Kriyāyogasāra-khaṇḍa · Chapter 15
Sourceव्यास उवाच- नारायणस्य माहात्म्यं पुनर्वच्मि शृणु द्विज। यच्छ्रुत्वा सर्वपापेभ्यो मुक्तो भवति मानवः १। विष्ण्वंशभूतं सकलं जगदेतद्दिवजोत्तम। तस्माद्विष्णुमयं धीराः पश्यंति परमार्थिनः २। ब्रह्मशंकररुद्राद्या विष्ण्वंशाः सकलाः सुराः। तस्मात्समस्तदेवार्चा विष्णुमेकं प्रपद्यते ३। स्मरतां विष्णुनामानि सर्वपापहराणि च। येनकेनाप्युपायेन विद्यते नाशुभं क्वचित् ४। सर्वमेव द्विजश्रेष्ठ कर्मणा पापमुच्यते। अनपायि इदं विष्णोः स्मरणं पापनाशनम् ५। स्वपन्भुञ्जन्वदंस्तिष्ठन्नुत्तिष्ठंश्च व्रजंस्तथा। स्मरेदविरतं विष्णुं मुमुक्षुर्वैष्णवोजनः६। उत्तुंगैर्मुनिभिः सर्वैः स्मरणे कमलापतेः। न कालनियमः प्रोक्तः सर्वदुःखविनाशनः ७। नामप्रभावं विप्रर्षे केशवस्य महात्मनः। ब्रवीम्यहं समासेन सेतिहासं निशामय ८। आसीत्स परशुर्नाम पूर्वं कृतयुगे शुचिः। वैश्यो वैश्यकुलश्रेष्ठः समस्तगुणपारगः ९। स वैश्यो दैवयोगेन प्रथमे वयसि द्विज। जगाम वशतां मृत्योः कासश्वासगदार्दितः १०। जीवंती नाम तत्पत्नी सुमध्या नवयौवना। मृते भर्तरि तातस्य जगाम निलयं यतः ११। सा जीवंती द्विजश्रेष्ठ नवयौवनगर्विता। गतिं चकार जारेषु बाध्यमानापि बांधवैः १२। व्रतस्य नियमं वापि गृहव्यापारमेव च। जारानुरक्तचित्ता सा तत्याज्य नवयौवना १३। अंधीकृता सा कामेन सुश्रोणी पीवरस्तनी। धर्ममार्गं द्विजश्रेष्ठ न कदाचिद्ददर्श ह १४। दुःशीलां चैव तां दृष्ट्वा तत्पिता धर्मतत्परः। अपकीर्तिभयाद्भीरुरित्याहात्यंत कोपवान् १५। दुष्टे पापिनि मद्वंशे सर्वदोषविवर्जिते। आसाद्य जन्म किमिति क्रियते पातकं त्वया १६। यदि ते पातके चित्तं ह्यदितुं नैव एहि वै। अभद्रे गच्छ सदनाज्जहीहि मम मंदिरम् १७। तातेनेति निरुक्ता सा क्रोधारुणितलोचना। पितुर्गेहं परित्यज्य साजगाम यथासुखम् १८। अथ सा स्वेच्छया नारी भ्रमंती जारकांक्षया। वेश्यावृत्तिं समाश्रित्य तस्थौ लज्जाविवर्जिता १९। पुलिंदः शबरो वापि चाण्डालो वापि तद्गृहम्। आयाति तस्यास्तेनापि मुदा क्रीडति साऽसती २०। परलोकभयं विप्र कदाचिदपि चेतसा। न चिंतयामास च सा वारनारी यथाक्रमात् २१। कदाचिद्ब्राह्मणश्रेष्ठ कश्चिद्व्याधस्तदालये। शुकशावं समादाय विक्रयार्थं समाययौ २२। सापि वाराङ्गना तं च शुकशावकमुत्तमम्। जगृहे परमप्रीत्या धनैः संपूज्य लुब्धकम् २३। तद्योग्याहारदानेन वारस्त्री नित्यमेव सा। शुकस्य पोषणं चक्रे तस्य जातकुतूहला २४। वारांगनानपत्या सा तमेव शुकशावकम्। मत्वा पुत्रमिवात्मानं चक्रे तत्प्रतिपालनम् २५। सोऽपि पक्षी द्विजश्रेष्ठ नित्यमेव तदाज्ञया। ज्ञातिवच्चित्तवात्सल्य व्यवहारं करोति च २६। ततोऽसौ लब्धभावश्च शुको गणिकया तदा। रामेति सततं नाम पाठ्यते सुंदराक्षरम् २७। रामनाम परं ब्रह्म सर्वदेवाधिकं महत्। समस्तपातकध्वंसि स शुकस्तु सदा पठन् २८। रामोच्चारणमात्रेण तयोश्च शुकवेश्ययोः। विनष्टमभवत्पापं सर्वमेव सुदारुणम् २९। कदाचिद्वारमुख्या सा शुकोऽपि च द्विजोत्तम। उभावपि च पंचत्वमेककाले गतौ ततः ३०। समानेतुं ततस्तौ तु विहिताखिलपातकौ। किंकरान्प्रेषयामास चंडाद्यान्धर्मराट्ततः ३१। ततस्ते किंकराः सर्वे चंडाद्याः अतिवेगिनः। यमाज्ञया समायाताः पाशमुद्गरपाणयः ३२। आनेतुं तौ समायाताः सर्वे विष्णुपराक्रमाः। पाशबद्धौ तु तौ दृष्ट्वा पतितौ विष्णुकिंकराः ३३। ऊचुर्वाक्यमिदं क्रुद्धा यमदूतान्सुरासदान् ३४। विष्णुदूता ऊचुः - अहो चित्रमिदं वाक्यं यमदूता मुखाच्छ्रुतम् ३५। भक्तावपि हरेरेतौ दंड्यौ भास्करसूनुना। अहो चरित्रं दुष्टानां कदाचिदपि नोत्तमम् ३६। यत्नादपि यतो हिंसां कुर्वंति सततं सताम्। दुष्टानां कृतपापानां चरित्रमिदमद्भुतम् ३७। निष्पापमपि पश्यन्ति पुण्यात्मानोऽखिलं जगत्। पापिनस्तु न पश्यन्ति कृतपापमिवाखिलम् ३८। श्रुत्वा पुण्यात्मनां पुण्यमभितृप्यंति धर्मिणः। तृप्यंति पातकं श्रुत्वा पापिनां पापिनो जनाः ३९। पापचर्चां समाकर्ण्य यथा तृप्यंति पापिनः। न तृप्यन्ति यथा प्राप्य स्वर्णभारशतान्यपि ४०। अहो बलवती माया महाविष्णोर्महात्मनः। आत्मपीडाकरमपि पापं कुर्वंति ते द्विज ४१। व्यास उवाच- इत्युक्त्वा विष्णुदूतास्ते विष्णुभक्ति परायणाः। छिन्नवंतस्तयोर्विप्र बंधनं चक्रधारया ४२। ततस्तु शमनप्रेष्याः क्रुद्धास्ते वह्निसंन्निभाः। ववर्षुः सहसा तत्र