Skip to main content

Pātāla-khaṇḍa · Chapter 59

Chapter 59

Unit 354 of 693Pātāla-khaṇḍa · Chapter 59Pātāla-khaṇḍa · Chapter 591 source entries

Pātāla-khaṇḍa · Chapter 59

Source

शेष उवाच। अथ नावा समुत्तीर्य जाह्नवीं लक्ष्मणस्तदा । जानकीं परतस्तीरे हस्ते धृत्वा वनं ययौ १। सा चलंती पथि तदा शुष्यद्वदनलक्षिता । कंटकक्षतसत्पादा स्खलंती च पदे पदे २। लक्ष्मणस्तां महाघोरे विपिने दुःखदायिनि । प्रवेशयामास तदा राघवाज्ञाविधायकः ३। यत्र वृक्षा महाघोरा बर्बूलाः खदिरा घनाः । श्लेष्मातकाश्चिंचिणीकाः शुष्का दावेन वह्निना ४। कोटरस्था महासर्पाः फूत्कुर्वंति सुकोपिताः । घूका घूत्कुर्वते यत्र लोकचित्तभयंकराः ५। व्याघ्राः सिंहाः सृगालाश्च द्वीपिनोऽतिभयंकराः । दृश्यंते यत्र सरला मनुष्यादाः सुकोपनाः ६। महिषाः सूकरा दुष्टा दंष्ट्रा द्वयविलक्षिताः । कुर्वंति प्राणिनां तापं मानसस्य मदोद्धुराः ७। ईदृग्वनं प्रपश्यंती भयेनोपगतज्वरा । कंटकैर्दष्टचरणा लक्ष्मणं वाक्यमब्रवीत् ८। जानक्युवाच। वीरर्षिमुनिसंसेव्या नाश्रमान्नेत्रसौख्यदान् । नाहं पश्यामि नो तेषां पत्नीश्च सुतपोधनाः ९। पश्यामि केवलं घोरान्पक्षिणः शुष्कवृक्षकान् । दावानलेन तत्सर्वं दह्यमानमिदं वनम् १०। त्वां च पश्यामि दुःखार्तमश्रुपूर्णाकुलेक्षणम् । शकुनेतरसाहस्रं भवेन्मम पदे पदे ११। तन्मे कथय वीराग्र्य कथं मुक्ता महात्मना । रामेण दुष्टहृदया क्षिप्रं कथय मे हि तत् १२। इति वाक्यं समाकर्ण्य लक्ष्मणः शोककर्शितः । संरुद्धबाष्पवदनो न किंचित्प्रोक्तवांस्तदा १३। तदेव विपिनं घोरं गच्छंती लक्ष्मणान्विता । पुनरप्याह तं वीरं दुःखार्ता पश्यती मुखम् १४। तदापि स न तां वक्ति किमपि प्रेक्षुलोलुपः । तदा सात्यंतनिर्बंधं चकार परिपृच्छती १५। आग्रहेण यदा पृष्टो लक्ष्मणः सीतया तदा । रुद्धकंठो मुहुः शोचन्नवदत्त्यागसंभवम् १६। तद्वाक्यं पविना तुल्यं निशम्य मुनिसत्तम । सुलताकृत्तमूलेव बभूवाकल्पवर्जिता १७। तदैव पृथिवी तां न जग्राह तनयामिमाम् । रामो विपापिनीं सीतां न जह्यादिति शंकिनी १८। पतितां तां तु वैदेहीं दृष्ट्वा सौमित्रिरुत्सुकः । पल्लवाग्र्यसमीरेण संज्ञितां तु चकार सः १९। संज्ञां प्राप्ता ह्युवाचेदं मा हास्यं कुरु देवर । कथं मां पापरहितां त्यजते स रघूद्वहः २०। एवं बहुविलप्याथ लक्ष्मणं दुःखसंयुतम् । संवीक्ष्यमू र्च्छिता भूमौ पपात परिदुःखिता २१। मुहूर्तेनापि संज्ञां सा प्राप्य दुःखपरिप्लुता । जगाद रामचरणौ स्मंरती शोकविक्षता २२। रघुनाथो महाबुद्धिस्त्यजते मां कथं महान् । यो मदर्थे पयोराशिं बद्धवान्वानरैर्युतः २३। स कथं मां महावीरो निष्पापां रजकोक्तितः । त्यजिष्यति ममैवात्र दैवं तु प्रतिकूलितम् २४। एवं वदन्ती पुनरपि मूर्च्छां प्राप्ता विदेहजा । मूर्च्छितां तां समीक्ष्याथ रुरोद विकृतस्वरः २५। पुनः संज्ञामवाप्यैवं सौमित्रिं निजगाद सा । दुःखातुरं वीक्षमाणा रुद्धकंठं सुदुःखिता २६। सौमित्रे गच्छ रामं त्वं धर्ममूर्तिं यशोनिधिम् । मद्वाक्यमेवैतद्ब्रूयाः समक्षं तपसां निधेः २७। मां तत्याज भवान्यद्वै जानन्नपि