Bhūmi-khaṇḍa · Chapter 43
Sourceत्रयश्चत्वारिंशत्तमोऽध्यायः 2.43 सुकलोवाच- एवं ते शूकराः सर्वे युद्धाय समुपस्थिताः । पुरः स्थितस्य ते राज्ञो ह्यवतस्थुश्च लुब्धकाः १। महावराहो राजेंद्र गिरिसानुं समाश्रितः । महता यूथभावेन व्यूहं कृत्वा प्रतिष्ठति २। कपिलः स्थूलपीनांगो महादंष्ट्रो महामुखः । दुःसहः शूकरो राजन्गर्जते चातिभैरवम् ३। तानपश्यन्महाराजः शालतालवनाश्रयान् । तेषां तद्वचनं श्रुत्वा मनुपुत्रः प्रतापवान् ४। गृह्यतां शूर वाराहो विध्यतां बलदर्पितः । एवमाभाष्य तान्वीरो मनुपुत्रः प्रतापवान् ५। अथ ते लुब्धकाः सर्वे मृगया मदमोहिताः । संनद्धा दंशिताः सर्वे श्वभिः सार्द्धं प्रजग्मिरे ६। हर्षेण महताविष्टो राजराजो महाबलः । अश्वारूढः सुसैन्येन चतुरंगेण संयतः ७। गंगातीरं समायातो मेरौ गिरिवरोत्तमे । रत्नधातुसमाकीर्णे नानावृक्षैरलंकृते ८। सुकलोवाच- यो बलधाम मरीचिचयकरनिकरमयप्रोत्तुंगोऽत्युच्चम् । गगनमेव संप्राप्तो नाना नगाचरितशोभो गिरिराजो भाति ९। योजनबहलविमल गंगाप्रवाह समुच्चरत्तीरवीचीतरंगभंगैर्मुक्ताफलसदृशैर्निर्मलांबुकणैः । सर्वत्र प्रक्षालित धवलतलशिलातलोगिरींद्र सुःश्रियायुक्तः १०। देवैश्चारणकिन्नरैः परिवृतो गंधर्वविद्याधरैः सिद्धैरप्सरसांगणैर्मुनिजनैर्नागेंद्र विद्याधरैः । श्रीखंडैर्बहुचंदनैस्ससरलैः शालैस्तमालैर्गिरी रुद्रा क्षैर्वरसिद्धिदायकघनैः कल्पद्रुमैः शोभते ११। नानाधातुविचित्रो वै नानारत्नविचित्रितैः । विमानैः कांचनैर्दंडैः कलत्रैरुपशोभते १२। नालिकेरवनैर्दिव्यैः पूगवृक्षैर्विराजते । दिव्यपुन्नागबकुलैः कदलीखंडमंडितैः १३। पुष्पकैश्चंपकैरद्रि पाःटलैः केतकैस्तथा । नानावल्लीवितानैश्च पुष्पितैः पद्मकैस्तथा १४। नानावर्णैः सुपुष्पैश्च नानावृक्षैरलंकृतः । दिव्यवृक्षैः समाकीर्णः स्फाटिकस्य शिलातलैः १५। योगियोगीन्द्र संसिद्धैः कंदरांतर्निवासिभिः । निर्झरैश्चैव रम्यैश्च बहुप्रस्रवणैर्गिरिः १६। नदीप्रवाहसंह्रष्टैः संगमैरुपशोभते । ह्रदैश्च पल्वलैः कुंडैर्निर्मलोदकधारिभिः १७। गिरिराजो विभात्येकः सानुभिः सह संस्थितैः । शरभैश्चैव शार्दूलैर्मृगयूथैरलंकृतः १८। महामत्तैश्च मातंगैर्महिषैरुरुभिः सदा । अनेकैर्दिव्यभावैश्च गिरिराजो विभाति सः १९। अयोध्याधिपतिर्वीर इक्ष्वाकुर्मनुनंदनः । तया सुभार्यया युक्तश्चतुरंगबलेन च २०। पुरतो लुब्धका यांति शूराः श्वानश्च शीघ्रगाः । यत्रास्ते शूकरः शूरो भार्यया सहितो बली २१। बहुभिः शूकरैर्गुप्तो गुरुभिः शिशुभिस्ततः । मेरुभूमिं समाश्रित्य गंगातीरं समंततः २२। सुकलोवाच-। तामुवाच वराहस्तु सुप्रियां हर्षसंयुतः । प्रिये पश्य समायातः कोशलाधिपतिर्बली २३। मामुद्दिश्य महाप्राज्ञो मृगयां क्रीडते नृपः । युद्धमेव करिष्यामि सुरासुरप्रहर्षकम् २४। अथ भूपो महातेजा बाणपाणिर्धनुर्धरः । सुदेवां सत्यधर्मांगीं तामुवाच प्रहर्षितः २५। पश्य प्रिये महाकोलं गर्जमानं महाबलम् । परिवारसमायुक्तं दुःसहं मृगघातिभिः २६। अद्यैवाहं हनिष्यामि सुबाणैर्निशितैः प्रिये । मामेव हि महाशूरो युद्धाय समुपाश्रयेत् २७। एवमुक्त्वा प्रियो भार्यां लुब्धकान्वाक्यमब्रवीत् । यथा शूरो महाशूराः प्रेषयध्वं हि शूकरम् २८। अथ ते प्रेषिताः शूरा बलतेजः पराक्रमाः । गर्जमानाः प्रधावंति बलतेजः पराक्रमाः २९। कोलं प्रतिगताः सर्वे वायुवेगेन सांप्रतम् । विध्यंति बाणजालैस्ते निशितैर्वनचारकाः ३०। नाना शस्त्रैरथास्त्रैश्च वाराहं वीररूपिणम् ३१। सुकलोवाच- पतंति बाणतोमरा विमुक्ता लुब्धकैः शरा घनागिरिंप्रवर्षिणो यथातथा धरांतरे । हतो दृढप्रहारिभिः स निर्जितस्ततस्तथा शतैस्तु यूथपालकः