvamādarāt | tāḍayāmāsa bahubhiḥ sāyakaiḥ śitaparvabhiḥ 29| sa tāḍito bahuvidhaiḥ śaraiḥ pīḍāsamanvitaḥ | kuśaṃ haṃtuṃ samārabdho yayau śālaṃ samādade 30| tadāpi ca kuśo vīro vāruṇāstraṃ samādade | babaṃdha taṃ ca pāśena dṛḍhena sa lavāgrajaḥ 31| sa baddhaḥ pāśakaiḥ snigdhaiḥ kuśena balaśālinā | papāta raṇamadhye vai mahāvīrairalaṃkṛte 32| sugrīvaṃ patitaṃ dṛṣṭvā vīrāḥ sarvatra dudruvuḥ | jayamāpa lavabhrātā mahāvīraśiromaṇiḥ 33| tāvallavo bhaṭāñjitvā puṣkalaṃ cāṃgadaṃ tathā | pratāpāgryaṃ vīramaṇiṃ tathānyānapi bhūbhujaḥ 34| jayaṃ prāpya raṇe vīro lavo bhrātaramāgamat | saṃgrāme jayakartāraṃ vairikoṭinipātakam 35| parasparaṃ prahṛṣitau pariraṃbhaṃ prakurvataḥ | jayaṃ prāptau tadā vārtāṃ mune cakraturunmadau 36| lava uvāca| bhrātastava prasādena nistīrṇo raṇatoyadhiḥ | idānīṃ vīraraṇakaṃ śodhayāvaḥ suśobhitam 37| ityuktvā tvaritaṃ vīro jagmatustau kuśīlavau | rājño maulimaṇiṃ citraṃ jagrāha kanakācitam 38| puṣkalasya lavo vīro jagrāha mukuṭaṃ śubham | aṃgade ca mahānarghye śatrughnasyāparasya ca 39| gṛhītvā śastrasaṃghātaṃ hanūmaṃtaṃ kapīśvaram | sugrīvaṃ savidhe gatvā ubhāvapi babaṃdhatuḥ 40| pucche vāyusutasyāyaṃ gṛhītvā tu kuśānujaḥ | bhrātaraṃ pratyuvācedaṃ neṣyāmi svakamaṃdiram 41| āvayorjananī prītyai gṛhītvā pucchake tvaham | krīḍārthamṛṣiputrāṇāṃ kautukārthaṃ mamaiva ca 42| etacchrutvā tato vākyamuvāca ca kuśo lavam | ahamenaṃ grahīṣyāmi vānaraṃ balinaṃ dṛḍham 43| ityevaṃ bhāṣamāṇau tau baddhvā tau balināṃ varau | pucchayorbalinau dhṛtvā jagmatuḥ svāśramaṃ prati 44| svāśramāya pragacchaṃtau vīkṣya tau kapisattamau | kaṃpamānau jagadaturanyonyaṃ bhītayā girā 45| hanūmānkapirājānaṃ pratyuvāca bhayārdradhīḥ | etau rāmasutāvasmānneṣyataḥ svāśramaṃ prati 46| mayā pūrvaṃ kṛtaṃ karma jānakīṃ pratigacchatā | tatra me jānakī devī saṃmukhābhūnmanoharā 47| sā māṃ drakṣyati vaidehī baddhaṃ pāśena vairiṇā | tadā hasiṣyati varā trapā me'tra bhaviṣyati 48| mayā kimatra kartavyaṃ prāṇatyāgo bhaviṣyati | mahadduḥkhaṃ cāpatitaṃ sa rāmaḥ kiṃ kariṣyati 49| sugrīvastadvacaḥ śrutvā mamāpyevaṃ mahākape | neṣyate yadi māmevaṃ nidhanaṃ tu bhaviṣyati 50| evaṃ kathayatoreva hyanyonyaṃ bhayabhītayoḥ | kuśo lavaśca bhavanaṃ mātuḥ prāpaturojasā 51| tāvāyātau samīkṣyaiva jaharṣa jananī tayoḥ | anyonyaṃ paramaprītyā parirebhe nijau sutau 52| tābhyāṃ pucchagṛhītau tau vānarau vīkṣya jānakī | hanūmaṃtaṃ ca sugrīvaṃ sarvavīraṃ kapīśvaram 53| jahāsa pāśabaddhau tau vīkṣamāṇā varāṃganā | uvāca ca vimokṣārthaṃ vadaṃtī vacanaṃ varam 54| putrau pramuṃcataṃ kīśau mahāvīrau mahābalau | īkṣaṃtau māṃ yadi sphītau prāṇatyāgaṃ kariṣyataḥ 55| ayaṃ vai hanumānvīro yo dadāha danoḥ purīm | ayamapyṛkṣarājo hi sarvavānarabhūmipaḥ 56| kimarthaṃ vidhṛtau kutra kiṃ vā kṛtamanādarāt | pucche yuvābhyāṃ vidhṛtau sa mahānvismayo'sti me 57| iti māturvacaḥ ślakṣṇaṃ vīkṣyatāṃ putrakau tadā | ūcaturvinayaśreṣṭhau mahābalasamanvitau 58| mātaḥ kaścana bhūpālo rāmo dāśarathirbalī | tena mukto hayaḥ svarṇabhālapatraḥ suśobhitaḥ 59| tatraivaṃ likhitaṃ mātarekavīrāprasūrmama | ye kṣatriyāste gṛhṇantu nocetpādatalārcakāḥ 60| tadā mayā vicāro vai kṛtaḥ svāṃte pativrate | bhavatī kṣatriyā kiṃ na vīrasūḥ kiṃ na vā bhavet 61| dhārṣṭyaṃ tadvīkṣya bhūpasya gṛhīto'śvo mayā balāt | jitaṃ kuśena vīreṇa sainyaṃ tatpātitaṃ raṇe 62| mukuṭo'yaṃ bhūmipaterjānīhi patidevate | ayamapyanyavīrasya puṣkalasya mahātmanaḥ 63| jānīhi mukuṭaṃ tvanyaṃ maṇimuktāvirājitam | aśvo'yaṃ me manohārī kāmayāno hi bhūpateḥ 64| ārohaṇāya madbhrāturjānīhi balino vare | imau kīśau mayā raṃtumānītau balināṃ varau 65| kautukārthaṃ tavaivaitau saṃgrāme yuddhakārakau | iti vākyaṃ samākarṇya jānakī patidevatā 66| jagāda putrau tau vīrau mocayethāṃ punaḥ punaḥ | sītovāca| yuvābhyāmanayaḥ sṛṣṭo hṛto rāmahayo mahān 67| aneke pātitā vīrā imau baddhau kapīśvarau | pitustava hayo vīro yāgārthaṃ mocito'munā 68| tasyāpi hṛtavaṃtau kiṃ vājinaṃ makhasattame | muṃcataṃ plavagāvetau muṃcataṃ vājināṃ varam 69| kṣāmyatāṃ bhūpaterbhrātā śatrughnaḥ parakopanaḥ | jananyāstadvacaḥ śrutvā ūcatustāṃ balānvitau 70| kṣātradharmeṇa taṃ bhūpaṃ jitavaṃtau balānvitam | nāsmākamanayorbhāvi kṣātradharmeṇa yudhyatām 71| vālmīkinā purā proktamasmākaṃ paṭhatāṃ puraḥ 72| kaṇvasyāśramakevāhaṃ dhṛtvā yāgakriyocitam | tasmātsutaḥ svapitrāpi yudhyedbhrātrāpi cānujaḥ 73| guruṇā śiṣya evāpi tasmānno pāpasaṃbhavaḥ | tvadājñāto 'dhunā cāvāṃ dāsyāvo hayamuttamam 74| mokṣyāvaḥ kīśāvetau hi kariṣyāvo vacastava | ityuktvā mātaraṃ vīrau gatau raṇe kapīśvarau 75| amuṃcatāṃ hayaṃ cāpi hayamedhakriyocitam | sītādevī svaputrābhyāṃ śrutvā sainyaṃ nipātitam 76| śrīrāmaṃ manasā dhyātvā bhānumaikṣata sākṣiṇam | yadyahaṃ manasā vācā karmaṇā raghunāyakam 77| bhajāmi nānyaṃ manasā tarhi jīvedayaṃ nṛpaḥ | sainyaṃ cāpi mahatsarvaṃ yannāśitamidaṃ balāt 78| putrābhyāṃ tattu jīveta matsatyājjagatāṃpate | iti yāvadvaco brūte jānakīpatidevatā 79| tāvadbalaṃ ca tatsarvaṃ jīvitaṃ raṇamūrddhani 80| iti śrīpadmapurāṇe pātālakhaṇḍe śeṣavātsyāyanasaṃvāde rāmāśvamedhe| sainyajīvanaṃnāma catuḥṣaṣṭitamo'dhyāyaḥ 64|

English translation

Śeṣa said :

1-5. Seeing Śatrughna fallen, the excellent king Suratha getting into his very wonderful chariot fashioned with jewels went (to fight). Realising that Puṣkala was formerly defeated in battle, he went to fight with Lava , the crest-jewel (i.e. the best) of the great heroes. Suratha, the crest-jewel (i.e. the best) of the great heroes, having reached Kuśa and discharging arrows in various ways, troubled him. With ten arrows with rising flames he deprived Suratha of his chariot. He speedily cut off his bow, strong and strung. The battle between the two heroes (fought with) destruction of missiles and counter-missiles and throwing and counter-throwing of missiles was fierce and thrilling.

6-11. When the invincible king Suratha was very much exerting in the battle, Kuśa thought:‘What should I do (now) in the battle?’ He, possessing great power, having thought, took a sharp, fierce arrow to kill the king. Seeing the arrow resembling the destructive fire at the end of the world, coming (towards him), he decided to cut it off. Just then the great arrow struck him. Then the very brave hero fainted in the battle, and fell in the interior of his chariot. The charioteer took him (away). Seeing on the fall of Suratha Kuśa getting victory and scaring the hosts of heroes, (Hanūmat), the son of Wind, went (to fight with him). Seeing the powerful monkey, the son of Wind, coming (to fight), he grinned, as it were provoking him to become wrathful.

12-17a. He said to Hanūmat: “Come face to face with me. I shall pierce (you) with a thousand arrows. You will go to (i.e. fall on) the ground dead.” Hanūmat, who was addressed like this, realising that Rāma ’s son was very powerful and that the duty for the master should be done, ran (to him). The very powerful one, having quickly up rooted a lofty śāla -tree having a hundred branches and aiming at Kuśa’s chest, went to fight with him. The mighty one, seeing Hanūmat with a śāla-tree in his hand coming (to him), pierced him on his chest with three arrows having sharp horse-shoe-shaped heads and resembling the (crescent) moon. The son of Wind (i.e. Hanūmat), being quickly pierced by the powerful Kuśa, gnawing his teeth struck him on his chest with the śāla-tree. The bov [bow?] (though) struck with the śāla did not shake a bit.

l7b-22. Then the heroes through amazement (i.e. being amazed) praised him on account of his being a child. That hero Kuśa, knowing (the use of) great missiles (and) being struck with the śāla-tree, took through anger a destructive missile to kill his enemy. Seeing the invincible destructive missile discharged by Kuśa, (Hanūmat) mentally meditated upon Rāma, the destroyer of the difficulties of his devotees. Then that missile causing great pain, which was discharged by Kuśa, stuck to (i.e. struck) the chest of Māruti and he again swooned. Seeing the monkey (fallen) unconscious, the powerful one (i.e. Kuśa) pierced with sharp arrows that entire huge army. That entire army consisting of four divisions, shattered with myriads of arrows of (i.e. discharged by) him on the battlefield took to fleeing.