विपापिनीम् । कुलस्य सदृशं किं वा शास्त्रज्ञानस्य तत्फलम् २८। नित्यं तव पदे रक्तां त्वदुच्छिष्टभुजं हि माम् । भवांस्तत्याज तत्सर्वं मम दैवं तु कारणम् २९। कल्याणं तव सर्वत्र भूयाद्वीरवरोत्तम । अहं तावद्वने त्वां हि स्मरंती प्राणधारिका ३०। मनसा कर्मणा वाचा भवानेव ममोत्तमः । अन्ये तुच्छीकृताः सर्वे मनसा रघुवंशज ३१। भवेभवे भवानेव पतिर्भूयान्महीश्वर । त्वत्पदस्मरणानेक हतपापा सतीश्वरी ३२। श्वश्रूजनं ब्रूहि सर्वं मत्संदेशं रघूत्तम । त्यक्ता वने महाघोरे रामेण निरघा सती ३३। स्मरामि चरणौ युष्मद्वने मृगगणैर्युते । अंतर्वत्नी वने त्यक्ता रामेण सुमहात्मना ३४। सौमित्रे शृणु मद्वाक्यं भद्रं भूयाद्रघूत्तमे । इदानीं संत्यजे प्राणान्रामवीर्यं सुरक्षती ३५। त्वं रामवचनं तथ्यं यत्करोषि शुभं तव । परतंत्त्रेण तत्कार्यं रामपादाब्जसेविना ३६। गच्छ त्वं राम सविधे शिवाः पंथान एव ते । ममोपरि कृपा कार्या स्मर्तव्याहं कदा कदा ३७। इत्युक्त्वा मूर्च्छिता भूमौ पपात पुरतस्तदा । लक्ष्मणो दुःखमापेदे वीक्ष्य मूर्च्छितजानकीम् ३८। वीजयामास वासोग्रैः संज्ञां प्राप्तां प्रकृत्य च । सौमित्रिः सांत्वयामास वचनैर्मधुरैर्मुहुः ३९। लक्ष्मण उवाच। एष गच्छामि रामं वै गत्वा शंसामि सर्वशः । समीपे ते मुनेरस्ति वाल्मीकेराश्रमो महान् ४०। इत्युक्त्वा तां परिक्रम्य दुःखितो बाष्पपूरितः । मुंचन्नश्रुकलां दुःखाद्ययौ रामं महीपतिम् ४१। जानकी देवरं यांतं वीक्ष्य विस्मितलोचना । हसत्ययं महाभागो लक्ष्मणो देवरो मम ४२। कथं मां प्राणतः प्रेष्ठां विपापां राघवोऽत्यजत् । इति संचिंतयंती सा तमैक्षदनिमेषणा ४३। जाह्नवीं सर्वथोत्तीर्णां ज्ञात्वा सत्यं स्वहापनम् । पतिता प्राणसंदेहं प्राप्ता मूर्च्छां गता तदा ४४। तदा हंसाः स्वपक्षाभ्यां जलमानीय सर्वतः । सिषिचुर्मधुरो वायुर्ववौ पुष्पसुगंधिमान् ४५। करिणः पुष्करैः स्वीयैर्जलपूर्णैः समंततः । व्याप्तं शरीरं रजसा क्षालयंत इवागताः ४६। मृगास्तदंतिकं प्राप्य संतस्थुर्विस्मितेक्षणाः । नगाः पुष्पयुता आसंस्तत्कालं मधुना विना ४७। एतस्मिन्समये वृत्ते संज्ञां प्राप्य तदा सती । विललाप सुदुःखार्ता रामरामेति जल्पती ४८। हा नाथ दीनबंधो हे करुणामयसंनिधे । अपराधादृते मां त्वं कथं त्यजसि वै वने ४९। इत्येवमादिभाषंती विलपंती मुहुर्मुहुः । इतस्ततः प्रपश्यंती संमूर्च्छंती पुनःपुनः ५०। तदा स्वशिष्यैर्भगवान्वाल्मीकिः संगतो वनम् । शुश्राव रुदितं तत्र करुणास्वरभाषितम् ५१। शिष्यान्प्रति जगादाथ पश्यंतु वनमध्यतः । को रोदिति महाघोरे विपिने दुःखितस्वरः ५२। ते प्रयुक्ताश्च मुनिना संजग्मुर्यत्र जानकी । रामरामेति भाषंती बाष्पपूरपरिप्लुता ५३। तां दृष्ट्वा स्त्रियमौत्सुक्याद्वाल्मीकिं प्रत्यगुर्मुनिम् । श्रुत्वा तदीरितं वाक्यं जगामासौ ततो मुनिः ५४। दृष्ट्वा तं तपसां राशिं जानकी पतिदेवता । नमोस्तु मुनये वेदमूर्तये व्रतवार्धये ५५। इत्युक्तवंतीं तां सीतामाशीर्भिरभ्यनंदयत् । भर्त्रा सह चिरंजीव पुत्रौ प्राप्नुहि शोभनौ ५६। कासि त्वं किं वने घोरे संगतासि किमीदृशी । सर्वं मे शंस जानीयां तव दुःखस्य