Vṛndāvana-khaṇḍa · Chapter 9
Sourceब्रह्मोवाच - कृष्णाय मेघवपुषे चपलाम्बराय पियूषमिष्टवचनाय परात्पराय । वंशीधराय शिखिचंद्रिकयान्विताय देवाय भ्रातृसहिताय नमोऽस्तु तस्मै ॥ १ ॥ कृष्णस्तु साक्षात्पुरुषोतमः स्वयं पूर्णः परेशः प्रकृतेः परो हरिः । यस्यावतारांशकला वयं सुरा सृजाम विश्वं क्रमतोऽस्य शक्तिभिः ॥ २ ॥ स त्वं साक्षात्कृष्णचन्द्रावतारो नन्दस्यापि पुत्रतामागतः कौ । वृन्दारण्ये गोपवेशेन वत्सान् गोपैर्मुख्यैश्चारयन् भ्राजसे वै ॥ ३ ॥ हरिं कोटिकन्दर्पलीलाभिरामं स्फुरत्कौस्तुभं श्यामलं पीतवस्त्रम् । व्रजेशं तु वंशीधरं राधिकेशं परं सुन्दरं तं निकुंजे नमामि ॥ ४ ॥ तं कृष्णं भज हरिमादिदेवमस्मिन् क्षेत्रज्ञं कमिव विलिप्तमेघमेव । स्वच्छाङ्गं परमधियाज्ञचैत्यरूपं भक्त्याद्यैर्विशदविरागभावसंघैः ॥ ५ ॥ यावन्मनश्च रजसा प्रबलेन विद्वन् संकल्प एव तु विकल्पक एव तावत् । ताभ्यां भवेन्मनसिजस्त्वभिमानयोग- स्तेनापि बुद्धिविकृतिं क्रमतः प्रयान्ति ॥ ६ ॥ विद्युद्द्युतिस्त्वृतुगुणो जलमध्यरेखा भूतोल्मुकः कपटपान्थरतिर्यथा च । इत्थं तथाऽस्य जगतस्तु सुखं मृषेति दुःखावृतं विषयघूर्णमलातचक्रम् ॥ ७ ॥ वृक्षा जलेन चलतापि चला इवात्र नेत्रेण भूरिचलितेन चलेव भूश्च । एवं गुणः प्रकृतिजैर्भ्रमतो जनस्थं सत्यं वदेद्गुणसुखादिदमेव कृष्ण ॥ ८ ॥ दुःखं सुखञ्च मनसा प्रभवञ्च सुप्ते मिथ्या भवेत्पुनरहो भुवि जागरेऽस्य । इत्थं विवेकघटितस्य जनस्य सर्वं स्वप्नभ्रमादृतजगत्सततं भवेद्धि ॥ ९ ॥ ज्ञानी विसृज्य ममतामभिमानयोगं वैराग्यभावरसिकः सततं निरीहः । दीपेन दीपकशतञ्च यथा प्रजातं पश्येत् तथाऽऽत्मविभवं भुवि चैकतत्त्वम् ॥ १० ॥ भक्तो भजेदजपतिं हृदि वासुदेवं निर्धूमवह्निरिव मुक्तगुणस्वभावः । पश्यन् घटेषु सजलेषु यथेन्दुमेकं एतादृशः परमहंसवरः कृतार्थः ॥ ११ ॥ स्तुवन्ति वेदाः सततञ्च यं सदा हरेर्महिम्नः किल षोडशीं कलाम् । कदापि जानन्ति न ते त्रिलोके वक्तुं गुणांस्तस्य जनोऽस्ति कः परः ॥ १२ ॥ वक्त्रैश्चतुर्भिस्त्वहमेव देवः श्रीपञ्चवक्त्रः किल पञ्चवक्त्रैः । सहस्रशीर्षास्तु सहस्रवक्त्रैः य स्तौति सेवां कुरुते च तस्य ॥ १३ ॥ विष्णुश्च वैकुण्ठनिवासकृच्च क्षिरोदवासी हरिरेव साक्षात् । नारायणो धर्मसुतस्तथापि गोलोकनाथं भजते भवन्तम् ॥ १४ ॥ अहोऽतिधन्यो महिमा मुरारे- र्जानन्ति भूमौ मुनयो न मानवाः । सुरासुरा वा मनवो बुधाः पुनः स्वप्नेऽपि पश्यन्ति न तत्पदद्वयम् ॥ १५ ॥ वरं हरिं गुणाकरं सुमुक्तिदं परात्परम् । रमेश्वरं गुणेश्वरं व्रजेश्वरं नमाम्यहम् ॥ १६ ॥ ताम्बूलसुन्दरमुखं मधुरं ब्रुवन्तं बिम्बाधरं स्मितयुतं सितकुन्ददन्तम् । नीलालकावृतकपोलमनोहराभं वन्दे चलत्कनककुण्डलमण्डनार्हम् ॥ १७ ॥ सुन्दरं तु तव रूपमेव हि मन्मथस्य मनसो हरं परम् आविरस्तु मम नेत्रयोः सदा श्यामलं मकरकुण्डलावृतम् ॥ १८ ॥ वैकुण्ठलीलाप्रवरं मनोहरं नमस्कृतं देवगणैः परं वरम् । गोपाललीलाभियुतं भजाम्यहं गोलोकनाथं शिरसा नमाम्यहम् ॥ १९ ॥ युक्तं वसन्तकलकण्ठविहंगमैश्च सौगन्धिकं त्वरणपल्लवशाखिसंगम् । वृन्दावनं सुधितधीरसमीरलीलं गच्छन् हरिर्जयति पातु सदैव भक्तान् ॥ २० ॥ हरति कमलमानं लोलमुक्ताभिमानं धरणिरसिकदानं कामदेवस्य बाणम् । श्रवणविदितयानं नेत्रयुग्मप्रयाणं भज यदुत समक्षं दानदक्षं कटाक्षम् ॥ २१ ॥ शरच्चन्द्राकारं नखमणिसमूहं सुखकरं सुरक्तं हृत्पूर्णं प्रकटिततमःखण्डनकरम् । भजेऽहं ब्रह्माण्डेसकलनरपापाभिदलनं हरेर्विष्णोर्देवैर्दिवि भरतखण्डे स्तुतमलम् ॥ २२ ॥ महापद्मे किं वा परिधिरिव चाभाति सततं कदादित्यस्फूर्जद्रथचरण इत्थं ध्वनिधरः । यथा न्यस्तं चक्रं शतकिरणयुक्तं तु हरिणा स्फुरच्छ्रीमञ्जीरं हरिचरणपद्मे त्वधिगतम् ॥ २३ ॥ कट्यां पीताम्बरं दिव्यं क्षुद्रघण्टिकयाऽन्वितम् । भजाम्यहं चित्तहरं कृष्णस्याक्लिष्टकर्मणः ॥ २४ ॥ भजे कृष्णक्रोडे भृगुमुनिपदं श्रीगृहमलं तथा श्रीवत्साङ्कं निकषरुचियुक्तं द्युतिपरम् । गले हीराहारान् कनकमणिमुक्तावलिधरान् स्फुरत् ताराकारान् भ्रमरवलिभारान् ध्वनिकरान् ॥ २५ ॥ वंशीविभूषितमलं द्विजदानशीलं सिंद्रूरवर्णमतिकीचकरावलीलम् । हेमांगुलीयनिकरं नखचंद्रयुक्तं हस्तद्वयं स्मर कदम्बसुगन्धपृक्तम् ॥ २६ ॥ शनैश्चलन् मानसराजहंस- ग्रीवाकृतौ कन्धर उच्चदेशे । कादम्बिनीमानहरौ करौ च भजामि नित्यं हरिकाकपक्षौ ॥ २७ ॥ कलदर्पणवद्विशदं सुखदं नवयौवनरूपधरं नृपतिम् । मणिकुण्डलकुन्तलशालिरतिं भज गण्डयुगं रविचन्द्ररुचिम् ॥ २८ ॥ खचितकनकमुक्ता रक्तवैदूर्यवासं मदनवदनलीला सर्वसौन्दर्यरासम् । अरुणविधुसकाशं कोटिसूर्यप्रकाशं घटितशिखिसुवीटं नौमि विष्णोः किरीटम् ॥ २९ ॥ यद्द्वारिदेशे न गतिर्गुहेन्द्र गणेशतारीरेशदिवाकराणाम् । आज्ञां विना यान्ति न कुञ्जमण्डलं तं कृष्णचन्द्रं जगदीश्वरं भजे ॥ ३० ॥ (अनुष्टुप्) इति कृत्वा स्तुतिं ब्रह्मा श्रीकृष्णस्य महात्मनः । पुनः कृताञ्जलिर्भूत्वा स्वविज्ञप्तिं चकार ह ॥ ३१ ॥ अपराधं तु पुत्रस्य मातृवत्त्वं क्षमस्व च । अहं त्वन्नाभिकमलात्सम्भवोऽहं जगत्पते ॥ ३२ ॥ काहं लोकपतिः क्व त्वं कोटिब्रह्माण्डनायकः । तस्माद्व्रजपते देव रक्ष मां मधुसूदन ॥ ३३ ॥ मायया यस्य मुह्यन्ति देवदैत्यनरादयः । स्वमायया तन्मोहाय मूर्खोऽहं ह्युद्यतोऽभवम् ॥ ३४ ॥ नारायणस्त्वं गोविन्द नाहं नारायणो हरे । ब्रह्माण्डं त्वं विनिर्माय शेषे नारायणः पुरा ॥ ३५ ॥ यस्य श्रीब्रह्मणि धाम्नि प्राणं त्यक्त्वा तु योगिनः । यत्र यास्यन्ति तस्मिंस्तु सकुला पूतना गता ॥ ३६ ॥ वत्सानां वत्सपानाञ्च कृत्वा रूपाणि माधव । विचचार वने त्वं तु ह्यपराधान्मम प्रभो ॥ ३७ ॥ तस्मात्क्षमस्व गोविन्द प्रसीद त्वं ममोपरि । अगणय्यापराधं मे सुतोपरि पिता यथा ॥ ३८ ॥ त्वदभक्ता रता ज्ञाने तेषां क्लेशो विशिष्यते । परिश्रमात्कर्षकाणां यथा क्षेत्रे तुषार्थिनाम् ॥ ३९ ॥ त्वद्भक्तिभावे निरता बहवस्त्वद्गतिं गताः । योगिनो मुनयश्चैव तथा ये व्रजवासिनः ॥ ४० ॥ द्विधा रतिर्भवेद्वरा श्रुताच्च दर्शनाच्च वा । अहो हरे तु मायया बभूव नैव मे रतिः ॥ ४१ ॥ इत्युक्त्वाऽश्रुमुखो भूत्वा नत्वा तत्पादपंकजौ । पुनराह विधिः कृष्णं भक्त्या सर्वं क्षमापयन् ॥ ४२ ॥ घोषेषु वासिनामेषां भूत्वाऽहं त्वत्पदाम्बुजम् । यदा भजेयं सुगतिस्तदा भूयान्न चान्यथा ॥ ४३ ॥ वयं तु गोपदेहेषु संस्थिताश्च शिवादयः । सकृत्कृष्णं तु पश्यन्तस्तस्माद्धन्याश्च भारते ॥ ४४ ॥ अहोभाग्यं तु कृष्णस्य मातापित्रोस्तव प्रभो । तथा च गोपगोपीनां पूर्णस्त्वं दृश्यसे व्रजे ॥ ४५ ॥ मुक्ताहारः सर्वविश्वोपकारः सर्वाधारः पातु मां विश्वकारः । लीलागारं सूरिकन्याविहारः क्रीडापारः कृष्णचन्द्रावतारः ॥ ४६ ॥ श्रीकृष्ण वृष्णिकुलपुष्कर नन्दपुत्र राधापते मदनमोहन देवदेव । संमोहितं व्रजपते भुवि तेऽजया मां गोविन्द गोकुलपते परिपाहि पाहि ॥ ४७ ॥ करोति यः कृष्णहरेः प्रदक्षिणां भवेज्ज्गत्तीर्थफलं च तस्य तु । ते कृष्णलोकं सुखदं परात्परं गोलोकलोकं प्रवरं गमिष्यति ॥ ४८ ॥ श्रीनारद उवाच - इत्यभिष्टूय गोविन्दं श्रीमद्वृन्दावनेश्वरम् । नत्वा त्रिवारं लोकेशश्चकार तु प्रदक्षिणम् ॥ ४९ ॥ तत्र चालक्षितो भूत्वा नेत्रेणाज्ञां ददौ हरिः । पुनः प्रणम्य स्वं लोकमात्मभूः प्रत्यपद्यत ॥ ५१ ॥ अथ कृष्णो वनाच्छीघ्रमानयामास वत्सकान् । यत्रापि पुलिने राजन् गोपानां राजमंडली ॥ ५२ ॥ गोपार्भकाश्च श्रीकृष्णं वत्सैः सार्धं समागतम् । क्षणार्धं मेनिरे वीक्ष्य कृष्णमायाविमोहिताः ॥ ५३ ॥ त ऊचुर्वत्सकैः कृष्ण त्वरं त्वं तु समागतः । कुरुष्व भोजनं चात्र केनापि न कृतं प्रभो ॥ ५४ ॥ ततश्च विहसन् कृष्णोऽभ्यवहृत्यार्भकैः सह । दर्शयामास सर्वेभ्यश्चर्माजगरमेव च ॥ ५५ ॥ सायंकाले सरामस्तु कृष्णो गोपैः परावृतः । अग्रे कृत्वा वत्सवृन्दं ह्याजगाम शनैर्व्रजम् ॥ ५६ ॥ गोवत्सकैः सितसितासितपीतवर्णै रक्तादिधूम्रहरितैर्बहुशीलरूपैः । गोपालमण्डलगतं व्रजपालपुत्रं वन्दे वनात् सुखदगोष्ठकमाव्रजन्तम् ॥ ५७ ॥ आनन्दो गोपिकानां तु ह्यासीत्कृष्णस्य दर्शने । यासां येन विना राजन् क्षणो युगसमोऽभवत् ॥ ५८ ॥ कृत्वा गोष्ठे पृथग्वत्सान् बालाः स्वं स्वं गृहं गताः । जगुश्चाघासुरवधमात्मनो रक्षणं हरे ॥ ५९ ॥
brahmovāca - kṛṣṇāya meghavapuṣe capalāmbarāya piyūṣamiṣṭavacanāya parātparāya | vaṃśīdharāya śikhicaṃdrikayānvitāya devāya bhrātṛsahitāya namo'stu tasmai || 1 || kṛṣṇastu sākṣātpuruṣotamaḥ svayaṃ pūrṇaḥ pareśaḥ prakṛteḥ paro hariḥ | yasyāvatārāṃśakalā vayaṃ surā sṛjāma viśvaṃ kramato'sya śaktibhiḥ || 2 || sa tvaṃ sākṣātkṛṣṇacandrāvatāro nandasyāpi putratāmāgataḥ kau | vṛndāraṇye gopaveśena vatsān gopairmukhyaiścārayan bhrājase vai || 3 || hariṃ koṭikandarpalīlābhirāmaṃ sphuratkaustubhaṃ śyāmalaṃ pītavastram | vrajeśaṃ tu vaṃśīdharaṃ rādhikeśaṃ paraṃ sundaraṃ taṃ nikuṃje namāmi || 4 || taṃ kṛṣṇaṃ bhaja harimādidevamasmin kṣetrajñaṃ kamiva viliptameghameva | svacchāṅgaṃ paramadhiyājñacaityarūpaṃ bhaktyādyairviśadavirāgabhāvasaṃghaiḥ || 5 || yāvanmanaśca rajasā prabalena vidvan saṃkalpa eva tu vikalpaka eva tāvat | tābhyāṃ bhavenmanasijastvabhimānayoga- stenāpi buddhivikṛtiṃ kramataḥ prayānti || 6 || vidyuddyutistvṛtuguṇo jalamadhyarekhā bhūtolmukaḥ kapaṭapāntharatiryathā ca | itthaṃ tathā'sya jagatastu sukhaṃ mṛṣeti duḥkhāvṛtaṃ viṣayaghūrṇamalātacakram || 7 || vṛkṣā jalena calatāpi calā ivātra netreṇa bhūricalitena caleva bhūśca | evaṃ guṇaḥ prakṛtijairbhramato janasthaṃ satyaṃ vadedguṇasukhādidameva kṛṣṇa || 8 || duḥkhaṃ sukhañca manasā prabhavañca supte mithyā bhavetpunaraho bhuvi jāgare'sya | itthaṃ vivekaghaṭitasya janasya sarvaṃ svapnabhramādṛtajagatsatataṃ bhaveddhi || 9 || jñānī visṛjya mamatāmabhimānayogaṃ vairāgyabhāvarasikaḥ satataṃ nirīhaḥ | dīpena dīpakaśatañca yathā prajātaṃ paśyet tathā''tmavibhavaṃ bhuvi caikatattvam || 10 || bhakto bhajedajapatiṃ hṛdi vāsudevaṃ nirdhūmavahniriva muktaguṇasvabhāvaḥ | paśyan ghaṭeṣu sajaleṣu yathendumekaṃ etādṛśaḥ paramahaṃsavaraḥ kṛtārthaḥ || 11 || stuvanti vedāḥ satatañca yaṃ sadā harermahimnaḥ kila ṣoḍaśīṃ kalām | kadāpi jānanti na te triloke vaktuṃ guṇāṃstasya jano'sti kaḥ paraḥ || 12 || vaktraiścaturbhistvahameva devaḥ śrīpañcavaktraḥ kila pañcavaktraiḥ | sahasraśīrṣāstu sahasravaktraiḥ ya stauti sevāṃ kurute ca tasya || 13 || viṣṇuśca vaikuṇṭhanivāsakṛcca kṣirodavāsī harireva sākṣāt | nārāyaṇo dharmasutastathāpi golokanāthaṃ bhajate bhavantam || 14 || aho'tidhanyo mahimā murāre- rjānanti bhūmau munayo na mānavāḥ | surāsurā vā manavo budhāḥ punaḥ svapne'pi paśyanti na tatpadadvayam || 15 || varaṃ hariṃ guṇākaraṃ sumuktidaṃ parātparam | rameśvaraṃ guṇeśvaraṃ vrajeśvaraṃ namāmyaham || 16 || tāmbūlasundaramukhaṃ madhuraṃ bruvantaṃ bimbādharaṃ smitayutaṃ sitakundadantam | nīlālakāvṛtakapolamanoharābhaṃ vande calatkanakakuṇḍalamaṇḍanārham || 17 || sundaraṃ tu tava rūpameva hi manmathasya manaso haraṃ param āvirastu mama netrayoḥ sadā śyāmalaṃ makarakuṇḍalāvṛtam || 18 || vaikuṇṭhalīlāpravaraṃ manoharaṃ namaskṛtaṃ devagaṇaiḥ paraṃ varam | gopālalīlābhiyutaṃ bhajāmyahaṃ golokanāthaṃ śirasā namāmyaham || 19 || yuktaṃ vasantakalakaṇṭhavihaṃgamaiśca saugandhikaṃ tvaraṇapallavaśākhisaṃgam | vṛndāvanaṃ sudhitadhīrasamīralīlaṃ gacchan harirjayati pātu sadaiva bhaktān || 20 || harati kamalamānaṃ lolamuktābhimānaṃ dharaṇirasikadānaṃ kāmadevasya bāṇam | śravaṇaviditayānaṃ netrayugmaprayāṇaṃ bhaja yaduta samakṣaṃ dānadakṣaṃ kaṭākṣam || 21 || śaraccandrākāraṃ nakhamaṇisamūhaṃ sukhakaraṃ suraktaṃ hṛtpūrṇaṃ prakaṭitatamaḥkhaṇḍanakaram | bhaje'haṃ brahmāṇḍesakalanarapāpābhidalanaṃ harerviṣṇordevairdivi bharatakhaṇḍe stutamalam || 22 || mahāpadme kiṃ vā paridhiriva cābhāti satataṃ kadādityasphūrjadrathacaraṇa itthaṃ dhvanidharaḥ | yathā nyastaṃ cakraṃ śatakiraṇayuktaṃ tu hariṇā sphuracchrīmañjīraṃ haricaraṇapadme tvadhigatam || 23 || kaṭyāṃ pītāmbaraṃ divyaṃ kṣudraghaṇṭikayā'nvitam | bhajāmyahaṃ cittaharaṃ kṛṣṇasyākliṣṭakarmaṇaḥ || 24 || bhaje kṛṣṇakroḍe bhṛgumunipadaṃ śrīgṛhamalaṃ tathā śrīvatsāṅkaṃ nikaṣaruciyuktaṃ dyutiparam | gale hīrāhārān kanakamaṇimuktāvalidharān sphurat tārākārān bhramaravalibhārān dhvanikarān || 25 || vaṃśīvibhūṣitamalaṃ dvijadānaśīlaṃ siṃdrūravarṇamatikīcakarāvalīlam | hemāṃgulīyanikaraṃ nakhacaṃdrayuktaṃ hastadvayaṃ smara kadambasugandhapṛktam || 26 || śanaiścalan mānasarājahaṃsa- grīvākṛtau kandhara uccadeśe | kādambinīmānaharau karau ca bhajāmi nityaṃ harikākapakṣau || 27 || kaladarpaṇavadviśadaṃ sukhadaṃ navayauvanarūpadharaṃ nṛpatim | maṇikuṇḍalakuntalaśāliratiṃ bhaja gaṇḍayugaṃ ravicandrarucim || 28 || khacitakanakamuktā raktavaidūryavāsaṃ madanavadanalīlā sarvasaundaryarāsam | aruṇavidhusakāśaṃ koṭisūryaprakāśaṃ ghaṭitaśikhisuvīṭaṃ naumi viṣṇoḥ kirīṭam || 29 || yaddvārideśe na gatirguhendra gaṇeśatārīreśadivākarāṇām | ājñāṃ vinā yānti na kuñjamaṇḍalaṃ taṃ kṛṣṇacandraṃ jagadīśvaraṃ bhaje || 30 || (anuṣṭup) iti kṛtvā stutiṃ brahmā śrīkṛṣṇasya mahātmanaḥ | punaḥ kṛtāñjalirbhūtvā svavijñaptiṃ cakāra ha || 31 || aparādhaṃ tu putrasya mātṛvattvaṃ kṣamasva ca | ahaṃ tvannābhikamalātsambhavo'haṃ jagatpate || 32 || kāhaṃ lokapatiḥ kva tvaṃ koṭibrahmāṇḍanāyakaḥ | tasmādvrajapate deva rakṣa māṃ madhusūdana || 33 || māyayā yasya muhyanti devadaityanarādayaḥ | svamāyayā tanmohāya mūrkho'haṃ hyudyato'bhavam || 34 || nārāyaṇastvaṃ govinda nāhaṃ nārāyaṇo hare | brahmāṇḍaṃ tvaṃ vinirmāya śeṣe nārāyaṇaḥ purā || 35 || yasya śrībrahmaṇi dhāmni prāṇaṃ tyaktvā tu yoginaḥ | yatra yāsyanti tasmiṃstu sakulā pūtanā gatā || 36 || vatsānāṃ vatsapānāñca kṛtvā rūpāṇi mādhava | vicacāra vane tvaṃ tu hyaparādhānmama prabho || 37 || tasmātkṣamasva govinda prasīda tvaṃ mamopari | agaṇayyāparādhaṃ me sutopari pitā yathā || 38 || tvadabhaktā ratā jñāne teṣāṃ kleśo viśiṣyate | pariśramātkarṣakāṇāṃ yathā kṣetre tuṣārthinām || 39 || tvadbhaktibhāve niratā bahavastvadgatiṃ gatāḥ | yogino munayaścaiva tathā ye vrajavāsinaḥ || 40 || dvidhā ratirbhavedvarā śrutācca darśanācca vā | aho hare tu māyayā babhūva naiva me ratiḥ || 41 || ityuktvā'śrumukho bhūtvā natvā tatpādapaṃkajau | punarāha vidhiḥ kṛṣṇaṃ bhaktyā sarvaṃ kṣamāpayan || 42 || ghoṣeṣu vāsināmeṣāṃ bhūtvā'haṃ tvatpadāmbujam | yadā bhajeyaṃ sugatistadā bhūyānna cānyathā || 43 || vayaṃ tu gopadeheṣu saṃsthitāśca śivādayaḥ | sakṛtkṛṣṇaṃ tu paśyantastasmāddhanyāśca bhārate || 44 || ahobhāgyaṃ tu kṛṣṇasya mātāpitrostava prabho | tathā ca gopagopīnāṃ pūrṇastvaṃ dṛśyase vraje || 45 || muktāhāraḥ sarvaviśvopakāraḥ sarvādhāraḥ pātu māṃ viśvakāraḥ | līlāgāraṃ sūrikanyāvihāraḥ krīḍāpāraḥ kṛṣṇacandrāvatāraḥ || 46 || śrīkṛṣṇa vṛṣṇikulapuṣkara nandaputra rādhāpate madanamohana devadeva | saṃmohitaṃ vrajapate bhuvi te'jayā māṃ govinda gokulapate paripāhi pāhi || 47 || karoti yaḥ kṛṣṇahareḥ pradakṣiṇāṃ bhavejjgattīrthaphalaṃ ca tasya tu | te kṛṣṇalokaṃ sukhadaṃ parātparaṃ golokalokaṃ pravaraṃ gamiṣyati || 48 || śrīnārada uvāca - ityabhiṣṭūya govindaṃ śrīmadvṛndāvaneśvaram | natvā trivāraṃ lokeśaścakāra tu pradakṣiṇam || 49 || tatra cālakṣito bhūtvā netreṇājñāṃ dadau hariḥ | punaḥ praṇamya svaṃ lokamātmabhūḥ pratyapadyata || 51 || atha kṛṣṇo vanācchīghramānayāmāsa vatsakān | yatrāpi puline rājan gopānāṃ rājamaṃḍalī || 52 || gopārbhakāśca śrīkṛṣṇaṃ vatsaiḥ sārdhaṃ samāgatam | kṣaṇārdhaṃ menire vīkṣya kṛṣṇamāyāvimohitāḥ || 53 || ta ūcurvatsakaiḥ kṛṣṇa tvaraṃ tvaṃ tu samāgataḥ | kuruṣva bhojanaṃ cātra kenāpi na kṛtaṃ prabho || 54 || tataśca vihasan kṛṣṇo'bhyavahṛtyārbhakaiḥ saha | darśayāmāsa sarvebhyaścarmājagarameva ca || 55 || sāyaṃkāle sarāmastu kṛṣṇo gopaiḥ parāvṛtaḥ | agre kṛtvā vatsavṛndaṃ hyājagāma śanairvrajam || 56 || govatsakaiḥ sitasitāsitapītavarṇai raktādidhūmraharitairbahuśīlarūpaiḥ | gopālamaṇḍalagataṃ vrajapālaputraṃ vande vanāt sukhadagoṣṭhakamāvrajantam || 57 || ānando gopikānāṃ tu hyāsītkṛṣṇasya darśane | yāsāṃ yena vinā rājan kṣaṇo yugasamo'bhavat || 58 || kṛtvā goṣṭhe pṛthagvatsān bālāḥ svaṃ svaṃ gṛhaṃ gatāḥ | jaguścāghāsuravadhamātmano rakṣaṇaṃ hare || 59 ||
English translation
Praise to Lord Sri Krishna by Brahmaji
Brahmovacha Krishnaya Meghavapushe Chapalambaraya Piyushamistavachanaya Parataparaya. Vamshidharaya Shikichandrakayanvitaya Devaya was a brother-in-law of Namostu. .
