Skip to main content

Uttara-khaṇḍa · Chapter 210

Chapter 210

Unit 622 of 693Uttara-khaṇḍa · Chapter 210Uttara-khaṇḍa · Chapter 2101 source entries

Uttara-khaṇḍa · Chapter 210

Source

नारद उवाच- एवं प्रबोध्य तान्सर्वान्वचोभिः पारमार्थिकैः । स हंसः कारयामास क्रियास्तस्यात्मसंभवाः १। अंतर्वत्नी मुकुंदस्य निर्बंधं कुर्वती वधूः । अनुगंतुं स्वभर्तारं विदुषा तेन वारिता २। तस्यास्थीनि समादाय तेन सन्यासिना समम् । तद्भ्राता प्रययौ गंगाजले पातयितुं नृप ३। विप्रसन्यासिनौ तौ हि कतिभिर्वासरैर्नृप । सार्थलोकवशात्प्राप्तौ इंद्रप्रस्थेऽत्र सत्पदे ४। इंद्रप्रस्थांतरावर्तिन्येषा या कोशला नृप । अत्र सुप्तौ निशायां तौ यमुनातीरभूतले ५। आत्मनोरुभयोर्मध्ये न्यस्यास्थिपटसंपुटम् । मार्गखेदपरिक्रांतौ दशां सौषुप्तिकीं गतौ ६। निशीथेऽथ प्रसुप्तेषु सार्थलोकेषु कश्चन । एकः श्वा तत्र संप्राप्तः पक्वान्नादि जिहीर्षया ७। बभ्राम सर्वशिविरे जिघ्रन्पाकस्थलीं मुहुः । भाजनानि लिहन्मूर्ध्नि क्व च दंडाहतिं सहन् ८। केनचित्ताडितो मूर्ध्नि निशब्दं विद्रुतस्ततः । प्रतिचक्रुमशक्तस्तु स्त्रीजितः स्वस्त्रिया यथा ९। यत्रावकंडितः स श्वा दंडग्रावेष्टकादिभिः । पुनर्विवेश तत्रैव सान्नपात्रलिलिप्सया १०। भोगेच्छया यथा वेश्या स्नेहवान्निर्द्धनो जनः । भ्रमन्नेवं स चात्रापि यत्र सुप्तौ हि तावुभौ ११। सारमेयस्तयोर्मध्याज्जह्रे स पटसंपुटम् । नीत्वा स कियतीं भूमिं दंतैस्तत्पटसंपुटम् १२। विदार्यास्थीनि तत्स्थानि निर्मांसान्यवलोक्य सः । एतस्याः कोशलायास्तु जलमध्ये समाक्षिपत् १३। क्षिप्तमात्रेषु तेनास्थिष्वेतदंबुनि भूपते । दिव्यं विमानमास्थाय मुकुंदोऽत्र समागतः १४। दृष्ट्वा गुर्वनुजौ सुप्तौ शनैः प्राबोधयत्तदा । उवाच च नमस्कृत्य गुंरुं दिव्याकृतिर्नृप १५। मुकुंद उवाच। वेदायन गुरो तुभ्यं नम आशीस्तवानुज । प्रासादाद्वां ममास्थीनि तीर्थेऽत्र पतितानि वै १६। अयं मृत्युमहं गत्वा निरयं प्राप्य तत्फलम् । एतत्तीर्थप्रसादेन दैवी लब्धा मया गतिः १७। त्वां गुरुं तीर्थभूतं तु नमस्कर्तुमिहागतः । अहं गच्छन्विमानेन दिव्येन त्रिदशालयम् १८। नमस्कृतो भवानेतत्तीर्थ चायं सहोदरः । दृष्टो मामनुजानीहि यामि स्वर्गं सुखोदयम् १९। नारद उवाच- श्रुत्वैवं वचनं तस्य मुकुंदस्य गुरुस्तदा । वेदायनो विमानस्थं तमूचे गतविस्मयः २०। देवायन उवाच- मुकुंदाख्याहि मे सत्यं लब्ध्वा यन्मरणं भवान् । कस्मिंल्लोके गतस्तात यतो यात्यधुना दिवम् २१। किं वृत्तं तत्र ते तात तस्यलोकस्य कोऽधिपः । कीदृशी च प्रजा कीदृक्धर्मस्तत्राखिलं वद २२। मुकुंद उवाच- कथयामि गुरो तुभ्यं यद्वृत्तं मरणादनु । तीर्थस्यास्य प्रसादेन