Uttara-khaṇḍa · Chapter 226
Sourceशंकर उवाच - न्यासेवाप्यर्चने वापि मंत्रमेकांतिनः श्रयेत् । अवैष्णवोपदिष्टेन मंत्रेण न परा गतिः १। अवैष्णवोपदिष्टंचेत्पूर्वमंत्रवरंद्वयम् । पुनश्च विधिना सम्यक्वैष्णवाद्ग्राहयेद्गुरोः २। सहस्रशाखाध्यायी वा सर्वयज्ञेषु दीक्षितः । कुले महति जातोऽपि न गुरुः स्यादवैष्णवः ३। यस्तु मंत्रद्वयं सम्यगध्यापयति वैष्णवः । स आचार्यस्तु विज्ञेयो भवबंधविदारकः ४। आचार्यं संश्रयित्वाथ वत्सरं सेवयेद्दिवजः । तस्य वृत्तिं परिज्ञात्वा मंत्रमध्यापयेद्गुरुः ५। कृत्वा तापादिसंस्कारान्पश्चान्मंत्रमुदीरयेत् । तापं पुंड्रं तथा नाम कृत्वा वै विधिना गुरुः ६। पश्चादध्यापयेन्मंत्रं शिष्यं निर्मलचेतसम् । चक्रेण विधिना तप्तं ताप इत्यभिधीयते ७। पुंड्रमूर्द्ध्वं तथा प्रोक्तं नाम वैष्णवमुच्यते । ततो मंत्रं विधानेन शिष्यमध्यापयेद्गुरुः ८। न्यासमष्टाक्षरं मंत्रमन्यं वा वैष्णवं मनुम् । न्यासमेवात्र परमं वैष्णवानां शुभानने ९। तस्मात्तु न्यासमेवैषामतिरिक्तमिहोच्यते । न्यासविद्यापरो यस्तु ब्राह्मणः श्रेष्ठ उच्यते १०। न्यासात्परतरं नास्ति मन्त्रं सत्यं ब्रवीमि ते । न्यासं द्वयं प्रपत्तिः स्यात्पर्यायेण निबोध मे ११। द्वयोपदेशपूर्वं तु सर्वकर्मसमाचरेत् । द्वयाधिकारी न भवेत्सर्वकर्मसु नार्हति १२। तस्माद्वयमधीत्येव पश्चान्मंत्रमनुत्तमम् । श्रीमदष्टाक्षरं सम्यगभ्यसेद्दिवजसत्तमः १३। मंत्रमष्टाक्षरं प्रोक्तं प्रणवस्यैव संग्रहात् । नैसर्गप्रणवाद्यन्तु मंत्रमित्युच्यतेबुधैः १४। नान्यत्र सर्वमंत्रेषु प्रणवस्वस्वभावतः । पूर्वं तु सर्वमंत्राणां योजयेत्प्रणवं शुभम् १५। ॐकारः प्रणवं ब्रह्म सर्वमंत्रेषु नायकः । आदौ सर्वत्र युंजीत मंत्राणां तु शुभानने १६। स्वभावात्प्रणवन्तस्मिन्मूलमंत्रे प्रतिष्ठितम् । ओमित्येकाक्षरं पूर्वं द्व्यक्षरं नम इत्यथ १७। ततो नारायणायेति पंचार्णानि यथाक्रमम् । एवमष्टाक्षरो मंत्रो ज्ञेयः सर्वार्थसाधकः १८। सर्वदुःखहरः श्रीमान्सर्वमंत्रात्मकः शुभः । ऋषिर्नारायणस्तस्य देवता श्रीश एव च १९। छंदस्तु देवी गायत्री प्रणवो बीजमुच्यते । नित्यानपायिनी देवी शक्तिः श्रीरुच्यते मनोः २०। प्रथमं पदमोङ्कार द्वितीयं नम उच्यते । तृतीयं नारायणायेति पदत्रयमुदाहृतम् २१। अकारश्चाप्युकारश्च मकारश्च ततः परम् । वेदत्रयात्मकं प्रोक्तं प्रणवं ब्रह्मणः पदम् २२। अकारेणोच्यते विष्णुः श्रीरुकारेण चोच्यते । मकारस्त्वनयोर्दासः पंचविंशः प्रकीर्तितः २३। वासुदेवस्वरूपं तदकारेणोच्यतै बुधैः । उकारेण श्रियो देव्या रूपं मुनिभिरुच्यते २४। मकारेणोच्यते जीवः पंचविंशोदितः पुमान् । भूतानि च कवर्गेण चवर्गणेन्द्रियाणि च २५। ट वर्गेण तवर्गेण ज्ञानं धादयस्तथा । मनः पकारेणैवोक्तं फकारेण त्वहंकृतिः २६। बकारेण भकारेण महान्प्रकृतिरुच्यते । आत्मा तु स मकारः स्यात्पंचविंशः प्रकीर्तितः २७। देहेंद्रियमनः प्राणादिभ्योन्योऽनन्यसाधनः । भगवच्छेषभूतोऽसौ मकाराख्यः स चेतनः २८। अवधारणवाच्येवमुकारः कैश्चिदुच्यते । श्रीतत्वमपि तत्पक्षे वकारेणैव चोच्यते २९। भास्करस्य प्रभा यद्वत्तस्य नित्यानपायिनी । आकारेणोच्यते विष्णुः कल्याणगुणसागरः ३०। श्रीशः सर्वात्मनां शेषो जगद्बीजं परः पुमान् । जगत्कर्त्ता जगद्भर्त्ता ईश्वरो लोकबांधवः ३१। जगतामीश्वरी नित्या विष्णोरनपगामिनी । माता सर्वस्य जगतः पत्नी विष्णोर्मनोरमा ३२। जगदाधारभूता श्रीरुकारेणात्र चोच्यते । मकारेण तयोर्दासः क्षेत्रज्ञः प्रोच्यते बुधैः ३३। ज्ञानाश्रमो ज्ञानगुणश्चेतनः प्रकृतेः परः । न जडो निर्विकारश्च एकरूप स्वरूपभाक् ३४। अणुर्नित्यो व्याप्तिशीलश्चिदानंदात्मकस्तथा । अहमर्थोऽव्ययः क्षेत्री भिन्नरूपं सनातनः ३५। अदाह्योच्छेद्यो ह्यक्लैद्यस्त्वशोष्योक्षर एव च । एवमादिगुणोपेतश्शेषभूतः परस्य वै ३६। मकारेणोच्यते जीवः क्षेत्रज्ञः परवान्सदा । दासभूतो हरेरेव नान्यस्य तु कदाचन ३७। एवं