Skip to main content

Svarga-khaṇḍa · Chapter 3

Chapter 3

Unit 210 of 693Svarga-khaṇḍa · Chapter 3Svarga-khaṇḍa · Chapter 31 source entries

Svarga-khaṇḍa · Chapter 3

Source

ऋषय ऊचुः-। नदीनां पर्वतानां च नामधेयानि सर्वशः । तथा जनपदानां च ये चान्ये भूमिमाश्रिताः १। प्रमाणं च प्रमाणज्ञ पृथिव्याः किल सर्वतः । निखिलेन समाचक्ष्व काननानि च सत्तम २। सूत उवाच-। पंचेमानि महाप्राज्ञ महाभूतानि संग्रहात् । जगतीस्थानि सर्वाणि समान्याहुर्मनीषिणः ३। भूमिरापस्तथा वायुरग्निराकाशमेव च । गुणोत्तराणि सर्वाणि तेषां भूमिः प्रधानतः ४। शब्दस्पर्शश्च रूपं च रसो गंधश्च पंचमः । भूमेरेतेगुणाः प्रोक्ता ऋषिभिस्तत्त्ववेदिभिः ५। चत्वारोप्सुगुणा विप्रा गंधस्तत्र न विद्यते । शब्दः स्पर्शश्च रूपं च तेजसोथ गुणास्त्रयः ६। शब्दः स्पर्शश्च वायोस्तु आकाशे शब्द एव च । एते पंच गुणा विप्रा महाभूतेषु पंचसु ७। वर्तंते सर्वलोकेषु येषु भूताः प्रतिष्ठिताः । अन्योन्यं नातिवर्तंते साम्यं भवति वै तदा ८। यदा तु विषमीभावमाविशंति परस्परम् । तदा देहैर्देहवंतो व्यतिरोहंति नान्यथा ९। आनुपूर्व्या विनश्यंति जायंते चानुपूर्वशः । सर्वाण्यपरिमेयाणि तदेषां रूपमैश्वरम् १०। यत्रयत्र हि दृश्यंते धावंति पांचभौतिकाः । तेषां मनुष्यास्तर्केण प्रमाणानि प्रचक्षते ११। अचिंत्याः खलु ये भावास्तान्न तर्केण साधयेत् । सुदर्शनं प्रवक्ष्यामि द्वीपं तु मुनिपुंगवाः १२। परिमंडलो महाभागा द्वीपोऽसौ चक्रसंस्थितः । नदीजलपरिच्छिन्नः पर्वतैश्चाब्धिसन्निभैः १३। पुरैश्च विविधाकारै रम्यैर्जनपदैस्तथा । वृक्षैः पुष्पफलोपेतैः संपन्नो धनधान्यवान् १४। लवणेन समुद्रेण समंतात्परिवारितः । यथा हि पुरुषः पश्येदादर्शे मुखमात्मनः १५। एवं सुदर्शनो द्वीपो दृश्यते चक्रमंडलः । द्विरंशे पिप्पलस्तस्य द्विरंशे च शशो महान् १६। सर्वौषधिं समादाय सर्वतः परिवारितः । आपस्ततोन्या विज्ञेयाः शेषः संक्षेप उच्यते १७। ऋषय ऊचुः-। उक्तो यस्य च संक्षेपो बुद्धिमन्विधिवत्त्वया । तत्त्वज्ञश्चासि सर्वस्य विस्तरं सूत नो वद १८। यावान्भूम्यवकाशोयं दृश्यते शशलक्षणे । तस्य प्रमाणं प्रब्रूहि ततो वक्ष्यसि पिप्पलम् १९। एवं तैः किल पृष्टः स सूतो वाक्यमथाब्रवीत् । सूत उवाच-। प्रागायता महाप्राज्ञाः षडेते रत्नपर्वताः २०। अवगाढा ह्युभयतः समुद्रौ पूर्वपश्चिमौ । हिमवान्हिमकूटश्च निषधश्च नगोत्तमः २१। नीलश्च वैडूर्यमयः श्वेतश्च शशिसन्निभः । सर्वधातुपिनद्धश्च शृंगवान्नामपर्वतः २२। एते वै पर्वता विप्राः सिद्धचारणसेविताः । तेषामंतरविष्कुंभौ योजनानि सहस्रशः २३। तत्र पुण्या जनपदास्तानि वर्षाणि सत्तमाः । वसंति तेषां सत्त्वानि