कारणम् ५७। सा तदा प्रत्युवाचेमं रामस्य महिला मुनिम् । निःश्वसंती करुणया गिरासंजातवेपथुः ५८। शृणु मे वाक्यमर्थोक्तं सर्वदुःखस्य कारणम् । जानीहि मां भूमिपते रघुनाथस्य सेवकीम् ५९। अपराधं विना त्यक्ता न जाने तत्र कारणम् । लक्ष्मणो मां विमुच्यात्र गतवान्राघवाज्ञया ६०। इत्युक्त्वाश्रुकलापूर्णं बिभ्रतीं मुखपंकजम् । वाल्मीकिः सांत्वयन्प्राह जानकीं कमलेक्षणाम् ६१। वाल्मीकिं मां विजानीहि पितुस्तव गुरुं मुनिम् । दुःखं मा कुरु वैदेहि ह्यागच्छ मम चाश्रमम् ६२। भिन्नस्थाने पितुर्गेहं जानीहि पतिदेवते । ईदृशे कर्मणि मम रोषोस्त्वेव महीपतेः ६३। एवं वचः समाकर्ण्य जानकी पतिदेवता । दुःखपूर्णाश्रुवदना किंचित्सुखमवाप सा ६४। शेष उवाच। वाल्मीकिः सांत्वयित्वैनां दुःखपूराकुलेक्षणाम् । निनाय स्वाश्रमं पुण्यं तापसीवृन्दपूरितम् ६५। सा गच्छंती पृष्ठतोऽस्य वाल्मीकेस्तपसां निधेः । रराजेंदोः पृष्ठतो वै तारकेव मनोहरा ६६। वाल्मीकिः प्राप्य च स्वीयमाश्रमं मुनिपूरितम् । तापसीः प्रतिसंचख्यौ जानकीं स्वाश्रमं गताम् ६७। वैदेही तापसीः सर्वा नमश्चक्रे महामनाः । परस्परं प्रहृषिताः परिरंभं समाचरन् ६८। वाल्मीकिर्निजशिष्यान्स प्रत्युवाच तपोनिधिः । रच्यतां बत जानक्याः पर्णशाला मनोरमा ६९। इत्युक्तं वाक्यमाकर्ण्य वाल्मीकेः सुमनोरमम् । व्यरचन्पत्रकैः शालां दारुभिः सुमनोहराम् ७०। तत्रावसद्धि वैदेही पतिव्रतपरायणा । वाल्मीकेः परिचर्यां च कुर्वंती फलभक्षिका ७१। जपंती रामरामेति मनसा वचसा स्वयम् । निनाय दिवसांस्तत्र जानकी पतिदेवता ७२। काले सासूत पूत्रौ द्वौ मनोहरवपुर्धरौ । रामचंद्र प्रतिनिधी ह्यश्विनाविव जानकी ७३। तच्छ्रुत्वा तु मुनिर्हृष्टो जानक्याः पुत्रसंभवम् । चकार जातकर्मादि संस्कारान्मंत्रवित्तमः ७४। कुशैर्लवैश्च वाल्मीकिर्मुनिः कर्माणि चाचरत् । तन्नाम्ना पुत्रयोराख्या कुशो लव इति स्फुटा ७५। वाल्मीकिर्यत्र विरजा मंगलं तद्यथाचरत् । अत्यंतं हृष्टचित्ता सा बभूव कमलेक्षणा ७६। तद्दिने लवणं हत्वा शत्रुघ्नः स्वल्पसैनिकः । आगमच्चाश्रमे चास्य वाल्मीकेर्निशि शोभने ७७। तदा वाल्मीकिना शिष्टः शत्रुघ्नो रघुनायकम् । मा शंस जानकीपुत्रौ कथयिष्याम्यहं पुरः ७८। जानकीपुत्रकौ तत्र ववृधाते मनोरमौ । कंदमूलफलैः पुष्टौ व्यदधादुन्मदौ वरौ ७९। शुक्लप्रतिपदायाश्च शशीव सुमनोहरौ । कालेन संस्कृतौ जातावुपनीतौ मनोहरौ ८०। उपनीयमुनिर्वेदं सांगमध्यापयत्सुतौ । सरहस्यं धनुर्वेदं रामायणमपाठयत् ८१। वाल्मीकिना च धनुषी दत्ते स्वर्णसुभूषिते । अभेद्ये सगुणे श्रेष्ठे वैरिवृंदविदारणे ८२। इषुधी बाणसंपूर्णौ अक्षये करवालके । चर्माण्यभेद्यानि ददौ जानक्यात्मजयोस्तदा ८३। धनुर्धरौ धनुर्वेदपारगावाश्रमे मुदा । चरंतौ तत्र रेजाते अश्विनाविव शोभनौ ८४। जानकी वीक्ष्य पुत्रौ द्वौ खड्गचर्मधरौ वरौ । परमं हर्षमापन्ना विरहोद्भवमत्यजत् ८५। एष ते कथितो विप्र जानक्याः पुत्रसंभवः । अतः शृणुष्व यद्वृत्तं वीरबाहुविकृंतनम् ८६। इति श्रीपद्मपुराणे पातालखण्डे शेषवात्स्यायनसंवादे रामाश्वमेधे कुशलवोत्पत्तिकथानकंनामैकोनषष्टितमोऽध्यायः ५९।