ज्वलदंगारसंचयान् ४३। दंड उवाच-। विहितं च मयाप्येवं शुकं वेश्यां च पापिनीम्। नेतुं यूयं समायाता इत्यद्भुतमिवाभवत् ४४। नूनमेतौ यदा नेतुं यूयमिच्छतसत्तमाः। तदा कुरुत संग्राममस्माभिः सह संप्रति ४५। इत्युक्त्वा रामदूतास्ते बलिनो विधृतायुधाः। सिंहनादैर्दिशः सर्वे पूरयामासुरुद्धताः ४६। विष्णुदूता महात्मानः सुप्रतीकादयस्तथा। शङ्खनादैः सुललितैश्चक्रुः शब्दमयं जगत् ४७। याम्यैस्ततो महादूतैर्धनुर्मुक्तैः शिलीमुखैः। छादिता विष्णुदूतास्ते संग्रामेऽत्यंतदारुणे ४८। शूलान्यध्यक्षिपुः केचिच्छक्तिं केचिन्महार्णवे। केचिच्छरसहस्राणि केचिच्चक्राणि ते रुषा ४९। तैर्मुक्तानि महास्त्राणि विष्णुदूता महामराः। बाणान्विचूर्णयामासुर्गदाप्रहरणादिभिः ५० 7.15.50। ततो भागवतैरेतैर्याम्यानां चक्रधारया। केषांचिच्चरणाश्छिन्नाः केषांचिद्बाहवस्तथा ५१। केचिद्विच्छिन्नशिरसः केचिन्निर्भिन्नवक्षसः। अत्यद्भुत क्षताः केचिद्व्यास्याः पेतुर्गतासवः ५२। छिन्नैकचरणाः केचित्केचिच्छिन्नैकपाणयः। संत्यज्य सहसा याम्याः संग्रामाच्च प्रदुद्रुवुः ५३। तानालोक्य ततो दूतान्पलायनपरायणान्। प्रविवेश रुषा चंडः संग्रामं धृतमुद्गरः ५४। यमदूतगणश्रेष्ठश्चंडोऽत्यंत प्रतापवान्। ताडयामास शतशो मुद्गरैर्विष्णुकिङ्करान् ५५। अथ भागवता दूता निशितायुधवर्षणैः। ववर्षुस्तरसा क्रुद्धास्तं चंडं चंडविक्रमम् ५६। मुद्गरेण ततश्चण्डो विष्णुदूतान्पृथक्पृथक्। ताडयामास विगलद्रक्तसंसिक्तविग्रहः ५७। चंडेन ताडितास्तेन दूता भगवतो युधि। त्यक्तसत्वाः पृष्ठभागं सुप्रकाशस्य वै ययुः ५८। सुप्रकाशस्ततः क्रुद्धो जपापुष्पनिभेक्षणः। प्रविवेश रणे युद्धं गदापाणिर्महाबलः ५९। ताडयामास संक्रुद्धो विष्णुतुल्यपराक्रमः। मुद्गराच्चंडहस्ताच्च प्रेक्ष्य जनभयप्रदात् ६०। समुत्तस्थौ महाभीष्मः सधूमः पूतिगन्धवान्। स मुद्गरेण चंडेन ताडितस्तस्य वेगिना६१। स्फुलिंगा वर्षणं सद्यो मुमोचात्यंतभीतिदम्। ततः क्रुद्धेन चंडोऽसौ तेनैव मुद्गरेण च ६२। ताडयामास विप्रर्षे सुप्रकाशं महाबलम्। सुप्रकाशस्ततो विप्र व्यथां विस्मृत्य कोपवान् ६३। गदया ताडयामास चंडं शमनकिंकरम्। तेन प्रताडितश्चंडस्तत्र रक्तः परिप्लुतः ६४। पपात मूर्च्छितो भूमौ बालार्क इव जैमिने। याम्यदूतास्ततस्ते च चंडमादाय मूर्च्छितम् ६५। हाहाकारं प्रकुर्वंतो युद्धाद्भीताः प्रदुद्रुवुः। विष्णुदूतास्ततो विप्र सर्वे चातिप्रहर्षिताः ६६। अथ शंखान्समादध्मुर्जैमिने द्विजसत्तम। यमदूतास्ततस्ते च शोणितौघपरिप्लुताः ६७। यमस्यसन्निधिं जग्मुः क्रंदंतो भयविह्वलाः ६८। यमदूता ऊचुः- सूर्यपुत्र महाबाहो तवाज्ञाकारिणो वयम्। तथापि विष्णुदूतैर्नः कृता दुर्गतिरीदृशी ६९। महापातकिनां श्रेष्ठौ प्रभो यद्यपि तौ खलु। रामनामप्रभावेण गतौ नारायणालयम् ७०। भवता दंडनीया ये दुरात्मानः कृतैनसः। तेऽपि विष्णुपुरं यांति प्रभुत्वं तव किं तदा ७१। नास्माकं विष्णुदूतात्स्तैः कृतः परिभवस्त्वयम्। तवैव केवलं नाथ यतो वै किंकरा वयम् ७२। यम उवाच- दूताः स्मरंतौ तौ राम रामनामाक्षरद्वयम्। तदा न मे दंडनीयौ तयोर्नारायणः प्रभुः ७३। संसारे नास्ति तत्पापं यद्रामस्मरणैरपि। न याति संक्षयं सद्यो दृढं शृणुत किंकराः ७४। ये मानवाः प्रतिदिनं मधुसूदनस्य नामानि घोरदुरितौघविनाशनानि। भक्त्या स्मरंति विबुधप्रवरार्चितस्य ते पापिनोऽपि हि भटा मम नैव दंड्याः ७५। गोविन्द केशव हरे जगदीश विष्णो नारायणप्रणतवत्सलमाधवेति। भक्त्या वदंति पुरुषाः सततं क्षितौ ये दंड्या न ते मम भटा अतिपापिनोऽपि ७६। भक्तार्तिनाशनसुरेश्वरदीनबंधो लक्ष्मीपते सकलपापविनाशकारिन्। एतद्वदांतसततं भुवि ये मनुष्यास्ते पापिनोऽपि न भटा मम दंडनीयाः ७७। दामोदरेश्वरमुखामरवृन्दसेव्य श्रीवासुदेव पुरुषोत्तम माधवेति। येषां वदंति वदनेषु सदैव शब्दा दूता नमाम्यहमपि प्रतिवासरं तान् ७८। नारायणस्य जगदेकपतेर्मुरारेश्चर्चासु चित्तमतिहार्द्दि नृणां च येषाम्। तेषामहं च सततं सुभटा ह्यधीनो ये ते प्रफुल्लकमलेक्षणरूपभाजः ७९। ये विष्णुपूजनरता हरिभक्तभक्ता एकादशीव्रतरताः कपटैर्विहीनाः। ये विष्णुपादसलिलं शिरसा वहंति ते पापिनोऽपि न भटा मम दंडनीयाः ८०। ये भुञ्जते भगवतो मधुसूदनस्य नैवेद्यशेषमखिलौघविनाशकारि। ये कर्णयोश्च शिरसिच्छदनं तुलस्या नित्यं वहंति च भटाः प्रणमाम्यहं तान् ८१। ये कृष्णपादकमलार्चनतत्पराश्च ये