दासत्वमेवास्य मध्यमेवावधार्यते । इत्येवं प्रणवस्यार्थो ज्ञातव्योक्तो मयानघे ३८। विवृतिः प्रणवस्यार्थ मन्त्रशेषेण वै शुभे । परस्य दासभूतस्य स्वातन्त्र्यं नेह विद्यते ३९। तस्मान्महदहंकारौ मनसा विनिवर्त्तयेत् । स्वोपायबुद्ध्या यत्कृत्यं तदपि प्रतिषिध्यते ४०। अहंकृतिर्मकारः स्यान्नकारस्तन्निषेधकः । तस्मात्तु मनसैवास्य अहंकारविमोचनम् ४१। मनसा सर्वसिद्धिः स्यादन्यथा नाशमाप्नुयात् । नमसा सहितं किंचित्तदहंकार उच्यते ४२। अहंकारेण युक्तस्य सुखं किंचिन्न विद्यते । अहंकारविमूढात्मा अंधे तमसि मज्जति ४३। तस्मान्न मनसा चात्र स्वातंत्र्यं प्रतिषिध्यते । भगवत्परतंत्रोऽसौ तदायत्तश्च जीवति ४४। तस्मात्साधनकर्तृत्वं चेतनस्य न विद्यते । ईश्वरस्यैव संकल्पाद्वर्त्तते स्वचराचरम् ४५। तस्मात्स्वसामर्थ्यविधिं त्यजेत्सर्वमशेषतः । ईश्वरस्य तु सामर्थ्यान्नालभ्यं तस्य विद्यते ४६। तस्मिन्न्यस्तभरः श्रीशे तत्कर्मैव समाचरेत् । परमात्मा हरिस्स्वामी स्वमहं तस्य सर्वदा ४७। इच्छाया विनियोक्तव्यस्तस्यैवात्मेश्वरस्य हि । इत्येवं मनसा त्यक्तमहंता ममतोर्जितम् ४८। देहेष्वहं मतिर्मूलं संसृतौ कर्मबंधने । तस्मान्महदहंकारौ मनसा वर्जयेद्बुधः ४९। अथ नारायणपदं वक्ष्यामि गिरजे शुभे । नारा इत्यात्मनां संघास्तेषां गतिरसौ पुमान् ५०। त एव चायनं तस्य तस्मान्नारायणः स्मृतः । सर्वं हि चिदचिद्वस्तु श्रूयते दृश्यते जगत् ५१। योऽसौ व्याप्यस्थितो नित्यं स वै नारायणः स्मृतः । नाराश्चेति सर्वपुंसां समूहाः परिकीर्तिताः ५२। गतिरालंबनं तेषां तस्मान्नारायणः स्मृतः । नराज्जातानि तत्वानि नाराणीति विदुर्बुधाः ५३। तान्येव चायनं तस्य तेन नारायणस्स्मृतः । कल्पांतेपि जगत्कृत्स्नं ग्रसित्वा येन धार्यते ५४। पुनः संसृज्यते येन स वै नारायणः स्मृतः । चराचरं जगत्कृत्स्नं नार इत्यभि धीयते ५५। तस्य वासं गतिर्येन तेन नारायणः स्मृतः । नारो नराणां संघातस्तस्यासावयनं गतिः ५६। तेनासौ मुनिभिर्नित्यं नारायण इतीरितः । प्रभवन्ति यतो लोका महाब्धौ पृथुफेनवत् ५७। पुनर्यस्मात्प्रलीयन्ते तस्मान्नारायणः स्मृतः । यो वै नित्यपदे नित्यो नित्यमुक्तैकभोगवान् ५८। ईशः सर्वस्य जगतः स वै नारायणः स्मृतः । नारायणः परंब्रह्म तत्वं नारायणः परम् ५९। यच्च किंचिज्जगत्यस्मिन्दृश्यते श्रूयतेऽपि वा । अंतर्बंहिश्च तत्सर्वं व्याप्य नारायणः स्थितः ६०। अपहतपाप्मा पुरुषः सर्वभूतांतरस्थितः । दिव्यएकस्सदा नित्यो हरिर्नारायणोऽच्युतः ६१। यस्तु द्रष्टा च द्रष्टव्यं श्रोता श्रोतव्यमेव च । स्प्रष्टा च स्पर्शितव्यश्च ध्याता ध्यातव्यमेव च ६२। वक्ता च वाच्यं ज्ञाता च ज्ञातव्यं चिदचिज्जगत् । तच्च सर्वं हरिः श्रीशो नारायण उदाहृतः ६३। सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् । स लोकान्सर्वतो व्याप्य अत्यतिष्ठद्दशांगुलम् ६४। यद्भूतं यच्च भव्यं तत्सर्वं नारायणो हरिः । उतामृतत्वस्येशानो यदन्नेन विराट्पुमान् ६५। स एव पुरुषो विष्णुर्वासुदेवोऽच्युतो हरिः । हिरण्मयोऽथ भगवान्सोऽमृतः शाश्वतः शिवः ६६। पतिर्विश्वस्य जगतः सर्वलोकेश्वरं प्रभुः । हिरण्यगर्भाः सविता अनंतोऽसौ महेश्वरः ६७। भगवानिति शब्दोऽयं तथा पुरुष इत्यपि । वर्त्तते निरुपाधिश्च वासुदेवोऽखिलात्मनि ६८। ईश्वरो भगवान्विष्णुः परमात्मा जगत्सुहृत् । शास्ता चराचरस्यैको यतीनां परमा गतिः ६९। यो वेदादौ स्वरः प्रोक्तो वेदांते च प्रतिष्ठितः । तस्य प्रकृतिलीनस्य यः परः स महेश्वरः ७०। योसावकारो वै विष्णुर्योऽसौ नारायणो हरिः । स एव पुरुषो नित्यः परमात्मा महेश्वरः ७१। यस्मादुद्भूतमैश्वर्यं यस्मिन्कस्मिंश्च वर्तते । तस्मिन्नीश्वरशब्दोऽपि प्रोच्यते मुनिभिस्तथा । निरुपाधीश्वरत्वं हि वासुदेवे प्रतिष्ठितम् ७२। आत्मेश्वर इति प्रोक्तो वेदवादैः सनातनैः । तस्मान्महेश्वरत्वं तु वासुदेवे प्रतिष्ठितम् ७३। असौ त्रिपाद्विभूतेस्तु लीलया अपि चेश्वरः । विभूतिद्वयमैश्वर्यं