23-28. Then Sugrīva , the lord of monkeys and a great protector uprooted many trees and ran to the great warrior Kuśa. Kuśa, laughing, easilycut off all (those) trees. The mighty one again speedily cut off the trees that came to him. Afflicted by many arrows on the battlefield, Sugrīva took a fearful mountain (to hit it) on the head of Kuśa. Seeing the mountain coming (to him) Kuśa pounded it with arrows (discharged) in many ways and quickly rendered it fit for Mahārudra ’s body (i.e. converted it into ashes). Seeing that great feat performed by the boy, Sugrīva was averse to the hope of (i.e. was disappointed towards) victory on the battlefield. Seeing in the battle invincible Kuśa striking (Hanūmat’s tail) and becoming very impatient and overpowered with anger, he took a mountain to strike him (with).

29-36. Seeing Sugrīva eager to strike him, he carefully struck him with many arrows with sharp joints. He, struck with arrows of different kinds, and being afflicted, was exasperated to kill Kuśa, (and) went, (and) took a śāla-tree. Then also that hero Kuśa took a missile presided over by Varuṇa and he, the elder brother of Lava, bound him with that strong noose. He being (thus) bound with soft nooses by the powerful Kuśa, fell on the battlefield adorned by great heroes. Seeing Sugrīva fallen, the warriors fled everywhere. Lava’s brother, the crest-jewel (i. e. the best) of great heroes, got victory. Just then, Lava, having vanquished warriors, also Puṣkala, Aṅgada , Pratāpāgrya, Vīramaṇi , and also other kings, got victory in the battle, and came to his brother who got victory in the battle and who destroyed crores of enemies. O sage, pleased with each other, they embraced each other. They obtained victory. Then, being elated they talked (to each other).

Lava said :

37-42. O brother, because of your grace, the ocean of the battle has been crossed (by me). Now we shall cleanse the well-adorned battlefield.

Saying so the heroes, Kuśa and Lava, went (to the battlefield). (Lava) took the beautiful crest-jewel of the king which was decked with gold; so also the hero Lava took the auspicious crown of Puṣkala. He also took the very costly armlets of Śatrughna, and of someone else. Seizing the heap of weapons and also Hanūmat, the lord of monkeys, they went near Sugrīv a and tied both (Hanūmat and Sugrīva). The younger brother of Kuśa held the tail of the son of Wind and said to his brother: “I shall take (him) to my (i.e. our) abode holding him by his tail, to please our mother, for the sages’ sons to play (with) and for (satisfying) my curiosity

43-49. Hearing these words, Kuśa then spoke to Lava: “I shall seize this strong, powerful monkey.” Speaking like this, the two, best among the mighty, having bound the two at their tails and holding the two powerful ones, went to their hermitage. The two best monkeys (i.e. Hanūmat and Sugrīva) seeing them going to their hermitage, trembled and said to each other in frightened words (i.e. words full of fear). Hanūmat, with his mind soft through fear, said to the lord of monkeys: “These two sons of Rāma will take us to their hermitage. Formerly I who had gone to Jānakī , had done a (good) act for Jānakī. At that time the lovely queen Jānakī was (well) disposed to me. That Vaidehī will see me bound with a noose by my enemy. The excellent one will then laugh (and) I shall be ashamed. What should I do now? My life will end. A great misery has befallen. What will that Rāma do.”

50-52. Hearing his words (Sugrīva said): “O great monkey, my (condition) is the same. If he will take me like this, I shall die.” When the two who were very much frightened, were telling like this to each other, Kuśa and Lava energetically reached the house of their mother. Seeing them to have come, their mother was delighted. With great affection she embraced her two sons, one by one.