ब्राह्मणार्चनरता गुणसेविनश्च। ये दीनलोकहृदयातिसुखप्रदाश्च तेषामहं सततमेव भटा अधीनः ८२। ये सत्यवाक्यकथनेषु सदानुरक्ता लोकप्रियाश्च शरणागतलोकपालाः। पश्यंति ये च सततं विषवत्परस्वं ते मानवा मम भटा न हि दंडनीयाः८३। ये चान्नदाननिरताः सलिलप्रदाश्च भूमिप्रदा निखिललोकहितैषिणश्च। ये वृत्तिहीनजनतृप्तिकराः प्रशांता दूता न ते खलु कदापि च दंडनीयाः ८४। ये ज्ञातिपोषणरताः प्रियवादिनश्च ये दम्भकोपमदमत्सरहीनचित्ताः। ये पापदृष्टिरहिता विजितेंद्रियाश्च तेषामहं न विदधामि कदापि चर्चाम् ८५। व्यास उवाच- एवं प्रबोधितास्तेन यमेन यमकिंकराः। ज्ञातवंतो जगद्भर्तुः प्रभावमतुलं हरेः ८६। विष्णोर्नामानि विप्रेन्द्र सर्वदेवाधिकानि वै। तेषां मध्ये तु तत्त्वज्ञा रामनामवरं स्मृतम् ८७। रामेत्यक्षरयुग्मं हि सर्वं मंत्राधिकं द्विज। यदुच्चारणमात्रेण पापी याति पराङ्गतिम् ८८। रामनामप्रभावं हि सर्वदेवप्रपूजनम्। महेश एव जानाति नान्यो जानाति जैमिने ८९। विष्णोर्नामसहस्राणां पठनाल्लभते फलम्। तत्फलं लभते मर्त्यो रामनामस्मरन्नपि ९०। अहो चित्रं मनुष्याणां चरित्रमिदमुच्यते। रामेति मुक्तिदं नाम न स्मरंति दुराशयाः ९१। वक्तुं श्रमो न चाल्पोऽपि श्रोतुमत्यंतसुन्दरम्। तथापि रामरामेति न वदंति दुराशयाः ९२। अत्यंतदुःखलभ्यापि मुक्तिर्जगति मानवैः। लभ्यते रामनाम्नैव कर्मास्ति किमतः परम् ९३। तावत्तिष्ठंति पापानि देहेषु देहिनां वर। रामरामेति यावद्वै न स्मरंति सुखप्रदम् ९४। श्राद्धे च तर्पणे चैव बलिदाने तथोत्सवे। यज्ञे दाने व्रते चैव देवताराधनेऽपि च ९५। अन्येष्वपि च कार्येषु वैदिकेषु विचक्षणः। स्मरेद्यस्तत्फलप्रेप्सू रामरामेति भक्तितः ९६। नमो रामायेति विप्रेन्द्र मन्त्रमोङ्कारपूर्वकम्। षडक्षरं जपेद्यस्तु सायुज्यं प्राप्यते हरेः ९७। षडक्षरेण मंत्रेण हरिपूजनकृन्नरः। सर्वान्कामानवाप्नोति प्रसादाच्चक्रपाणिनः ९८। मृत्युकाले द्विजश्रेष्ठ रामरामेति यः स्मरेत्। स पापिष्ठोऽपि परमं मोक्षमाप्नोति मानवः ९९। रामेति नाम यात्रायां ये स्मरंति मनीषिणः। सर्वसिद्धिर्भवेत्तेषां यात्रायां नात्र संशयः १०० 7.15.100। अरण्ये प्रांतरेवापि श्मशाने यो भयानके। रामनामस्मरेत्तस्य विद्यंते नापदो द्विज १०१। राजद्वारे तथा दुर्गे विदेशे दस्युसंमुखे। दुःस्वप्नदर्शने चैव ग्रहपीडासु जैमिने १०२। औत्पातिके भये चैव वातरोगभये तथा। रामनाम स्मरन्मर्त्यो लभते नाशुभं क्वचित् १०३। रामनाम द्विजश्रेष्ठ सर्वाशुभनिवारणम्। कामदं मोक्षदं चैव स्मर्तव्यं सततं बुधैः १०४। रामनामेति विप्रर्षे यस्मिन्न स्मर्यते क्षणे। क्षणः स एव व्यर्थः स्यात्सत्यमेव मयोच्यते १०५। स्मरंतो हरिनामानि नावसीदंति मानवाः १०६। जन्मकोटिदुरितक्षयमिच्छुः संपदं च लभते भुवि मर्त्यः। विष्णुनाम सततं भुवि भक्त्या मोक्षदातिमधुरं स्मरति स्म १०७।
vyāsa uvāca- nārāyaṇasya māhātmyaṃ punarvacmi śṛṇu dvija| yacchrutvā sarvapāpebhyo mukto bhavati mānavaḥ 1| viṣṇvaṃśabhūtaṃ sakalaṃ jagadetaddivajottama| tasmādviṣṇumayaṃ dhīrāḥ paśyaṃti paramārthinaḥ 2| brahmaśaṃkararudrādyā viṣṇvaṃśāḥ sakalāḥ surāḥ| tasmātsamastadevārcā viṣṇumekaṃ prapadyate 3| smaratāṃ viṣṇunāmāni sarvapāpaharāṇi ca| yenakenāpyupāyena vidyate nāśubhaṃ kvacit 4| sarvameva dvijaśreṣṭha karmaṇā pāpamucyate| anapāyi idaṃ viṣṇoḥ smaraṇaṃ pāpanāśanam 5| svapanbhuñjanvadaṃstiṣṭhannuttiṣṭhaṃśca vrajaṃstathā| smaredavirataṃ viṣṇuṃ mumukṣurvaiṣṇavojanaḥ6| uttuṃgairmunibhiḥ sarvaiḥ smaraṇe kamalāpateḥ| na kālaniyamaḥ proktaḥ sarvaduḥkhavināśanaḥ 7| nāmaprabhāvaṃ viprarṣe keśavasya mahātmanaḥ| bravīmyahaṃ samāsena setihāsaṃ niśāmaya 8| āsītsa paraśurnāma pūrvaṃ kṛtayuge śuciḥ| vaiśyo vaiśyakulaśreṣṭhaḥ samastaguṇapāragaḥ 9| sa vaiśyo daivayogena prathame vayasi dvija| jagāma vaśatāṃ mṛtyoḥ kāsaśvāsagadārditaḥ 10| jīvaṃtī nāma tatpatnī sumadhyā navayauvanā| mṛte bhartari tātasya jagāma nilayaṃ yataḥ 11| sā jīvaṃtī dvijaśreṣṭha navayauvanagarvitā| gatiṃ cakāra jāreṣu bādhyamānāpi bāṃdhavaiḥ 12| vratasya niyamaṃ vāpi gṛhavyāpārameva ca| jārānuraktacittā sā tatyājya navayauvanā 13| aṃdhīkṛtā sā