Skip to main content

Bhūmi-khaṇḍa · Chapter 85

Chapter 85

Unit 167 of 693Bhūmi-khaṇḍa · Chapter 85Bhūmi-khaṇḍa · Chapter 851 source entries

Bhūmi-khaṇḍa · Chapter 85

Source

वेन उवाच- भगवन्देवदेवेश प्रसादाच्च मम त्वया । भार्यातीर्थं समाख्यातं पितृतीर्थमनुत्तमम् १। मातृतीर्थं हृषीकेश बहुपुण्यप्रदायकम् । प्रसादसुमुखो भूत्वा गुरुतीर्थं वदस्व मे २। श्रीभगवानुवाच- कथयिष्याम्यहं राजन्गुरुतीर्थमनुत्तमम् । सर्वपापहरं प्रोक्तं शिष्याणां गतिदायकम् ३। शिष्याणां परमं पुण्यं धर्मरूपं सनातनम् । परं तीर्थं परं ज्ञानं प्रत्यक्षफलदायकम् ४। यस्यप्रसादाद्राजेंद्र इहैव फलमश्नुते । परलोके सुखं भुंक्ते यशः कीर्तिमवाप्नुयात् ५। प्रसादाद्यस्य राजेंद्र गुरोश्चैव महात्मनः । प्रत्यक्षं दृश्यते शिष्यैस्त्रैलोक्यं सचराचरम् ६। व्यवहारं च लोकानामाचारं नृपनंदन । विज्ञानं विंदते शिष्यो मोक्षं चैव प्रयाति च ७। सर्वेषामेव लोकानां यथा सूर्यः प्रकाशकः । गुरुः प्रकाशकस्तद्वच्छिष्याणां गतिरुत्तमा ८। रात्रावेव प्रकाशेच्च सोमो राजा नृपोत्तम । तेजसा साधयेत्सर्वमधिकारं चराचरम् ९। गृहेप्रकाशयेद्दीपः समूहं नृपसत्तम । तेजसा नाशयेत्सर्वमंधकारघनाविलम् १०। अज्ञानतमसा व्याप्तं शिष्यं द्योतयते गुरुः । शिष्यप्रकाशउद्द्योतैरुपदेशैर्महामते ११। दिवाप्रकाशकः सूर्यः शशीरात्रौ प्रकाशकः । गृहप्रकाशको दीपस्तमोनाशकरः सदा १२। रात्रौ दिवा गृहस्यांते गुरुः शिष्यं सदैव हि । अज्ञानाख्यं तमस्तस्य गुरुः सर्वं प्रणाशयेत् १३। तस्माद्गुरुः परं तीर्थं शिष्याणामवनीपते । एवं ज्ञात्वा ततः शिष्यः सर्वदा तं प्रपूजयेत् १४। गुरुं पुण्यमयं ज्ञात्वा त्रिविधेनापि कर्मणा । इत्यर्थे श्रूयते विप्र इतिहासः पुरातनः १५। सर्वपापहरः प्रोक्तश्च्यवनस्य महात्मनः । भार्गवस्य कुले जातश्च्यवनो मुनिसत्तमः १६। तस्य चिंता समुत्पन्ना एकदा तु नृपोत्तम । कदाहं ज्ञानसंपन्नो भविष्यामि महीतले १७। दिवारात्रौप्रचिंतेत्स ज्ञानार्थी मुनिसत्तमः । एवं तु चिंतमानस्य मतिरासीन्महात्मनः १८। तीर्थयात्रां प्रयास्यामि अभीष्टफलदायिनीम् । गृहक्षेत्रादिसंत्यज्य भार्यां पुत्रं धनं ततः १९। तीर्थयात्राप्रसंगेन अटते मेदिनीं तदा । लोमानुलोमयात्रां स गंगायाः कृतवान्नृप २०। स तद्वन्नर्मदायाश्च सरस्वत्या मुनीश्वरः । गोदावर्यादिसर्वासां नदीनां सागरस्य च २१। अन्येषां सर्वतीर्थानां क्षेत्राणां च नृपोत्तम । देवानां पुण्यलिगानां यात्राव्याजेन सोऽभ्रमत् २२। भ्रममाणस्य तस्यापि तीर्थेषु परमेषु च । भ्रममाणः समायातः क्षेत्राणामुत्तमं तदा । कायश्च निर्मलो जातः सूर्यतेजः समप्रभः २३। च्यवनः काशते दीप्त्या पूतात्मानेन कर्मणा २४। नर्मदा दक्षिणे कूले नाम्ना अमरकंटकम् । ददर्श सुमहालिगं सर्वेषां गतिदायकम् २५। नत्वा स्तुत्वा तु संपूज्य सिद्धनाथं महेश्वरम् । ज्वालेश्वरं ततो दृष्ट्वा दृष्ट्वा चाप्यमरेश्वरम् २६। ब्रह्मेशं कपिलेशं च मार्कंडेश्वरमुत्तमम् । एवं यात्रां ततः कृत्वा ॐकारं समुपागतः २७ **। वटच्छायां समाश्रित्य शीतलां श्रमनाशिनीम् । सुखेन संस्थितो विप्रश्च्यवनो भृगुनंदनः २८। तत्र स्वनं स शुश्राव समुक्तं पक्षिणा तदा । दिव्यभाषा समायुक्तं ज्ञानविज्ञानसंयुतम् २९। शुकश्च एकस्तत्रास्ते बहुकालप्रजीवकः । कुंजलोनाम धर्मात्मा चतुःपुत्रः सभार्यकः ३०। आसंस्तस्य हि पुत्राश्च चत्वारः पितृनंदनाः । तेषां नामानि राजेंद्र कथयिष्ये तवाग्रतः ३१। ज्येष्ठस्तु उज्ज्वलो नाम द्वितीयस्तु समुज्ज्वलः । तृतीयो विज्वलोनाम चतुर्थश्च कपिंजलः ३२। एवं पुत्रास्तु चत्वारः कुंजलस्य महामते । शुकस्य तस्य पुण्यस्य पितृमातृपरायणाः ३३। भ्रमंति गिरिकुंजेषु द्वीपेषु च समाहिताः । भोजनार्थं तु संक्षुब्धाः क्षुधया परिपीडिताः ३४। स्वोदरस्थां क्षुधां सौम्य फलैरमृतसन्निभैः । अमृतस्वादुतोयेन शमयंति नृपोत्तम ३५। फलं पक्वं रसालं तु आहारार्थं सुपुत्रकाः । दत्वा फलानि दंपत्योर्निक्षिपंति प्रयत्नतः ३६। मातुरर्थे महाभागा भक्तिभावसमन्विताः । तुष्टा आहारमुत्पाद्य भक्षयंति पठंति च ३७। तत्र क्रीडारताः सर्वे विलसंति रमंति च । संध्याकालं समाज्ञाय पितुरंतिकमुत्तमम् ३८। आयांति भक्ष्यमादाय गुर्वर्थं तु प्रयत्नतः । पश्यतस्तस्य विप्रस्य च्यवनस्य महात्मनः ३९। आगतास्त्वंडजाः सर्वे पितुर्नीडं सुशोभनम् । पितरं मातरं चोभौ प्रणेमुस्ते महामते ४०। ताभ्यां भक्ष्यं समासाद्य उपतस्थुस्तयोः पुरः । सर्वे संभाषिताः पित्रा मानितास्ते सुतोत्तमाः ४१। मात्रा च कृपया राजन्वचनैः प्रीतिसंमितैः । पक्षवातेन शीतेन मातापित्रोश्च ते तदा ४२। तेषामाप्यायनं तौ द्वौ चक्राते पक्षिणौ नृप । आशीर्भिरभिनंद्यैव द्वाभ्यामपि सुपुत्रकान् ४३। तैश्च दत्तं सुसंपुष्टमाहारममृतोपमम् । तावेव हि सुसंप्रीतिं चक्राते द्विजसत्तम ४४। पिबतो निर्मलं तोयं तीर्थकोटिसमुद्भवम् । स्वस्थानं तु समाश्रित्य सुखसंतुष्टमानसौ ४५। चक्राते च कथां दिव्यां सुपुण्यां पापनाशिनीम् । विष्णुरुवाच- पित्रा तु कुंजलेनापि पृष्ट उज्ज्वल आत्मजः ४६। क्वगतोऽस्यद्य पुत्र त्वं किमपूर्वं त्वया पुनः । तत्र दृष्टं श्रुतं पुण्यं तन्मे कथय नंदन ४७। कुंजलस्य पितुर्वाक्यं समाकर्ण्य स उज्ज्वलः । पितरं प्रत्युवाचाथ भक्त्या नमितकंधरः ४८। प्रणाममकरोन्मूर्ध्ना कथां चक्रे मनोहराम् । उज्ज्वल उवाच- प्लक्षद्वीपं महाभाग नित्यमेव व्रजाम्यहम् ४९। महता उद्यमेनापि आहारार्थं महामते । प्लक्षेद्वीपे महाराज संति देशा अनेकशः ५०। पर्वताः सरिदुद्यान वनानि च सरांसि च । ग्रामाश्च पत्तनाश्चान्ये सुप्रजाभिः प्रमोदिताः ५१। सदा सुखेन संतुष्टा लोका हृष्टा वसंति ते । दानपुण्यजपोपेताः श्रद्धाभावसमन्विताः ५२। प्लक्षद्वीपे महाराज आसीत्पुण्यमतिः सदा । दिवोदासस्तु धर्मात्मा तत्सुतासीदनूपमा ५३। गुणरूपसमायुक्ता सुशीला चारुमंगला । दिव्यादेवीति विख्याता रूपेणाप्रतिमा भुवि ५४। पित्रा विलोकिता सा तु रूपतारुण्यमंगला । प्रथमे वयसि सा च वर्त्तते चारुमंगला ५५। स तां दृष्ट्वा दिवोदासो दिव्यां देवीं सुतां तदा । कस्मै प्रदीयते कन्या सुवराय महात्मने ५६। इति चिंतापरो भूत्वा समालोक्य नरोत्तमः । रूपदेशस्य राजानं समालोक्य महीपतिः ५७। चित्रसेनं महात्मानं समाहूय नरोत्तमः । कन्यां ददौ महात्मासौ चित्रसेनाय धीमते ५८। तस्या विवाहकाले तु संप्राप्ते समये नृप । मृतोसौ चित्रसेनस्तु कालधर्मेण वै किल ५९। दिवोदासस्तु धर्मात्मा चिंतयामास भूपतिः । सुब्राह्मणान्समाहूय पप्रच्छ नृपनंदनः ६०। अस्या विवाहकाले तु चित्रसेनो दिवं गतः । अस्यास्तु कीदृशं कर्म भविष्यति वदंतु मे ६१। ब्राह्मणा ऊचुः- विवाहो दृश्यते राजन्कन्यायास्तु विधानतः । पतिर्मृत्युं प्रयात्यस्या नोचेत्संगं करोति च ६२। महाधिव्याधिना ग्रस्तस्त्यागं कृत्वा प्रयाति च । प्रव्राजितो भवेद्राजन्धर्मशास्त्रेषु दृश्यते ६३। अनुद्वाहितायाः कन्याया उद्वाहः क्रियते बुधैः । न स्याद्रजस्वला यावदन्यः पतिर्विधीयते ६४। विवाहं तु विधानेन पिता कुर्यान्न संशयः । एवं राजन्समादिष्टं धर्मशास्त्रं बुधैर्जनैः ६५। विवाहः क्रियतामस्या इत्यूचुस्ते द्विजोत्तमाः । दिवोदासस्तु धर्मात्मा द्विजवाक्यप्रणोदितः ६६। विवाहार्थं महाराज उद्यमं कृतवान्नृप । पुनर्दत्ता तु दानेन दिव्यादेवी द्विजोत्तम ६७। रूपसेनाय पुण्याय तस्मै राज्ञे महात्मने । मृत्युधर्मं गतो राजा विवाहे तु महीपतिः ६८। यदा यदा महाभाग दिव्यादेव्याश्च भूपतिः । भर्ता च म्रियते काले प्राप्ते लग्नस्य सर्वदा ६९। एकविंशतिभर्तारः काले काले मृताः पितः । ततो राजा महादुःखी संजातः ख्यातविक्रमः ७०। समालोच्य समाहूय समामंत्र्य स मंत्रिभिः । स्वयंवरे महाबुद्धिं चकार पृथिवीपतिः ७१। प्लक्षद्वीपस्य राजानः समाहूता महात्मना । स्वयंवरार्थमाहूतास्तथा ते धर्मतत्पराः ७२। तस्यास्तु रूपसंमुग्धा राजानो मृत्युनोदिताः । संग्रामं चक्रिरे मूढास्ते मृताः समरांगणे ७३। एवं तात क्षयो जातः क्षत्रियाणां महात्मनाम् । दिव्यादेवी सुदुःखार्ता गता सा वनकंदरम् ७४। रुरोद करुणं बाला दिव्यादेवी मनस्विनी । एवं तात मया दृष्टमपूर्वं तत्र वै तदा ७५। तन्मे सुविस्तरं तात तस्याः कथय कारणम् ७६।