तस्यैव सकलात्मनः ७४। श्रीभूनीलापतिर्योसावीश्वरस्स उदाहृतः । तस्मात्सर्वेश्वरत्वं तु वासुदेवे प्रतिष्ठितम् ७५। असौ यज्ञेश्वरो यज्ञो यज्ञभुक्यज्ञकृद्विभुः । यज्ञभुग्यज्ञपुरुषः स एव परमेश्वरः ७६। यज्ञेश्वरो हव्यसमस्तकव्यभोक्ता व्ययात्मा हरिरीश्वरोऽत्र । तत्संनिधानादपयांति सद्यो रक्षांस्यशेषाण्यसुराश्च सर्वे ७७। योऽसौ विराट्त्वमापन्नो हरिर्भूतो जनार्दनः । संतर्पयति लोकांस्त्रीन्स एव परमेश्वरः ७८। येन पूर्णेन हविषा देवा यज्ञमतन्वत । तस्माद्यज्ञात्समुत्पन्ना ये के चोभयादतः ७९। तस्माद्यज्ञात्सर्वहुत ऋचः सामानि जज्ञिरे । तस्मादश्वा अजायंत गावश्च पुरुषादयः ८०। पुरुषस्य तनोरस्य सर्वयज्ञमयस्य वै । हरेः सर्वं समुद्भूतं जगत्स्थावरजंगमम् ८१। मुखबाहूरुपादाः स्युस्तस्य वर्णा यथाक्रमम् । पद्भ्यां तु पृथिवी तस्य शिरसा द्यौरजायत ८२। मनसश्चंद्रमा जातश्चक्षुषश्च प्रभाकरः । मुखादग्निः सहस्राक्षो वायुः प्राणात्सदागतिः ८३। नाभेर्विरिंचिर्गगनं जगत्सर्वं चराचरम् । यस्मात्सर्वं समुद्भूतं जगद्विष्णोः सनातनात् ८४। तस्मात्सर्वमयो विष्णुर्नारायण इतीरितः । एवं सृष्ट्वा जगत्सर्वं पुनः संग्रसते हरिः ८५। निजलीलासमुद्भूतं तान्तवं चोर्णनाभिवत् । ब्रह्माणमिंद्रं रुद्रं च यमं वरुणमेव च ८६। निगृह्य हरते यस्मात्तस्माद्धरिरहोच्यते । असावेकार्णवीभूते मायावटतले पुमान् ८७। जगत्स्वजठरे कृत्वा शेते तस्मिन्सनातनः । आसीदेको हि वै चात्र विष्णुर्नारायणोऽच्युतः ८८। न ब्रह्मा न च रुद्रश्च न देवा न महर्षयः । नेमे द्यावापृथिव्यौ च न सोमो न च भास्करः ८९। न नक्षत्राणि लोकाश्च न चांडं महदावृतम् । यस्माज्जगद्वृतं तेन सकलं हरिणा शुभे ९०। सृष्टं पुनस्तथा सर्गे तस्मान्नारायणस्स्मृतः । तस्य दास्यं चतुर्थ्यानु मंत्रे प्रोक्तं तु पार्वति ९१। दासभूतमिदं तस्य ब्रह्माद्यं सकलं जगत् । एवमर्थं विदित्वा वै पश्चान्मंत्रं प्रयोजयेत् ९२। अविदित्वा तु मन्त्रार्थं सिद्धिं नैवाधिगच्छति । न तु भुक्तिं च भक्तिं च न च मुक्तिं वरानने ९३। इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमामहेश्वरसंवादे मंत्रार्थोपदेशोनाम षड्विंशत्यधिकद्विशततमोऽध्यायः २२६।
śaṃkara uvāca - nyāsevāpyarcane vāpi maṃtramekāṃtinaḥ śrayet | avaiṣṇavopadiṣṭena maṃtreṇa na parā gatiḥ 1| avaiṣṇavopadiṣṭaṃcetpūrvamaṃtravaraṃdvayam | punaśca vidhinā samyakvaiṣṇavādgrāhayedguroḥ 2| sahasraśākhādhyāyī vā sarvayajñeṣu dīkṣitaḥ | kule mahati jāto'pi na guruḥ syādavaiṣṇavaḥ 3| yastu maṃtradvayaṃ samyagadhyāpayati vaiṣṇavaḥ | sa ācāryastu vijñeyo bhavabaṃdhavidārakaḥ 4| ācāryaṃ saṃśrayitvātha vatsaraṃ sevayeddivajaḥ | tasya vṛttiṃ parijñātvā maṃtramadhyāpayedguruḥ 5| kṛtvā tāpādisaṃskārānpaścānmaṃtramudīrayet | tāpaṃ puṃḍraṃ tathā nāma kṛtvā vai vidhinā guruḥ 6| paścādadhyāpayenmaṃtraṃ śiṣyaṃ nirmalacetasam | cakreṇa vidhinā taptaṃ tāpa ityabhidhīyate 7| puṃḍramūrddhvaṃ tathā proktaṃ nāma vaiṣṇavamucyate | tato maṃtraṃ vidhānena śiṣyamadhyāpayedguruḥ 8| nyāsamaṣṭākṣaraṃ maṃtramanyaṃ vā vaiṣṇavaṃ manum | nyāsamevātra paramaṃ vaiṣṇavānāṃ śubhānane 9| tasmāttu nyāsamevaiṣāmatiriktamihocyate | nyāsavidyāparo yastu brāhmaṇaḥ śreṣṭha ucyate 10| nyāsātparataraṃ nāsti mantraṃ satyaṃ bravīmi te | nyāsaṃ dvayaṃ prapattiḥ syātparyāyeṇa nibodha me 11| dvayopadeśapūrvaṃ tu sarvakarmasamācaret | dvayādhikārī na bhavetsarvakarmasu nārhati 12| tasmādvayamadhītyeva paścānmaṃtramanuttamam | śrīmadaṣṭākṣaraṃ samyagabhyaseddivajasattamaḥ 13| maṃtramaṣṭākṣaraṃ proktaṃ praṇavasyaiva saṃgrahāt | naisargapraṇavādyantu maṃtramityucyatebudhaiḥ 14| nānyatra sarvamaṃtreṣu praṇavasvasvabhāvataḥ | pūrvaṃ tu sarvamaṃtrāṇāṃ yojayetpraṇavaṃ śubham 15| oṃkāraḥ praṇavaṃ brahma sarvamaṃtreṣu nāyakaḥ | ādau sarvatra yuṃjīta maṃtrāṇāṃ tu śubhānane 16| svabhāvātpraṇavantasminmūlamaṃtre pratiṣṭhitam | omityekākṣaraṃ pūrvaṃ dvyakṣaraṃ nama ityatha 17| tato nārāyaṇāyeti paṃcārṇāni yathākramam | evamaṣṭākṣaro maṃtro jñeyaḥ sarvārthasādhakaḥ 18| sarvaduḥkhaharaḥ śrīmānsarvamaṃtrātmakaḥ śubhaḥ | ṛṣirnārāyaṇastasya devatā śrīśa eva ca 19| chaṃdastu devī gāyatrī praṇavo bījamucyate | nityānapāyinī devī śaktiḥ śrīrucyate manoḥ 20| prathamaṃ padamoṅkāra dvitīyaṃ nama ucyate | tṛtīyaṃ nārāyaṇāyeti padatrayamudāhṛtam 21| akāraścāpyukāraśca makāraśca tataḥ param | vedatrayātmakaṃ proktaṃ praṇavaṃ brahmaṇaḥ padam 22| akāreṇocyate viṣṇuḥ śrīrukāreṇa cocyate | makārastvanayordāsaḥ paṃcaviṃśaḥ prakīrtitaḥ 23| vāsudevasvarūpaṃ tadakāreṇocyatai budhaiḥ | ukāreṇa śriyo devyā rūpaṃ munibhirucyate 24| makāreṇocyate jīvaḥ paṃcaviṃśoditaḥ pumān | bhūtāni ca kavargeṇa cavargaṇendriyāṇi ca 25| ṭa vargeṇa tavargeṇa jñānaṃ dhādayastathā | manaḥ pakāreṇaivoktaṃ phakāreṇa tvahaṃkṛtiḥ 26| bakāreṇa bhakāreṇa mahānprakṛtirucyate | ātmā tu sa makāraḥ syātpaṃcaviṃśaḥ prakīrtitaḥ 27| deheṃdriyamanaḥ prāṇādibhyonyo'nanyasādhanaḥ | bhagavaccheṣabhūto'sau makārākhyaḥ sa cetanaḥ 28| avadhāraṇavācyevamukāraḥ kaiściducyate | śrītatvamapi tatpakṣe vakāreṇaiva cocyate 29| bhāskarasya prabhā yadvattasya nityānapāyinī | ākāreṇocyate viṣṇuḥ kalyāṇaguṇasāgaraḥ 30| śrīśaḥ sarvātmanāṃ śeṣo jagadbījaṃ paraḥ pumān | jagatkarttā jagadbharttā īśvaro lokabāṃdhavaḥ 31| jagatāmīśvarī nityā viṣṇoranapagāminī | mātā sarvasya jagataḥ patnī viṣṇormanoramā 32| jagadādhārabhūtā śrīrukāreṇātra cocyate | makāreṇa tayordāsaḥ kṣetrajñaḥ procyate budhaiḥ 33| jñānāśramo jñānaguṇaścetanaḥ prakṛteḥ paraḥ | na jaḍo nirvikāraśca ekarūpa svarūpabhāk 34| aṇurnityo vyāptiśīlaścidānaṃdātmakastathā | ahamartho'vyayaḥ kṣetrī bhinnarūpaṃ sanātanaḥ 35| adāhyocchedyo hyaklaidyastvaśoṣyokṣara eva ca | evamādiguṇopetaśśeṣabhūtaḥ parasya vai 36| makāreṇocyate jīvaḥ kṣetrajñaḥ paravānsadā | dāsabhūto harereva nānyasya tu kadācana 37| evaṃ dāsatvamevāsya madhyamevāvadhāryate | ityevaṃ praṇavasyārtho jñātavyokto mayānaghe 38| vivṛtiḥ praṇavasyārtha mantraśeṣeṇa vai śubhe | parasya dāsabhūtasya svātantryaṃ neha vidyate 39| tasmānmahadahaṃkārau manasā vinivarttayet | svopāyabuddhyā yatkṛtyaṃ tadapi pratiṣidhyate 40| ahaṃkṛtirmakāraḥ syānnakārastanniṣedhakaḥ | tasmāttu manasaivāsya ahaṃkāravimocanam 41| manasā sarvasiddhiḥ syādanyathā nāśamāpnuyāt | namasā sahitaṃ kiṃcittadahaṃkāra ucyate 42| ahaṃkāreṇa yuktasya sukhaṃ kiṃcinna vidyate | ahaṃkāravimūḍhātmā aṃdhe tamasi majjati 43| tasmānna manasā cātra svātaṃtryaṃ pratiṣidhyate | bhagavatparataṃtro'sau tadāyattaśca jīvati 44| tasmātsādhanakartṛtvaṃ cetanasya na vidyate | īśvarasyaiva saṃkalpādvarttate svacarācaram 45| tasmātsvasāmarthyavidhiṃ tyajetsarvamaśeṣataḥ | īśvarasya tu sāmarthyānnālabhyaṃ tasya vidyate 46| tasminnyastabharaḥ śrīśe tatkarmaiva samācaret | paramātmā harissvāmī svamahaṃ tasya sarvadā 47| icchāyā viniyoktavyastasyaivātmeśvarasya hi | ityevaṃ manasā tyaktamahaṃtā mamatorjitam 48| deheṣvahaṃ matirmūlaṃ saṃsṛtau karmabaṃdhane | tasmānmahadahaṃkārau manasā varjayedbudhaḥ 