Skip to main content

Goloka-khaṇḍa · Chapter 15

Chapter 15

Unit 15 of 263Goloka-khaṇḍa · Chapter 15Goloka-khaṇḍa · Chapter 151 source entries

Goloka-khaṇḍa · Chapter 15

Source

प्रेंखे हरिं कनकरत्‍नमये शयानं श्यामं शिशुं जनमनोहरमन्दहासम् । दृष्ट्यार्तिहारि मषिबिंदुधरं यशोदा स्वांके चकार धृतकज्जलपद्मनेत्रम् ॥ १ ॥ पादं पिबंतमतिचंचलमद्‌भुतांगं वक्त्रैर्विनीलनवकोमलकेशबंधैः । श्रीमन्नृकेशरिनखस्फुरदरर्द्धचन्द्रं तं लालयन्त्यतिघृणा मुदमाप गोपी ॥ २ ॥ बालस्य पीतपयसो नृप जृम्भितस्य तत्त्वानि चास्य वदने सकलेऽविराजन् । माता सुराधिपमुखैः प्रयुतं च सर्वं दृष्ट्वा परं भयमवाप निमीलिताक्षी ॥ ३ ॥ राजन्परस्य परिपूर्णतमस्य साक्षा- त्कृष्णस्य विश्वमखिलं कपटेन सा हि । नष्टस्मृतिः पुनरभूत्स्वसुते घृणार्ता किं वर्णयामि सुतपो बहु नंदपत्‍न्याः ॥ ४ ॥ श्रीबहुलाश्व उवाच - नंदो यशोदया सार्द्धं किं चकार तपो महत् । येन श्रीकृष्णचन्द्रोऽपि पुत्रीभूतो बभूव ह ॥ ५ ॥ श्रीनारद उवाच - अष्टानां वै वसूनां च द्रोणो मुख्यो धरापतिः । अनपत्यो विष्णुभक्तो देवराज्यं चकार ह ॥ ६ ॥ एकदा पुत्रकांक्षी च ब्रह्मणा नोदितो नृप । मंदराद्रिं गतस्तप्तुं धरया भार्यया सह ॥ ७ ॥ कंदमूलफलाहारौ ततः पर्णाशनौ ततः । जलभक्षौ ततस्तौ तु निर्जलौ निर्जने स्थितौ ॥ ८ ॥ वर्षाणामर्बुदे याते तपस्तत्तपतोर्द्वयोः । ब्रह्मा प्रसन्नस्तावेत्य वरं ब्रूहीत्युवाच ह ॥ ९ ॥ वल्मीकान्निर्गतो द्रोणो धरया भर्यया सह । नत्वा विधिं च संपूज्य हर्षितः प्राह तं प्रभुम् ॥ १० ॥ श्रीद्रोण उवाच - परिपूर्णतमे कृष्णे पुत्रीभूते जनार्दने । भक्तिः स्यादावयोर्ब्रह्मन्सततं प्रेमलक्षणा ॥ ११ ॥ ययाञ्जसा तरंतीह दुस्तरं भवसागरम् । नान्यं वरं वांछितं स्यादावयोस्तपतोर्विधे ॥ १२ ॥ श्रीब्रह्मोवाच - युवाभ्यं याचितं यन्मे दुर्घटं दुर्लभं वरम् । तथापि भूयात्सफलं युवयोरन्यजन्मनि ॥ १३ ॥ श्रीनारद उवाच - द्रोणो नंदोऽभवद्‌भूमौ यशोदा सा धरा स्मृता । कृष्णो ब्रह्मवचः कर्तुं प्राप्तो घोषे पितुः पुरात् ॥ १४ ॥ सुधाखंडात्परं मिष्टं श्रीकृष्णचरितं शुभम् । गंधमादनशृङ्गे वै नारायणमुखाच्छ्रुतम् ॥ १५ ॥ कृपया च कृतार्थोऽहं नरनारायणस्य च । मया तुभ्यं च कथितं किं भूयः श्रोतुमिच्छसि ॥ १६ ॥ श्रीबहुलाश्व उवाच - नंदगेहे हरिः साक्षाच्छिशुरूपः सनातनः । किं चकार बलेनापि तन्मे ब्रूहि महामुने ॥ १७ ॥ श्रीनारद उवाच - एकदा शिष्यसहोतो गर्गाचार्यो महामुनिः । शौरिणा नोदितः साक्षादाययौ नंदमंदिरम् ॥ १८ ॥ नंदः संपूज्य विधिवत्पाद्याद्यैर्मुनिसत्तमम् । ततः प्रदक्षिणीकृत्य साष्टांगं प्रणनाम ह ॥ १९ ॥ श्रीनन्द उवाच - अद्य नः पितरो देवाः संतुष्टा अग्नयश्च नः । पवित्रं मंदिरं जातं युष्मच्चरणरेणुभिः ॥ २० ॥ मत्पुत्रनामकरणं कुरु द्विज महामुने । पुण्यैस्तीर्थैश्च दुष्प्राप्यं भवदागमनं प्रभो ॥ २१ ॥ श्रीगर्ग उवाच - ते पुत्रनामकरणं करिष्यामि न संशयः । पूर्ववार्तां गदिष्यामि गच्छ नंद रहःस्थलम् ॥ २२ ॥ श्रीनारद उवाच - उत्थाप्य गर्गो नन्देन बालाभ्यां च यशोदया । एकांते गोव्रजे गत्वा तयोर्नाम चकार ह ॥ २३ ॥ संपूज्य गणनाथादीन् ग्रहान्संशोध्य यत्‍नतः । नंदं प्राह प्रसन्नांगो गर्गाचार्यो महामुनिः ॥ २४ ॥ रोहिणीनंदनस्यास्य नामोच्चारं शृणुष्व च । रमन्ते योगिनो ह्यस्मिन्सर्वत्र रमतीति वा ॥ २५ ॥ गुणैश्च रमयन् भक्ताण्स्तेन रामं विदुः परे । गर्भसंकर्षणादस्य संकर्षण इति स्मृतः ॥ २६ ॥ सर्वावशेषाद्यं शेषं बलाधिक्याद्‌बलं विदुः । स्वपुत्रस्यापि नामानि शृणु नंद ह्यतन्द्रितः ॥ २७ ॥ सद्यः प्राणिपवित्राणि जगतां मंगलानि च । ककारः कमलाकांत ऋकारो राम इत्यपि ॥ २८ ॥ षकारः षड्‍गुणपतिः श्वेतद्वीपनिवासकृत् । णकारो नारसिंहोऽयमकारो ह्यक्षरोऽग्निभुक् ॥ २९ ॥ विसर्गौ च तथा ह्येतौ नरनारायणावृषी । संप्रलीनाश्च षट् पूर्णा यस्मिञ्छुद्धे महात्मनि ॥ ३० ॥ परिपूर्णतमे साक्षात्तेन कृष्णः प्रकीर्तितः । शुक्लो रक्तस्तथा पीतो वर्णोऽस्यानुयुगं धृतः ॥ ३१ ॥ द्वापरान्ते कलेरादौ बालोऽयं कृष्णतां गतः । तस्मात्कृष्ण इति ख्यातो नाम्नायं नंदनंदनः ॥ ३२ ॥ वसवश्चेंद्रियाणीति तद्देवश्चित्तमेव हि । तस्मिन्यश्चेष्टते सोऽपि वासुदेव इति स्मृतः ॥ ३३ ॥ वृषभानुसुता राधा या जाता कीर्तिमंदिरे । तस्याः पतिरयं साक्षात्तेन राधापतिः स्मृतः ॥ ३४ ॥ परिपूर्णतमः साक्षाच्छ्रीकृष्णो भगवान्स्वयम् । असंख्यब्रह्माण्डपतिः गोलोके धाम्नि राजते ॥ ३५ ॥ सोऽयं तव शिशुर्जातो भारावतरणाय च । कंसादीनां वधार्थाय भक्तानां रक्षणाय च ॥ ३६ ॥ अनंतान्यस्य नामानि वेदगुह्यानि भारत । लीलाभिश्च भविष्यंति तत्कर्मसु न विस्मयः ॥ ३७ ॥ अहोभाग्यं तु ते नंद साक्षाच्छ्रीपुरुषोत्तमः । त्वद्‌गृहे वर्तमानोऽयं शिशुरूपः परात्परः ॥ ३८ ॥ इत्युक्त्वाथ गते गर्गे स्वात्मानं पूर्णमाशिषाम् । मेने प्रमुदितः पत्‍न्या नंदराजो महामतिः ॥ ३९ ॥ अर्थ गर्गो ज्ञानिवरो ज्ञानदो मुनिसत्तमः । कालिंदीतीरशोभाढ्यां वृषभानुपुरं गतः ॥ ४० ॥ छत्रेण शोभितं विप्रं द्वितीयमिव वासवम् । दंडेन राजितं साक्षाद्धर्मराजमिव स्थितम् ॥ ४१ ॥ तेजसा द्योतितदिशं साक्षात्सूर्यमिवापरम् । पुस्तकीमेखलायुक्तं द्वितीयमिव पद्मजम् ॥ ४२ ॥ शोभितं शुक्लवासोभिर्देवं विष्णुमिव स्थितम् । तं दृष्ट्वा मुनिशार्दूलं सहसोत्थाय सादरम् ॥ ४३ ॥ प्रणम्य शिरसा सद्यः संमुखोऽभूत् कृतांजलिः । मुनिं च पीठके स्थाप्य पाद्याद्यैरुपचारवित् ॥ ४४ ॥ पूजयामास विधिवच्छ्रीगर्गं ज्ञानिनां वरम् । ततः प्रदक्षिणीकृत्य वृषभानुवरो महान् ॥ ४५ ॥ श्रीवृषभानुरुवाच - सतां पर्यटनं शांतं गृहिणां शांतये स्मृतम् । नृणामंतस्तमोहारी साधुरेव न भास्करः ॥ ४६ ॥ तीर्थीभूता वयं गोपा जातास्त्वद्दर्शनात्प्रभो । तीर्थानि तीर्थीकुर्वंति त्वादृशाः साधवः क्षितौ ॥ ४७ ॥ हे मुने राधिकानाम कन्या मे मंगलायना । कस्मै वराय दातव्या वद त्वं मे सुनिश्चितम् ॥ ४८ ॥ त्वं पर्यटन्नर्क इव त्रिलोकीं दिव्यदर्शनः । वरोऽनया समो यो वै तस्मै दास्यामि कन्यकाम् ॥ ४९ ॥ श्रीनारद उवाच - हस्तं गृहीत्वा श्रीगर्गो वृषभानोर्महामुनिः । जगाम यमुनातीरं निर्जनं सुंदरस्थलम् ॥ ५० ॥ कालिन्दीजलकल्लोककोलाहलसमाकुलम् । तत्रोपवेश्य गोपेशं मुनींद्रः प्राह धर्मवित् ॥ ५१ ॥ श्रीगर्ग उवाच - हे गोप गुप्तमाख्यानं कथनीयं न च त्वया । परिपूर्णतमः साक्षाच्छ्रीकृष्णो भगवान्स्वयम् ॥ ५२ ॥ असंख्यब्रह्मांडपतिर्गोलोकेशः परात्परः । तस्मात्परो वरो नास्ति जातो नंदगृहे पतिः ॥ ५३ ॥ श्रीवृषभानुरुवाच - अहोभाग्यमहोभाग्यं नंदस्यापि महामुने । श्रीकृष्णस्यावतारस्य सर्वं त्वं वद कारणम् ॥ ५४ ॥ श्रीगर्ग उवाच - भुवो भारावताराय कंसादीनां वधाय च । ब्रह्मणा प्राथितः कृष्णो बभूव जगतीतले ॥ ५५ ॥ श्रीकृष्णपट्टराज्ञी या गोलोके राधिकाभिधा । त्वद्‌गृहे सापि संजाता त्वं न जानासि तां पराम् ॥ ५६ ॥ श्रीनारद उवाच - तदा प्रहर्षितो गोपो वृषभानुः सुविस्मितः । कलावतीं समाहूय तया सार्द्धं विचार्य च ॥ ५७ ॥ राधाकृष्णानुभावं च ज्ञात्वा गोपवरः परः । आनंदाश्रुकलां मुंचन्पुनराह महामुनिम् ॥ ५८ ॥ श्रीवृषभानुरुवाच - तस्मै दास्यामि हे ब्रह्मन् कन्यां कमललोचनाम् । त्वया पंथा दर्शितो मे त्वया कार्योऽयमुद्वहः ॥ ५९ ॥ श्रीगर्ग उवाच - अहं न कारयिष्यामि विवाहमनयोर्नृप । तयोर्विवाहो भविता भांडीरे यमुनातटे ॥ ६० ॥ वृंदावनसमीपे च निर्जने सुंदरस्थले । परमेष्ठी समागत्य विवाहं कारयिष्यति ॥ ६१ ॥ तस्माद्‌राधां गोपवर विद्ध्यर्धांगीं वरस्य च । लोके चूडामणिः साक्षाद्‌राज्ञीं गोलोकमंदिरे ॥ ६२ ॥ यूयं सर्वेऽपि गोपाला गोलोकादागता भुवि । तथा गोपीगणा गोपा गोलोके राधिकेच्छया ॥ ६३ ॥ यद्दर्शनं दुर्लभमेव दुर्घटं देवैश्च यज्ञैर्न च जन्मभिः किमु । सविग्रहां तां तव मंदिराजिरे लक्ष्यंति गुप्तां बहुगोपगोपिकाः ॥ ६४ ॥ श्रीनारद उवाच - तदा च विस्मितौ राजन् दंपती हर्षितौ परम् । राधाकृष्णप्रभावं च श्रुत्वा श्रीगर्गमूचतुः ॥ ६५ ॥ दंपती ऊचतुः - राधाशब्दस्य हे ब्रह्मन् व्याख्यानं वद तत्त्वतः । त्वत्तो न संशयच्छेत्ता कोऽपि भूमौ महामुने ॥ ६६ ॥ श्रीगर्ग उवाच - सामवेदस्य भावार्थं गंधमादनपर्वते । शिष्येणापि मया तत्र नारायणमुखाच्छ्रुतम् ॥ ६७ ॥ रमया तु रकारः स्यादाकारस्त्वादिगोपिका । धकारो धरया हि स्यादाकारो विरजा नदी ॥ ६८ ॥ श्रीकृष्णस्य परस्यापि चतुर्द्धा तेजसोऽभवत् । लीलाभूः श्रीश्च विरजा चतस्रः पत्‍न्य एव हि ॥ ६९ ॥ संप्रलीनाश्च ताः सर्वा राधायां कुंजमंदिरे । परिपूर्णतमां राधां तस्मादाहुर्मनिषिणः ॥ ७० ॥ श्रीनारद उवाच - राधाकृष्णेति हे गोप ये जपंति पुनः पुनः । चतुष्पदार्थं किं तेषां साक्षात्कृष्णोऽपि लभ्यते ॥ ७१ ॥ तदातिविस्मितो राजन् वृषभानुः प्रियायुतः । राधाकृष्णप्रभावं तं ज्ञात्वाऽऽनंदमयो ह्यभूत् ॥ ७२ ॥ इत्थं गर्गो ज्ञानिवरः पूजितो वृषभानुना । जगाम स्वगृहं साक्षान्मुनीन्द्रः सर्ववित्कविः ॥ ७३ ॥

preṃkhe hariṃ kanakarat‍namaye śayānaṃ śyāmaṃ śiśuṃ janamanoharamandahāsam | dṛṣṭyārtihāri maṣibiṃdudharaṃ yaśodā svāṃke cakāra dhṛtakajjalapadmanetram || 1 || pādaṃ pibaṃtamaticaṃcalamad‌bhutāṃgaṃ vaktrairvinīlanavakomalakeśabaṃdhaiḥ | śrīmannṛkeśarinakhasphuradararddhacandraṃ taṃ lālayantyatighṛṇā mudamāpa gopī || 2 || bālasya pītapayaso nṛpa jṛmbhitasya tattvāni cāsya vadane sakale'virājan | mātā surādhipamukhaiḥ prayutaṃ ca sarvaṃ dṛṣṭvā paraṃ bhayamavāpa nimīlitākṣī || 3 || rājanparasya paripūrṇatamasya sākṣā- tkṛṣṇasya viśvamakhilaṃ kapaṭena sā hi | naṣṭasmṛtiḥ punarabhūtsvasute ghṛṇārtā kiṃ varṇayāmi sutapo bahu naṃdapat‍nyāḥ || 4 || śrībahulāśva uvāca - naṃdo yaśodayā sārddhaṃ kiṃ cakāra tapo mahat | yena śrīkṛṣṇacandro'pi putrībhūto babhūva ha || 5 || śrīnārada uvāca - aṣṭānāṃ vai vasūnāṃ ca droṇo mukhyo dharāpatiḥ | anapatyo viṣṇubhakto devarājyaṃ cakāra ha || 6 || ekadā putrakāṃkṣī ca brahmaṇā nodito nṛpa | maṃdarādriṃ gatastaptuṃ dharayā bhāryayā saha || 7 || kaṃdamūlaphalāhārau tataḥ parṇāśanau tataḥ | jalabhakṣau tatastau tu nirjalau nirjane sthitau || 8 || varṣāṇāmarbude yāte tapastattapatordvayoḥ | brahmā prasannastāvetya varaṃ brūhītyuvāca ha || 9 || valmīkānnirgato droṇo dharayā bharyayā saha | natvā vidhiṃ ca saṃpūjya harṣitaḥ prāha taṃ prabhum || 10 || śrīdroṇa uvāca - paripūrṇatame kṛṣṇe putrībhūte janārdane | bhaktiḥ syādāvayorbrahmansatataṃ premalakṣaṇā || 11 || yayāñjasā taraṃtīha dustaraṃ bhavasāgaram | nānyaṃ varaṃ vāṃchitaṃ syādāvayostapatorvidhe || 12 || śrībrahmovāca - yuvābhyaṃ yācitaṃ yanme durghaṭaṃ durlabhaṃ varam | tathāpi bhūyātsaphalaṃ yuvayoranyajanmani || 13 || śrīnārada uvāca - droṇo naṃdo'bhavad‌bhūmau yaśodā sā dharā smṛtā | kṛṣṇo brahmavacaḥ kartuṃ prāpto ghoṣe pituḥ purāt || 14 || sudhākhaṃḍātparaṃ miṣṭaṃ śrīkṛṣṇacaritaṃ śubham | gaṃdhamādanaśṛṅge vai nārāyaṇamukhācchrutam || 15 || kṛpayā ca kṛtārtho'haṃ naranārāyaṇasya ca | mayā tubhyaṃ ca kathitaṃ kiṃ bhūyaḥ śrotumicchasi || 16 || śrībahulāśva uvāca - naṃdagehe hariḥ sākṣācchiśurūpaḥ sanātanaḥ | kiṃ cakāra balenāpi tanme brūhi mahāmune || 17 || śrīnārada uvāca - ekadā śiṣyasahoto gargācāryo mahāmuniḥ | śauriṇā noditaḥ sākṣādāyayau naṃdamaṃdiram || 18 || naṃdaḥ saṃpūjya vidhivatpādyādyairmunisattamam | tataḥ pradakṣiṇīkṛtya sāṣṭāṃgaṃ praṇanāma ha || 19 || śrīnanda uvāca - adya naḥ pitaro devāḥ saṃtuṣṭā agnayaśca naḥ | pavitraṃ maṃdiraṃ jātaṃ yuṣmaccaraṇareṇubhiḥ || 20 || matputranāmakaraṇaṃ kuru dvija mahāmune | puṇyaistīrthaiśca duṣprāpyaṃ bhavadāgamanaṃ prabho || 21 || śrīgarga uvāca - te putranāmakaraṇaṃ kariṣyāmi na saṃśayaḥ | pūrvavārtāṃ gadiṣyāmi gaccha naṃda rahaḥsthalam || 22 || śrīnārada uvāca - utthāpya gargo nandena bālābhyāṃ ca yaśodayā | ekāṃte govraje gatvā tayornāma cakāra ha || 23 || saṃpūjya gaṇanāthādīn grahānsaṃśodhya yat‍nataḥ | naṃdaṃ prāha prasannāṃgo gargācāryo mahāmuniḥ || 24 || rohiṇīnaṃdanasyāsya nāmoccāraṃ śṛṇuṣva ca | ramante yogino