vena uvāca- bhagavandevadeveśa prasādācca mama tvayā | bhāryātīrthaṃ samākhyātaṃ pitṛtīrthamanuttamam 1| mātṛtīrthaṃ hṛṣīkeśa bahupuṇyapradāyakam | prasādasumukho bhūtvā gurutīrthaṃ vadasva me 2| śrībhagavānuvāca- kathayiṣyāmyahaṃ rājangurutīrthamanuttamam | sarvapāpaharaṃ proktaṃ śiṣyāṇāṃ gatidāyakam 3| śiṣyāṇāṃ paramaṃ puṇyaṃ dharmarūpaṃ sanātanam | paraṃ tīrthaṃ paraṃ jñānaṃ pratyakṣaphaladāyakam 4| yasyaprasādādrājeṃdra ihaiva phalamaśnute | paraloke sukhaṃ bhuṃkte yaśaḥ kīrtimavāpnuyāt 5| prasādādyasya rājeṃdra guroścaiva mahātmanaḥ | pratyakṣaṃ dṛśyate śiṣyaistrailokyaṃ sacarācaram 6| vyavahāraṃ ca lokānāmācāraṃ nṛpanaṃdana | vijñānaṃ viṃdate śiṣyo mokṣaṃ caiva prayāti ca 7| sarveṣāmeva lokānāṃ yathā sūryaḥ prakāśakaḥ | guruḥ prakāśakastadvacchiṣyāṇāṃ gatiruttamā 8| rātrāveva prakāśecca somo rājā nṛpottama | tejasā sādhayetsarvamadhikāraṃ carācaram 9| gṛheprakāśayeddīpaḥ samūhaṃ nṛpasattama | tejasā nāśayetsarvamaṃdhakāraghanāvilam 10| ajñānatamasā vyāptaṃ śiṣyaṃ dyotayate guruḥ | śiṣyaprakāśauddyotairupadeśairmahāmate 11| divāprakāśakaḥ sūryaḥ śaśīrātrau prakāśakaḥ | gṛhaprakāśako dīpastamonāśakaraḥ sadā 12| rātrau divā gṛhasyāṃte guruḥ śiṣyaṃ sadaiva hi | ajñānākhyaṃ tamastasya guruḥ sarvaṃ praṇāśayet 13| tasmādguruḥ paraṃ tīrthaṃ śiṣyāṇāmavanīpate | evaṃ jñātvā tataḥ śiṣyaḥ sarvadā taṃ prapūjayet 14| guruṃ puṇyamayaṃ jñātvā trividhenāpi karmaṇā | ityarthe śrūyate vipra itihāsaḥ purātanaḥ 15| sarvapāpaharaḥ proktaścyavanasya mahātmanaḥ | bhārgavasya kule jātaścyavano munisattamaḥ 16| tasya ciṃtā samutpannā ekadā tu nṛpottama | kadāhaṃ jñānasaṃpanno bhaviṣyāmi mahītale 17| divārātraupraciṃtetsa jñānārthī munisattamaḥ | evaṃ tu ciṃtamānasya matirāsīnmahātmanaḥ 18| tīrthayātrāṃ prayāsyāmi abhīṣṭaphaladāyinīm | gṛhakṣetrādisaṃtyajya bhāryāṃ putraṃ dhanaṃ tataḥ 19| tīrthayātrāprasaṃgena aṭate medinīṃ tadā | lomānulomayātrāṃ sa gaṃgāyāḥ kṛtavānnṛpa 20| sa tadvannarmadāyāśca sarasvatyā munīśvaraḥ | godāvaryādisarvāsāṃ nadīnāṃ sāgarasya ca 21| anyeṣāṃ sarvatīrthānāṃ kṣetrāṇāṃ ca nṛpottama | devānāṃ puṇyaligānāṃ yātrāvyājena so'bhramat 22| bhramamāṇasya tasyāpi tīrtheṣu parameṣu ca | bhramamāṇaḥ samāyātaḥ kṣetrāṇāmuttamaṃ tadā | kāyaśca nirmalo jātaḥ sūryatejaḥ samaprabhaḥ 23| cyavanaḥ kāśate dīptyā pūtātmānena karmaṇā 24| narmadā dakṣiṇe kūle nāmnā amarakaṃṭakam | dadarśa sumahāligaṃ sarveṣāṃ gatidāyakam 25| natvā stutvā tu saṃpūjya