49| atha nārāyaṇapadaṃ vakṣyāmi giraje śubhe | nārā ityātmanāṃ saṃghāsteṣāṃ gatirasau pumān 50| ta eva cāyanaṃ tasya tasmānnārāyaṇaḥ smṛtaḥ | sarvaṃ hi cidacidvastu śrūyate dṛśyate jagat 51| yo'sau vyāpyasthito nityaṃ sa vai nārāyaṇaḥ smṛtaḥ | nārāśceti sarvapuṃsāṃ samūhāḥ parikīrtitāḥ 52| gatirālaṃbanaṃ teṣāṃ tasmānnārāyaṇaḥ smṛtaḥ | narājjātāni tatvāni nārāṇīti vidurbudhāḥ 53| tānyeva cāyanaṃ tasya tena nārāyaṇassmṛtaḥ | kalpāṃtepi jagatkṛtsnaṃ grasitvā yena dhāryate 54| punaḥ saṃsṛjyate yena sa vai nārāyaṇaḥ smṛtaḥ | carācaraṃ jagatkṛtsnaṃ nāra ityabhi dhīyate 55| tasya vāsaṃ gatiryena tena nārāyaṇaḥ smṛtaḥ | nāro narāṇāṃ saṃghātastasyāsāvayanaṃ gatiḥ 56| tenāsau munibhirnityaṃ nārāyaṇa itīritaḥ | prabhavanti yato lokā mahābdhau pṛthuphenavat 57| punaryasmātpralīyante tasmānnārāyaṇaḥ smṛtaḥ | yo vai nityapade nityo nityamuktaikabhogavān 58| īśaḥ sarvasya jagataḥ sa vai nārāyaṇaḥ smṛtaḥ | nārāyaṇaḥ paraṃbrahma tatvaṃ nārāyaṇaḥ param 59| yacca kiṃcijjagatyasmindṛśyate śrūyate'pi vā | aṃtarbaṃhiśca tatsarvaṃ vyāpya nārāyaṇaḥ sthitaḥ 60| apahatapāpmā puruṣaḥ sarvabhūtāṃtarasthitaḥ | divyaekassadā nityo harirnārāyaṇo'cyutaḥ 61| yastu draṣṭā ca draṣṭavyaṃ śrotā śrotavyameva ca | spraṣṭā ca sparśitavyaśca dhyātā dhyātavyameva ca 62| vaktā ca vācyaṃ jñātā ca jñātavyaṃ cidacijjagat | tacca sarvaṃ hariḥ śrīśo nārāyaṇa udāhṛtaḥ 63| sahasraśīrṣā puruṣaḥ sahasrākṣaḥ sahasrapāt | sa lokānsarvato vyāpya atyatiṣṭhaddaśāṃgulam 64| yadbhūtaṃ yacca bhavyaṃ tatsarvaṃ nārāyaṇo hariḥ | utāmṛtatvasyeśāno yadannena virāṭpumān 65| sa eva puruṣo viṣṇurvāsudevo'cyuto hariḥ | hiraṇmayo'tha bhagavānso'mṛtaḥ śāśvataḥ śivaḥ 66| patirviśvasya jagataḥ sarvalokeśvaraṃ prabhuḥ | hiraṇyagarbhāḥ savitā anaṃto'sau maheśvaraḥ 67| bhagavāniti śabdo'yaṃ tathā puruṣa ityapi | varttate nirupādhiśca vāsudevo'khilātmani 68| īśvaro bhagavānviṣṇuḥ paramātmā jagatsuhṛt | śāstā carācarasyaiko yatīnāṃ paramā gatiḥ 69| yo vedādau svaraḥ prokto vedāṃte ca pratiṣṭhitaḥ | tasya prakṛtilīnasya yaḥ paraḥ sa maheśvaraḥ 70| yosāvakāro vai viṣṇuryo'sau nārāyaṇo hariḥ | sa eva puruṣo nityaḥ paramātmā maheśvaraḥ 71| yasmādudbhūtamaiśvaryaṃ yasminkasmiṃśca vartate | tasminnīśvaraśabdo'pi procyate munibhistathā | nirupādhīśvaratvaṃ hi vāsudeve pratiṣṭhitam 72| ātmeśvara iti prokto vedavādaiḥ sanātanaiḥ | tasmānmaheśvaratvaṃ tu vāsudeve pratiṣṭhitam 73| asau tripādvibhūtestu līlayā api ceśvaraḥ | vibhūtidvayamaiśvaryaṃ tasyaiva sakalātmanaḥ 74| śrībhūnīlāpatiryosāvīśvarassa udāhṛtaḥ | tasmātsarveśvaratvaṃ tu vāsudeve pratiṣṭhitam 75| asau yajñeśvaro yajño yajñabhukyajñakṛdvibhuḥ | yajñabhugyajñapuruṣaḥ sa eva parameśvaraḥ 76| yajñeśvaro havyasamastakavyabhoktā vyayātmā harirīśvaro'tra | tatsaṃnidhānādapayāṃti sadyo rakṣāṃsyaśeṣāṇyasurāśca sarve 77| yo'sau virāṭtvamāpanno harirbhūto janārdanaḥ | saṃtarpayati lokāṃstrīnsa eva parameśvaraḥ 78| yena pūrṇena haviṣā devā yajñamatanvata | tasmādyajñātsamutpannā ye ke cobhayādataḥ 79| tasmādyajñātsarvahuta ṛcaḥ sāmāni jajñire | tasmādaśvā ajāyaṃta gāvaśca puruṣādayaḥ 80| puruṣasya tanorasya sarvayajñamayasya vai | hareḥ sarvaṃ samudbhūtaṃ jagatsthāvarajaṃgamam 81| mukhabāhūrupādāḥ syustasya varṇā yathākramam | padbhyāṃ tu pṛthivī tasya śirasā dyaurajāyata 82| manasaścaṃdramā