स्मृतिर्मे जायतेऽधुना २३। यदाहं तेन निहतश्चंडकेन दुरात्मना । नापितेन तदा जग्मुर्यमभृत्याः सुदारुणाः २४। पिंगाक्षा रक्तकेशाश्च श्यामदेह नखाधराः । वामना दीर्घचरणा ह्रस्वनासाश्च दंतुराः २५। नीयतां नीयतामेष धर्मराजस्य शासनात् । पुरीं संयमनीमेवमूचिरे ते परस्परम् २६। इत्युक्त्वा यातना देहे मां निवेश्य महारुषा । निबध्य दारुणैः पाशैर्जघ्नुर्लोहस्य मुद्गरैः २७। तैरहं नीयमानस्तु मार्गे ह्युत्तप्तवालुके । अरुदं भृशदुःखार्तस्ताडितोऽहं पुनश्च तैः २८। प्रोचुश्च ते ध्रुवं कृत्वा निर्भर्त्स्येति च मां बहु । यमदूता ऊचुः । त्वया लुप्तो गुरुर्यस्माद्वदता ब्रह्म निश्चलम् २९। किं करोषि यमस्याग्रे द्रष्टव्यं दारुणं मुखम् । तस्य पापस्य भोक्तव्यं दारुणस्य फलं त्वया ३०। तेनैव पाप्मना पापिन्नपमृत्युं गतो भवान् । इत्युक्त्वा मां मुहूर्तेन बहुयोजनसंस्थिताम् ३१। पुरीं संयमनीं निन्युर्यत्र राजा स्वयं यमः । प्रणम्य धर्मराजानं स्थापयित्वा तु मां पुरः ३२। आनीतोऽयं द्विजः पाप इति मां ते न्यवेदयन् । दृष्ट्वा मां धर्मराजोऽथ प्रोवाच स्वसभासदः ३३। यम उवाच- भो सभ्या मामकीं वाचं शृण्वंतु सुसमाहिताः । यदाहं ब्रह्मणा ह्यस्मिन्नधिकारे निवेशितः ३४। तदा मामित्युवाचासौ ब्रह्मा लोकपितामहः । ब्रह्मोवाच- अधर्मिणां नराणां त्वं शास्ता संयमनीपतिः ३५। यथापराधमाधत्स्व दंडं चंडकरात्मज । पित्रोरपोषको यस्तु समर्थो गुरुध्रुक्तु यः । एतौ महापातकिनौ निपात्यौ निरयेषु ते ३६। सर्वेषु यावद्वर्षाणां प्रत्येकमयुतं भवेत् । एतयोर्न त्वया कार्या दया जातु ककुप्पते ३७। यम उवाच- इत्यहं ब्रह्मणो वाक्यात्स्वगुरुद्रुहि मानवे । न करोमि क्रियां सभ्यास्तथा पित्रोरपोषके ३८। ब्राह्मणोऽयं गुरुद्रोही तद्द्रोहादपमृत्युताम् । प्राप्तो मच्छासनाद्भृत्यैरानीतो दर्शनाक्षमः ३९। भो भृत्याः प्रथमं घोरे रौरवे वत्सरायुते । पात्यतां च पुनस्तस्मान्निःसार्य्यान्यत्र पात्यताम् ४०। तावंतमेव कालं वै पापोऽयं गुरुलोपकः । नरकेष्विति सर्वेषु यथाकालं स्थितं द्रुतम् ४१। मुकुंद उवाच- वेदायन गुरो स्वामिन्भृत्यास्ते यमशासनात् । नीत्वा मां रौरवे घोरे पाशैर्बध्वा न्यपातयन् ४२। तत्राहं तां व्यथां गुर्वी लब्धवानतिदारुणाम् । यथाकोऽपि क्षणस्तात नीतो मे युगवत्तदा ४३। त्रिंशद्दिनानि तन्नीतं दुःखं मे तत्र तिष्ठता । एकत्रिंशतमे ह्यस्मिन्दिनेऽहं निर्गतस्तदा ४४। पतितेष्वस्थिखंडेषु तीर्थेऽस्मिन्नुतमोत्तमे । गुरुलोपोद्भवं पापं सद्यो नष्टं ममाभवत ४५। तीर्थस्यास्य प्रसादेन लब्धा च स्वर्गतिर्मया । सुखं स्वर्गे निवत्स्यामि यावदिंद्राश्चतुर्दश ४६। यमस्य नगरे तस्मिन्याः प्रजा निवसंति वै । पापिनां भयदायिन्यो धर्मिणां ता मनोहराः ४७। सिंहास्या गजकोलास्या महादंष्ट्रोन्नतोदरीः । बिडालास्याः पिंगकेश्यो भामिन्यो दीर्घपत्कराः ४८ । तीर्थस्यास्य प्रसादेन निःपापोहं यदाभवम् । तदा मया प्रजा दृष्टा दिव्यरूपा यमालये ४९। सर्वास्ताः सत्यवादिन्यो विनयाचारसंचिताः । दिव्याभरणधारिण्यो दिव्यांबरविभूषिताः ५०। इत्येतत्कथितं तात यत्पृष्टोऽहं त्वयानघ । अनुजानीहि मां गंतुममरेशपुरीं प्रति ५१। नारद उवाच- इत्याकर्ण्य स सन्यासी स्वशिष्योक्तं वचस्तदा । भूयः पप्रच्छ धर्मात्मा मुकुंदं तं द्विजं नृप ५२। वेदायन उवाच- बाल्यावधि गुरुस्नेहं मत्तोऽधीतं त्वयाखिलम् । शब्दशास्त्रसमेतश्च वेदस्तु सपदक्रमः ५३। विहिता मम शुश्रूषा भावेन भवतोत्तमा । त्वयि संति सतां साधो गुणाः शमदमादयः ५४। गुरुलोपकृतं पापं कथं ते समजायत । एतदाख्याहि मे तात यथा जानामि तत्वतः ५५। मुकुंद उवाच- जन्मोपवीतकन्यानां धातारो निगमस्य च । यज्ञोपवीतदातुश्च नाज्ञाभंगः कृतो मया ५६। श्वश्रुश्वशुरयोः सेवा भृत्येनेव कृता मया । तवापि शास्त्रदातुश्च नाज्ञाभंगः कृतो मया ५७। पुरोधा यः कुलाचार्यो वेदवेदांतपारगः। तस्यापराद्धं केचिन्मे तत्र त्वं श्रोतुमर्हसि ५८। यद्यस्माकं कुले पुत्रो जायते धर्मकोविद । तदा पुरोधसे धेनुमेकां वा तस्य दक्षिणाम् ५९। दत्त्वा संच्छिद्यते नालमिति वंशस्य नः स्थितिः । पुरा ममैव पुत्रे तु जातमात्रे शुभेऽहनि ६०। कुलक्रिया मया तात न कृता मूढबुद्धिना । तस्याश्चाकरणेनैव गुरुलोपकरोऽभवम् ६१। निवेदितमिदं सर्वं गुरुलोपाद्यथा मम । पापमासीदनुज्ञा मे देहि यामि सुरालयम् ६२। वेदायन उवाच- इंद्रप्रस्थांतरावर्तिन्येषा या कोशला शुभा । स्मृतिरस्याः प्रसादेन दृश्यते पूर्वजन्मनः ६३। केन पुण्येन तीर्थेऽस्मिन्नस्थीनि पतितानि ते । मुकुंदाख्याहि चैतस्य स्मृतिरस्ति तवानघ ६४। मुकंद उवाच- एकस्तु ब्राह्मणः कश्चित्सायं मद्गृहमागतः । तस्मै स्थानं मया दत्तं भोजनं च यथाविधि ६५। सोऽपि भुक्त्वा यथाकामं सुष्वाप शयने शुभे । निशीथे तस्य सर्वांगे ज्वरोऽभूदति दारुणः ६६। तेन पीडितसर्वांगो निद्रां लेभे न स द्विजः । प्रभात एव तत्याज प्राणान्मृत्यावुपस्थिते ६७। तस्य दाहादि कर्माणि विहितानि मया गुरो । तदस्थीनि च गंगायां पातितानि विधानतः ६८। तेन पुण्येन मेस्थीनि पतितानि शिवप्रदे । तीर्थेऽस्मिन्कोशले नाम्नि ब्रह्मदेवविनिर्मिते ६९। नारद उवाच- स्वचरितमितिराजन्स द्विजः प्रोच्य सद्यः सुरसुभगशरीरो द्यां ययौ यानगत्या । इदमकथित मया तं तस्करात्प्राप्य मृत्युं व्यलभत दिवमेतत्तीर्थराजप्रसादात् ७०। इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे कालिंदीमाहात्म्ये मुकुंदोपाख्याने दशाधिकद्विशततमोऽध्यायः २१० ।