नानाजातीनि सर्वशः २४। इदं तु भारतं वर्षं ततो हैमवतं परम् । हेमकूटात्परं चैव हरिवर्षं प्रचक्षते २५। दक्षिणेन तु नीलस्य निषधस्योत्तरेण च । प्रागायतो महाभागा माल्यवान्नाम पर्वतः २६। ततः परं माल्यवतः पर्वतो गंधमादनः । परिमंडलस्तयोर्मध्ये मेरुः कनकपर्वतः २७। आदित्यतरुणाभासो विधूम इव पावकः । योजनानां सहस्राणि चतुरशीतिरुच्छ्रितः २८। अधस्ताच्चतुरशीतिर्योजनानां द्विजोत्तमाः । ऊर्ध्वमधश्च तिर्यक्च लोकानावृत्य तिष्ठति २९। तस्य पार्श्वेष्वमी द्वीपाश्चत्वारः संस्थिता द्विजाः । भद्राश्वः केतुमालश्च जंबूद्वीपश्च सत्तमाः ३०। उत्तराश्चैव कुरुवः कृतपुण्य प्रतिश्रयाः । विहंगसुमुखो यस्तु सुपार्श्वस्यात्मजः किल ३१। स वै विचिंतयामास सौवर्णान्प्रेक्ष्य वायसान् । मेरुरुत्तममध्यानामधमानां च पक्षिणाम् ३२। अविशेषकरो यस्मात्तस्मादेनं त्यजाम्यहम् । तमादित्योनुपर्येति सततं ज्योतिषां वरः ३३। चंद्रमाश्च सनक्षत्रो वायुश्चैव प्रदक्षिणः । स पर्वतो महाप्राज्ञा दिव्यपुष्पसमन्वितः ३४। भवनैरावृतैः सर्वैः र्जांबूनदमयैः शुभैः । तत्र देवगणा विप्रा गंधर्वासुरराक्षसाः ३५। अप्सरोगणसंयुक्ताः शैले क्रीडंति सर्वदा । तत्र ब्रह्मा च रुद्रश्च शक्रश्चापि सुरेश्वरः ३६। समेत्य विविधैर्यज्ञैर्यजंतेऽनेक दक्षिणैः । तुंबुरुर्नारदश्चैव विश्वावसुर्हाहा हूहूः ३७। अभिगम्यामरश्रेष्ठं स्तुवंति विविधैः स्तवैः । सप्तर्षयो महात्मानः कश्यपश्च प्रजापतिः ३८। तत्र गच्छंति भद्रं वः सदा पर्वणि पर्वणि । तस्यैव मूर्द्धन्युशना काव्यो दैत्यैर्महीयते ३९। तस्य हैमानि रत्नानि तस्यैते रत्नपर्वताः । तस्मात्कुबेरो भगवांश्चतुर्थं भागमश्नुते ४०। ततः कलांशं वित्तस्य मनुष्येभ्यः प्रयच्छति । पर्वतस्यांतरे दिव्यं सर्वर्तुकुसुमैश्चितम् ४१। कर्णिकारवनं रम्यं शिलाजालसमुच्छ्रितम् । तत्र साक्षात्पशुपतिर्दिव्यभूतैः समावृतः ४२। उमासहायोभगवान्रमते भूतभावनः । कर्णिकारमयीं मालां बिभ्रदापादलंबिनीम् ४३। त्रिभिर्नेत्रैः कृतोद्द्योतस्त्रिभिः सूर्यैरिवोदितैः । तमुग्रतपसः सिद्धाः सुव्रताः सत्यवादिनः ४४। पश्यंति नहि दुर्वृत्तैः शक्यो द्रष्टुं महेश्वरः । तस्य शैलस्य शिखरात्क्षीरधारा द्विजोत्तमाः ४५। विश्वरूपात्परमिता भीमनिर्घातनिस्वना । पुण्यापुण्यतमैर्जुष्टा गंगा भागीरथी शुभा ४६। प्लवंती च प्रवेगेन ह्रदे चंद्रमसः शुभे । तया ह्युत्पादितः पुण्यः स ह्रदः सागरोपमः ४७। तां धारयामास तदा दुर्द्धरां पर्वतैरपि । शतं वर्षसहस्राणि शिरसैव पिनाकधृक् ४८। मेरोस्तु पश्चिमे पार्श्वे केतुमालो द्विजोत्तमाः । जंबूखंडे तु तत्रैव महाजनपदो द्विजाः ४९। आयुर्दशसहस्राणि वर्षाणां तत्र सत्तमाः । सुवर्णवर्णाश्च