jātaścakṣuṣaśca prabhākaraḥ | mukhādagniḥ sahasrākṣo vāyuḥ prāṇātsadāgatiḥ 83| nābherviriṃcirgaganaṃ jagatsarvaṃ carācaram | yasmātsarvaṃ samudbhūtaṃ jagadviṣṇoḥ sanātanāt 84| tasmātsarvamayo viṣṇurnārāyaṇa itīritaḥ | evaṃ sṛṣṭvā jagatsarvaṃ punaḥ saṃgrasate hariḥ 85| nijalīlāsamudbhūtaṃ tāntavaṃ corṇanābhivat | brahmāṇamiṃdraṃ rudraṃ ca yamaṃ varuṇameva ca 86| nigṛhya harate yasmāttasmāddharirahocyate | asāvekārṇavībhūte māyāvaṭatale pumān 87| jagatsvajaṭhare kṛtvā śete tasminsanātanaḥ | āsīdeko hi vai cātra viṣṇurnārāyaṇo'cyutaḥ 88| na brahmā na ca rudraśca na devā na maharṣayaḥ | neme dyāvāpṛthivyau ca na somo na ca bhāskaraḥ 89| na nakṣatrāṇi lokāśca na cāṃḍaṃ mahadāvṛtam | yasmājjagadvṛtaṃ tena sakalaṃ hariṇā śubhe 90| sṛṣṭaṃ punastathā sarge tasmānnārāyaṇassmṛtaḥ | tasya dāsyaṃ caturthyānu maṃtre proktaṃ tu pārvati 91| dāsabhūtamidaṃ tasya brahmādyaṃ sakalaṃ jagat | evamarthaṃ viditvā vai paścānmaṃtraṃ prayojayet 92| aviditvā tu mantrārthaṃ siddhiṃ naivādhigacchati | na tu bhuktiṃ ca bhaktiṃ ca na ca muktiṃ varānane 93| iti śrīpādme mahāpurāṇe paṃcapaṃcāśatsāhasryāṃ saṃhitāyāmuttarakhaṃḍe umāmaheśvarasaṃvāde maṃtrārthopadeśonāma ṣaḍviṃśatyadhikadviśatatamo'dhyāyaḥ 226|
English translation
Śaṅkara said :
1-5. At (the time of) a nyāsa or worship, one should resort to Viṣṇu ’s formula ( mantra ). The highest position is not had by means of a formula not sacred to Viṣṇu. If the former couple of sacred names (i.e. the one mentioned above) is imparted by one who is a non- Vaiṣṇava , then one should again receive it from a follower of Viṣṇu. Even if a man has studied a thousand branches (of the holy texts), even if he was initiated into all (kinds of) sacrifices, even if he is born in a good family, he should not be a preceptor if he is not a follower of Viṣṇu. That follower of Viṣṇu who properly imparts the two sacred names, should be known as the preceptor, tearing off the bond of the mundane existence. A brāhmaṇa should, after resorting to a preceptor, live (with him) for a year. The preceptor, knowing his behaviour, should impart him the formula.
6-9. Having first done the sacraments as burning his body (i.e. putting sectarian marks on it), he should then utter the formula, after burning, putting the sectarian mark and giving a name (to him). Then he should teach his disciple of a pure heart. The rite of burning with (i.e. putting marks like) the (heated) disc (etc.) is called tapa (or burning). The sectarian mark is said to be vertical and the name (accepted by) the Vaiṣṇava sect is pronounced. Then in accordance with the rule (about the mantra) the teacher should teach the formula to the disciple. (He should teach him) nyāsa, the eight-syllabled or any other formula sacred to Viṣṇu. O you of an auspicious face, here nyāsa is of a high value to the followers of Viṣṇu.
10-12. Therefore, for them nyāsa is said to be superior. A brāhmaṇa highly devoted to nyāsa is said to be the best. There is no greater mantra than a nyāsa. I am telling you the truth. Nyāsa and the couple of mantras are synonyms for devotion. Learn it from me. After having instruction in the two, he should practise all rites. He who is not entitled to both does not deserve to perform all rites.
13-16. Therefore, the best brāhmaṇa, having studied the two, should study the eight-syllabled formula properly. The formula is said to be eight-syllabled due to the inclusion of (the syllable) Om. The wise say that that is a sacred formula which naturally has Om at its beginning. Except at the beginning of all formulas Om is not naturally there. One should use it before (i.e. at the beginning of) all formulas. O you of an auspicious face, the sacred syllable Om is Brahman . It is the chief of all formulas. One should use it at the commencement of all formulas.
17-21. At the root-formula Om is naturally settled. The first (syllable) is Om, having one letter. Then is (the word) namaḥ having two letters. Then in proper order are the five letters Nārāyaṇāya. Thus the formula, accomplishing all objects, should be known to be eight-syllabled. It removes all sorrows; it is glorious; it contains all formulas; it is auspicious. Its seer is Nārāyaṇa , and (he) himself, the lord of Śrī, is its deity. Its metre is the divine Gāyatrī and origin is Om. The power of the formula is goddess Śrī who is never-failing. The first foot is said to be the letter Om ; the second to be Namaḥ , and the third to be Nārāyaṇāya. Thus the three feet are told.
22-26. The letters a , u , and m form the syllable Om , which is Brahman’s word, and is of the nature of the three Vedas . Viṣṇu is expressed by the letter a, Śrī by the letter u ; the letter m is the servant of these two, and is said to be the twenty-fifth (letter). It is said by the wise that a expresses Viṣṇu’s form. The sages say that u expresses the form of the goddess Śrī. The letter m expresses the soul, the puruṣa , the twenty-fifth (principle of the Sāṃkhyas ). The elements are expressed by the class of letters beginning with ka ; and the senses are denoted by the class of letters beginning with ca . The class of letters beginning with ṭa and that beginning with ta denote knowledge, so also the letters like dha (indicate the same). The mind is expressed by the letter pa only; and ego by the letter pha .
27-30. Mahat (i.e. Intellect) and Prakṛti (Primordial Matter) (the principles enunciated in the Sāṃkhya System) are (respectively) expressed by the letters ba and bha . The soul is said to be the letter ma and is said to be the twenty-fifth (principle). It is different from the body, the senses, the mind, the vital breath; and has no other means. He is the remnant of the lord, is denoted by ma and is sentient. Some say that ma indicates just the emphasis. According to them the principle of Śrī is expressed by the letter va ( ma ?) only. As the sun’s lustre does not go away from him, so Lakṣmī does not go away from him. Viṣṇu, the ocean of auspicious qualities, is expressed by the letter ā .
31-36. The lord of Śrī is the remnant of all souls, is the seed (i.e. source) of the world, and the highest person. He is the author and the sustainer of the world, the lord, and people’s kin. (Lakṣmī) always controls the worlds, does not go away from Viṣṇu. She is mother of the entire world and Viṣṇu’s charming wife. Here (i.e. in the mantra) the letter u expresses Śrī, who is the support of the world. The wise say that the letter ma expresses the soul, the servant of the two (i.e. Viṣṇu and Lakṣmī). He is the support of knowledge, has knowledge as his quality, is sentient, and is beyond Prakṛti. He is not insentient; he is without any modification; is uniform in nature and has (no other form than) his own form. He is subtle, eternal, pervading, of the nature of intellect and joy, is of the nature of ego, immutable, the soul, of different forms, and eternal. He cannot be burnt, cannot be cut off, cannot be made wet, cannot be dried, and is indestructible; he is (thus) endowed with such qualities and is an effect of the highest (soul).
37-42. The letter ma expresses the individual soul, always dependent. He is the servant of Viṣṇu only and of none else. Thus is determined his servitude to be mediocre. O sinless one, the meaning of Om should be known like this. I have explained it (to you). O auspicious one, the exposition of Om (is done) by means of the remnant of the meaning, the formula(?). In this world, he who is the servant of another, does not get freedom. Therefore, with (the help of) the mind one should turn away Mahat and Ahaṃkāra (i.e. Intellect and Ego). That act which is done by the knowledge of one’s means, is also prohibited. The letter ma is (i.e. stands for) ego, and the letter na prohibits it. Therefore, with his mind only he gets freedom from the ego. Every accomplishment is due to the mind. Otherwise he would perish. Whatever is with the mind is said to be the ego.
43-46. One having egotism has absolutely no happiness. He whose mind is deluded by egotism sinks in the blinding darkness. Therefore, his freedom through mind is not prohibited. He is dependent upon the lord and lives under his influence. Therefore, the sentient is not the author of the means. The mobile and the immobile exist due to the will of the highest lord. Therefore, he would completely give up the application of his own power. Due to the lord’s power there is nothing that is not obtained by him.
47-53. Having placed the burden (i.e. the responsibility) on that lord of Lakṣmī, he should do acts of (i.e. sacred to) him only. The highest soul, Viṣṇu, is the master. I always belong to him. His mind should be employed according to the desire of that lord only. Thus it is noble when egotism and sense of mineness are abandoned by the mind. In the mundane existence the sense of mineness is the root of the bondage due to the deeds. Therefore, a wise man should avoid Mahat (Intellect) and Ahaṃkāra (ego) with (the help of) the mind. (Now) O you auspicious Girijā, I shall explain (to you) the word Nārāyaṇa . Nārā is the assemblage of the souls. This Puruṣa (Nārāyaṇa) is their refuge. And they are his abode; therefore he is said to be Nārāyaṇa . The entire world—the sentient and insentient objects—is heard, is seen. He, who always remains after pervading it, is said to be Nārāyaṇa . The groups of all men are said to be Nārā . He is their refuge and support. Therefore, he is said to be Nārāyaṇa . The wise know the principles produced from Nara (i.e. the Supreme Spirit) as nārā .