śeṣa uvāca| atha nāvā samuttīrya jāhnavīṃ lakṣmaṇastadā | jānakīṃ paratastīre haste dhṛtvā vanaṃ yayau 1| sā calaṃtī pathi tadā śuṣyadvadanalakṣitā | kaṃṭakakṣatasatpādā skhalaṃtī ca pade pade 2| lakṣmaṇastāṃ mahāghore vipine duḥkhadāyini | praveśayāmāsa tadā rāghavājñāvidhāyakaḥ 3| yatra vṛkṣā mahāghorā barbūlāḥ khadirā ghanāḥ | śleṣmātakāściṃciṇīkāḥ śuṣkā dāvena vahninā 4| koṭarasthā mahāsarpāḥ phūtkurvaṃti sukopitāḥ | ghūkā ghūtkurvate yatra lokacittabhayaṃkarāḥ 5| vyāghrāḥ siṃhāḥ sṛgālāśca dvīpino'tibhayaṃkarāḥ | dṛśyaṃte yatra saralā manuṣyādāḥ sukopanāḥ 6| mahiṣāḥ sūkarā duṣṭā daṃṣṭrā dvayavilakṣitāḥ | kurvaṃti prāṇināṃ tāpaṃ mānasasya madoddhurāḥ 7| īdṛgvanaṃ prapaśyaṃtī bhayenopagatajvarā | kaṃṭakairdaṣṭacaraṇā lakṣmaṇaṃ vākyamabravīt 8| jānakyuvāca| vīrarṣimunisaṃsevyā nāśramānnetrasaukhyadān | nāhaṃ paśyāmi no teṣāṃ patnīśca sutapodhanāḥ 9| paśyāmi kevalaṃ ghorānpakṣiṇaḥ śuṣkavṛkṣakān | dāvānalena tatsarvaṃ dahyamānamidaṃ vanam 10| tvāṃ ca paśyāmi duḥkhārtamaśrupūrṇākulekṣaṇam | śakunetarasāhasraṃ bhavenmama pade pade 11| tanme kathaya vīrāgrya kathaṃ muktā mahātmanā | rāmeṇa duṣṭahṛdayā kṣipraṃ kathaya me hi tat 12| iti vākyaṃ samākarṇya lakṣmaṇaḥ śokakarśitaḥ | saṃruddhabāṣpavadano na kiṃcitproktavāṃstadā 13| tadeva vipinaṃ ghoraṃ gacchaṃtī lakṣmaṇānvitā | punarapyāha taṃ vīraṃ duḥkhārtā paśyatī mukham 14| tadāpi sa na tāṃ vakti kimapi prekṣulolupaḥ | tadā sātyaṃtanirbaṃdhaṃ cakāra paripṛcchatī 15| āgraheṇa yadā pṛṣṭo lakṣmaṇaḥ sītayā tadā | ruddhakaṃṭho muhuḥ śocannavadattyāgasaṃbhavam 16| tadvākyaṃ pavinā tulyaṃ niśamya munisattama | sulatākṛttamūleva babhūvākalpavarjitā 17| tadaiva pṛthivī tāṃ na jagrāha tanayāmimām | rāmo vipāpinīṃ sītāṃ na jahyāditi śaṃkinī 18| patitāṃ tāṃ tu vaidehīṃ dṛṣṭvā saumitrirutsukaḥ | pallavāgryasamīreṇa saṃjñitāṃ tu cakāra saḥ 19| saṃjñāṃ prāptā hyuvācedaṃ mā hāsyaṃ kuru devara | kathaṃ māṃ pāparahitāṃ tyajate sa raghūdvahaḥ 20| evaṃ bahuvilapyātha lakṣmaṇaṃ duḥkhasaṃyutam | saṃvīkṣyamū rcchitā bhūmau papāta pariduḥkhitā 21| muhūrtenāpi saṃjñāṃ sā prāpya duḥkhapariplutā | jagāda rāmacaraṇau smaṃratī śokavikṣatā 22| raghunātho mahābuddhistyajate māṃ kathaṃ mahān | yo madarthe payorāśiṃ baddhavānvānarairyutaḥ 23| sa kathaṃ māṃ mahāvīro niṣpāpāṃ rajakoktitaḥ | tyajiṣyati mamaivātra daivaṃ tu pratikūlitam 24| evaṃ vadantī punarapi mūrcchāṃ prāptā videhajā | mūrcchitāṃ tāṃ samīkṣyātha ruroda vikṛtasvaraḥ 25| punaḥ saṃjñāmavāpyaivaṃ saumitriṃ nijagāda sā | duḥkhāturaṃ vīkṣamāṇā ruddhakaṃṭhaṃ suduḥkhitā 26| saumitre gaccha rāmaṃ tvaṃ dharmamūrtiṃ yaśonidhim | madvākyamevaitadbrūyāḥ samakṣaṃ tapasāṃ nidheḥ 27| māṃ tatyāja bhavānyadvai jānannapi vipāpinīm | kulasya sadṛśaṃ kiṃ vā śāstrajñānasya tatphalam 28| nityaṃ tava pade raktāṃ tvaducchiṣṭabhujaṃ hi mām | bhavāṃstatyāja tatsarvaṃ mama daivaṃ tu kāraṇam 29| kalyāṇaṃ tava sarvatra bhūyādvīravarottama | ahaṃ tāvadvane tvāṃ hi smaraṃtī prāṇadhārikā 30| manasā karmaṇā vācā bhavāneva mamottamaḥ | anye tucchīkṛtāḥ sarve manasā raghuvaṃśaja 31| bhavebhave bhavāneva patirbhūyānmahīśvara | tvatpadasmaraṇāneka hatapāpā satīśvarī 32| śvaśrūjanaṃ brūhi sarvaṃ matsaṃdeśaṃ raghūttama | tyaktā vane mahāghore rāmeṇa niraghā satī 33| smarāmi caraṇau yuṣmadvane mṛgagaṇairyute | aṃtarvatnī vane tyaktā rāmeṇa sumahātmanā 34| saumitre śṛṇu madvākyaṃ bhadraṃ bhūyādraghūttame | idānīṃ saṃtyaje prāṇānrāmavīryaṃ surakṣatī 35| tvaṃ rāmavacanaṃ tathyaṃ yatkaroṣi śubhaṃ tava | parataṃttreṇa tatkāryaṃ rāmapādābjasevinā 36| gaccha tvaṃ rāma savidhe śivāḥ paṃthāna eva te | mamopari kṛpā kāryā smartavyāhaṃ kadā kadā 37| ityuktvā mūrcchitā bhūmau papāta puratastadā | lakṣmaṇo duḥkhamāpede vīkṣya mūrcchitajānakīm 38| vījayāmāsa vāsograiḥ saṃjñāṃ prāptāṃ prakṛtya ca | saumitriḥ sāṃtvayāmāsa vacanairmadhurairmuhuḥ 39| lakṣmaṇa uvāca| eṣa gacchāmi rāmaṃ vai gatvā śaṃsāmi sarvaśaḥ | samīpe te munerasti vālmīkerāśramo mahān 40| ityuktvā tāṃ parikramya duḥkhito bāṣpapūritaḥ | muṃcannaśrukalāṃ duḥkhādyayau rāmaṃ mahīpatim 41| jānakī devaraṃ yāṃtaṃ vīkṣya vismitalocanā | hasatyayaṃ mahābhāgo lakṣmaṇo devaro mama 42| kathaṃ māṃ prāṇataḥ preṣṭhāṃ vipāpāṃ rāghavo'tyajat | iti saṃciṃtayaṃtī sā tamaikṣadanimeṣaṇā 43| jāhnavīṃ sarvathottīrṇāṃ jñātvā satyaṃ svahāpanam | patitā prāṇasaṃdehaṃ prāptā mūrcchāṃ gatā tadā 44| tadā haṃsāḥ svapakṣābhyāṃ jalamānīya sarvataḥ | siṣicurmadhuro vāyurvavau puṣpasugaṃdhimān 45| kariṇaḥ puṣkaraiḥ svīyairjalapūrṇaiḥ samaṃtataḥ | vyāptaṃ śarīraṃ rajasā kṣālayaṃta ivāgatāḥ 46| mṛgāstadaṃtikaṃ prāpya saṃtasthurvismitekṣaṇāḥ | nagāḥ puṣpayutā āsaṃstatkālaṃ madhunā vinā 47| etasminsamaye vṛtte saṃjñāṃ prāpya tadā satī | vilalāpa suduḥkhārtā rāmarāmeti jalpatī 48| hā nātha dīnabaṃdho he karuṇāmayasaṃnidhe | aparādhādṛte māṃ tvaṃ kathaṃ tyajasi vai vane 49| ityevamādibhāṣaṃtī vilapaṃtī muhurmuhuḥ | itastataḥ prapaśyaṃtī saṃmūrcchaṃtī punaḥpunaḥ 50| tadā svaśiṣyairbhagavānvālmīkiḥ saṃgato vanam | śuśrāva ruditaṃ tatra karuṇāsvarabhāṣitam 51| śiṣyānprati jagādātha paśyaṃtu vanamadhyataḥ | ko roditi mahāghore vipine duḥkhitasvaraḥ 52| te prayuktāśca muninā saṃjagmuryatra jānakī | rāmarāmeti bhāṣaṃtī bāṣpapūrapariplutā 53| tāṃ dṛṣṭvā striyamautsukyādvālmīkiṃ pratyagurmunim | śrutvā tadīritaṃ vākyaṃ jagāmāsau tato muniḥ 54| dṛṣṭvā taṃ tapasāṃ rāśiṃ jānakī patidevatā | namostu munaye vedamūrtaye vratavārdhaye 55| ityuktavaṃtīṃ tāṃ sītāmāśīrbhirabhyanaṃdayat | bhartrā saha ciraṃjīva putrau prāpnuhi śobhanau 56| kāsi tvaṃ kiṃ vane ghore saṃgatāsi kimīdṛśī | sarvaṃ me śaṃsa jānīyāṃ tava duḥkhasya kāraṇam 57| sā tadā pratyuvācemaṃ rāmasya mahilā munim | niḥśvasaṃtī karuṇayā