Brahma said, "Salutations are due to Lord Krishna, who wears an electric-coloured garment with a cloud-like kanti, who speaks a sweet voice like nectar, who is transcendent, who has a lineage, who wears a peacock feather, along with his brother Balarama. Sri Krishna (You) is the Supreme Personality of Godhead, the Supreme Personality of Godhead, transcendent of nature. You have accepted to be the son of Nanda at Gharadham, having directly descended in the form of Krishna Chandra, the part and parcel of whom we are the gods, by whose power we create, nurture, and destroy the universe respectively. You have been living in Vrindavan in the guise of a cowherd with the chiefly cowherd children. Like crores of Kamadevas, I bow to the beautiful, radiant, Kaustubhdhari, the dark-skinned, the brass-clad, the Vamshidhar, the Vrajesh, the Radhikapati, the Nikunj-Vihari Paramasundara Sriharika. I salute the Adi Deva Hariki, who is in the form of Kshetra Jnana in the body of celestial beings detached from the clouds, who are Adhyajna and Chaitya, who are devoid of Maya and who are derived from pure devotion and strong renunciation, etc. The omniscient one! At the same time as strong emotions arise in the mind, the mind begins to make choices. Pride originates in the subjugated mind of the will-choice, and that pride gradually distorts the intellect. The joys of the world are false, like the fleeting lightning, like the changing seasons, like the line drawn on the water, like the coals produced by the vampire, and like the love of the deceitful traveler. Subject-such pleasures are surrounded by sorrows and are alatkravata (similar to the transient circle formed when a burning ember rotates in a circular motion). Just as the trees seem to move without moving, because of the light, the immovable earth also seems to move when the eyes are moved with speed, Krsna! In the same way, by subjugating the qualities produced by nature, the illusory being accepts that natural pleasure as true. Pleasures and sorrows arise, disappear during sleep, and are experienced again upon awakening. For those who possess this kind of discernment, it is akin to the illusion of a state of self transcending the world. Wise men, having renounced affection and pride, are always fond of detachment and calm. Just as hundreds of lamps are produced by one lamp, everything has been produced by one God - such is His philosophical vision. . 1-10 | (Vrindavan Khand Chapter 6 to 10)
"Devotees worship Lord Vasudeva, the lord of Brahma at heart, free from virtue and self-sacrificing like the flame of fire. Just as we see the same crescent moon in many waters, the Supreme Being is also grateful by seeing the unity of the soul. Who else could describe the virtues of Sri Hari in Triloki when the Vedas, despite their constant praise, could never attain the knowledge of even the sixteenth part of their Mahatya? I, the four-faced, Devadhidev Mahadevji, the five-faced, and the thousand-faced Sheshji, with their thousand faces, praise and serve you; Vishnu, the resident of Vaikuntha; Hari, the sage of Kshirodashayi; and Narayana, the sage of Dharmasuta, the lord of Golokapati. Aha! Murare! Blessed is Thy glory. Neither the sages nor the humans know the glory on the ground floor. Sura-asura and the fourteen Manu are also unable to know him. All of them are unable to get a glimpse of your lotus even in a dream. I salute Gunonaka Sagar, Muktidata, Paratapara, Ramapati, Gunesh, Brajeshwara Sriharika. I salute Lord Krishna, adorned with a tambool-rung face, sweet-spoken, red-red lips like a ripe fig, smiling, radiant with an auspicious toothpick like a kundakali, forehead-dwelling with blue areas, enchanting-kanti, and wrapped in swinging golden coils. Your most beautiful form is going to beat even Manmath's heart. May my eyes always be illuminated by that form of dark-skinned Sri Krishna with the Makarkundal. I bow to Goloknath, the cowherd, whose lila is superior to the Vaikuntha-lila, and whose most exalted form of grace is also saluted by the gods. Hail to Lord Krishna, who wanders through Vrindavan, adorned with beautiful spring-necked cuckoo-like birds, fragrant, new Pallava-like trees, cool like Sudha, slow (slow) windy games. May they always protect the devotees. 11-20 | (Vrindavan Khand Chapter 6 to 10)
"Your large eyes and their diagonal Chitwan are the pride of lotus flowers and the pride of swinging beads, bestow the Rasaka on all the enthusiasts on the ground floor, and are as adept as Kamadeva's arrows at bestowing the Peni and Preeti. I worship those whose nakhmas are as dry as the autumn moon, safe, heartless, destroyer of deep darkness, and destroyer of sins of all beings in the world, and whom the heavenly pantheon exalts as the nakhawali of Vishnu and Hariki. The ever-playing pajinis of your footpaths, shaped like a chakra (Sudarshan) with hundreds of rays of Sriharika, are such that the rays emanate like a circular circle, like the circumference of a chariot wheel illuminated by the sun, or which is decorated like the perimeter of your footpaths. Your waist is illuminated by the divine Pitambara with tiny bells. I worship that graceful form of Lord Krishna (You), the Akalistakarma. Lakshmi revels in the vast thorax painted with vibrant criterion-like and Bhrigupad necklaces adorned with gold and pearl necklaces, twinkling lights like stars, and diamond necklaces with the sound of illusions, playing the Vamsi with beautiful vermilion-colored fingers, adorned with gold rings on their fingers, whose