kāmena suśroṇī pīvarastanī| dharmamārgaṃ dvijaśreṣṭha na kadāciddadarśa ha 14| duḥśīlāṃ caiva tāṃ dṛṣṭvā tatpitā dharmatatparaḥ| apakīrtibhayādbhīrurityāhātyaṃta kopavān 15| duṣṭe pāpini madvaṃśe sarvadoṣavivarjite| āsādya janma kimiti kriyate pātakaṃ tvayā 16| yadi te pātake cittaṃ hyadituṃ naiva ehi vai| abhadre gaccha sadanājjahīhi mama maṃdiram 17| tāteneti niruktā sā krodhāruṇitalocanā| piturgehaṃ parityajya sājagāma yathāsukham 18| atha sā svecchayā nārī bhramaṃtī jārakāṃkṣayā| veśyāvṛttiṃ samāśritya tasthau lajjāvivarjitā 19| puliṃdaḥ śabaro vāpi cāṇḍālo vāpi tadgṛham| āyāti tasyāstenāpi mudā krīḍati sā'satī 20| paralokabhayaṃ vipra kadācidapi cetasā| na ciṃtayāmāsa ca sā vāranārī yathākramāt 21| kadācidbrāhmaṇaśreṣṭha kaścidvyādhastadālaye| śukaśāvaṃ samādāya vikrayārthaṃ samāyayau 22| sāpi vārāṅganā taṃ ca śukaśāvakamuttamam| jagṛhe paramaprītyā dhanaiḥ saṃpūjya lubdhakam 23| tadyogyāhāradānena vārastrī nityameva sā| śukasya poṣaṇaṃ cakre tasya jātakutūhalā 24| vārāṃganānapatyā sā tameva śukaśāvakam| matvā putramivātmānaṃ cakre tatpratipālanam 25| so'pi pakṣī dvijaśreṣṭha nityameva tadājñayā| jñātivaccittavātsalya vyavahāraṃ karoti ca 26| tato'sau labdhabhāvaśca śuko gaṇikayā tadā| rāmeti satataṃ nāma pāṭhyate suṃdarākṣaram 27| rāmanāma paraṃ brahma sarvadevādhikaṃ mahat| samastapātakadhvaṃsi sa śukastu sadā paṭhan 28| rāmoccāraṇamātreṇa tayośca śukaveśyayoḥ| vinaṣṭamabhavatpāpaṃ sarvameva sudāruṇam 29| kadācidvāramukhyā sā śuko'pi ca dvijottama| ubhāvapi ca paṃcatvamekakāle gatau tataḥ 30| samānetuṃ tatastau tu vihitākhilapātakau| kiṃkarānpreṣayāmāsa caṃḍādyāndharmarāṭtataḥ 31| tataste kiṃkarāḥ sarve caṃḍādyāḥ ativeginaḥ| yamājñayā samāyātāḥ pāśamudgarapāṇayaḥ 32| ānetuṃ tau samāyātāḥ sarve viṣṇuparākramāḥ| pāśabaddhau tu tau dṛṣṭvā patitau viṣṇukiṃkarāḥ 33| ūcurvākyamidaṃ kruddhā yamadūtānsurāsadān 34| viṣṇudūtā ūcuḥ - aho citramidaṃ vākyaṃ yamadūtā mukhācchrutam 35| bhaktāvapi hareretau daṃḍyau bhāskarasūnunā| aho caritraṃ duṣṭānāṃ kadācidapi nottamam 36| yatnādapi yato hiṃsāṃ kurvaṃti satataṃ satām| duṣṭānāṃ kṛtapāpānāṃ caritramidamadbhutam 37| niṣpāpamapi paśyanti puṇyātmāno'khilaṃ jagat| pāpinastu na paśyanti kṛtapāpamivākhilam 38| śrutvā puṇyātmanāṃ puṇyamabhitṛpyaṃti dharmiṇaḥ| tṛpyaṃti pātakaṃ śrutvā pāpināṃ pāpino janāḥ 39| pāpacarcāṃ samākarṇya yathā tṛpyaṃti pāpinaḥ| na tṛpyanti yathā prāpya svarṇabhāraśatānyapi 40| aho balavatī māyā mahāviṣṇormahātmanaḥ| ātmapīḍākaramapi pāpaṃ kurvaṃti te dvija 41| vyāsa uvāca- ityuktvā viṣṇudūtāste viṣṇubhakti parāyaṇāḥ| chinnavaṃtastayorvipra baṃdhanaṃ cakradhārayā 42| tatastu śamanapreṣyāḥ kruddhāste vahnisaṃnnibhāḥ| vavarṣuḥ sahasā tatra jvaladaṃgārasaṃcayān 43| daṃḍa uvāca-| vihitaṃ ca mayāpyevaṃ śukaṃ veśyāṃ ca pāpinīm| netuṃ yūyaṃ samāyātā ityadbhutamivābhavat 44| nūnametau yadā netuṃ yūyamicchatasattamāḥ| tadā kuruta saṃgrāmamasmābhiḥ saha saṃprati 45| ityuktvā rāmadūtāste balino vidhṛtāyudhāḥ| siṃhanādairdiśaḥ sarve pūrayāmāsuruddhatāḥ 46| viṣṇudūtā mahātmānaḥ supratīkādayastathā| śaṅkhanādaiḥ sulalitaiścakruḥ śabdamayaṃ jagat 47| yāmyaistato mahādūtairdhanurmuktaiḥ śilīmukhaiḥ| chāditā viṣṇudūtāste saṃgrāme'tyaṃtadāruṇe 48| śūlānyadhyakṣipuḥ kecicchaktiṃ kecinmahārṇave| keciccharasahasrāṇi keciccakrāṇi te ruṣā 49| tairmuktāni mahāstrāṇi viṣṇudūtā mahāmarāḥ| bāṇānvicūrṇayāmāsurgadāpraharaṇādibhiḥ 50 7.15.50| tato bhāgavatairetairyāmyānāṃ cakradhārayā| keṣāṃciccaraṇāśchinnāḥ keṣāṃcidbāhavastathā 51| kecidvicchinnaśirasaḥ kecinnirbhinnavakṣasaḥ| atyadbhuta kṣatāḥ kecidvyāsyāḥ peturgatāsavaḥ 52| chinnaikacaraṇāḥ kecitkecicchinnaikapāṇayaḥ| saṃtyajya sahasā yāmyāḥ saṃgrāmācca pradudruvuḥ 53| tānālokya tato dūtānpalāyanaparāyaṇān| praviveśa ruṣā caṃḍaḥ saṃgrāmaṃ dhṛtamudgaraḥ 54| yamadūtagaṇaśreṣṭhaścaṃḍo'tyaṃta pratāpavān| tāḍayāmāsa śataśo mudgarairviṣṇukiṅkarān 55| atha bhāgavatā dūtā niśitāyudhavarṣaṇaiḥ| vavarṣustarasā kruddhāstaṃ caṃḍaṃ caṃḍavikramam 56| mudgareṇa tataścaṇḍo viṣṇudūtānpṛthakpṛthak| tāḍayāmāsa vigaladraktasaṃsiktavigrahaḥ 57| caṃḍena tāḍitāstena dūtā bhagavato yudhi| tyaktasatvāḥ pṛṣṭhabhāgaṃ suprakāśasya vai yayuḥ 58| suprakāśastataḥ kruddho japāpuṣpanibhekṣaṇaḥ| praviveśa raṇe yuddhaṃ gadāpāṇirmahābalaḥ 59| tāḍayāmāsa saṃkruddho viṣṇutulyaparākramaḥ| mudgarāccaṃḍahastācca prekṣya janabhayapradāt 60| samuttasthau mahābhīṣmaḥ sadhūmaḥ pūtigandhavān| sa mudgareṇa caṃḍena tāḍitastasya veginā61| sphuliṃgā varṣaṇaṃ sadyo mumocātyaṃtabhītidam| tataḥ kruddhena caṃḍo'sau tenaiva mudgareṇa ca 62| tāḍayāmāsa viprarṣe suprakāśaṃ mahābalam| suprakāśastato vipra vyathāṃ vismṛtya kopavān 63| gadayā tāḍayāmāsa caṃḍaṃ śamanakiṃkaram| tena pratāḍitaścaṃḍastatra raktaḥ pariplutaḥ 64| papāta mūrcchito bhūmau bālārka iva jaimine| yāmyadūtāstataste ca caṃḍamādāya mūrcchitam 65| hāhākāraṃ prakurvaṃto yuddhādbhītāḥ pradudruvuḥ| viṣṇudūtāstato vipra sarve cātipraharṣitāḥ 66| atha śaṃkhānsamādadhmurjaimine dvijasattama| yamadūtāstataste ca śoṇitaughapariplutāḥ 67| yamasyasannidhiṃ jagmuḥ kraṃdaṃto bhayavihvalāḥ 68| yamadūtā ūcuḥ- sūryaputra mahābāho tavājñākāriṇo vayam| tathāpi viṣṇudūtairnaḥ kṛtā durgatirīdṛśī 69| mahāpātakināṃ śreṣṭhau prabho yadyapi tau khalu| rāmanāmaprabhāveṇa gatau nārāyaṇālayam 70| bhavatā daṃḍanīyā ye durātmānaḥ kṛtainasaḥ| te'pi viṣṇupuraṃ yāṃti prabhutvaṃ tava kiṃ tadā 71| nāsmākaṃ viṣṇudūtātstaiḥ kṛtaḥ paribhavastvayam| tavaiva kevalaṃ nātha yato vai kiṃkarā vayam 72| yama uvāca- dūtāḥ smaraṃtau tau rāma rāmanāmākṣaradvayam| tadā na me daṃḍanīyau tayornārāyaṇaḥ prabhuḥ 73| saṃsāre nāsti tatpāpaṃ yadrāmasmaraṇairapi| na yāti saṃkṣayaṃ sadyo dṛḍhaṃ śṛṇuta kiṃkarāḥ 74| ye mānavāḥ pratidinaṃ madhusūdanasya nāmāni ghoraduritaughavināśanāni| bhaktyā smaraṃti vibudhapravarārcitasya te pāpino'pi hi bhaṭā mama naiva daṃḍyāḥ 75| govinda keśava hare jagadīśa viṣṇo nārāyaṇapraṇatavatsalamādhaveti| bhaktyā vadaṃti puruṣāḥ satataṃ kṣitau ye daṃḍyā na te mama bhaṭā atipāpino'pi 76| bhaktārtināśanasureśvaradīnabaṃdho lakṣmīpate sakalapāpavināśakārin| etadvadāṃtasatataṃ bhuvi ye manuṣyāste pāpino'pi na bhaṭā mama daṃḍanīyāḥ 77| dāmodareśvaramukhāmaravṛndasevya śrīvāsudeva puruṣottama mādhaveti| yeṣāṃ vadaṃti vadaneṣu sadaiva śabdā dūtā namāmyahamapi prativāsaraṃ tān 78| nārāyaṇasya jagadekapatermurāreścarcāsu cittamatihārddi nṛṇāṃ ca yeṣām| teṣāmahaṃ ca satataṃ subhaṭā hyadhīno ye te praphullakamalekṣaṇarūpabhājaḥ 79| ye viṣṇupūjanaratā haribhaktabhaktā ekādaśīvrataratāḥ kapaṭairvihīnāḥ| ye viṣṇupādasalilaṃ śirasā vahaṃti te pāpino'pi na bhaṭā mama daṃḍanīyāḥ 80| ye bhuñjate bhagavato madhusūdanasya naivedyaśeṣamakhilaughavināśakāri| ye karṇayośca śirasicchadanaṃ tulasyā nityaṃ vahaṃti ca bhaṭāḥ praṇamāmyahaṃ tān 81| ye kṛṣṇapādakamalārcanatatparāśca ye brāhmaṇārcanaratā guṇasevinaśca| ye dīnalokahṛdayātisukhapradāśca teṣāmahaṃ satatameva bhaṭā adhīnaḥ 82| ye satyavākyakathaneṣu sadānuraktā lokapriyāśca śaraṇāgatalokapālāḥ| paśyaṃti ye ca satataṃ viṣavatparasvaṃ te mānavā mama bhaṭā na hi daṃḍanīyāḥ83| ye cānnadānaniratāḥ salilapradāśca bhūmipradā nikhilalokahitaiṣiṇaśca| ye vṛttihīnajanatṛptikarāḥ praśāṃtā dūtā na te khalu kadāpi ca daṃḍanīyāḥ 84| ye jñātipoṣaṇaratāḥ priyavādinaśca ye