nārada uvāca- evaṃ prabodhya tānsarvānvacobhiḥ pāramārthikaiḥ | sa haṃsaḥ kārayāmāsa kriyāstasyātmasaṃbhavāḥ 1| aṃtarvatnī mukuṃdasya nirbaṃdhaṃ kurvatī vadhūḥ | anugaṃtuṃ svabhartāraṃ viduṣā tena vāritā 2| tasyāsthīni samādāya tena sanyāsinā samam | tadbhrātā prayayau gaṃgājale pātayituṃ nṛpa 3| viprasanyāsinau tau hi katibhirvāsarairnṛpa | sārthalokavaśātprāptau iṃdraprasthe'tra satpade 4| iṃdraprasthāṃtarāvartinyeṣā yā kośalā nṛpa | atra suptau niśāyāṃ tau yamunātīrabhūtale 5| ātmanorubhayormadhye nyasyāsthipaṭasaṃpuṭam | mārgakhedaparikrāṃtau daśāṃ sauṣuptikīṃ gatau 6| niśīthe'tha prasupteṣu sārthalokeṣu kaścana | ekaḥ śvā tatra saṃprāptaḥ pakvānnādi jihīrṣayā 7| babhrāma sarvaśivire jighranpākasthalīṃ muhuḥ | bhājanāni lihanmūrdhni kva ca daṃḍāhatiṃ sahan 8| kenacittāḍito mūrdhni niśabdaṃ vidrutastataḥ | praticakrumaśaktastu strījitaḥ svastriyā yathā 9| yatrāvakaṃḍitaḥ sa śvā daṃḍagrāveṣṭakādibhiḥ | punarviveśa tatraiva sānnapātralilipsayā 10| bhogecchayā yathā veśyā snehavānnirddhano janaḥ | bhramannevaṃ sa cātrāpi yatra suptau hi tāvubhau 11| sārameyastayormadhyājjahre sa paṭasaṃpuṭam | nītvā sa kiyatīṃ bhūmiṃ daṃtaistatpaṭasaṃpuṭam 12| vidāryāsthīni tatsthāni nirmāṃsānyavalokya saḥ | etasyāḥ kośalāyāstu jalamadhye samākṣipat 13| kṣiptamātreṣu tenāsthiṣvetadaṃbuni bhūpate | divyaṃ vimānamāsthāya mukuṃdo'tra samāgataḥ 14| dṛṣṭvā gurvanujau suptau śanaiḥ prābodhayattadā | uvāca ca namaskṛtya guṃruṃ divyākṛtirnṛpa 15| mukuṃda uvāca| vedāyana guro tubhyaṃ nama āśīstavānuja | prāsādādvāṃ mamāsthīni tīrthe'tra patitāni vai 16| ayaṃ mṛtyumahaṃ gatvā nirayaṃ prāpya tatphalam | etattīrthaprasādena daivī labdhā mayā gatiḥ 17| tvāṃ guruṃ tīrthabhūtaṃ tu namaskartumihāgataḥ | ahaṃ gacchanvimānena divyena tridaśālayam 18| namaskṛto bhavānetattīrtha cāyaṃ sahodaraḥ | dṛṣṭo māmanujānīhi yāmi svargaṃ sukhodayam 19| nārada uvāca- śrutvaivaṃ vacanaṃ tasya mukuṃdasya gurustadā | vedāyano vimānasthaṃ tamūce gatavismayaḥ 20| devāyana uvāca- mukuṃdākhyāhi me satyaṃ labdhvā yanmaraṇaṃ bhavān | kasmiṃlloke gatastāta yato yātyadhunā divam 21| kiṃ vṛttaṃ tatra te tāta tasyalokasya ko'dhipaḥ | kīdṛśī ca prajā kīdṛkdharmastatrākhilaṃ vada 22| mukuṃda uvāca- kathayāmi guro tubhyaṃ yadvṛttaṃ maraṇādanu | tīrthasyāsya prasādena smṛtirme jāyate'dhunā 23| yadāhaṃ tena nihataścaṃḍakena durātmanā | nāpitena tadā jagmuryamabhṛtyāḥ sudāruṇāḥ 24| piṃgākṣā raktakeśāśca