hands are endowed with dvijonas, claws like the moon, and fragrant with the fragrance of the kadamba trees of Kamadeva's forest, whose slow pace is as beautiful as that of a swan, whose shoulders are as high as the necklace, robbing Srihari of the garland of clouds. I remember those two elbows, as pure as a clear mirror, as pleasant, as youthful with radiance, as protectors of men and adorned with gem-coils and beautiful curly hair, as bright as the green sun and moon. I bow to the crown of Lord Krishna, which is made of gold and pearls and a red cloth adorned with Vaidyurimani, adorned with all the beauty that plays on the face of Kamadeva, who is as radiant as Aruna-Kanti, the moon, and millions of suns, and adorned with peacock feathers. I worship Jagadeeshwara Srikrishna Chandra, at whose doorstep there is no movement of Swamikartikeya, Ganesha, Indra, Chandra and Surya; without whose command no one can enter the park. . " 21-30 |
Brahmaji thus praised Lord Krishna and again joined hands and said - 'Lord of the Universe.' I am born of your umbilical cord; therefore, as a mother forgives the sins of her son, so may you also forgive my sins. It's frustrating! Where I am the ruler of one world and where you are the hero of millions of universes. So Brajesh, Madhusudan! Oh God! You protect me. I was foolish enough to seduce the gods, demons, and humans with my own delusions. Govinda you are Narayana, I am not Narayana. Hari! You became Seshashayi in the form of Narayana by creating the universe in the beginning of Kalpaka. Balaghatini Putana, the Brahma form in which the yogi renounces his soul, is also imbued with the same aura of yours along with his clan. Madhava! You roamed in the forests in the form of cow-slaughterers and cow-boys because of my own crime. So that's it. You will have to forgive me. Govinda! Mayst thou be pleased with me by the neglect of my transgressions, as a father does not see the transgressions of his son. Those who engage in knowledge without being your devotees suffer, just as those who laboriously till the fields for hay receive only land. You have received many yogis, sages, and celibates who have remained steadfast in your devotion. There are two kinds of love between them - sight and hearing, but oh! I did not have a crush on him because of the illusion of Srihariki. " 31-41 | (Vrindavan Khand Chapter 6 to 10)
With tears streaming down his eyes, Brahma bowed to his (Krishna's) feet, and with devotion, he pleaded with Krishna to forgive all sins. "May I be born in the Gopa clan and worship your feet and attain prosperity, do not be against it. We were blessed when Lord Shankara, the god of the senses, sat in the body of these Gopas in India and had a darshan of Lord Krishna once. Lord Krishna! What an indescribable privilege it is to have your parents and gopis who are seeing your full form in Vraj. May the Lord protect me, the benefactor of the whole world, the one who wears the Muktahara, the creator of the universe, Sarvadhara, the abode of Lila, Ravitana or those who roam in the Yamuna, Kridaparayana, the incarnation of Shri Krishna Chandra. May the lotus-shaped Nanda-Nandana, Radhapati, Deva-Deva, Madanmohan, Vrajapati, Gokulapati, Govinda of Vrishnikularoop Sarovar protect me from delusions. A person who circumambulates Lord Krishna receives the fruits of his journey to all the pilgrimages of the world. He goes to a place called Goloka, your delightful abode. . " 42-48. .
Naradji began to say - "Lokapati Lok-Pitamaha Brahma thus bowed in praise of Govinda, the lord of beautiful Vrindavan, circumambulated him three times, disappeared for a while, and prayed for permission to return with a boon to Govatsa and Gopa-Bulaks." . 49-50 | (Vrindavan Khand Chapter 6 to 10)
Srihari then ordered them to leave by eye signal. Lokapitamaha Brahma also bowed down again and left for his Loka. The king! Lord Krishna then hurriedly brought the cowherd and the cowherd children from the forest and took them to the place where the Gopamandali was stationed on the Yamuna. Seeing Krishna, who had returned with the cowherds, his dejected gopas understood half the time as it was. They came with cowherds and said to Lord Krishna, 'Come quickly and eat. O Lord! No one ate because of you leaving. 'Sri Krishna then laughed and ate with the children and showed the children the skin of a python. Subsequently, Krishna, surrounded by Gopas along with Balaramji, moved ahead of Vatsvrinda and slowly returned to Vraja. I bow to Nandanandan in the midst of the Gopamandali, returning slowly from the pleasant forest to Goshtha, holding forth the cowherds of many colors and temperaments, such as white, pink, red, yellow, purple, and green. The king! In the separation of Krishna, the gopis found bliss in the vision of those who felt the momentary time was equal to the age. The children went to their respective homes and tied up different calves in groups to narrate the story of Aghasura's slaying and Sriharidra's self-defense. 51-59 |
Thus, the ninth chapter titled 'Praise to Lord Krishna by Brahma' was completed under the Sri Vrindavan Khanda in the Srigarghasamhita. 9.
Complete chapter-aligned witnesses. Sanskrit Wikisource page 25080, revision 92551 (2016-11-28T09:34:43Z). English was rendered from the complete Hindi chapter at https://www.mahakavya.com/vrindavan-khand-chapter-6-to-10/ as a transparent machine-assisted translation using the pinned IndicTrans2 Indic–English Distilled 200M model and retained without claiming verse-by-verse alignment.