स कोलः संगरंगतः ३२। स्वपुत्रपौत्रबांधवैः परांश्च संहरेत्स वै पतंति ते स्वदंष्ट्रया हताहवेऽवलुब्धकाः । पतंति पादहस्तकाः स्थितस्य वेगभ्रामणैः सलुब्धगर्जमेवतं वराहोऽपश्यदागतम् ३३। स्वतेजसा विनाशितं मुखाग्रदंष्ट्रया हतं । गतः स यत्र भूपतिः स वांछतेनसंगरम् ३४। इक्ष्वाकुनाथं सुमहत्प्रसह्य संत्रास्य क्रुद्धः स हि शूकरेशः । युद्धं वने वांछति तेन सार्द्धमिक्ष्वाकुणा संगरहर्षयुक्तः ३५। वाराहः पुनरेव युद्धकुशलः संवांछते संगरं तुंडाग्रेण सुतीक्ष्णदंतनखरैः क्रुद्धो धरां क्षोभयन् । हुंकारोच्चारगर्वात्प्रहरति विमलं भूपतिं तं च राजञ्ज्ञात्वा विष्णुपराक्रमं मनुसुतस्त्वानन्दरोमांचितः ३६। दृष्ट्वा शूकरपौरुषं यमतुलं मेने पतिर्वावराड्देवारिं मनसा विचिन्त्य सहसा वाराहरूपेण वै । संप्रेक्ष्यैव महाबलं बहुतरं युक्तं त्वरेर्वारणं सैन्यं कोलविनाशनाय सहसा संगृह्य संगृह्यताम् ३७। प्रेषिताश्च वारणा रथाश्च वेगवत्तराः सुबाणखड्गधारिणो भुशुंडिभिश्च मुद्गरैः । सपाशपाणिलुब्धका नदंति तत्र तत्परा निवारितो न तिष्ठतो हयागजाश्च यद्गताः ३८। क्वचित्क्वचिन्न दृश्यते क्वचित्क्वचित्प्रदृश्यते क्वचिद्भयं प्रदर्शयेत्क्वचिद्धयान्प्रमर्दयेत् ३९। मर्दयित्वा भटान्वीरान्वाराहो रणदुर्जयः । शब्दं चकारदुर्धषं क्रोधारुणविलोचनः ४०। कोशलाधिपतिर्वीरस्तं दृष्ट्वा रणदुर्जयम् । युध्यमानं महाकायं मुचंतं मेघवत्स्वनम् ४१। गर्जतिसमरं विचरति विलसति वीरान्स्वतेजसा धीरः । तडिदिव मुखेषु दंष्ट्रा तस्य विभात्युल्लसत्येव ४२। मनुपुत्रस्तथा दृष्ट्वा कोलं च निशितैः शरैः । प्रतिभिन्नमेकैकं शस्त्राहतं च बंधुभिः ४३। नरपतिरुवाच सैन्याः किमिह न गृह्णंतु ओजसा शूराः । युध्यध्वं तत्र निशितैर्बाणैस्तीक्ष्णैरनेनापि ४४। समाकर्ण्य ततो वाक्यं क्रुद्धस्यापि महात्मनः । ततस्ते सैनिकाः सर्वे युद्धाय समुपस्थिताः ४५। अनेकैर्भटसाहस्रैर्वने तं समरे स्थितम् । दिक्षु सर्वासु संहत्य बिभिदुः शूकरं रणे ४६। विद्धश्च कैश्चित्तदा बाणजालैः सुयोधैश्च संग्रामभूमौ विशालैः । क्वचिच्चक्रघातैः क्वचिद्वज्रपातैर्हतं दुर्जयं संगरे तं महांतैः ४७। ततः पौरुषैः क्रोधयुक्तः स कोलः सुविच्छिद्य पाशान्रणे प्रस्थितः सः । महाशूकरैः सार्धमेव प्रयातस्ततः शोणितस्यापि धाराभिषिक्तः ४८। करोति प्रहारं च तुंडेन वीरहयानां द्विपानां च चिच्छेद वीरः । स्वदंष्ट्राग्रभागेन तीक्ष्णेन वीरान्पदातीन्हि संपातयेद्रोषभावैः ४९। जघानास्य शुंडं गजस्यापि रुष्टो भटान्हतान्पादनखैस्तु हृष्टः ५०। ततस्ते शूकराः सर्वे लुब्धकाश्च परस्परम् । युयुधुः संगरं कृत्वा क्रोधारुणविलोचनाः ५१। लुब्धकैश्च हताः कोलाः कोलैश्चापि सुलुब्धकाः । निहताः पतिता भूमौ क्षतजेनापि सारुणाः ५२। जीवं त्यक्त्वा हताः कोलैर्लुब्धकाः पतिता रणे । मृताश्च शूकरास्तत्र श्वानः प्राणांश्च तत्यजुः ५३। यत्रयत्र मृता भूमौ पतिता मृगघातकाः । बहवः शूकरा राज्ञा खड्गपातैर्निपातिताः ५४। कति नष्टा हताः कोला भीता दुर्गेषु संस्थिताः । कुंजेषु कंदरांतेषु गुहांतेषु नृपोत्तम ५५। लुब्धकाश्च मृताः केचिच्छिन्ना दंष्ट्राग्रसूकरैः । प्राणांस्त्यक्त्वा गताः स्वर्गं खंडशो विदलीकृताः ५६। वागुराः पाशजालाश्च कुटकाः पंजरास्तथा । नाड्यश्च पतिता भूमौ यत्रतत्र समंततः ५७। एको दयितया सार्धं वाराहः परितिष्ठति । पौत्रकैः पंचसप्तभिर्युद्धार्थं बलदर्पितः ५८। तमुवाच तदा कांतं शूकरं शूकरी पुनः । गच्छ कांत मयासार्द्धमेभिस्तु बालकैः सह ५९। प्राह प्रीतो वराहस्तां विवस्तां सुप्रियामिति । क्व गच्छामि प्रभग्नोहं स्थानं नास्ति महीतले ६०। मयि नष्टे महाभागे कोलयूथं विनंक्ष्यति । द्वयोश्च सिंहयोर्मध्ये जलं पिबति शूकरः ६१। द्वयोः शूकरयोर्मध्ये सिंहो नैव पिबत्यपः । एवं शूकरजातीषु दृश्यते बलमुत्तमम् ६२। तदहं नाशयाम्येव यदा भग्नो व्रजाम्यहम् । जाने धर्मं महाभागे बहुश्रेयोविधायकम् ६३। कस्माल्लोभाद्भयाद्वापि युध्यमानः प्रणश्यति । रणतीर्थं परित्यज्य सस्यात्पापी न संशयः ६४। निशितं शस्त्रसंव्यूहं दृष्ट्वा हर्षं प्रगच्छति । अवगाह्यामरीं सिंधुं तीर्थपारं प्रगच्छति ६५। स याति वैष्णवं लोकं पुरुषांश्च समुद्धरेत् । समायांतं च तदहं कथं भग्नो व्रजामि वै ६६। योधनं शस्त्रसंकीर्णं प्रवीरानन्ददायकम् । दृष्ट्वा प्रयाति संहृष्टस्तस्य पुण्यफलं शृणु ६७। पदेपदे महत्स्नानं भागीरथ्याः प्रजायते । रणाद्भग्नो गृहं याति यो लोभाच्च प्रिये शृणु ६८। मातृदोषं प्रकाशेत स्त्रीजातः परिकथ्यते । अत्र यज्ञाश्च तीर्थाश्च अत्र देवा महौजसः ६९। पश्यंति कौतुकं कांते मुनयः सिद्धचारणाः । त्रैलोक्यं वर्तते तत्र यत्र वीरप्रकाशनम् ७०। समराद्भग्नं प्रपश्यंति सर्वे त्रैलोक्यवासिनः । शपंति निर्घृणं पापं प्रहसन्ति पुनःपुनः ७१। दुर्गतिं दर्शयेत्तस्य धर्मराजो न संशयः । सम्मुखः समरे युद्धे स्वशिरः शोणितं पिबेत् ७२। अश्वमेधफलं भुंक्ते इंद्रलोकं प्रगच्छति । यदा जयति संग्रामे शत्रूञ्छूरो वरानने ७३। तदा प्रभुंजते लक्ष्मीं नानाभोगान्न संशयः । यदा तत्र त्यजेत्प्राणान्सम्मुखः सन्निराश्रयः ७४। स गच्छेत्परमं स्थानं देवकन्यां प्रभुंजते । एवं धर्मं विजानामि कथं भग्नो व्रजाम्यहम् ७५। अनेन समरे युद्धं करिष्ये नात्र संशयः । मनोः पुत्रेण धीरेण राज्ञा इक्ष्वाकुणा सह ७६। डिंभान्गृहीत्वा याहि त्वं सुखं जीव वरानने । तस्य श्रुत्वा वचः प्राह बद्धाहं तव बंधनैः ७७। स्नेहमानरसाख्यैश्च रतिक्रीडनकैः प्रिय । पुरतस्ते सुतैः सार्द्धं प्राणांस्त्यक्ष्यामि मानद ७८। एवमेतौ सुसंभाष्य परस्परहितैषिणौ । युद्धाय निश्चितौ भूत्वा समालोकयतो रिपून् ७९। कोशलाधिपतिं वीरं तमिक्ष्वाकुं महामतिम् ८०। यथैव मेघः परिगर्जते दिवि प्रावृट्सुकालेषु तडित्प्रकाशैः । तथैव संगर्जति कांतया समं समाह्वयेद्राजवरं खुराग्रैः ८१। तं गर्जमानं ददृशे महात्मा वाराहमेकं पुरुषार्थयुक्तम् । ससार अश्वस्य जवेनयुक्तः ससम्मुखं तस्य नृवीरधीरः ८२। इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने सुकलाचरित्रे त्रयश्चत्वारिंशत्तमोऽध्यायः ४३।
trayaścatvāriṃśattamo'dhyāyaḥ 2.43 sukalovāca- evaṃ te śūkarāḥ sarve yuddhāya samupasthitāḥ | puraḥ sthitasya te rājño hyavatasthuśca lubdhakāḥ 1| mahāvarāho rājeṃdra girisānuṃ samāśritaḥ | mahatā yūthabhāvena vyūhaṃ kṛtvā pratiṣṭhati 2| kapilaḥ sthūlapīnāṃgo mahādaṃṣṭro mahāmukhaḥ | duḥsahaḥ śūkaro rājangarjate cātibhairavam 3| tānapaśyanmahārājaḥ śālatālavanāśrayān | teṣāṃ tadvacanaṃ śrutvā manuputraḥ pratāpavān 4| gṛhyatāṃ śūra vārāho vidhyatāṃ baladarpitaḥ | evamābhāṣya tānvīro manuputraḥ pratāpavān 5| atha te lubdhakāḥ sarve mṛgayā madamohitāḥ | saṃnaddhā daṃśitāḥ sarve śvabhiḥ sārddhaṃ prajagmire 6| harṣeṇa mahatāviṣṭo rājarājo mahābalaḥ | aśvārūḍhaḥ susainyena caturaṃgeṇa saṃyataḥ 7| gaṃgātīraṃ samāyāto merau girivarottame | ratnadhātusamākīrṇe nānāvṛkṣairalaṃkṛte 8| sukalovāca- yo baladhāma marīcicayakaranikaramayaprottuṃgo'tyuccam | gaganameva saṃprāpto nānā nagācaritaśobho girirājo bhāti 9| yojanabahalavimala gaṃgāpravāha