नरा स्त्रियश्चाप्सरसां समाः ५०। अनामया वीतशोका नित्यं मुदितमानसाः । जायंते मानवास्तत्र निस्तप्तकनकप्रभाः ५१। गंधमादनशृंगेषु कुबेरः सह राक्षसैः । संवृतोप्सरसां संघैर्मोदते गुह्यकाधिपः ५२। गंधमादनपार्श्वे तु परे विगतपातकाः । एकादशसहस्राणि वर्षाणां परमायुषः ५३। तत्र कृष्णा नरा विप्रास्तेजोयुक्ता महाबलाः । स्त्रियश्चोत्पलपत्राभाः सर्वाः सुप्रियदर्शनाः ५४। नीलोत्पलधरं श्वेतं श्वेताद्धैरण्यकं वरम् । वर्षमैरावतं विप्रा नानाजनपदावृतम् ५५। धनुखंडेः महाभागा द्वे वर्षे दक्षिणोत्तरे । इलावृत्तं मध्यगं तु पंचवर्षाणि चैव हि ५६। उत्तरोत्तरमेतेभ्यो वर्षमुद्रिच्यते गुणैः । आयुः प्रमाणमारोग्यं धर्मतः कामतोऽर्थतः ५७। समन्वितानि भूतानि तेषु सर्वेषु सत्तमाः । एवमेषा महाभागाः पर्वतैः पृथिवी चिता ५८। हेमकूटस्तु सुमहान्कैलासो नाम पर्वतः । तत्र वैश्रवणो देवो गुह्यकैः सह मोदते ५९। अस्त्युत्तरेण कैलासं मैनाकं पर्वतं प्रति । हिरण्यशृंगः सुमहान्दिव्यो मणिमयो गिरिः ६०। तस्य पार्श्वे महद्दिव्यं शुभ्रं कांचनवालुकम् । रम्यं विष्णुसरो नाम यत्र राजा भगीरथः ६१। दृष्ट्वा भागीरथीं गंगामुवास बहुलाः समाः । यूपा मणिमयास्तत्र क्षेत्राश्चापि हिरण्मयाः ६२। तत्रेष्ट्वा तु गतः सिद्धिं सहस्राक्षो महायशाः । स्रष्टा भूतिपतिर्यत्र सर्वलोकैः सनातनः ६३। उपास्यते तिग्मतेजा यत्र भूतः समंततः । नरनारायणौ ब्रह्मा मनुः स्थाणुश्च पंचमः ६४। तत्र दिव्या त्रिपथगा प्रथमं तु प्रतिष्ठिता । ब्रह्मलोकादपाक्रांता सप्तधा प्रतिपद्यते ६५। वटोदका सा नलिनी पार्वती च सरस्वती । जंबूनदी च सीता च गंगा सिंधुश्च सप्तमी ६६। अचिंत्या दिव्यसंज्ञा सा प्रभावैश्च समन्विता । उपास्यते यत्र सत्रं सहस्रयुगपर्यये ६७। दृश्यादृश्या च भवति तत्रतत्र सरस्वती । एता दिव्याः सप्तगंगास्त्रिषुलोकेषु विश्रुताः ६८। रक्षांसि वै हिमवती हेमकूटे च गुह्यकाः । सर्पा नागाश्च निषधे गोकर्णं च तपोवनम् ६९। देवासुराणां सर्वेषां श्वेतः पर्वतमुच्यते । गंधर्वा निषधे नित्यं नीले ब्रह्मर्षयस्तथा ७०। शृंगवांस्तु महाभागा देवानां प्रतिसंचरः । इत्येतानि महाभागाः सप्तवर्षाणि भागशः ७१। भूतान्युपनिविष्टानि गतिमंति ध्रुवाणि च । तेषामृद्धिर्बहुविधा दृश्यते देवमानुषा ७२। अशक्यं परिसंख्यातुं श्रद्धे या तु विभूषिता । यां तु पृच्छथ मां विप्रा दिव्यमेनां शशाकृतिम् ७३। पार्श्वे शशस्य द्वे वर्षे उक्ते ये दक्षिणोत्तरे । कर्णे तु नागद्वीपश्च काश्यपद्वीप एव च ७४। कर्णद्वीपशिलो विप्राः श्रीमान्मलयपर्वतः । एतद्द्वितीयं द्वीपस्य दृश्यते शशिसंस्थितम् ७५। इति श्रीपाद्मेमहापुराणे स्वर्गखंडे तृतीयोऽध्यायः ३।

ṛṣaya ūcuḥ-| nadīnāṃ parvatānāṃ ca nāmadheyāni sarvaśaḥ | tathā janapadānāṃ ca ye cānye bhūmimāśritāḥ 1| pramāṇaṃ ca pramāṇajña pṛthivyāḥ kila sarvataḥ | nikhilena samācakṣva kānanāni ca sattama 2| sūta uvāca-| paṃcemāni mahāprājña mahābhūtāni saṃgrahāt | jagatīsthāni sarvāṇi samānyāhurmanīṣiṇaḥ 3| bhūmirāpastathā vāyuragnirākāśameva ca | guṇottarāṇi sarvāṇi teṣāṃ bhūmiḥ pradhānataḥ 4| śabdasparśaśca rūpaṃ ca raso gaṃdhaśca paṃcamaḥ | bhūmereteguṇāḥ proktā ṛṣibhistattvavedibhiḥ 5| catvāropsuguṇā viprā gaṃdhastatra na vidyate | śabdaḥ sparśaśca rūpaṃ ca tejasotha guṇāstrayaḥ 6| śabdaḥ sparśaśca vāyostu ākāśe śabda eva ca | ete paṃca guṇā viprā mahābhūteṣu paṃcasu 7| vartaṃte sarvalokeṣu yeṣu bhūtāḥ pratiṣṭhitāḥ | anyonyaṃ nātivartaṃte sāmyaṃ bhavati vai tadā 8| yadā tu viṣamībhāvamāviśaṃti parasparam | tadā dehairdehavaṃto vyatirohaṃti nānyathā 9| ānupūrvyā vinaśyaṃti jāyaṃte cānupūrvaśaḥ | sarvāṇyaparimeyāṇi tadeṣāṃ rūpamaiśvaram 10| yatrayatra hi dṛśyaṃte dhāvaṃti pāṃcabhautikāḥ | teṣāṃ manuṣyāstarkeṇa pramāṇāni pracakṣate 11| aciṃtyāḥ khalu ye bhāvāstānna tarkeṇa sādhayet | sudarśanaṃ pravakṣyāmi dvīpaṃ tu munipuṃgavāḥ 12| parimaṃḍalo mahābhāgā dvīpo'sau cakrasaṃsthitaḥ | nadījalaparicchinnaḥ parvataiścābdhisannibhaiḥ 13| puraiśca vividhākārai ramyairjanapadaistathā | vṛkṣaiḥ puṣpaphalopetaiḥ saṃpanno dhanadhānyavān 14| lavaṇena samudreṇa samaṃtātparivāritaḥ | yathā hi puruṣaḥ paśyedādarśe mukhamātmanaḥ 15| evaṃ sudarśano dvīpo dṛśyate cakramaṃḍalaḥ | dviraṃśe pippalastasya dviraṃśe ca śaśo mahān 16| sarvauṣadhiṃ samādāya sarvataḥ parivāritaḥ | āpastatonyā vijñeyāḥ śeṣaḥ saṃkṣepa ucyate 17| ṛṣaya ūcuḥ-| ukto yasya ca saṃkṣepo buddhimanvidhivattvayā | tattvajñaścāsi sarvasya vistaraṃ sūta no vada 18| yāvānbhūmyavakāśoyaṃ dṛśyate śaśalakṣaṇe | tasya pramāṇaṃ prabrūhi tato vakṣyasi pippalam 19| evaṃ taiḥ kila pṛṣṭaḥ sa sūto vākyamathābravīt | sūta uvāca-| prāgāyatā mahāprājñāḥ ṣaḍete ratnaparvatāḥ 20| avagāḍhā hyubhayataḥ samudrau pūrvapaścimau | himavānhimakūṭaśca niṣadhaśca nagottamaḥ 21| nīlaśca vaiḍūryamayaḥ śvetaśca śaśisannibhaḥ | sarvadhātupinaddhaśca śṛṃgavānnāmaparvataḥ 22| ete vai parvatā viprāḥ siddhacāraṇasevitāḥ | teṣāmaṃtaraviṣkuṃbhau yojanāni sahasraśaḥ 23| tatra puṇyā janapadāstāni varṣāṇi sattamāḥ | vasaṃti teṣāṃ sattvāni nānājātīni sarvaśaḥ 24| idaṃ tu bhārataṃ varṣaṃ tato haimavataṃ param | hemakūṭātparaṃ caiva harivarṣaṃ pracakṣate 