dambhakopamadamatsarahīnacittāḥ| ye pāpadṛṣṭirahitā vijiteṃdriyāśca teṣāmahaṃ na vidadhāmi kadāpi carcām 85| vyāsa uvāca- evaṃ prabodhitāstena yamena yamakiṃkarāḥ| jñātavaṃto jagadbhartuḥ prabhāvamatulaṃ hareḥ 86| viṣṇornāmāni viprendra sarvadevādhikāni vai| teṣāṃ madhye tu tattvajñā rāmanāmavaraṃ smṛtam 87| rāmetyakṣarayugmaṃ hi sarvaṃ maṃtrādhikaṃ dvija| yaduccāraṇamātreṇa pāpī yāti parāṅgatim 88| rāmanāmaprabhāvaṃ hi sarvadevaprapūjanam| maheśa eva jānāti nānyo jānāti jaimine 89| viṣṇornāmasahasrāṇāṃ paṭhanāllabhate phalam| tatphalaṃ labhate martyo rāmanāmasmarannapi 90| aho citraṃ manuṣyāṇāṃ caritramidamucyate| rāmeti muktidaṃ nāma na smaraṃti durāśayāḥ 91| vaktuṃ śramo na cālpo'pi śrotumatyaṃtasundaram| tathāpi rāmarāmeti na vadaṃti durāśayāḥ 92| atyaṃtaduḥkhalabhyāpi muktirjagati mānavaiḥ| labhyate rāmanāmnaiva karmāsti kimataḥ param 93| tāvattiṣṭhaṃti pāpāni deheṣu dehināṃ vara| rāmarāmeti yāvadvai na smaraṃti sukhapradam 94| śrāddhe ca tarpaṇe caiva balidāne tathotsave| yajñe dāne vrate caiva devatārādhane'pi ca 95| anyeṣvapi ca kāryeṣu vaidikeṣu vicakṣaṇaḥ| smaredyastatphalaprepsū rāmarāmeti bhaktitaḥ 96| namo rāmāyeti viprendra mantramoṅkārapūrvakam| ṣaḍakṣaraṃ japedyastu sāyujyaṃ prāpyate hareḥ 97| ṣaḍakṣareṇa maṃtreṇa haripūjanakṛnnaraḥ| sarvānkāmānavāpnoti prasādāccakrapāṇinaḥ 98| mṛtyukāle dvijaśreṣṭha rāmarāmeti yaḥ smaret| sa pāpiṣṭho'pi paramaṃ mokṣamāpnoti mānavaḥ 99| rāmeti nāma yātrāyāṃ ye smaraṃti manīṣiṇaḥ| sarvasiddhirbhavetteṣāṃ yātrāyāṃ nātra saṃśayaḥ 100 7.15.100| araṇye prāṃtarevāpi śmaśāne yo bhayānake| rāmanāmasmarettasya vidyaṃte nāpado dvija 101| rājadvāre tathā durge videśe dasyusaṃmukhe| duḥsvapnadarśane caiva grahapīḍāsu jaimine 102| autpātike bhaye caiva vātarogabhaye tathā| rāmanāma smaranmartyo labhate nāśubhaṃ kvacit 103| rāmanāma dvijaśreṣṭha sarvāśubhanivāraṇam| kāmadaṃ mokṣadaṃ caiva smartavyaṃ satataṃ budhaiḥ 104| rāmanāmeti viprarṣe yasminna smaryate kṣaṇe| kṣaṇaḥ sa eva vyarthaḥ syātsatyameva mayocyate 105| smaraṃto harināmāni nāvasīdaṃti mānavāḥ 106| janmakoṭiduritakṣayamicchuḥ saṃpadaṃ ca labhate bhuvi martyaḥ| viṣṇunāma satataṃ bhuvi bhaktyā mokṣadātimadhuraṃ smarati sma 107|
English translation
Vyāsa said :
1-3. O brāhmaṇa , listen. I (shall) again tell you about the greatness of Viṣṇu , having heard which a man becomes free from all sins. O best brāhmaṇa, this entire world is a portion of Viṣṇu. Therefore, those wise men who desire the highest knowledge, look upon it as full of Viṣṇu. All gods like Brahmā , Śaṅkara , Rudra are Viṣṇu’s portions. Therefore, worship offered to all gods, goes to Viṣṇu alone.
4-6. By this means or that no inauspicious (things) ever take place in the case of those who remember Viṣṇu’s names, removing all sins. O best brāhmaṇa, everything is said to be a sin due to the act (involved in it). (But) the recollection of Viṣṇu is indestructible and destroys sins. A devotee of Viṣṇu, desiring liberation, should, while sleeping, eating, speaking, remaining (at one place), getting up, walking constantly remember Viṣṇu.
7-8. No exalted sages have laid down any restriction about time, destroying all afflictions, on the recollection of Lakṣmī ’s lord. O brāhmaṇa sage, I (shall) tell (you) in brief about the efficacy of the name of the magnanimous Viṣṇu, along with its history. Listen.
9-10. Formerly, in Kṛta age, there lived a vaiśya named Paraśu , who was the greatest in the family of vaiśyas and who had mastered all virtues. O brāhmaṇa, due to (ill) luck, that vaiśya, suffering from cough and asthma, died in his youth.