samuccarattīravīcītaraṃgabhaṃgairmuktāphalasadṛśairnirmalāṃbukaṇaiḥ | sarvatra prakṣālita dhavalatalaśilātalogirīṃdra suḥśriyāyuktaḥ 10| devaiścāraṇakinnaraiḥ parivṛto gaṃdharvavidyādharaiḥ siddhairapsarasāṃgaṇairmunijanairnāgeṃdra vidyādharaiḥ | śrīkhaṃḍairbahucaṃdanaissasaralaiḥ śālaistamālairgirī rudrā kṣairvarasiddhidāyakaghanaiḥ kalpadrumaiḥ śobhate 11| nānādhātuvicitro vai nānāratnavicitritaiḥ | vimānaiḥ kāṃcanairdaṃḍaiḥ kalatrairupaśobhate 12| nālikeravanairdivyaiḥ pūgavṛkṣairvirājate | divyapunnāgabakulaiḥ kadalīkhaṃḍamaṃḍitaiḥ 13| puṣpakaiścaṃpakairadri pāḥṭalaiḥ ketakaistathā | nānāvallīvitānaiśca puṣpitaiḥ padmakaistathā 14| nānāvarṇaiḥ supuṣpaiśca nānāvṛkṣairalaṃkṛtaḥ | divyavṛkṣaiḥ samākīrṇaḥ sphāṭikasya śilātalaiḥ 15| yogiyogīndra saṃsiddhaiḥ kaṃdarāṃtarnivāsibhiḥ | nirjharaiścaiva ramyaiśca bahuprasravaṇairgiriḥ 16| nadīpravāhasaṃhraṣṭaiḥ saṃgamairupaśobhate | hradaiśca palvalaiḥ kuṃḍairnirmalodakadhāribhiḥ 17| girirājo vibhātyekaḥ sānubhiḥ saha saṃsthitaiḥ | śarabhaiścaiva śārdūlairmṛgayūthairalaṃkṛtaḥ 18| mahāmattaiśca mātaṃgairmahiṣairurubhiḥ sadā | anekairdivyabhāvaiśca girirājo vibhāti saḥ 19| ayodhyādhipatirvīra ikṣvākurmanunaṃdanaḥ | tayā subhāryayā yuktaścaturaṃgabalena ca 20| purato lubdhakā yāṃti śūrāḥ śvānaśca śīghragāḥ | yatrāste śūkaraḥ śūro bhāryayā sahito balī 21| bahubhiḥ śūkarairgupto gurubhiḥ śiśubhistataḥ | merubhūmiṃ samāśritya gaṃgātīraṃ samaṃtataḥ 22| sukalovāca-| tāmuvāca varāhastu supriyāṃ harṣasaṃyutaḥ | priye paśya samāyātaḥ kośalādhipatirbalī 23| māmuddiśya mahāprājño mṛgayāṃ krīḍate nṛpaḥ | yuddhameva kariṣyāmi surāsurapraharṣakam 24| atha bhūpo mahātejā bāṇapāṇirdhanurdharaḥ | sudevāṃ satyadharmāṃgīṃ tāmuvāca praharṣitaḥ 25| paśya priye mahākolaṃ garjamānaṃ mahābalam | parivārasamāyuktaṃ duḥsahaṃ mṛgaghātibhiḥ 26| adyaivāhaṃ haniṣyāmi subāṇairniśitaiḥ priye | māmeva hi mahāśūro yuddhāya samupāśrayet 27| evamuktvā priyo bhāryāṃ lubdhakānvākyamabravīt | yathā śūro mahāśūrāḥ preṣayadhvaṃ hi śūkaram 28| atha te preṣitāḥ śūrā balatejaḥ parākramāḥ | garjamānāḥ pradhāvaṃti balatejaḥ parākramāḥ 29| kolaṃ pratigatāḥ sarve vāyuvegena sāṃpratam | vidhyaṃti bāṇajālaiste niśitairvanacārakāḥ 30| nānā śastrairathāstraiśca vārāhaṃ vīrarūpiṇam 31| sukalovāca- pataṃti bāṇatomarā vimuktā lubdhakaiḥ śarā ghanāgiriṃpravarṣiṇo yathātathā dharāṃtare | hato dṛḍhaprahāribhiḥ sa nirjitastatastathā śataistu yūthapālakaḥ sa kolaḥ saṃgaraṃgataḥ 32| svaputrapautrabāṃdhavaiḥ parāṃśca saṃharetsa vai pataṃti te svadaṃṣṭrayā hatāhave'valubdhakāḥ | pataṃti pādahastakāḥ sthitasya vegabhrāmaṇaiḥ salubdhagarjamevataṃ varāho'paśyadāgatam 33| svatejasā vināśitaṃ mukhāgradaṃṣṭrayā hataṃ | gataḥ sa yatra bhūpatiḥ sa vāṃchatenasaṃgaram 34| ikṣvākunāthaṃ sumahatprasahya saṃtrāsya kruddhaḥ sa hi śūkareśaḥ | yuddhaṃ vane vāṃchati tena sārddhamikṣvākuṇā saṃgaraharṣayuktaḥ 35| vārāhaḥ punareva yuddhakuśalaḥ saṃvāṃchate saṃgaraṃ tuṃḍāgreṇa sutīkṣṇadaṃtanakharaiḥ kruddho dharāṃ kṣobhayan | huṃkāroccāragarvātpraharati vimalaṃ bhūpatiṃ taṃ ca rājañjñātvā viṣṇuparākramaṃ manusutastvānandaromāṃcitaḥ 36| dṛṣṭvā śūkarapauruṣaṃ yamatulaṃ mene patirvāvarāḍdevāriṃ manasā vicintya sahasā vārāharūpeṇa vai | saṃprekṣyaiva mahābalaṃ bahutaraṃ yuktaṃ tvarervāraṇaṃ sainyaṃ kolavināśanāya sahasā saṃgṛhya saṃgṛhyatām 37| preṣitāśca vāraṇā rathāśca vegavattarāḥ subāṇakhaḍgadhāriṇo bhuśuṃḍibhiśca mudgaraiḥ | sapāśapāṇilubdhakā nadaṃti tatra tatparā nivārito na tiṣṭhato hayāgajāśca yadgatāḥ 38| kvacitkvacinna dṛśyate kvacitkvacitpradṛśyate kvacidbhayaṃ pradarśayetkvaciddhayānpramardayet 39| mardayitvā bhaṭānvīrānvārāho raṇadurjayaḥ | śabdaṃ cakāradurdhaṣaṃ krodhāruṇavilocanaḥ 40| kośalādhipatirvīrastaṃ dṛṣṭvā raṇadurjayam | yudhyamānaṃ mahākāyaṃ mucaṃtaṃ meghavatsvanam 41| garjatisamaraṃ vicarati vilasati vīrānsvatejasā dhīraḥ | taḍidiva mukheṣu daṃṣṭrā tasya vibhātyullasatyeva 42| manuputrastathā dṛṣṭvā kolaṃ ca niśitaiḥ śaraiḥ | pratibhinnamekaikaṃ śastrāhataṃ ca baṃdhubhiḥ 43| narapatiruvāca sainyāḥ kimiha na gṛhṇaṃtu ojasā śūrāḥ | yudhyadhvaṃ tatra niśitairbāṇaistīkṣṇairanenāpi 44| samākarṇya tato vākyaṃ kruddhasyāpi mahātmanaḥ | tataste sainikāḥ sarve yuddhāya samupasthitāḥ 45| anekairbhaṭasāhasrairvane taṃ samare sthitam | dikṣu sarvāsu saṃhatya bibhiduḥ śūkaraṃ raṇe 46| viddhaśca kaiścittadā bāṇajālaiḥ suyodhaiśca saṃgrāmabhūmau viśālaiḥ | kvaciccakraghātaiḥ kvacidvajrapātairhataṃ durjayaṃ saṃgare taṃ mahāṃtaiḥ 47| tataḥ pauruṣaiḥ krodhayuktaḥ sa kolaḥ suvicchidya pāśānraṇe prasthitaḥ saḥ | mahāśūkaraiḥ sārdhameva prayātastataḥ śoṇitasyāpi dhārābhiṣiktaḥ 48| karoti prahāraṃ ca tuṃḍena vīrahayānāṃ dvipānāṃ ca ciccheda vīraḥ | svadaṃṣṭrāgrabhāgena tīkṣṇena vīrānpadātīnhi saṃpātayedroṣabhāvaiḥ 49| jaghānāsya śuṃḍaṃ gajasyāpi ruṣṭo bhaṭānhatānpādanakhaistu hṛṣṭaḥ 50| tataste śūkarāḥ sarve lubdhakāśca parasparam | yuyudhuḥ saṃgaraṃ kṛtvā krodhāruṇavilocanāḥ 51| lubdhakaiśca hatāḥ kolāḥ kolaiścāpi sulubdhakāḥ | nihatāḥ patitā bhūmau kṣatajenāpi sāruṇāḥ 52| jīvaṃ tyaktvā hatāḥ kolairlubdhakāḥ patitā raṇe | mṛtāśca śūkarāstatra śvānaḥ prāṇāṃśca tatyajuḥ 53| yatrayatra mṛtā bhūmau patitā mṛgaghātakāḥ | bahavaḥ śūkarā rājñā khaḍgapātairnipātitāḥ 54| kati naṣṭā hatāḥ kolā bhītā durgeṣu saṃsthitāḥ | kuṃjeṣu kaṃdarāṃteṣu guhāṃteṣu nṛpottama 55| lubdhakāśca mṛtāḥ kecicchinnā daṃṣṭrāgrasūkaraiḥ | prāṇāṃstyaktvā gatāḥ svargaṃ khaṃḍaśo vidalīkṛtāḥ 56| vāgurāḥ pāśajālāśca kuṭakāḥ paṃjarāstathā | nāḍyaśca patitā bhūmau yatratatra samaṃtataḥ 57| eko dayitayā sārdhaṃ vārāhaḥ paritiṣṭhati | pautrakaiḥ paṃcasaptabhiryuddhārthaṃ baladarpitaḥ 58| tamuvāca tadā kāṃtaṃ śūkaraṃ śūkarī punaḥ | gaccha kāṃta mayāsārddhamebhistu bālakaiḥ saha 59| prāha prīto varāhastāṃ vivastāṃ supriyāmiti | kva gacchāmi prabhagnohaṃ sthānaṃ nāsti mahītale 60| mayi naṣṭe mahābhāge kolayūthaṃ vinaṃkṣyati | dvayośca siṃhayormadhye jalaṃ pibati śūkaraḥ 61| dvayoḥ śūkarayormadhye siṃho naiva pibatyapaḥ | evaṃ śūkarajātīṣu dṛśyate balamuttamam 62| tadahaṃ nāśayāmyeva yadā bhagno vrajāmyaham | jāne dharmaṃ mahābhāge