girāsaṃjātavepathuḥ 58| śṛṇu me vākyamarthoktaṃ sarvaduḥkhasya kāraṇam | jānīhi māṃ bhūmipate raghunāthasya sevakīm 59| aparādhaṃ vinā tyaktā na jāne tatra kāraṇam | lakṣmaṇo māṃ vimucyātra gatavānrāghavājñayā 60| ityuktvāśrukalāpūrṇaṃ bibhratīṃ mukhapaṃkajam | vālmīkiḥ sāṃtvayanprāha jānakīṃ kamalekṣaṇām 61| vālmīkiṃ māṃ vijānīhi pitustava guruṃ munim | duḥkhaṃ mā kuru vaidehi hyāgaccha mama cāśramam 62| bhinnasthāne piturgehaṃ jānīhi patidevate | īdṛśe karmaṇi mama roṣostveva mahīpateḥ 63| evaṃ vacaḥ samākarṇya jānakī patidevatā | duḥkhapūrṇāśruvadanā kiṃcitsukhamavāpa sā 64| śeṣa uvāca| vālmīkiḥ sāṃtvayitvaināṃ duḥkhapūrākulekṣaṇām | nināya svāśramaṃ puṇyaṃ tāpasīvṛndapūritam 65| sā gacchaṃtī pṛṣṭhato'sya vālmīkestapasāṃ nidheḥ | rarājeṃdoḥ pṛṣṭhato vai tārakeva manoharā 66| vālmīkiḥ prāpya ca svīyamāśramaṃ munipūritam | tāpasīḥ pratisaṃcakhyau jānakīṃ svāśramaṃ gatām 67| vaidehī tāpasīḥ sarvā namaścakre mahāmanāḥ | parasparaṃ prahṛṣitāḥ pariraṃbhaṃ samācaran 68| vālmīkirnijaśiṣyānsa pratyuvāca taponidhiḥ | racyatāṃ bata jānakyāḥ parṇaśālā manoramā 69| ityuktaṃ vākyamākarṇya vālmīkeḥ sumanoramam | vyaracanpatrakaiḥ śālāṃ dārubhiḥ sumanoharām 70| tatrāvasaddhi vaidehī pativrataparāyaṇā | vālmīkeḥ paricaryāṃ ca kurvaṃtī phalabhakṣikā 71| japaṃtī rāmarāmeti manasā vacasā svayam | nināya divasāṃstatra jānakī patidevatā 72| kāle sāsūta pūtrau dvau manoharavapurdharau | rāmacaṃdra pratinidhī hyaśvināviva jānakī 73| tacchrutvā tu munirhṛṣṭo jānakyāḥ putrasaṃbhavam | cakāra jātakarmādi saṃskārānmaṃtravittamaḥ 74| kuśairlavaiśca vālmīkirmuniḥ karmāṇi cācarat | tannāmnā putrayorākhyā kuśo lava iti sphuṭā 75| vālmīkiryatra virajā maṃgalaṃ tadyathācarat | atyaṃtaṃ hṛṣṭacittā sā babhūva kamalekṣaṇā 76| taddine lavaṇaṃ hatvā śatrughnaḥ svalpasainikaḥ | āgamaccāśrame cāsya vālmīkerniśi śobhane 77| tadā vālmīkinā śiṣṭaḥ śatrughno raghunāyakam | mā śaṃsa jānakīputrau kathayiṣyāmyahaṃ puraḥ 78| jānakīputrakau tatra vavṛdhāte manoramau | kaṃdamūlaphalaiḥ puṣṭau vyadadhādunmadau varau 79| śuklapratipadāyāśca śaśīva sumanoharau | kālena saṃskṛtau jātāvupanītau manoharau 80| upanīyamunirvedaṃ sāṃgamadhyāpayatsutau | sarahasyaṃ dhanurvedaṃ rāmāyaṇamapāṭhayat 81| vālmīkinā ca dhanuṣī datte svarṇasubhūṣite | abhedye saguṇe śreṣṭhe vairivṛṃdavidāraṇe 82| iṣudhī bāṇasaṃpūrṇau akṣaye karavālake | carmāṇyabhedyāni dadau jānakyātmajayostadā 83| dhanurdharau dhanurvedapāragāvāśrame mudā | caraṃtau tatra rejāte aśvināviva śobhanau 84| jānakī vīkṣya putrau dvau khaḍgacarmadharau varau | paramaṃ harṣamāpannā virahodbhavamatyajat 85| eṣa te kathito vipra jānakyāḥ putrasaṃbhavaḥ | ataḥ śṛṇuṣva yadvṛttaṃ vīrabāhuvikṛṃtanam 86| iti śrīpadmapurāṇe pātālakhaṇḍe śeṣavātsyāyanasaṃvāde rāmāśvamedhe kuśalavotpattikathānakaṃnāmaikonaṣaṣṭitamo'dhyāyaḥ 59|