śyāmadeha nakhādharāḥ | vāmanā dīrghacaraṇā hrasvanāsāśca daṃturāḥ 25| nīyatāṃ nīyatāmeṣa dharmarājasya śāsanāt | purīṃ saṃyamanīmevamūcire te parasparam 26| ityuktvā yātanā dehe māṃ niveśya mahāruṣā | nibadhya dāruṇaiḥ pāśairjaghnurlohasya mudgaraiḥ 27| tairahaṃ nīyamānastu mārge hyuttaptavāluke | arudaṃ bhṛśaduḥkhārtastāḍito'haṃ punaśca taiḥ 28| procuśca te dhruvaṃ kṛtvā nirbhartsyeti ca māṃ bahu | yamadūtā ūcuḥ | tvayā lupto gururyasmādvadatā brahma niścalam 29| kiṃ karoṣi yamasyāgre draṣṭavyaṃ dāruṇaṃ mukham | tasya pāpasya bhoktavyaṃ dāruṇasya phalaṃ tvayā 30| tenaiva pāpmanā pāpinnapamṛtyuṃ gato bhavān | ityuktvā māṃ muhūrtena bahuyojanasaṃsthitām 31| purīṃ saṃyamanīṃ ninyuryatra rājā svayaṃ yamaḥ | praṇamya dharmarājānaṃ sthāpayitvā tu māṃ puraḥ 32| ānīto'yaṃ dvijaḥ pāpa iti māṃ te nyavedayan | dṛṣṭvā māṃ dharmarājo'tha provāca svasabhāsadaḥ 33| yama uvāca- bho sabhyā māmakīṃ vācaṃ śṛṇvaṃtu susamāhitāḥ | yadāhaṃ brahmaṇā hyasminnadhikāre niveśitaḥ 34| tadā māmityuvācāsau brahmā lokapitāmahaḥ | brahmovāca- adharmiṇāṃ narāṇāṃ tvaṃ śāstā saṃyamanīpatiḥ 35| yathāparādhamādhatsva daṃḍaṃ caṃḍakarātmaja | pitrorapoṣako yastu samartho gurudhruktu yaḥ | etau mahāpātakinau nipātyau nirayeṣu te 36| sarveṣu yāvadvarṣāṇāṃ pratyekamayutaṃ bhavet | etayorna tvayā kāryā dayā jātu kakuppate 37| yama uvāca- ityahaṃ brahmaṇo vākyātsvagurudruhi mānave | na karomi kriyāṃ sabhyāstathā pitrorapoṣake 38| brāhmaṇo'yaṃ gurudrohī taddrohādapamṛtyutām | prāpto macchāsanādbhṛtyairānīto darśanākṣamaḥ 39| bho bhṛtyāḥ prathamaṃ ghore raurave vatsarāyute | pātyatāṃ ca punastasmānniḥsāryyānyatra pātyatām 40| tāvaṃtameva kālaṃ vai pāpo'yaṃ gurulopakaḥ | narakeṣviti sarveṣu yathākālaṃ sthitaṃ drutam 41| mukuṃda uvāca- vedāyana guro svāminbhṛtyāste yamaśāsanāt | nītvā māṃ raurave ghore pāśairbadhvā nyapātayan 42| tatrāhaṃ tāṃ vyathāṃ gurvī labdhavānatidāruṇām | yathāko'pi kṣaṇastāta nīto me yugavattadā 43| triṃśaddināni tannītaṃ duḥkhaṃ me tatra tiṣṭhatā | ekatriṃśatame hyasmindine'haṃ nirgatastadā 44| patiteṣvasthikhaṃḍeṣu tīrthe'sminnutamottame | gurulopodbhavaṃ pāpaṃ sadyo naṣṭaṃ mamābhavata 45| tīrthasyāsya prasādena labdhā ca svargatirmayā | sukhaṃ svarge nivatsyāmi yāvadiṃdrāścaturdaśa 46| yamasya nagare tasminyāḥ prajā nivasaṃti vai | pāpināṃ bhayadāyinyo dharmiṇāṃ tā manoharāḥ 47| siṃhāsyā gajakolāsyā mahādaṃṣṭronnatodarīḥ | biḍālāsyāḥ piṃgakeśyo