11-14. His wife of a beautiful waist and quite young, and named Jīvantī , went to her father’s house after her husband was dead. O best brāhmaṇa, since that Jīvantī was proud of the prime of her youth, she went to paramours, though checked by her relatives. She, in the prime of her youth and with her heart attached to the paramours, gave up observing vows and domestic duties. O best brāhmaṇa, she of beautiful buttocks and stout breasts, was blinded by lust, and never followed a religious path.
15-17. Her father, devoted to piety, seeing her of a bad character, was afraid of infamy, and being very angry, spoke to her thus: “O wicked one, O sinner, having secured a birth in my family, without any blemish, why do you commit (this) sin? If you have (set) your mind on (committing) a sin, then there is no (food here for you) to eat. O you inauspicious one, go (away) from my house. Leave my house.”
18-19. Thus addressed by her father, she, with her eyes red through anger, left her father’s house and went as she pleased. Then that woman moving with a desire for (having) a paramour, and being shameless, lived after resorting to the way of a prostitute.
20-21. A pulinda , a mountaineer or even a cāṇḍāla came to her house, and the unchaste woman, with pleasure sported with him. That prostitute never properly entertained in her mind the fear of the next world, O brāhmaṇa.
22-28. O best brāhmaṇa, sometime a fowler, carrying the young one of a parrot, came to her house to sell it. That prostitute too took (i.e. bought) that excellent young one of a parrot with great delight after honouring the fowler with much wealth. Out of curiosity the prostitute everyday nourished the parrot by (giving) proper food. The prostitute who was childless, nourished that young one of a parrot, looking upon it as her own son. O best brāhmaṇa, that bird too by her order always behaved affectionately with her like her relative. Then that prostitute always taught the parrot that had developed devotion for her the name of Rāma with beautiful letters. That parrot always repeated the name of Rāma, the highest Brahman , great and superior to all (other) gods, and destroying all sins.
29-30. Due to just uttering the name of Rāma the entire, very fierce sin of the parrot and the prostitute perished. O best brāhmaṇa, that prominent prostitute, so also the parrot, both died at the same time.
31-32. Then king Dharma (i.e. Yama ) sent his servants like Caṇḍa to bring the two who had committed all sins (to him). Then all those very speedy servants with nooses and mallets in their hands came (there) by Yama’s order.
33-34. All the servants of Viṣṇu, as valourous as Viṣṇu (himself), (also) came (there). Seeing the two bound by nooses and lying on the ground, the angry servants of Viṣṇu said to the unconquerable messengers of Yama these words:
Viṣṇu’s messengers said :
35-37. Oh, strange are the words heard by us (coming) from your mouths, O messengers of Yama, that these two though devoted to Viṣṇu, are being punished by (Yama) the Sun’s son. Oh, the behaviour of the wicked is never excellent, since even with efforts they always harm the good. Wonderful is this behaviour of the wicked who have committed sins.
38-41. The religious-minded ones always look upon the entire world as sinless. The sinners do not look upon it like that. They look upon the entire world as having committed sins. The religious ones rejoice on hearing about the religious merit of the righteous; (but) the sinful persons are delighted on hearing about the sin(s) of the sinful ones. The sinful ones are not so much gratified after getting hundreds of bhāras of gold, as they are after hearing the discussion about sins. Oh, powerful is the Māyā (Illusive Power) of the noble, great Viṣṇu, (since, due to it) sinners commit a sin (in spite of its being) painful to their selves, O brāhmaṇa.
Vyāsa said :
42-43. Speaking like this, Viṣṇu’s messengers, highly engaged in devotion for Viṣṇu, cutoff their bonds with the edge of their discs, O brāhmaṇa. Then Yama’s servants got angry. They, resembling fire, all of a sudden showered heaps of burning charcoals there.
Daṇḍa (Caṇḍa) said :
44-45. To take the parrot and the sinful prostitute I have arranged like this; and you have (also) come. It is simply wonderful. O best ones, if you desire to take these two, then now fight with us.
46-47. Speaking like this, all the strong, haughty messengers of Yama, who had held weapons, filled the quarters with lion-like roars. So also the magnanimous messengers of Viṣṇu like Supratīka , made the world full of sound with very charming sounds of conches.
48-53. In that very fierce battle, the great messengers of Yama then covered those messengers of Viṣṇu with arrows discharged from (their) bows. In that great ocean (of battle) some angrily discharged spears, some discharged (the missiles called) śakti , some discharged thousands of arrows and some discharged discs. The messengers of Viṣṇu, the great deities, pounded with weapons like maces the great missiles discharged by them. Then the followers of Viṣṇu cut off the feet of certain messengers of Yama and the hands of some with the edge of their discs. Some with their heads out off, some with their chests pierced, some with very amazing wounds, some with their mouths wide open, dropped dead (on the ground). The followers of Yama, with one foot of some cut off, with one hand of some cut off, suddenly left the battle, and fled away from it.
54-55. Seeing those messengers intent on fleeing, Caṇḍa holding a mallet, angrily entered the battle. Caṇḍa, the greatest among the host of Yama’s messengers, and very brave, struck with mallets Viṣṇu’s servants in hundreds.
56-57. Then Viṣṇu’s messengers quickly showered Caṇḍa of a fearful valour with showers of sharp weapons. Then Caṇḍa with his body wetted with flowing blood, struck separately Viṣṇu’s messengers.
58-68. The lord’s messengers, struck by that Caṇḍa in the battle, gave up their spirit and went behind Suprakāśa. Then that angry and very strong Suprakāśa, having eyes (red) like the japā -flowers, taking a mace in his hand, entered the battle (going on) on the battlefield. He who was angry, and who resembled Viṣṇu in valour, struck (him). From the mallet in Caṇḍa’s hand, which frightened the onlookers, a (column of) smoke having the smell of pus, rose. From him who was struck by the quick Caṇḍa, very fearful shower of sparks of fire was discharged. Then the angry Caṇḍa, struck, with that mallet only the very powerful Suprakāśa, O brāhmaṇa sage. Then, O brāhmaṇa, that Suprakāśa who was angry, forgot his pain and struck Caṇḍa, Yama’s servant, with a mace. O Jaimini , Caṇḍa, struck by him, was wetted with blood, and he, resembling the young sun, fell unconscious on the ground. Then those messengers of Yama took Caṇḍa, who was in a swoon, and making a loud wailing, and being afraid of the battle, fled away. O brāhmaṇa, O Jaimini, O best brāhmaṇa, all the messengers of Viṣṇu, being very much delighted, blew (their) conches. Then those servants of Yama, wetted with streams of blood, overcome by fear and crying, approached Yama.