English translation

Śeṣa said :

1-8. Then Lakṣmaṇa , having made Sītā cross Gaṅgā in a boat to the other bank, took her by hand and went to the forest. On the way she who was marked with her face parched up, walked. Her good (i.e. delicate) feet were hurt with thorns. She tumbled at every step. At that time Lakṣmaṇa carrying out the order of Rāghava took her into the very fearful forest causing misery, in which there were fierce dense trees like barbula, khadira . śleṣmātaka, ciñciṇīka, which were dry due to wild fire. Serpents living in the hollows of trees and getting very angry, hissed. Owls causing fear to the minds of people, cried. (In the forest) artless, very wrathful, tigers, lions, foxes, and elephants, eaters of human beings were noticed. Buffaloes, hogs which were wicked, which were marked with two fangs, afflicted the minds of beings. Sītā seeing such a forest suffered from grief through fear. With her feet pricked by thorns she said (these) words to Lakṣmaṇa.

Jānakī said :

9-12. O hero, I do not see (here) hermitages resorted to by sages and giving joy to the eyes. Nor do I see their wives having a great treasure of penance. I am only seeing fearful birds and dry trees. This entire forest is being burnt by wild fire. I notice you too with your eyes full of tears. At every step I am experiencing a thousand ill omens. Therefore, O best hero, tell me whether I of a wicked heart, am abandoned by the noble Rāma . Tell it to me quickly.

13-18. Hearing these words, Lakṣmaṇa, overpowered with grief, and with tears (flowing) on his face checked, then said nothing. She, afflicted with grief and moving with Lakṣmaṇa in that forest only looked at his face and again spoke to that hero; yet, he, desiring to see something, did not say anything to her. Then, (when) she asked him, she very much insisted (on getting a reply). When Lakṣmaṇa was asked by Sītā persistently, he with his throat choked and repeatedly repenting, told her the reason why she was deserted. Hearing those words like (the fall of) the thunderbolt, she, (though) free from any disease, became like a good creeper with its roots cut off. Just then the Earth did not take (back) this daughter (i.e. Sītā) of her, since she believed that Rāma would not abandon sinless Sītā.

19-24. Seeing Sitā fallen down, Lakṣmaṇa, eager (to revive her) revived her by means of breezes produced by (the movements of) the tips of sprouts. Having regained consciousness, she said, “O brother-in-law, do not joke. How does the descendant of Raghu abandon me who am sinless?” Having thus moaned much, she, having seen Lakṣmaṇa full of grief, being fully distressed, fell unconscious on the ground. Having regained consciousness after a while, she full of grief and hurt by sorrow, (and) remembering Rāma’s feet, said: “How does that very intelligent, great Raghunātha who along with the monkeys restrained the ocean for my sake, abandon me? How will that great hero abandon me by(relying) upon the words of the washerman? Now, my destiny is unfavourable.”

25-32. Saying so the daughter of the Videha (-king) again swooned. Seeing her unconscious he wept in a tone affected by emotion. Having regained consciousness she who was very much distressed, looked at Lakṣmaṇa who was afflicted with grief and whose throat was choked, and said to him: “O Lakṣmaṇa, go to Rāma, the (very) image of Dharma and the treasure of glory, and tell him these my words in the presence of the treasure of penance: ‘Even knowing me to be sinless, you abandoned me. Does it behove your family, or is it the fruit of your knowledge of the sacred texts? You abandoned me who was always attached to your feet, who always ate what was left over by you. For all that my destiny is the cause (i.e. is responsible). O best among excellent warriors, may you have welfare everywhere. Remembering you mentally, in deeds and speech, I shall just hold my breath (i.e. Jive) in the forest. All others were mentally abandoned by me, O you born in the family of Raghu. O lord of the earth, you alone should be my husband in every birth: I who remember your feet, have all my sins destroyed and have become the best chaste lady.’

33-39. O best of the Raghus , convey all my message to my mothers-in-law. ‘I (though) sinless, have been abandoned in the very fierce forest. I remember your feet in the forest, full of herds of deer. The very noble Rāma abandoned me (though) pregnant in the forest.’ O Lakṣmaṇa, listen to my words. May well-being come to you. Now preserving well Rāma’s semen (in my womb), I would give up my life. As you are proving true Rāma’s words, you will have prosperity. One serving the lotus-like feet of Rāma, and depending upon another, has to do it. I should be favoured, and be remembered at times.” Saying so, she fell unconscious on the ground in front (of Lakṣmaṇa). Seeing Jānakī unconscious, Lakṣmaṇa became afflicted. Saumitri (i.e. Lakṣmaṇa) fanned her with the ends of his garment, and having saluted her who had regained consciousness, he repeatedly consoled her with sweet words.

Lakṣmaṇa said :

40-43a. This I (i.e. I Just) go to Rāma; and will tell him everything. Near you, there is the great hermitage of the sage Vālmīki .

Speaking thus to her, he being afflicted and full of tears, turned round, and shedding tears, sorrowfully went to king Rāma. Seeing her brother-in-law going, Jānakī with amazed eyes (said): “This my noble brother-in-law is joking. How (is it that) Rāghava abandoned me who was dearer to Rāma than his own life!”

43b-50. Thinking like this, she looked at him with unwinking eyes. Realising on his having crossed Jāhnavī (i.e. Gaṅgā) that her desertion by Rāma was a fact, she fell down, was in a very great peril, and fainted. At that time swans brought water from all places and sprinkled (it over her). Sweet fragrant breezes blew. Elephants with the tips of their tongues full of(i.e. wet with) water, washed as it were, her body covered with dust. Deer came near her with their eyes full of wonder. At that time, trees were full of flowers, without the spring (i.e though it was not the spring season). When this was the time (i.e. when so much time passed), the chaste lady regained consciousness and being very much afflicted with grief, and saying ‘Rāma, Rāma’, moaned. “O lord, O friend of the poor, O good treasure full of pity, how do you abandon me in the forest without my fault?” She talked like this; she wept again and again. She looked here and there: and she again and again became unconscious.