siddhanāthaṃ maheśvaram | jvāleśvaraṃ tato dṛṣṭvā dṛṣṭvā cāpyamareśvaram 26| brahmeśaṃ kapileśaṃ ca mārkaṃḍeśvaramuttamam | evaṃ yātrāṃ tataḥ kṛtvā oṃkāraṃ samupāgataḥ 27 **| vaṭacchāyāṃ samāśritya śītalāṃ śramanāśinīm | sukhena saṃsthito vipraścyavano bhṛgunaṃdanaḥ 28| tatra svanaṃ sa śuśrāva samuktaṃ pakṣiṇā tadā | divyabhāṣā samāyuktaṃ jñānavijñānasaṃyutam 29| śukaśca ekastatrāste bahukālaprajīvakaḥ | kuṃjalonāma dharmātmā catuḥputraḥ sabhāryakaḥ 30| āsaṃstasya hi putrāśca catvāraḥ pitṛnaṃdanāḥ | teṣāṃ nāmāni rājeṃdra kathayiṣye tavāgrataḥ 31| jyeṣṭhastu ujjvalo nāma dvitīyastu samujjvalaḥ | tṛtīyo vijvalonāma caturthaśca kapiṃjalaḥ 32| evaṃ putrāstu catvāraḥ kuṃjalasya mahāmate | śukasya tasya puṇyasya pitṛmātṛparāyaṇāḥ 33| bhramaṃti girikuṃjeṣu dvīpeṣu ca samāhitāḥ | bhojanārthaṃ tu saṃkṣubdhāḥ kṣudhayā paripīḍitāḥ 34| svodarasthāṃ kṣudhāṃ saumya phalairamṛtasannibhaiḥ | amṛtasvādutoyena śamayaṃti nṛpottama 35| phalaṃ pakvaṃ rasālaṃ tu āhārārthaṃ suputrakāḥ | datvā phalāni daṃpatyornikṣipaṃti prayatnataḥ 36| māturarthe mahābhāgā bhaktibhāvasamanvitāḥ | tuṣṭā āhāramutpādya bhakṣayaṃti paṭhaṃti ca 37| tatra krīḍāratāḥ sarve vilasaṃti ramaṃti ca | saṃdhyākālaṃ samājñāya pituraṃtikamuttamam 38| āyāṃti bhakṣyamādāya gurvarthaṃ tu prayatnataḥ | paśyatastasya viprasya cyavanasya mahātmanaḥ 39| āgatāstvaṃḍajāḥ sarve piturnīḍaṃ suśobhanam | pitaraṃ mātaraṃ cobhau praṇemuste mahāmate 40| tābhyāṃ bhakṣyaṃ samāsādya upatasthustayoḥ puraḥ | sarve saṃbhāṣitāḥ pitrā mānitāste sutottamāḥ 41| mātrā ca kṛpayā rājanvacanaiḥ prītisaṃmitaiḥ | pakṣavātena śītena mātāpitrośca te tadā 42| teṣāmāpyāyanaṃ tau dvau cakrāte pakṣiṇau nṛpa | āśīrbhirabhinaṃdyaiva dvābhyāmapi suputrakān 43| taiśca dattaṃ susaṃpuṣṭamāhāramamṛtopamam | tāveva hi susaṃprītiṃ cakrāte dvijasattama 44| pibato nirmalaṃ toyaṃ tīrthakoṭisamudbhavam | svasthānaṃ tu samāśritya sukhasaṃtuṣṭamānasau 45| cakrāte ca kathāṃ divyāṃ supuṇyāṃ pāpanāśinīm | viṣṇuruvāca- pitrā tu kuṃjalenāpi pṛṣṭa ujjvala ātmajaḥ 46| kvagato'syadya putra tvaṃ kimapūrvaṃ tvayā punaḥ | tatra dṛṣṭaṃ śrutaṃ puṇyaṃ tanme kathaya naṃdana 47| kuṃjalasya piturvākyaṃ samākarṇya sa ujjvalaḥ | pitaraṃ pratyuvācātha bhaktyā namitakaṃdharaḥ 48| praṇāmamakaronmūrdhnā kathāṃ cakre manoharām | ujjvala uvāca- plakṣadvīpaṃ mahābhāga nityameva vrajāmyaham 49| mahatā udyamenāpi āhārārthaṃ mahāmate | plakṣedvīpe mahārāja saṃti deśā anekaśaḥ 