54-59. They alone are his abode. Therefore, he is called Nārāyaṇa, by whom the world, after devouring it even at the end of the kalpa , is supported, and by whom it is again created. Therefore he is said to be Nārāyaṇa . The entire world consisting of the mobile and the immobile is called Nāra . To it he is connected; therefore he is said to be Nārāyaṇa . The Nāra —the host of men—is his abode or refuge. Therefore, he is always called Nārāyaṇa by the sages; from him spring the worlds, as the massive foam in the ocean. Since they again merge into him, therefore, he is said to be Nārāyaṇa . He is (residing) at the eternal position, is eternal, and is always free and alone enjoys; he is the lord of the entire world. Therefore, he is called Nārāyaṇa . Nārāyaṇa is the highest Brahman. Nārāyaṇa is the highest principle.
60-64. Nārāyaṇa has remained after pervading whatever is seen or heard within and without this world. Hari , Nārāyaṇa, Acyuta is the Supreme soul with the sins destroyed. He resides within all beings. He is divine, always (all) alone, and is eternal. He is the seer and is what is to be seen. He is the listener and is what is listened to also. He is the one that touches and is also what is touched. He meditates and is what is meditated upon. He is the speaker and what is spoken. He is the knower and what is known. He is the sentient and insentient world. All that is said to be Hari, the lord of Śrī, Nārāyaṇa. He, the Supreme Being, has a thousand heads, a thousand eyes, a thousand feet. Having pervaded all the worlds he stands above them by (the measure of) ten fingers.
65-69. All that was and will be is Nārāyaṇa Hari. And he is the lord of immortality and the Virāṭ ; the Supreme Being (grows beyond) by the means of food. He alone is the Supreme Being, Viṣṇu, Vāsudeva , Acyuta, Hari, Hiraṇmāya, and the lord; he is immortal, eternal, auspicious ( Śiva ). He is the master of the entire world, is the lord of all people, and the master. He is Hiraṇyagarbha , the Sun, is Ananta (the endless) and the great god. The word Bhagavat , so also the word Puruṣa and the word Nirupādhi stand for Vāsudeva, the soul of all. The god, the lord Viṣṇu, the highest soul, the friend of the world, the only ruler of the movable and the immovable is the greatest refuge of the ascetics.
70-73. That one who is naturally merged into the sound uttered at the beginning of the Veda and who is settled in the Vedānta (i.e. the Upaniṣads ), who is the greatest, is the great god. That one, viz. Viṣṇu, who is (indicated by) the letter a, the one who is Nārāyaṇa Hari, is the eternal Supreme Being, the highest soul, the great lord. Sages use the word Īśvara (i.e. the lord) also for him in whom wonderful glory exists. Unconditional lordship exists in Viṣṇu. The ancient words of Veda have described him as the soul, the lord. Therefore, in Vāsudeva the great lordship exists.
74-88. Due to his splendour he is Tripād (literally, having three feet). He is the lord of sport. He, the soul of all, has two kinds of grandeurs and glory. He who is the lord of Śrī, Bhū and Nīlā is called the lord. Therefore, mastery over all exists in Vāsudeva. He is the lord of sacrifice, is the sacrifice, the enjoyer of sacrifice, the performer of sacrifice, the lord, the enjoyer of sacrifice, the Puruṣa (i.e. the deity) of sacrifice. He alone is the highest lord. He is the lord of sacrifice. He is the enjoyer of the oblations made to gods and all offerings to the dead ancestors. He is immutable. He, Hari, is the lord here. All goblins and demons go away from his vicinity. He, Viṣṇu, who became Virāṭ and Hari, is himself the highest lord, who pleases the three worlds. With him as the complete oblation gods performed a sacrifice. Those who have a double row of teeth are born from that sacrifice. From that sacrifice with all the oblations sprang ṛks , sāmans . From it sprang horses, cows, men etc. The entire world consisting of the mobile and the immobile sprang from the body of the Supreme Being consisting of everything. The castes were his face, arms, thighs and feet in due order. From his feet the earth came up and the heaven from his head. From his mind the moon was produced, and the sun from his eye. Fire with a thousand eyes (sprang) from his mouth, and the ever-moving wind from his breath. From his navel came up Brahmā , the sky, the movable and immovable world. Since the entire world came up from the eternal Viṣṇu, therefore, Viṣṇu full of all, is called Nārāyaṇa. Hari, having thus created the world again devours it, as a spider does the web produced from its saliva. Since, having curbed Brahmā, Indra , Rudra , Yama and Varuṇa , he subdues them, therefore, he is called Hari. This ancient Supreme Being having put the world in his belly, sleeps in the coating of (his) Māyā , which has become an ocean. (In the beginning) here this Viṣṇu, Nārāyaṇa, Acyuta was alone.
89-93. Brahmā, Rudra, gods, great sages, this heaven, this earth, the moon, the sun, the stars, the world, the (cosmic) egg covered by Mahat (were) not there. O auspicious one, since the entire world was held by that Hari (in his belly) and was again created at the time of creation, therefore he is said to be Nārāyaṇa. O Pārvatī , service to him is described in the formula by the dative case. This entire world, beginning with Brahmā, is his slave. Knowing the meaning to be like this one should then use the formula. O you of an excellent face, without knowing the meaning of the formula, one would not get success, so also enjoyment, devotion and salvation.
Complete chapter-aligned witnesses. Sanskrit Wikisource page 15847, revision 336644 (2022-04-26T00:41:06Z). English is N. A. Deshpande’s complete translation, controlled against its chapter page at https://www.wisdomlib.org/hinduism/book/the-padma-purana/d/doc365810.html and the ten-volume archival witness. The witnesses are aligned at chapter level; no unsupported verse-by-verse equivalence is asserted.