bhāminyo dīrghapatkarāḥ 48 | tīrthasyāsya prasādena niḥpāpohaṃ yadābhavam | tadā mayā prajā dṛṣṭā divyarūpā yamālaye 49| sarvāstāḥ satyavādinyo vinayācārasaṃcitāḥ | divyābharaṇadhāriṇyo divyāṃbaravibhūṣitāḥ 50| ityetatkathitaṃ tāta yatpṛṣṭo'haṃ tvayānagha | anujānīhi māṃ gaṃtumamareśapurīṃ prati 51| nārada uvāca- ityākarṇya sa sanyāsī svaśiṣyoktaṃ vacastadā | bhūyaḥ papraccha dharmātmā mukuṃdaṃ taṃ dvijaṃ nṛpa 52| vedāyana uvāca- bālyāvadhi gurusnehaṃ matto'dhītaṃ tvayākhilam | śabdaśāstrasametaśca vedastu sapadakramaḥ 53| vihitā mama śuśrūṣā bhāvena bhavatottamā | tvayi saṃti satāṃ sādho guṇāḥ śamadamādayaḥ 54| gurulopakṛtaṃ pāpaṃ kathaṃ te samajāyata | etadākhyāhi me tāta yathā jānāmi tatvataḥ 55| mukuṃda uvāca- janmopavītakanyānāṃ dhātāro nigamasya ca | yajñopavītadātuśca nājñābhaṃgaḥ kṛto mayā 56| śvaśruśvaśurayoḥ sevā bhṛtyeneva kṛtā mayā | tavāpi śāstradātuśca nājñābhaṃgaḥ kṛto mayā 57| purodhā yaḥ kulācāryo vedavedāṃtapāragaḥ| tasyāparāddhaṃ kecinme tatra tvaṃ śrotumarhasi 58| yadyasmākaṃ kule putro jāyate dharmakovida | tadā purodhase dhenumekāṃ vā tasya dakṣiṇām 59| dattvā saṃcchidyate nālamiti vaṃśasya naḥ sthitiḥ | purā mamaiva putre tu jātamātre śubhe'hani 60| kulakriyā mayā tāta na kṛtā mūḍhabuddhinā | tasyāścākaraṇenaiva gurulopakaro'bhavam 61| niveditamidaṃ sarvaṃ gurulopādyathā mama | pāpamāsīdanujñā me dehi yāmi surālayam 62| vedāyana uvāca- iṃdraprasthāṃtarāvartinyeṣā yā kośalā śubhā | smṛtirasyāḥ prasādena dṛśyate pūrvajanmanaḥ 63| kena puṇyena tīrthe'sminnasthīni patitāni te | mukuṃdākhyāhi caitasya smṛtirasti tavānagha 64| mukaṃda uvāca- ekastu brāhmaṇaḥ kaścitsāyaṃ madgṛhamāgataḥ | tasmai sthānaṃ mayā dattaṃ bhojanaṃ ca yathāvidhi 65| so'pi bhuktvā yathākāmaṃ suṣvāpa śayane śubhe | niśīthe tasya sarvāṃge jvaro'bhūdati dāruṇaḥ 66| tena pīḍitasarvāṃgo nidrāṃ lebhe na sa dvijaḥ | prabhāta eva tatyāja prāṇānmṛtyāvupasthite 67| tasya dāhādi karmāṇi vihitāni mayā guro | tadasthīni ca gaṃgāyāṃ pātitāni vidhānataḥ 68| tena puṇyena mesthīni patitāni śivaprade | tīrthe'sminkośale nāmni brahmadevavinirmite 69| nārada uvāca- svacaritamitirājansa dvijaḥ procya sadyaḥ surasubhagaśarīro dyāṃ yayau yānagatyā | idamakathita mayā taṃ taskarātprāpya mṛtyuṃ vyalabhata divametattīrtharājaprasādāt 70| iti śrīpādme mahāpurāṇe paṃcapaṃcāśatsāhasryāṃ saṃhitāyāmuttarakhaṃḍe kāliṃdīmāhātmye mukuṃdopākhyāne daśādhikadviśatatamo'dhyāyaḥ 210 |