bahuśreyovidhāyakam 63| kasmāllobhādbhayādvāpi yudhyamānaḥ praṇaśyati | raṇatīrthaṃ parityajya sasyātpāpī na saṃśayaḥ 64| niśitaṃ śastrasaṃvyūhaṃ dṛṣṭvā harṣaṃ pragacchati | avagāhyāmarīṃ siṃdhuṃ tīrthapāraṃ pragacchati 65| sa yāti vaiṣṇavaṃ lokaṃ puruṣāṃśca samuddharet | samāyāṃtaṃ ca tadahaṃ kathaṃ bhagno vrajāmi vai 66| yodhanaṃ śastrasaṃkīrṇaṃ pravīrānandadāyakam | dṛṣṭvā prayāti saṃhṛṣṭastasya puṇyaphalaṃ śṛṇu 67| padepade mahatsnānaṃ bhāgīrathyāḥ prajāyate | raṇādbhagno gṛhaṃ yāti yo lobhācca priye śṛṇu 68| mātṛdoṣaṃ prakāśeta strījātaḥ parikathyate | atra yajñāśca tīrthāśca atra devā mahaujasaḥ 69| paśyaṃti kautukaṃ kāṃte munayaḥ siddhacāraṇāḥ | trailokyaṃ vartate tatra yatra vīraprakāśanam 70| samarādbhagnaṃ prapaśyaṃti sarve trailokyavāsinaḥ | śapaṃti nirghṛṇaṃ pāpaṃ prahasanti punaḥpunaḥ 71| durgatiṃ darśayettasya dharmarājo na saṃśayaḥ | sammukhaḥ samare yuddhe svaśiraḥ śoṇitaṃ pibet 72| aśvamedhaphalaṃ bhuṃkte iṃdralokaṃ pragacchati | yadā jayati saṃgrāme śatrūñchūro varānane 73| tadā prabhuṃjate lakṣmīṃ nānābhogānna saṃśayaḥ | yadā tatra tyajetprāṇānsammukhaḥ sannirāśrayaḥ 74| sa gacchetparamaṃ sthānaṃ devakanyāṃ prabhuṃjate | evaṃ dharmaṃ vijānāmi kathaṃ bhagno vrajāmyaham 75| anena samare yuddhaṃ kariṣye nātra saṃśayaḥ | manoḥ putreṇa dhīreṇa rājñā ikṣvākuṇā saha 76| ḍiṃbhāngṛhītvā yāhi tvaṃ sukhaṃ jīva varānane | tasya śrutvā vacaḥ prāha baddhāhaṃ tava baṃdhanaiḥ 77| snehamānarasākhyaiśca ratikrīḍanakaiḥ priya | purataste sutaiḥ sārddhaṃ prāṇāṃstyakṣyāmi mānada 78| evametau susaṃbhāṣya parasparahitaiṣiṇau | yuddhāya niścitau bhūtvā samālokayato ripūn 79| kośalādhipatiṃ vīraṃ tamikṣvākuṃ mahāmatim 80| yathaiva meghaḥ parigarjate divi prāvṛṭsukāleṣu taḍitprakāśaiḥ | tathaiva saṃgarjati kāṃtayā samaṃ samāhvayedrājavaraṃ khurāgraiḥ 81| taṃ garjamānaṃ dadṛśe mahātmā vārāhamekaṃ puruṣārthayuktam | sasāra aśvasya javenayuktaḥ sasammukhaṃ tasya nṛvīradhīraḥ 82| iti śrīpadmapurāṇe bhūmikhaṃḍe venopākhyāne sukalācaritre trayaścatvāriṃśattamo'dhyāyaḥ 43|
English translation
Sukalā said :
1-8. Thus those boars stood up for fighting. The hunters stood by the king standing before them. O best king, the great hog resorted to the mountain-peak. He stood after arranging his great herd in an array. The tawny, fat, plump-bodied, irresistible hog having large fangs and mouth, roared very fearfully, O king. The great king saw them resorting to the groves of śāla and tāla . Hearing those words of them the brave son of Manu (said): “Seize the brave hog, kill him who is proud of his strength.” Thus the hero, the brave son of Manu, spoke to them. Then all the hunters, fascinated by the rapture of hunting became ready and furnished with armours, and proceeded with the dogs. The great and very mighty king was full of great joy. Mounted upon a horse, he was ready with his army having four constituents. He came to the bank of Gaṅgā on the best mountain Meru , full of gems and minerals and adorned with various kinds of trees.