51-55a. At that time revered Vālmīki had come tothe forest. At that time he heard weeping with piteous words. He then said to his disciples: “Find out from the interior of the forest who is weeping in a distressed tone in the forest.” Ordered by the sage, they went to the place where Jānakī saying ‘Rāma, Rāma’ and full of a flood of tears, was sitting. Seeing that they eagerly came back to the sage Vālmīki. Having heard the words uttered by them, the sage then went (there). Seeing that heap of penance (i.e. Vālmīki), Jānakī who looked upon her husband as a deity, (said):

55b-58. “My salution to the sage, the image of the Vedas , the ocean of religious acts of austerity.” He greeted that Sītā who was saying like this with blessings. “Live long with your husband; obtain two bright sons. Who are you? Why have you come to the fearful forest? Why are you like this? Tell me everything, I would (like to) know the cause of your sorrow.” Heaving and with tremor produced in her body, Rāma’s wife then spoke with piteous words to the sage:

59-63. “Listen to my significant words—the cause of all my sorrow. Know me to be the servant of king Raghunatha . I have been abandoned without a fault. I do not know the reason for that. By Rāma’s order Lakṣmaṇa left me here and went (back).” Vālmīki, consoling Sītā having lotus-like eyes and lotus-like face full of tears, and who had said like this, spoke to Sītā: “Know me to be the sage Vālmīki who is your father’s preceptor. O Vaidehī , do not be afflicted, come to my hermitage. O you who look upon your husband as a deity, suppose that your father’s house is (situated) at a different place. In such an act (i.e. when such an act is done), let me be angry with the king (i.e. Rāma) (i.e. I would be angry with Rāma, and not withyou).”

64. Hearing words like these, Jānakī who looked upon her husband as a deity, who was full of affliction, and whose face was full of tears, was a little happy.”

Śeṣa said :

65-68. Having consoled her whose eyes were full with the flood of grief, Vālmīki took her to his auspicious hermitage full of the groups of female ascetics. She, going after Vālmīki, the treasure of penance, shone like a charming star going after the moon. Having reached his hermitage full of sages, Vālmīki told the female ascetics aboutJānakī who had come to his hermitage. Vaidehī, of a noble mind, saluted all the female ascetics. Being very much delighted, they embraced one another.

69-72. That treasure of penance, Vālmīki, said to his disciples: “Construct a beautiful hut of leaves for Jānakī.” Hearing these very pleasant words of Vālmīki, they constructed an attractive hut with leaves and (pieces of) wood. Waiting upon Vālmīki and eating (i.e. subsisting upon) fruits, Vaidehī, a chaste wife, lived in it. Jānakī who looked upon her husband as a deity muttering ‘Rāma, Rāma’, (both) mentally and in words, passed her days there.

73-80a. At (the proper) time Jānakī gave birth to two sons, having charming bodies, and having the likeness of Rāma and like (the two) Aśvins . Hearing about the birth of the two sons of Jānakī, the sage was delighted; he who knew the sacred prayers, performed the purificatory rites like the ceremony performed at the time of the birth of a child. Vālmīki performed (these) rites with darbhas and the hair of a cow’s tail. So the two sons have well-known names Kuśa and Lava . Vālmīki also performed the auspicious riteswhere she free from menstrual excretion (i.e. who had given birth to a child) remained, in such a way that she having lotus-like eyes, was very much delighted in her heart. The same day, Śatrughna , with a few soldiers, had, after killing Lavaṇa , come to Vālmīki’s pleasant hermitage at night. At that time Vālmīki had directed Śatrughna: “Do not tell Rāma about Jānakī’s sons. I shall (later) tell it (to him).” The attractive sons of Jānakī grew there (i.e. in Vālmīki’s hermitage). Vālmīki brought up the two joyful excellent (boys) with bulbs, roots and fruits. The two, very charming like the moon of the first day of the bright half (of a month), were purified (with rites) in due course.

80b-86. The two charming ones were initiated into sacred study (by Vālmīki). Having initiated them into sacred study, the sage taught the two boys the Vedas with their six limbs. He taught them the science of archery with its secrets and Rāmāyaṇa . Vālmīki gave them two bows well adorned with gold; (the bows were) unbreakable, had strings, and were best in warding off the groups of enemies. (He gave them) two inexhaustible quivers full of arrows, and two swords. He (also) gave to Jānakī’s two sons, shields that could not be pierced through. The two archers who had mastered the Vedas, gladly moving in the hermitage, shone like the two bright Aśvins. Seeing (her) two excellent sons holding swords and shields, Jānakī was very much delighted and gave up (the grief) due to her desertion (by Rāma). O brāhmaṇa , I have told you this account of the birth of Jānakī’s sons. Hereafter listen to the cutting off of the arms of the soldiers that took place.

Complete chapter-aligned witnesses. Sanskrit Wikisource page 43951, revision 336003 (2022-04-17T11:47:14Z). English is N. A. Deshpande’s complete translation, controlled against its chapter page at https://www.wisdomlib.org/hinduism/book/the-padma-purana/d/doc365370.html and the ten-volume archival witness. The witnesses are aligned at chapter level; no unsupported verse-by-verse equivalence is asserted.