English translation

Nārada said :

1-15. Having thus enlightened them with words expressing the highest truth, the ascetic got done his (obsequial) rites. The learned one stopped the young, pregnant wife of Mukunda , who insisted on following her husband. O king, having taken his bones, his brother, along with the anchorite, went to drop them into the water of Gaṅgā . O king, the brāhmaṇa (Mukunda’s brother) and the ascetic reached along with the members of a caravan this holy place Indraprastha after a few days. O king, in this Kośalā which is in Indraprastha on the bank of Gaṅgā on earth, they slept at night. Keeping the bundle of the bones between themselves, the two, fatigued due to the journey, went to sleep. When, at night the members of the caravan had slept, a dog came there to take away cooked food etc. The dog, repeatedly smelling the kitchen, licking the vessels, at times tolerating the stroke of a staff, moved in the entire camp. Then being struck by someone on the head, he ran from there like a hen-pecked husband struck by his wife but unable to retaliate. The dog again entered the same place with a desire to lick the vessels containing food, as he was struck with staffs and bricks, like a poor person loving a prostitute (enters her house) with a desire for enjoyment. Thus wandering, the dog (came) where the two were asleep, and took away the bundle of bones. Having carried it for a distance, he tore the bundle with his teeth and seeing the fleshless bones in it, threw them into the water of this Kośalā. The moment the bones were thrown into this water, O king, Mukunda, seated in a divine aeroplane, came there. Seeing his preceptor and younger brother asleep, he gently awakened them. O king, he, of a divine form, having saluted his teacher, said:

Mukunda said :

16-19. O my preceptor Vedāyana, I salute you. O my younger brother, my blessing to you. Due to your favour my bones have fallen into this holy place. This I, having died, having gone to hell and got its fruit, have secured a divine course due to the grace of this holy place. I have come here to salute you, my preceptor, who are a holy place. I, going to heaven in this divine aeroplane, saluted you, this holy place, and saw (i.e. met) my brother. (Please) allow me. I (shall) go to heaven causing happiness.

Nārada said :

20. Hearing these words of Mukunda, his preceptor Vedāyana with his amazement removed, said to him seated in the aeroplane.

Vedāyana said :

21-22. O Mukunda, tell me the truth. After your death, to which world did you go, from where you are now going to heaven, O dear one? O dear one, what happened there? Who is the ruler of that world? What kind of subjects are there? What are the religious practices? Tell all that.

Mukunda said :

23-28a. O preceptor, I shall tell you what took place after (my) death. Now my recollection is revived due to the favour of this holy place. When that wicked barber Caṇḍaka killed me, Yama ’s very fearful servants came (there). They were tawny-eyed; their hair was red; their bodies, nails and lower lips were dark. They were short; had long feet, short noses and projected teeth. They said to one another: “Take him, take him, by the order of Yama, to (Yama’s) city (called) Saṃyamanī only.” Speaking like this, very angrily they put me into a body being tormented; fastening me by fierce nooses they struck me with iron mallets. I who was being taken by them, being overcome by grief, wept very much on the path having heated sand on it; and I was again beaten by them. And being firm, they, very much deriding me, said:

Yama’s messengers said :

28b-33. Since you offended against your preceptor explaining (to you) the eternal Brahman , what will you do before Yama? You will have to see his fierce face. You will have to experience the fruit of that fearful sin. O sinner, due to that sin only you died prematurely.

Saying so, in a short time they took me to Saṃyamanī, Yama’s city, situated in (an area of) many yojanas , where king Yama himself dwelt. Having saluted king Yama, and having placed me before him, they reported to him about me: “This sinful brāhmaṇa is brought.” Seeing me, king Yama said to the members of his assembly:

Yama said :

34-35a. O members of the assembly, being well attentive, listen to my words. When Brahmā assigned me this charge, he, the grandsire of the worlds, spoke to me like this:

Brahmā said :

35b-37. You, the lord of Saṃyamanī, will punish impious people. O son of the Sun, punish them in accordance with their offence. You should throw into hells these two, committing major sins, viz. one who docs not support his parents and one who offends against his preceptor. The punishment would be staying in each hell for a myriad years. O you lord of the (Southern) quarter, you have not to show compassion to these two.