Sukalā said :
9-19. (He came to the mountain) which best mountain, having the heap of the rays of the sun, was very lofty and high, had reached the sky itself, was beautified by many elephants that moved (on it); which shone with pure drops of water, resembling pearls, (and caused by) waves and ripples on the banks, rising from the pure stream of the Gaṅgā due to the crowds of people. The best mountain with its white slabs of stone washed everywhere, was endowed with excellent beauty. Surrounded (i.e. covered) by gods, Cāraṇas , Kinnaras and Gandharvas , Vidyādharas , Siddhas , bevies of celestial nymphs, sages, best elephants, Vidyādharas the mountain shone with (trees) like śrīkhaṇḍa , candana , sarala , śāla, tamāla , rudrākṣa , and desire-yielding trees giving divine powers. It was variegated with minerals of various kinds. It shone with aerial cars, variegated with various gems, with golden staffs and wives (i.e. women). It shone by the groves of coconut trees and divine betal-nut trees. It was adorned with flowers of divine white lotuses, bakula , and decorated with pieces of plantain trees, (also) with campaka -flowers. The mountain was decorated with reddish ketaka-flowers, and also the extensions of many creepers and with lotuses. It was adorned with beautiful flowers of many colours and with various trees. It was full of divine trees and crystal-slabs. It shone with the meditating saints, best meditating saints who had attained divine powers and who lived in its caves; and also with charming streams and many fountains. The mountain shone with the confluences bristling with the streams of rivers. The lord of mountains looked beautiful with deep lakes, small pools, having pure water and with peaks standing together. It was adorned with śarabhas , tigers and herds of deer. That lord of mountains always shone with highly intoxicated elephants, buffaloes and the ruru deer, and also with many divine substances.
20-22. Manu’s son, the brave lord of Ayodhyā , (named) Ikṣvāku , (was there) with his wife and the army having four constituents. In front (of him) the brave hunters and the fast dogs were going to the place where the brave, strong boar (remained) with his wife. He remained, after having resorted to the bank of Gaṅgā on the Meru-land, protected by many old and young hogs.
Sukalā said :
23-27. The delighted hog said to her very dear wife: “O dear one, see, the mighty lord of the Kośala country has come. The king is having the sport of hunting with me as the target. I shall just have the battle delighting gods and demons.” Then the very lustrous king, the archer with arrows in his hands, who was delighted, said to (his wife) Sudevā , of a truthful behaviour: “O darling, see the very powerful, roaring hog, accompanied by his attendants and irresistible for the hunters. O dear one, today only I shall kill him with good, sharp arrows. The very brave one will come to me only to fight (with me).”
28-31. The pleasing, brave (king), speaking thus to his wife, said to the hunters: “O very brave ones, urge on the hog.” The brave ones, having power, lustre and valour, and roaring, ran fast. All of them went to the hog with the speed of wind. The foresters pierced the hog of a brave form with volleys of sharp arrows and various weapons and missiles.
Sukalā said :
32-35. Arrows and javelins were discharged by the hunters; the arrows (discharged by them) showered on the mountain as clouds would shower on the earth. Struck by (hunters) giving strong strokes, the hog, the protector of the herd, who had gone to fight, was completely vanquished by hundred (of hunters). With his sons and grandsons he would destroy (i.e. he destroyed) his enemies. The hunters struck by his fang in the war fell down. Due to his speedy whir lings the hands and feet of a steady (person) dropped down. The hog saw the roar of (i.e. the roaring) hunter coming to him; and the lustre on his face was destroyed when struck with his fang. He went to the place where the king was. He (i.e. the king) did not want to fight. The lordly hog very much resisted and frightened the lord of the Ikṣvākus and was angry. Delighted with fighting, he desired to fight with Ikṣvāku (king) in the forest.
36-43. The hog skilled in fighting again desired to fight (with Ikṣvāku). The angry hog, shaking the earth with the front part of his mouth, sharp teeth and claws, and proudly making the huṃkāra sound, struck the sinless king. O king, finding him to have the valour like that of Viṣṇu , the son of Manu was thrilled with joy. The divine king, seeing the valour of the boar regarded him like Yama . Thinking that he was the enemy of gods in the form of a hog, and seeing the very powerful and huge opposing army, he suddenly collected (his army) for the destruction of the boar. He sent elephants, speedy chariots and hunters holding arrows and swords along with (missiles called) bhuśuṇḍi and mallets and having nooses in their hands. They were delighted and aimed at him. The horses and elephants that had gone to him, though warded off, remained (there only). At places he was seen, at places he was not seen. At times he would show (i.e. cause) fear, at times he would crush the horses. The hog, invincible in the battle, and with his eyes red due to anger, crushed the brave soldiers and made an inviolable sound. The brave lord of Kośala, seeing that boar, fighting, unconquerable in war, of a huge body and giving out a sound (i.e. thundering) like the clouds, roared; moved on the battlefield; and the brave one illumined the heroes with his own lustre. The fangs in his (i.e. the hog’s) mouth shone and flashed like lightning. The son of Manu saw the hog in that condition, and pierced him with sharp arrows, and each one of the rest was pierced by his relatives (i.e. fellow-warriors).