25| dakṣiṇena tu nīlasya niṣadhasyottareṇa ca | prāgāyato mahābhāgā mālyavānnāma parvataḥ 26| tataḥ paraṃ mālyavataḥ parvato gaṃdhamādanaḥ | parimaṃḍalastayormadhye meruḥ kanakaparvataḥ 27| ādityataruṇābhāso vidhūma iva pāvakaḥ | yojanānāṃ sahasrāṇi caturaśītirucchritaḥ 28| adhastāccaturaśītiryojanānāṃ dvijottamāḥ | ūrdhvamadhaśca tiryakca lokānāvṛtya tiṣṭhati 29| tasya pārśveṣvamī dvīpāścatvāraḥ saṃsthitā dvijāḥ | bhadrāśvaḥ ketumālaśca jaṃbūdvīpaśca sattamāḥ 30| uttarāścaiva kuruvaḥ kṛtapuṇya pratiśrayāḥ | vihaṃgasumukho yastu supārśvasyātmajaḥ kila 31| sa vai viciṃtayāmāsa sauvarṇānprekṣya vāyasān | meruruttamamadhyānāmadhamānāṃ ca pakṣiṇām 32| aviśeṣakaro yasmāttasmādenaṃ tyajāmyaham | tamādityonuparyeti satataṃ jyotiṣāṃ varaḥ 33| caṃdramāśca sanakṣatro vāyuścaiva pradakṣiṇaḥ | sa parvato mahāprājñā divyapuṣpasamanvitaḥ 34| bhavanairāvṛtaiḥ sarvaiḥ rjāṃbūnadamayaiḥ śubhaiḥ | tatra devagaṇā viprā gaṃdharvāsurarākṣasāḥ 35| apsarogaṇasaṃyuktāḥ śaile krīḍaṃti sarvadā | tatra brahmā ca rudraśca śakraścāpi sureśvaraḥ 36| sametya vividhairyajñairyajaṃte'neka dakṣiṇaiḥ | tuṃbururnāradaścaiva viśvāvasurhāhā hūhūḥ 37| abhigamyāmaraśreṣṭhaṃ stuvaṃti vividhaiḥ stavaiḥ | saptarṣayo mahātmānaḥ kaśyapaśca prajāpatiḥ 38| tatra gacchaṃti bhadraṃ vaḥ sadā parvaṇi parvaṇi | tasyaiva mūrddhanyuśanā kāvyo daityairmahīyate 39| tasya haimāni ratnāni tasyaite ratnaparvatāḥ | tasmātkubero bhagavāṃścaturthaṃ bhāgamaśnute 40| tataḥ kalāṃśaṃ vittasya manuṣyebhyaḥ prayacchati | parvatasyāṃtare divyaṃ sarvartukusumaiścitam 41| karṇikāravanaṃ ramyaṃ śilājālasamucchritam | tatra sākṣātpaśupatirdivyabhūtaiḥ samāvṛtaḥ 42| umāsahāyobhagavānramate bhūtabhāvanaḥ | karṇikāramayīṃ mālāṃ bibhradāpādalaṃbinīm 43| tribhirnetraiḥ kṛtoddyotastribhiḥ sūryairivoditaiḥ | tamugratapasaḥ siddhāḥ suvratāḥ satyavādinaḥ 44| paśyaṃti nahi durvṛttaiḥ śakyo draṣṭuṃ maheśvaraḥ | tasya śailasya śikharātkṣīradhārā dvijottamāḥ 45| viśvarūpātparamitā bhīmanirghātanisvanā | puṇyāpuṇyatamairjuṣṭā gaṃgā bhāgīrathī śubhā 46| plavaṃtī ca pravegena hrade caṃdramasaḥ śubhe | tayā hyutpāditaḥ puṇyaḥ sa hradaḥ sāgaropamaḥ 47| tāṃ dhārayāmāsa tadā durddharāṃ parvatairapi | śataṃ varṣasahasrāṇi śirasaiva pinākadhṛk 48| merostu paścime pārśve ketumālo dvijottamāḥ | jaṃbūkhaṃḍe tu tatraiva mahājanapado dvijāḥ 49| āyurdaśasahasrāṇi varṣāṇāṃ tatra sattamāḥ | suvarṇavarṇāśca narā striyaścāpsarasāṃ samāḥ 50| anāmayā vītaśokā nityaṃ muditamānasāḥ | jāyaṃte mānavāstatra nistaptakanakaprabhāḥ 51| gaṃdhamādanaśṛṃgeṣu kuberaḥ saha rākṣasaiḥ | saṃvṛtopsarasāṃ saṃghairmodate guhyakādhipaḥ 52| gaṃdhamādanapārśve tu pare vigatapātakāḥ | ekādaśasahasrāṇi varṣāṇāṃ paramāyuṣaḥ 53| tatra kṛṣṇā narā viprāstejoyuktā mahābalāḥ | striyaścotpalapatrābhāḥ sarvāḥ supriyadarśanāḥ 54| nīlotpaladharaṃ śvetaṃ śvetāddhairaṇyakaṃ varam | varṣamairāvataṃ viprā nānājanapadāvṛtam 55| dhanukhaṃḍeḥ mahābhāgā dve varṣe dakṣiṇottare | ilāvṛttaṃ madhyagaṃ tu paṃcavarṣāṇi caiva hi 56| uttarottarametebhyo varṣamudricyate guṇaiḥ | āyuḥ pramāṇamārogyaṃ dharmataḥ kāmato'rthataḥ 57| samanvitāni bhūtāni teṣu sarveṣu sattamāḥ | evameṣā mahābhāgāḥ parvataiḥ pṛthivī citā 58| hemakūṭastu sumahānkailāso nāma parvataḥ | tatra vaiśravaṇo devo guhyakaiḥ saha modate 59| astyuttareṇa kailāsaṃ mainākaṃ parvataṃ prati | hiraṇyaśṛṃgaḥ sumahāndivyo maṇimayo giriḥ 60| tasya pārśve mahaddivyaṃ śubhraṃ kāṃcanavālukam | ramyaṃ viṣṇusaro nāma yatra rājā bhagīrathaḥ 61| dṛṣṭvā bhāgīrathīṃ gaṃgāmuvāsa bahulāḥ samāḥ | yūpā maṇimayāstatra kṣetrāścāpi hiraṇmayāḥ 62| tatreṣṭvā tu gataḥ siddhiṃ sahasrākṣo mahāyaśāḥ | sraṣṭā bhūtipatiryatra sarvalokaiḥ sanātanaḥ 63| upāsyate tigmatejā yatra bhūtaḥ samaṃtataḥ | naranārāyaṇau brahmā manuḥ sthāṇuśca paṃcamaḥ 64| tatra divyā tripathagā prathamaṃ tu pratiṣṭhitā | brahmalokādapākrāṃtā saptadhā pratipadyate 65| vaṭodakā sā nalinī pārvatī ca sarasvatī | jaṃbūnadī ca sītā ca gaṃgā siṃdhuśca saptamī 66| aciṃtyā divyasaṃjñā sā prabhāvaiśca samanvitā | upāsyate yatra satraṃ sahasrayugaparyaye 67| dṛśyādṛśyā ca bhavati tatratatra sarasvatī | etā divyāḥ saptagaṃgāstriṣulokeṣu viśrutāḥ 68| rakṣāṃsi vai himavatī hemakūṭe ca guhyakāḥ | sarpā nāgāśca niṣadhe gokarṇaṃ ca tapovanam 69| devāsurāṇāṃ sarveṣāṃ śvetaḥ parvatamucyate | gaṃdharvā niṣadhe nityaṃ nīle brahmarṣayastathā 70| śṛṃgavāṃstu mahābhāgā devānāṃ pratisaṃcaraḥ | ityetāni mahābhāgāḥ saptavarṣāṇi bhāgaśaḥ 71| bhūtānyupaniviṣṭāni gatimaṃti dhruvāṇi ca | teṣāmṛddhirbahuvidhā dṛśyate devamānuṣā 72| aśakyaṃ parisaṃkhyātuṃ śraddhe yā tu vibhūṣitā | yāṃ tu pṛcchatha māṃ viprā divyamenāṃ śaśākṛtim 73| pārśve śaśasya dve varṣe ukte ye dakṣiṇottare | karṇe tu nāgadvīpaśca kāśyapadvīpa eva ca 74| karṇadvīpaśilo viprāḥ śrīmānmalayaparvataḥ | etaddvitīyaṃ dvīpasya dṛśyate śaśisaṃsthitam 75| iti śrīpādmemahāpurāṇe svargakhaṃḍe tṛtīyo'dhyāyaḥ 3|