Yama said :

38-41. Therefore, O members of the assembly, by Brahma ’s words I do not take pity on a man offending against his preceptor or not supporting his parents. This brāhmaṇa has offended against his preceptor. Due to that offence he met with an untimely death; and he, unfit to be seen, is brought (here) by my servants at my order. O servants, first throw him into the fearful Raurava (hell) for a myriad years; and taking him who has offended against his preceptor out of that (hell), throw him again into another (hell) for that much period. Then quickly let him stay for the proper period in all the hells.

Mukunda said :

42-51. O preceptor Vedāyana, O master, the servants, by Yama’s order, took me to the fearful Raurava (hell), and fastening me with chains, threw me into it. There, O dear one, I experienced very severe, poignant agony, so that even a moment was passed as a yuga by me. Staying there I passed thirty days painfully. Today on this thirty-first day I have come out (of it), when (my) bones fell into this most excellent holy place. Due to the grace of this holy place my sin due to offending against my preceptor, perished instantly; and I went to heaven. I shall happily live in heaven as long as fourteen Indras (rule the heaven). The subjects that live in Yama’s city cause fear to sinners, but are pleasing to the pious. The young women there have faces like those of lions, elephants, boars; have large fangs, plump bellies; have faces like those of cats; have tawny hair; and have long feet and long hands. When I became free from the sin due to the favour of this holy place, I saw in Yama’s abode the subjects of divine forms. All of them were truthful in their speech, were full of modest behaviour, had worn divine ornaments, and were adorned with divine garments. O dear one, I have told this (in reply to) what you had asked me. (Please) allow me to go to the city of the lord of gods.

Nārada said :

52. That ascetic, having heard these words spoken by his disciple at that time, again asked that brāhmaṇa, Mukunda, O king:

Vedāyana said :

53-55. From your childhood and with affection for your preceptor, you learnt everything from me— Veda with the Pada (- pāṭha ) and Krama-pāṭha (the two ways of reciting the Veda), along with the science of words (i.e. grammar). You excellently served me with devotion. O good one, in you reside the virtues of the good like tranquillity, control etc. O dear one, tell me, so that I shall understand it properly, how you committed the sin of offending against your preceptor.

Mukunda said :

56-62. I have never disobeyed them who gave me birth, performed my thread-ceremony, those who supported their daughters and the Vedas , so also him who made me wear the sacred thread. I served my mother-in-law and my father-in-law like a servant. I did not also disobey you who taught me the holy texts. (But) I offended against him who was the family priest, the preceptor of my family, and who had mastered the Vedas and the Vedāṅgas . (Please) listen to it. The settled rule of our family is: ‘If a righteous son is born in our family, then his umblical cord is cut off after a cow, or a gift (equal to) her (value) is given to the family priest.’ O dear one, when a son was just born to me only on an auspicious day, I, the foolish one, did not perform the rite of (i.e. befitting) my family. Due to my not performing it, I offended against my preceptor. I have told (you) all this as to how I committed a sin by offending against the preceptor. Now permit me. It (shall) go to heaven.

Vedāyana said :

63-64. Due to the favour of this auspicious Kośalā, situated within Indraprastha, the recollection of the previous existence appears. O Mukunda, due to which religious merit were your bones dropped in this holy place? O sinless one, tell it (if) you have its recollection.

Mukunda said :

65-69. (One) evening a brāhmaṇa came to my house. I duly gave him a seat and food. He too, having eaten as he desired, slept on a good bed. At night his entire body suffered from a very severe fever. Troubled by it, the brāhmaṇa did not get sleep. In the morning only he died. When his death took place, O preceptor, I performed all the rites like cremation and dropped his bones, according to the sacred rule, in Gaṅgā. Due to that religious merit my bones fell into this auspicious holy place, named Kośalā, fashioned by Brahmā.

Nārada said :

70. O king, the brāhmaṇa, having thus told his account, and having a charming body like that of a god, quickly went to heaven in an aeroplane. It is told how he met his death at the hands of the thief and obtained heaven through the grace of this best holy place.

Complete chapter-aligned witnesses. Sanskrit Wikisource page 14534, revision 336623 (2022-04-25T13:48:16Z). English is N. A. Deshpande’s complete translation, controlled against its chapter page at https://www.wisdomlib.org/hinduism/book/the-padma-purana/d/doc365794.html and the ten-volume archival witness. The witnesses are aligned at chapter level; no unsupported verse-by-verse equivalence is asserted.