Yama’s messengers said :
69-72. O Sun’s son, O you of large arms, we are obedient to you. Yet the messengers of Viṣṇu have reduced us to such a miserable plight. O lord, though the two (i.e. the prostitute and the parrot) were greatest among sinners, they went to Viṣṇu’s abode due to the efficacy of Rāma’s name. Even those wicked sinners who are fit to be punished by you, go to Viṣṇu’s city! What is your authority then? Oh, the messengers have not done this insult to us. It is, O lord, your insult only, since we are (just your) servants.
Yama said :
73-74. O messengers, they recollect the pair of letters—Rāma’s name. So they are not to be punished by me. Viṣṇu is the lord of the two. Listen, O servants, there is no sin in the worldly existence, which does not instantly and thoroughly perish by recollection of Rāma.
75-80. O soldiers, those men who everyday devoutly remember the names which destroy heaps of sins, of Viṣṇu, worshipped by the best among the wise, are not at all fit to be punished by me, even though they are sinners. Those men who, on the earth, utter constantly and devoutly (the names) Govinda , Keśava , Hari , Jagadīśa , Viṣṇu, Nārāyaṇa , affectionate to those who are humble, and Mādhava are not fit to be punished by me, even though they are great sinners, O soldiers. O soldiers, those men who, on the earth, constantly utter (words like) ‘O destroyer of the affliction of (your) devotees’, ‘O lord of gods’, ‘O friend of the distressed’, ‘O lord of Lakṣmī’, ‘O you destroyer of all sins’, are not fit to be punished by me even though they are great sinners. O messengers, everyday I salute even those in (i.e. by) whose mouths words like ‘ Dāmodara ’, ‘Chief of gods’, ‘One who is fit to be served by the hosts of gods’, ‘Śrī Vāsudeva ’, ‘ Puruṣottama ’ (and) ‘Mādhava’ are uttered. O best soldiers, I am always subservient to those men whose very kind heart is always engaged in the reflections on Viṣṇu, Mura ’s enemy, and the only lord of the world, and who resort to the form of the lotus-eyed (Viṣṇu). O soldiers, even though those who are engaged in Viṣṇu’s worship, who are devoted to Viṣṇu’s devotees, who are engrossed in the Ekādaśī vow, who are free from fraud, who carry on their heads the water (flowing) from Viṣṇu’s feet, are great sinners, they are not fit to be punished by me.
81-82. O soldiers, I salute them who enjoy the remains of the offerings of eatable made to Viṣṇu, which destroy the entire heap (of sins), and who always carry on their ears and head, a tulasī -leaf. O soldiers, I am always dependent on them who are eagerly engaged in worshipping Kṛṣṇa ’s feet, who are engaged in honouring brāhmaṇas , who resort to virtues, who give great joy to the hearts of the distressed people.
83-85. O soldiers, those men who are always given to speaking the truth, who are dear to people, who are like regents of the quarters to those who have resorted to them, who always look upon others’ wealth as poison, are not fit to be punished by me. O messengers, they who are engaged in offering food, who offer water (to the thirsty), who give land, who desire the good of all people, who gratify those people who have no livelihood, who have curbed their senses, who are tranquil, are never to be punished by me. I never make any inquiry of them who speak pleasing word, whose minds are free from hypocrisy, anger, pride and jealousy, who do not have a sinful attitude, and who have controlled their senses.
Vyāsa said :
86-89. When the servants of Yama were thus informed by Yama, they knew the incomparable glory of Viṣṇu, the lord of the world. O best brāhmaṇa, names of Viṣṇu are superior to (the names of) all (other) gods. The knowers of Brahman have declared Rama ’s name to be the best among them. O brāhmaṇa, the couple of letters, viz. Rāma, is superior to all magical formulas, by just uttering which a sinner goes to the highest position. Śiva alone and none else knows the efficacy of Rama’s name (which is) the worship of all deities.
90-92. A man gets the same fruit even by recollecting Rāma’s name as he gets by reciting the thousand names of Viṣṇu. Oh, wonderful is said to be the behaviour of men, that the wicked-hearted ones do not recollect the name ‘Rāma’ which gives liberation. To utter it there is not the least effort. It is very charming to hear. Yet the wicked-hearted ones do not utter (the name) ‘Rāma, Rāma’.
93-94. In the world, liberation which is attained with great difficulty, is attained by Rāma’s name only. What other (better) act can be there? So long as men do not recollect Rama’s name giving pleasure, sins remain in their bodies.
95-97. A wise man desiring the fruit of that act should devoutly remember (the name) ‘Rāma, Rāma’ at a śrāddha , at the time of offering oblations to the manes, at the time of offering a portion of the daily meal to all creatures, so also at a festival, at a sacrifice, at the time of (making) a present, at the time of a vow, so also at the time of the worship of a deity, so also at other Vedic rites. O best brāhmaṇa, he who would mutter the formula ‘ Namo Rāmāy ’ (salutation to Rāma) preceded by Oṃkāra , obtains absorption into Viṣṇu.
98. A man worshipping Viṣṇu with (this) formula of six letters, obtains all his desired objects through the grace of the Disc-holder (i.e. Viṣṇu).
99-103. O greatest brāhmaṇa, that man who at the time of death would remember (the name) ‘Rāma, Rāma’ obtains liberation, even though he is the most sinful. There is no doubt that the wise ones who remember the name Rāma while on a pilgrimage, would get success in everything. O brāhmaṇa, he who would remember Rāma’s name in a forest, on a desolate road, or even at a frightful cremation ground would not face calamities.
A man remembering Rāma’s name at the royal gate, at a difficult place, in a foreign country, in front of bandits, on seeing a bad dream, so also at the time of trouble caused by Planets, at the time of fear due to portents, so also at the time of fear due to the disease of gout, meets with nothing unfortunate, O Jaimini.
104-105. The wise should always remember Rāma’s name which removes all calamities, which gives desired objects and liberation. O brāhmaṇa sage, that moment at which Rāma’s name is not remembered, would be only useless. I am telling the truth.
106. Men, remembering Viṣṇu’s names, do not sink down; and a man desiring the destruction of sins (committed) during crores of existences obtains affluence on the earth, and constantly remembers with devotion the very sweet name of Viṣṇu, giving liberation.
Complete chapter-aligned witnesses. Sanskrit Wikisource page 25204, revision 336763 (2022-04-27T03:44:22Z). English is N. A. Deshpande’s complete translation, controlled against its chapter page at https://www.wisdomlib.org/hinduism/book/the-padma-purana/d/doc365856.html and the ten-volume archival witness. The witnesses are aligned at chapter level; no unsupported verse-by-verse equivalence is asserted.