English translation

The sages said :

1-2. O best one, tell us fully the names of the rivers, mountains of the countries, and of those who have resorted to (i.e. are living on) the earth, O you who know the measures, the full measure of the earth, and about the forests also.

Sūta said :

3-10. O very wise one, the gross elements in the universe are five in all; and the wise say that they are equal. (They are:) earth, water, and air, fire and ether. All of them are attended with attributes. Earth is the chief of them. The sages knowing the essential nature (of things) have said that the attributes of earth are sound, touch, colour, taste and smell. O brāhmaṇas , four attributes are (found) in water. It does not have smell. Fire (or light) has three attributes: sound, touch and colour. Air has (two attributes, viz.) sound and touch. Ether has (the attribute of) sound only. O brāhmaṇas, in the five elements these five attributes (are found), and (depending) on them the creatures in all the worlds exist. There is homogeneity when they do not overcome one another; but when they, becoming uneven, enter one another, then the beings spring up (into life) with bodies. This is not otherwise. They are destroyed in order. They come into existence in order (i.e. they are destroyed in the same order as they come into existence). All of them are immeasurable. Their form is the lord (himself).

11-17. Wherever the creatures consisting of the five elements are seen running about, men speak about their measures with (the help of their) reason. One should not, however, (seek to) understand matters that are inconceivable by reason. O best sages, (now) I shall describe to you the island of (i.e. called) Sudarśana . O illustrious ones, this island is circular—has the form of a wheel. It is covered with river waters, and with mountains resembling oceans, also with cities of various sizes and delightful countries; it is full of trees endowed with flowers and fruits; is having grains and (other) wealth. It is surrounded on all sides by the salt ocean. As a man would see his own face in a mirror, in the same way the circular Sudarśana island can be seen (in the ocean). Two of its parts (appear) like a pippala tree and two like a large hare. On all its sides it is surrounded by all (kinds of) herbs. Other than this (portion) all else should be known to be water. I shall describe the rest in brief.

The sages said :

18-20a. O intelligent one, you have briefly and duly given an exposition of it. You know the essential nature of all things. (Now) O Sūta , tell us (about it) in detail. (First) tell us about dimension of the space which looks like a hare. Then you will describe (the land resembling) the pippala (tree).

Thus asked by them Sūta said (these) words:

Sūta said :

20b-24. O very wise ones, these six jewelled mountains stretching (from) east (to west) have gone into the eastern and western oceans. (They are:) Himavat , Hemakūṭa , the best mountain Niṣadha ; so also Nila abounding in lapis lazuli, Śveta resembling the moon; and the mountain named Śṛṅgavat covered with all (kinds of) metals. O brāhmaṇas, these mountains are resorted to by siddhas and cāraṇas . The distance between them measures thousands of yojanas . There are many kingdoms. O best ones, they are called Varṣa . Beings of various species live in them at all places.

25-3la. This is (called) Bhāratavarṣa . Beyond it is Haimavat. The land beyond Hemakūṭa is called Harivarṣa . To the south of Nīla , and to the north of Niṣadha, there is a mountain called Mālyavat stretching from the east. Beyond Mālyavat there is the mountain Gandhamādana . Between the two (i.e. Mālyavat and Gandhamādana) there is the golden mountain Meru globular in shape. It is bright like the (young) morning sun, and like fire without smoke. It is eighty-four thousand yojanas high. O best brāhmaṇas, its depth(also) is eighty-four thousand yojanas. It stands covering the worlds lying above, below and in the horizontal direction. By its side these four islands are situated, O brāhmaṇas: Bhadrāśva , Ketumāla and Jambudvīpa , O best ones; so also Uttarakuru which is resorted to by men who have practised virtuous deeds.

31b-41a. The bird Sumukha , the son of Supārśva , on seeing the big birds of golden colour (on Meru) thought: ‘I shall abandon this mountain Meru since the birds there have no difference among them like good, middling and bad ones.’ The Sun, the best among the luminaries, constantly goes round it. So also the Moon with the constellations, and Vāyu go round it. O very wise ones, the mountain is endowed with divine flowers, it is covered with all auspicious golden houses. On that mountain hosts of gods, gandharvas , deities and demons always sport, accompanied by the bevies of celestial nymphs. Brahmā , Śiva and Śakra , the lord of gods gather there, and perform various sacrifices with munificent gifts. (The gandharva ) Tumbura , Nārada , (and the two gandharva brothers) Hāhā and Hūhū , having gone there, praise with various hymns the best (of the gods). Well-being to you; the seven high-souled sages and Kaśyapa , the lord of created beings always go there on a parvan -day (i.e. the full-moon day or the new-moon day). On the summit of that mountain only Uśanas or Kavi (i.e. Śukra ) is honoured by the demons. It has jewels with gold; so also other jewelled mountains are (parts) of Meru. The lord Kubera gets the fourth part of it. Of that wealth he gives the sixteenth part to human beings.

41b-45a. Adjacent to this mountain is the Karṇikāra grove, which is divine, which is full of flowers of all seasons, which is charming and is elevated with a mass of rocks. There the revered lord Śiva himself, the cause of beings, surrounded by divine beings and accompanied by Umā, and wearing a garland of Karṇikāra flowers reaching his feet, and shining with his three eyes resembling three risen suns, sports. Truthful siddhas, practising severe penance and of good vows (alone can) see him. The great god cannot be seen by those of a wicked conduct.