53-57. Jānakī, having seen the two monkeys, Hanūmat and Sugrīva, the best among the heroes and the lord of monkeys, held by the two (i.e. by Kuśa and Lava) by their tails, laughed. The excellent lady, seeing them tied with nooses, speaking for their release, said these excellent words: “O my (two) sons, free these very brave and very powerful monkeys. If the two big ones see me, they will cast their life. This is the hero Hanūmat, who burnt the city of (the son of) Danu (i.e. the demon Rāvaṇa ). This also is the lord of bears, the king of all monkeys. Why have you, and where have you arrested them? What have you done (to them) through disrespect? That (you) two young ones have seized them by their tails makes me wonder.”

58-66a. Hearing these soft words of the mother, the two sons, best in politeness and possessing great power, then said: “Mother, there is a strong king (named) Rāma, the son of Daśaratha . He has released a horse, well-adorned and having a golden note on his forehead. O mother, this is what is written there: ‘My mother has given birth to one brave (son only). Those who are (i.e. call themselves) kṣatriyas , may seize (the horse); otherwise, they should worship the soles of (my) feet.’ Then, O you chaste lady, I thought in my heart: ‘Are you not a kṣatriya lady? Would you not be the mother of heroes? (i.e. Have you not given birth to heroes?) Seeing the arrogance of the king, I have forcibly seized the horse. (Our) hero Kuśa has conquered and destroyed his army in the battle. O you who look upon your husband as a deity, know this to be the crown of the king. This also is the crown of another hero, the noble Puṣkala. Know this to be another crown, adorned with gems and pearls. O excellent one, know this to be the king’s attractive horse, going at will, which is for my strong brother to ride upon. I have brought these two monkeys, the best among the strong, to play (with). They, who fight, are (brought here) for (i.e. to satisfy) your curiosity?”

66b-67a. Hearing these words, Jānakī, who looked upon her husband as a deity, repeatedly said to her brave sons: “Release them”.

Sītā said :

67b-69a. You have done injustice. You have snatched Rāma’s great horse. You have knocked down many soldiers. You have bound these lords of monkeys. The brave horse of your father is let loose by him for a sacrifice. You have snatched his horse too (which is to be used) in the best sacrifice.

69b-75a. Release these two monkeys; release this best among horses. Apologise to the very angry Śatrughna, the brother of the king.

Hearing these words of their mother, the best among the mighty, said: “We have conquered that king possessing might in the manner of kṣatriyas. Unfairness is not possible in the case of us who fight in the manner of kṣatriyas. Formerly Vālmīki said to us who were learning (under him): ‘In the hermitage a horse fit for a sacrificial rite was seized. Therefore, a son would (i.e. could) fight with his father, or a younger brother with his (elder) brother; or a disciple with his teacher. By that no sin accrues.’ By your order now we shall give (back) the excellent horse. We shall release these two monkeys. We shall do (i.e. carry out) your words (i.e. your order).”

75b-80. Saying so, the two went to the battlefield, released the lords of monkeys, so also the horse fit for the horse-sacrifice. Queen Sītā , having heard from her sons about the destruction of the army, reflecting in her mind upon Śrī Rāma , looked at the sun, the witness. “If by mind, words or deeds I worship Raghunātha and none else, then let this king revive. O you lord of the world s, due to my truth (fulness) let the entire big army, forcibly destroyed by my sons, revive.” While Jānakī who looked upon her husband as her deity, was talking like this, the entire army revived on the battlefield.

Complete chapter-aligned witnesses. Sanskrit Wikisource page 43956, revision 334639 (2022-04-07T01:40:37Z). English is N. A. Deshpande’s complete translation, controlled against its chapter page at https://www.wisdomlib.org/hinduism/book/the-padma-purana/d/doc365375.html and the ten-volume archival witness. The witnesses are aligned at chapter level; no unsupported verse-by-verse equivalence is asserted.