50| parvatāḥ saridudyāna vanāni ca sarāṃsi ca | grāmāśca pattanāścānye suprajābhiḥ pramoditāḥ 51| sadā sukhena saṃtuṣṭā lokā hṛṣṭā vasaṃti te | dānapuṇyajapopetāḥ śraddhābhāvasamanvitāḥ 52| plakṣadvīpe mahārāja āsītpuṇyamatiḥ sadā | divodāsastu dharmātmā tatsutāsīdanūpamā 53| guṇarūpasamāyuktā suśīlā cārumaṃgalā | divyādevīti vikhyātā rūpeṇāpratimā bhuvi 54| pitrā vilokitā sā tu rūpatāruṇyamaṃgalā | prathame vayasi sā ca varttate cārumaṃgalā 55| sa tāṃ dṛṣṭvā divodāso divyāṃ devīṃ sutāṃ tadā | kasmai pradīyate kanyā suvarāya mahātmane 56| iti ciṃtāparo bhūtvā samālokya narottamaḥ | rūpadeśasya rājānaṃ samālokya mahīpatiḥ 57| citrasenaṃ mahātmānaṃ samāhūya narottamaḥ | kanyāṃ dadau mahātmāsau citrasenāya dhīmate 58| tasyā vivāhakāle tu saṃprāpte samaye nṛpa | mṛtosau citrasenastu kāladharmeṇa vai kila 59| divodāsastu dharmātmā ciṃtayāmāsa bhūpatiḥ | subrāhmaṇānsamāhūya papraccha nṛpanaṃdanaḥ 60| asyā vivāhakāle tu citraseno divaṃ gataḥ | asyāstu kīdṛśaṃ karma bhaviṣyati vadaṃtu me 61| brāhmaṇā ūcuḥ- vivāho dṛśyate rājankanyāyāstu vidhānataḥ | patirmṛtyuṃ prayātyasyā nocetsaṃgaṃ karoti ca 62| mahādhivyādhinā grastastyāgaṃ kṛtvā prayāti ca | pravrājito bhavedrājandharmaśāstreṣu dṛśyate 63| anudvāhitāyāḥ kanyāyā udvāhaḥ kriyate budhaiḥ | na syādrajasvalā yāvadanyaḥ patirvidhīyate 64| vivāhaṃ tu vidhānena pitā kuryānna saṃśayaḥ | evaṃ rājansamādiṣṭaṃ dharmaśāstraṃ budhairjanaiḥ 65| vivāhaḥ kriyatāmasyā ityūcuste dvijottamāḥ | divodāsastu dharmātmā dvijavākyapraṇoditaḥ 66| vivāhārthaṃ mahārāja udyamaṃ kṛtavānnṛpa | punardattā tu dānena divyādevī dvijottama 67| rūpasenāya puṇyāya tasmai rājñe mahātmane | mṛtyudharmaṃ gato rājā vivāhe tu mahīpatiḥ 68| yadā yadā mahābhāga divyādevyāśca bhūpatiḥ | bhartā ca mriyate kāle prāpte lagnasya sarvadā 69| ekaviṃśatibhartāraḥ kāle kāle mṛtāḥ pitaḥ | tato rājā mahāduḥkhī saṃjātaḥ khyātavikramaḥ 70| samālocya samāhūya samāmaṃtrya sa maṃtribhiḥ | svayaṃvare mahābuddhiṃ cakāra pṛthivīpatiḥ 71| plakṣadvīpasya rājānaḥ samāhūtā mahātmanā | svayaṃvarārthamāhūtāstathā te dharmatatparāḥ 72| tasyāstu rūpasaṃmugdhā rājāno mṛtyunoditāḥ | saṃgrāmaṃ cakrire mūḍhāste mṛtāḥ samarāṃgaṇe 73| evaṃ tāta kṣayo jātaḥ kṣatriyāṇāṃ mahātmanām | divyādevī suduḥkhārtā gatā sā vanakaṃdaram 74| ruroda karuṇaṃ bālā divyādevī manasvinī | evaṃ tāta mayā dṛṣṭamapūrvaṃ tatra vai tadā 75| tanme suvistaraṃ tāta tasyāḥ kathaya kāraṇam 76|