44. The king said: “O (my) armies (i.e. my soldiers), why should you, who are brave, not seize him through your prowess? (Just) fight there with him with (your) whetted and sharp arrows.”
45-59. Hearing the words of that noble one who was angry, all the soldiers stood together to fight. Many thousands of warriors, struck in all directions, and pierced the hog in battle, who had remained on the battlefield. On the battlefield, he was pierced with volleys of arrows by certain huge excellent warriors. The mighty ones hit the hog difficult to conquer in battle with the strokes of discs and throws of bolts. Then the angry hog having bravely cut off the nooses, remained in the battlefield. He went forth along with great boars. Then the brave hog, wet with the streams of blood, struck with his mouth and cut off the horses and elephants of the brave (soldiers). Angrily he struck the brave foot-soldiers with the sharp fore-part of his fang. Being angry he struck the trunk of an elephant and being delighted, hit, with the nails of his toes, the warriors that were struck (down). Then all the hogs and hunters, with their eyes red with anger, resorting to fighting, fought with one another. The boars were killed by the hunters, and many hunters were killed by the boars. Being struck and red with blood, they dropped on the ground. The boars, giving up (i.e. at the cost of) their life, killed the hunters, and they fell on the battlefield. There the boars died and dogs gave up their life (i.e. died). Here and there, the hunters that were dead (i.e. that were killed), lay on the ground. The king, with the strokes of his sword, killed many boars. Some boars fled away; some were killed; some, being frightened, resorted to inaccessible places, bowers and interiors of caves, O best king. Some hunters, pierced by hogs with the tips of their fangs, and some, cut off into pieces, died and went to heaven. On all sides snares, nooses, traps and tubular organs of the body had fallen here and there. The hog, proud of his strength, remained only with his wife and five or seven grandsons (ready) to fight. The female hog again spoke to that hog, dear to her:“O dear one, with me and these children move (to a safe place).”
60-77a. The pleased hog said to his very dear wife, who was afflicted: “Broken (like this) where shall I go? (Now) there is no place (for me) on the earth. When I run away, the herd of boars will perish. A hog drinks water by (remaining) between two lions; (but) a lion does (i.e. can) not drink water by (remaining) between two hogs. Thus excellent power is observed in the species of boars. Therefore I shall kill (the enemies); when broken I shall go (away). O you glorious one, I know piety causing many auspicious results. When a man, who is fighting, flees, leaving the holy battlefield through greed or fear, he would be a sinner. There is no doubt about it. He (who) is delighted at seeing the array of sharp arms, dives into the divine river and goes to the other end of the holy place. He goes to Viṣṇu’s world, and would, emancipate the men (of his family). When now that (fight) has come by, how should I, being broken, go (away from it)? Listen to the fruit of him (i.e. which he gets), who, on seeing the battle, crowded with weapons, and giving delight to great heroes, is delighted and goes forth (to fight). For him a great (i.e. sacred) bath in Bhāgīrathī is had at every step. O dear one, (now) listen (to the description of him), who, fleeing from the battle through greed, goes home. He would manifest his mother’s blemish, and is called a woman. O dear one, here (i.e. in a battle) are present sacrifices and holy places. Here (i.e. in a battle), gods of great prowess, sages, Siddhas and Cāraṇas witness (things creating) delight. All the three worlds are present there, where the heroes present themselves. The inhabitants of the three worlds watch him who has fled from the battle (-field), and curse and again and again laugh at the shameless sinner. King Dharma (i.e. Yama) would put him to pain (i.e. inflict pain upon him). There is no doubt about it. He, who faces (the enemy) and would drink blood from his own head (i.e. whose head would bleed while fighting), obtains the fruit of performing a horse-sacrifice and goes to Indra ’s heaven. There is no doubt that when the brave one conquers his enemies in a battle, he enjoys glory and many pleasures, O you beautiful one. When, unsupported (i.e. all alone) he, facing (his enemy), gives up his life, he would go to the highest place, and enjoys a divine maiden. Thus I know piety; how should I flee (from battle) and go (away)? There is no doubt that on the battlefield I shall fight with this courageous Ikṣvāku-king, the son of Manu. O you beautiful one, take these young ones with you, and go. Live happily.”
77b-82. Hearing the words of him, she said: “I am bound by your bonds, called the sentiment of love, and which are the playthings of joy, O dear one. O you, who remove the pride (of others), with my sons I shall cast my life in front of you.” Thus the two desiring the good of each other, and having well conversed with each other, decided to fight, and observed the enemies, (and) the very intelligent, brave Ikṣvāku, the lord of Kośala. As the cloud thunders in the sky in the rainy season, he roared along with his beloved and would challenge (i.e. challenged), with the tips of his hoofs, the excellent king. The noble one saw the roaring hog, endowed with valour. The courageous king, with a horse’s speed, moved forward facing him (i.e. the hog).
Complete chapter-aligned witnesses. Sanskrit Wikisource page 20389, revision 335469 (2022-04-08T23:56:29Z). English is N. A. Deshpande’s complete translation, controlled against its chapter page at https://www.wisdomlib.org/hinduism/book/the-padma-purana/d/doc364250.html and the ten-volume archival witness. The witnesses are aligned at chapter level; no unsupported verse-by-verse equivalence is asserted.