45b-48. From the peak of the mountain, O best brāhmaṇas, flows, like a stream of milk, the pious, auspicious Ganges , also called Bhāgirathī, of a universal form, immeasurable, flowing out with a fearful noise, resorted to by the most pious beings, (and falls) with a great speed into the charming lake of Candramas . She has produced that auspicious lake resembling an ocean. The bearer of Pināka (i.e. Śiva) held on his head for a hundred thousand years that Ganges which was incapable of being borne even by the mountains.

49-54. O best brāhmaṇas, Ketumāla is on the western side of Meru; (and) O brāhmaṇas, the country called Jambukhaṇḍa is there only. O best ones, there the span of human life is ten thousand years. The men are of golden complexion and the women resemble celestial nymphs. Human beings there are healthy, free from sorrow and always of cheerful minds. Men born there are of the brightness of heated gold. Kubera, the lord of guhyakas , surrounded by groups of the celestial nymphs, rejoices with the demons on the peaks of Gandhamādana. By the side of Gandhamādana (there live) other (people) with their sin destroyed. They have a long span of life of eleven thousand years. O brāhmaṇas, the men there are dark in complexion, lustrous and very strong. All the women have the complexion of lotus and are very beautiful.

55-67a. Śveta has blue lotuses; beyond Śveta is the excellent country called Hairaṇyaka . (Beyond that) is Airāvata having several countries, O brāhmaṇas. O glorious ones, there are two countries, of the form of a bow on the south and the north. Ilāvṛtta is in the middle. (Thus) there are five divisions. Of these the succeeding country excels (preceding ones) in attributes like span of life, health, righteousness, desirable objects and material things. (In spite of differences) O best ones, beings in all these countries live together (amicably). O glorious ones, this earth is covered with mountains. The great Hemakūṭa is (also) the mountain called Kailāsa . There god Vaiśravaṇa (i.e. Kubera) rejoices with guhyakas. To the north of Kailāsa and near the Maināka mountain there is the very great, divine mountain called Maṇimaya having golden peaks. By its side there is a large, divine, bright, charming lake called Viṣṇusaras, with golden sands (on its banks), where Bhagīratha , having seen Gaṅgā , (also called) Bhāgīrathī , lived for many years. There are sacrificial pillars decked with gems, and lands full of gold. The very glorious thousand-eyed (god, i.e. Indra ) performed sacrifices there, and attained perfection. The eternal creator, of a bright lustre, and the lord of beings, is worshipped there by (beings in) all the worlds. There (reside) Nara , Nārayaṇa, Brahmā, Manu and Sthāṇu (i.e. Śiva) as the fifth. The celestial (Gaṅgā) taking three paths, first appeared there after moving from Brahmā’s heaven, and flowed in seven streams: Vaṭodakā , Sarasvatī , Pārvatī , Jambūnadī , Sītā , Gaṅgā and Sindhu as the seventh. She is inconceivable, has a divine appellation, and is endowed with prowess.

67b-71a. There, at the end of the yuga (i.e. at the time of creation), a thousand sacrifices are performed (by gods and sages). Sarasvatī (in her course) appears at places and disappears at (other) places. These seven (streams of) Gaṅgā are well-known in the three worlds. Demons live on Himavat and guhyakas on Hemakūṭa. Serpents and snakes reside in Niṣadha; and Gokarṇa is a penance-grove. The mountain Śveta is said to be (the abode) of gods and demons. Gandharvas always live on Niṣadha, and the brāhmaṇic sages on Nīla. O glorious ones, Śṛṅgavān is (said to be) a place where gods move.

71b-75. O illustrious ones, these are the seven countries according to the division (of the world). Mobile and immobile creatures have encamped here. Prosperity of various kinds—both providential and human—of these (creatures) is seen (there). It cannot be enumerated. The graceful ones are to be believed. O brāhmaṇas, (I have told you) about the divine form of the hare about which you had asked me. I have also told you about the two countries lying adjacent to the country (having the form like that) of a hare in the south and in the north. They are (the hare’s) ears. They are Karṇadvīpa and Kāśyapadvīpa . O Brāhmaṇas, the beautiful Malaya mountain has rocks of (as in) Karṇadvīpa. This other country looks like the hare’s form.

Complete chapter-aligned witnesses. Sanskrit Wikisource page 14811, revision 351718 (2022-09-20T23:28:03Z). English is N. A. Deshpande’s complete translation, controlled against its chapter page at https://www.wisdomlib.org/hinduism/book/the-padma-purana/d/doc365222.html and the ten-volume archival witness. The witnesses are aligned at chapter level; no unsupported verse-by-verse equivalence is asserted.