English translation

Vena said :

1-2. O venerable lord of gods, through your grace towards me, you have told me about the sacred place (in the form of) a wife, so also about the excellent holy place (in the form of) the father and (in the form) of the mother, giving great religious merit. Being gracious to me (now) tell me about the holy place (in the form) of the preceptor.

The Lord said :

3-10. O king, I shall tell you about the matchless holy place (in the form) of the preceptor, which is declared as the remover of all sins and the giver of happiness to the disciples, which being of the nature of ancient Dharma (i.e. religious merit) gives great virtue to the disciples, which is the highest sacred place, highest knowledge giving a visible fruit, (and) O lord of kings, by whose favour (the disciple) gets the fruit here (i.e. in this world) only; and O lord of kings, by the favour of the glorious preceptor he enjoys happiness and would obtain glory and fame in the next world. O prince, (by the preceptor’s favour) the disciples actually see the three worlds along with the mobile and the immobile, so also the dealings and practices of the people. A disciple obtains wisdom and goes to salvation. As the sun illumines all the worlds, so the teacher enlightens his disciples and is the best refuge of them. O best king, the king Soma (i.e. the Moon) would shine at night only, and would keep a watch over the mobile and the immobile. O best king, a lamp would illumine a multitude (of objects) in the house, and would dispel the entire dense and impure darkness.

11-15a. O you very intelligent one, the preceptor, the light of the disciples, illumines a pupil, covered with the darkness of ignorance by means of the light of instruction. The sun shines by day, the moon at night, a lamp shines in the house, always dispelling darkness. The lamp shines at night in the house (and illumines it, but) the preceptor always enlightens the disciples. The preceptor would destroy all his darkness called ignorance. Therefore, O lord of the earth, the preceptor is the highest holy place for the disciples. Realising this, a disciple should always worship the preceptor, full of merit, by means of three kinds of acts (i.e. bodily acts, mental acts and words).

15b-29. O brāhmaṇa , for this purpose (i.e. to illustrate this), an old account, removing all sins, is reported; it is told about the glorious Cyavana . The best sage Cyavana was born in the family of Bhārgava . O best king, once a thought arose in his (mind): ‘When shall I be endowed with knowledge on the earth?’ The best sage, longing for knowledge, would always think day and night. When he was thus reflecting, he had a thought: ‘I shall go on a pilgrimage, giving the desired fruit.’ Leaving his house and field and his wife, son and wealth, he roamed over the earth in course of a pilgrimage. O king, he went on a pilgrimage in the direction of the flow of the Ganges . Under the pretext of a pilgrimage (i.e. as a pilgrim), that lord of sages visited the holy places (on the banks) of Narmadā , Sarasvatī , and all (other) rivers like Godāvarī , and (on the shore) of the ocean and all other sacred places, so also places of deities and places having auspicious characteristics, O best king. The body of who was wandering over (i.e. visiting) best holy places, became pure (and lustrous) like the sun’s lustre. Cyavana, with his mind purified by this act, shone with lustre. While wandering he (once) came to the best holy place on the right bank of Narmadā, called Amarakaṇṭaka . (There) he saw a great Phallus (of Śiva ), giving happiness to all. Then he saluted, eulogised, and worshipped the great lord Siddhanātha , then he saw (i.e. visited) Jvāleśvara , then Amareśvara , Brahmeśa, Kapileśa and the best Mārkaṇḍeśa. Having thus finished his pilgrimage he then came to Oṃkāra . Having resorted to the cool shade of a bunyan tree, removing fatigue, the brāhmaṇa Cyavana, the son of Bhṛgu , remained there comfortably. There he then heard a note given out by a bird, which was full of divine speech and spiritual and worldly knowledge.

30-38. There was a parrot (on the tree) who lived there for a long time. His name was Kuñjala ; he was religious-minded and had four sons and a wife. He had four sons who delighted their father (i.e. him). O lord of kings, I shall tell you their names: The eldest one was Ujjvala ; the second was Samujjvala; the third was Vijjvala, and the fourth was Kapiñjala . Thus, O very intelligent one, that meritorious parrot Kuñjala had four sons, who were very much devoted to their father and mother. Being disturbed and oppressed by hunger, they together roamed in the arbours of mountains and islands. O best king, they satiated the hunger in their bellies with agreeable fruits like nectar and with water sweet like nectar. The good sons gave a ripe juicy fruit to the couple (i.e. their parents), and carefully put (aside some) fruits (for them). Being contented, the glorious ones, full of devotion, procured food for their mother, (then) ate and recited. All of them engaged in sports, played and amused themselves there. Knowing (when it was) evening time they well (i.e. without fail) came to their father, after carefully having brought food for him (and their mother).

39-46a. When that noble brāhmaṇa Cyavana was watching all the (four) birds came to the very beautiful nest of their father. O you very intelligent one, they saluted both their father and mother. Having obtained food for the two (i.e. their parents), they stood by them. O king, all the best sons esteemed by their father and mother tenderly talked words full of love (to them). They also (fanned) with the cool wind from their wings their father and mother. O king, the two birds, having applauded with blessings, their good sons, nourished them. They too gave them very rich food resembling nectar. O best brāhmaṇa, the two just loved them (i.e. the sons) very much. The two, resorting to their own abode, with their minds pleased through happiness, drank pure water produced (i.e. procured) from crores of holy places, told a divine, very meritorious tale, destroying sins.

Viṣṇu said :

46b. The (eldest) son Ujjvala was (once) asked by his father Kuñjala:

47. “O my son, where had you gone today? What wonderful agreeable (event) did you see or hear there? Tell me that, my son.”

48. Having heard the words of Kuñjala, his father, that Ujjvala, with his neck (i.e. head) bent down with devotion, replied:

49a. He saluted him with his head (bent down) and told him a pleasing story.

Ujjvala said :

49b-61. O you glorious one, O you very intelligent one, everyday I go to the Plakṣa island even with strenuous effort, for food. O great king, in the Plakṣa island there are many countries, mountains, rivers, parks, forests and lakes, so also villages and cities enjoyed by people. Those people are always contented, are endowed with charity, piety and muttering (of sacred hymns) and possess faith, and live happily. O great king, in the Plakṣa island lived Divodāsa , who was of a pious mind and was righteous. He had a matchless daughter, endowed with virtues and beauty, of a good character, charming and auspicious, known by the name Divyādevī and was incomparable in beauty on the earth. The father saw (i.e. noticed) her to be faring well with beauty and youth. She, the charming and auspicious one, was in the prime of youth. That Divodāsa, seeing his daughter Divyādevī, thought: ‘To which noble, good groom should she be given?’ (Then) the best king, having considered, thought of the king of Rūpadeśa, and the king invited him and the noble one gave his daughter to the intelligent Citrasena . O king, on the occasion of his marriage, when the right moment of the marriage came, Citrasena died due to fated time. The religious-minded king Divodāsa thought (to himself). The son of a king invited good brāhmaṇas and asked them: “At the time of her marriage Citrasena expired. Tell me what her fate will be.”

The brāhmaṇas said :

62-66a. O king, the marriage of an unmarried daughter is seen to be performed according to the sacred injunctions. Her husband may die; if not, he will have union with her; (but) being stricken with great malady or physical disease he may abandon her and go; or he may become a recluse. This is what is seen in the religious works. Wise men get married their unmarried daughter(s). As long as she does not menstruate (i.e. does not attain puberty), another groom is enjoined for her. The father should certainly get her married according to the sacred injunctions. Thus, O king, the wise men have stated the sacred rules. Get her married.

Thus told the best brāhmaṇas.

Ujjvala said :

66b-70. Virtuous Divodāsa, the great king, prompted by the words of the brāhmaṇas, made preparations for the (his daughter’s) marriage, O king. O best brāhmaṇa, he gave away Divyādevī (in marriage) to that virtuous and glorious king, Rūpasena . At the (time of) the marriage the lord of the earth (i.e. Rūpasena) died. Whenever Divyādavī (was married) her husband, a king, invariably died when the proper time for marriage had arrived. O father, twenty-one husbands died (like this) time after time. Then the king (Divodāsa) of a well-known valour became very unhappy.

71-76. Having thought (this) over, the lord of the earth, called his ministers, and having held consultations with them, decided (to arrange) a self-choice marriage (for her). The glorious one invited the kings of Plakṣadvīpa . Those kings, who were greatly devoted to religion, who were invited to the self-choice marriage, being deluded by her beauty and prompted by death, foolishly fought (among themselves) and died on the battlefield. Thus O father, there was the destruction of the noble kṣatriyas . Divyādevī, being very much afflicted with grief, went to a cave in the forest. That virtuous young maiden Divyādevi wept piteously. O father, thus I witnessed (this) wonderful sight there. Then, O father, tell me its cause in detail.

Complete chapter-aligned witnesses. Sanskrit Wikisource page 21419, revision 335548 (2022-04-11T00:01:28Z). English is N. A. Deshpande’s complete translation, controlled against its chapter page at https://www.wisdomlib.org/hinduism/book/the-padma-purana/d/doc365177.html and the ten-volume archival witness. The witnesses are aligned at chapter level; no unsupported verse-by-verse equivalence is asserted.