hyasminsarvatra ramatīti vā || 25 || guṇaiśca ramayan bhaktāṇstena rāmaṃ viduḥ pare | garbhasaṃkarṣaṇādasya saṃkarṣaṇa iti smṛtaḥ || 26 || sarvāvaśeṣādyaṃ śeṣaṃ balādhikyād‌balaṃ viduḥ | svaputrasyāpi nāmāni śṛṇu naṃda hyatandritaḥ || 27 || sadyaḥ prāṇipavitrāṇi jagatāṃ maṃgalāni ca | kakāraḥ kamalākāṃta ṛkāro rāma ityapi || 28 || ṣakāraḥ ṣaḍ‍guṇapatiḥ śvetadvīpanivāsakṛt | ṇakāro nārasiṃho'yamakāro hyakṣaro'gnibhuk || 29 || visargau ca tathā hyetau naranārāyaṇāvṛṣī | saṃpralīnāśca ṣaṭ pūrṇā yasmiñchuddhe mahātmani || 30 || paripūrṇatame sākṣāttena kṛṣṇaḥ prakīrtitaḥ | śuklo raktastathā pīto varṇo'syānuyugaṃ dhṛtaḥ || 31 || dvāparānte kalerādau bālo'yaṃ kṛṣṇatāṃ gataḥ | tasmātkṛṣṇa iti khyāto nāmnāyaṃ naṃdanaṃdanaḥ || 32 || vasavaśceṃdriyāṇīti taddevaścittameva hi | tasminyaśceṣṭate so'pi vāsudeva iti smṛtaḥ || 33 || vṛṣabhānusutā rādhā yā jātā kīrtimaṃdire | tasyāḥ patirayaṃ sākṣāttena rādhāpatiḥ smṛtaḥ || 34 || paripūrṇatamaḥ sākṣācchrīkṛṣṇo bhagavānsvayam | asaṃkhyabrahmāṇḍapatiḥ goloke dhāmni rājate || 35 || so'yaṃ tava śiśurjāto bhārāvataraṇāya ca | kaṃsādīnāṃ vadhārthāya bhaktānāṃ rakṣaṇāya ca || 36 || anaṃtānyasya nāmāni vedaguhyāni bhārata | līlābhiśca bhaviṣyaṃti tatkarmasu na vismayaḥ || 37 || ahobhāgyaṃ tu te naṃda sākṣācchrīpuruṣottamaḥ | tvad‌gṛhe vartamāno'yaṃ śiśurūpaḥ parātparaḥ || 38 || ityuktvātha gate garge svātmānaṃ pūrṇamāśiṣām | mene pramuditaḥ pat‍nyā naṃdarājo mahāmatiḥ || 39 || artha gargo jñānivaro jñānado munisattamaḥ | kāliṃdītīraśobhāḍhyāṃ vṛṣabhānupuraṃ gataḥ || 40 || chatreṇa śobhitaṃ vipraṃ dvitīyamiva vāsavam | daṃḍena rājitaṃ sākṣāddharmarājamiva sthitam || 41 || tejasā dyotitadiśaṃ sākṣātsūryamivāparam | pustakīmekhalāyuktaṃ dvitīyamiva padmajam || 42 || śobhitaṃ śuklavāsobhirdevaṃ viṣṇumiva sthitam | taṃ dṛṣṭvā muniśārdūlaṃ sahasotthāya sādaram || 43 || praṇamya śirasā sadyaḥ saṃmukho'bhūt kṛtāṃjaliḥ | muniṃ ca pīṭhake sthāpya pādyādyairupacāravit || 44 || pūjayāmāsa vidhivacchrīgargaṃ jñānināṃ varam | tataḥ pradakṣiṇīkṛtya vṛṣabhānuvaro mahān || 45 || śrīvṛṣabhānuruvāca - satāṃ paryaṭanaṃ śāṃtaṃ gṛhiṇāṃ śāṃtaye smṛtam | nṛṇāmaṃtastamohārī sādhureva na bhāskaraḥ || 46 || tīrthībhūtā vayaṃ gopā jātāstvaddarśanātprabho | tīrthāni tīrthīkurvaṃti tvādṛśāḥ sādhavaḥ kṣitau || 47 || he mune rādhikānāma kanyā me maṃgalāyanā | kasmai varāya dātavyā vada tvaṃ me suniścitam || 48 || tvaṃ paryaṭannarka iva trilokīṃ divyadarśanaḥ | varo'nayā samo yo vai tasmai dāsyāmi kanyakām || 49 || śrīnārada uvāca - hastaṃ gṛhītvā śrīgargo vṛṣabhānormahāmuniḥ | jagāma yamunātīraṃ nirjanaṃ suṃdarasthalam || 50 || kālindījalakallokakolāhalasamākulam | tatropaveśya gopeśaṃ munīṃdraḥ prāha dharmavit || 51 || śrīgarga uvāca - he gopa guptamākhyānaṃ kathanīyaṃ na ca tvayā | paripūrṇatamaḥ sākṣācchrīkṛṣṇo bhagavānsvayam || 52 || asaṃkhyabrahmāṃḍapatirgolokeśaḥ parātparaḥ | tasmātparo varo nāsti jāto naṃdagṛhe patiḥ || 53 || śrīvṛṣabhānuruvāca - ahobhāgyamahobhāgyaṃ naṃdasyāpi mahāmune | śrīkṛṣṇasyāvatārasya sarvaṃ tvaṃ vada kāraṇam || 54 || śrīgarga uvāca - bhuvo bhārāvatārāya kaṃsādīnāṃ vadhāya ca | brahmaṇā prāthitaḥ kṛṣṇo babhūva jagatītale || 55 || śrīkṛṣṇapaṭṭarājñī yā goloke rādhikābhidhā | tvad‌gṛhe sāpi saṃjātā tvaṃ na jānāsi tāṃ parām || 56 || śrīnārada uvāca - tadā praharṣito gopo vṛṣabhānuḥ suvismitaḥ | kalāvatīṃ samāhūya tayā sārddhaṃ vicārya ca || 57 || rādhākṛṣṇānubhāvaṃ ca jñātvā gopavaraḥ paraḥ | ānaṃdāśrukalāṃ muṃcanpunarāha mahāmunim || 58 || śrīvṛṣabhānuruvāca - tasmai dāsyāmi he brahman kanyāṃ kamalalocanām | tvayā paṃthā darśito me tvayā kāryo'yamudvahaḥ || 59 || śrīgarga uvāca - ahaṃ na kārayiṣyāmi vivāhamanayornṛpa | tayorvivāho bhavitā bhāṃḍīre yamunātaṭe || 60 || vṛṃdāvanasamīpe ca nirjane suṃdarasthale | parameṣṭhī samāgatya vivāhaṃ kārayiṣyati || 61 || tasmād‌rādhāṃ gopavara viddhyardhāṃgīṃ varasya ca | loke cūḍāmaṇiḥ sākṣād‌rājñīṃ golokamaṃdire || 62 || yūyaṃ sarve'pi gopālā golokādāgatā bhuvi | tathā gopīgaṇā gopā goloke rādhikecchayā || 63 || yaddarśanaṃ durlabhameva durghaṭaṃ devaiśca yajñairna ca janmabhiḥ kimu | savigrahāṃ tāṃ tava maṃdirājire lakṣyaṃti guptāṃ bahugopagopikāḥ || 64 || śrīnārada uvāca - tadā ca vismitau rājan daṃpatī harṣitau param | rādhākṛṣṇaprabhāvaṃ ca śrutvā śrīgargamūcatuḥ || 65 || daṃpatī ūcatuḥ - rādhāśabdasya he brahman vyākhyānaṃ vada tattvataḥ | tvatto na saṃśayacchettā ko'pi bhūmau mahāmune || 66 || śrīgarga uvāca - sāmavedasya bhāvārthaṃ gaṃdhamādanaparvate | śiṣyeṇāpi mayā tatra nārāyaṇamukhācchrutam || 67 || ramayā tu rakāraḥ syādākārastvādigopikā | dhakāro dharayā hi syādākāro virajā nadī || 68 || śrīkṛṣṇasya parasyāpi caturddhā tejaso'bhavat | līlābhūḥ śrīśca virajā catasraḥ pat‍nya eva hi || 69 || saṃpralīnāśca tāḥ sarvā rādhāyāṃ kuṃjamaṃdire | paripūrṇatamāṃ rādhāṃ tasmādāhurmaniṣiṇaḥ || 70 || śrīnārada uvāca - rādhākṛṣṇeti he gopa ye japaṃti punaḥ punaḥ | catuṣpadārthaṃ kiṃ teṣāṃ sākṣātkṛṣṇo'pi labhyate || 71 || tadātivismito rājan vṛṣabhānuḥ priyāyutaḥ | rādhākṛṣṇaprabhāvaṃ taṃ jñātvā''naṃdamayo hyabhūt || 72 || itthaṃ gargo jñānivaraḥ pūjito vṛṣabhānunā | jagāma svagṛhaṃ sākṣānmunīndraḥ sarvavitkaviḥ || 73 ||

English translation

Says Srinardji - Rajan. One day, a young boy named Krishna was sleeping on a gold jeweled cradle. His face was etched with a faint smile that captivated people. Nandanandan's forehead was adorned with a kajal dithuna to relieve visual aches. The eyes, as beautiful as a lotus, were adorned with kajal. Maya Yashoda took her beautiful lala to the godown. They were sucking on the thumbs of the baby peacock. He had an agile nature. The blue, fresh, soft and curly hairdo made his complexion look stunning. The bosom was adorned with the Srivatsa emblem, the Baghanakha, and the shiny Ardhachandra (the so-called ornament). Gopi Shreyashoda, who was very compassionate, was having a great time pampering her lover. The king! The child, Krishna, had drunk milk. He was visited by Jaibhai. When the mother's gaze fell on her face, the five elements of the earth, along with the entire universe (Brahmana) and the supreme deity Indraprabhuti appeared. It was then that Shriyashoda's heart sank. So they closed their eyes. 1-3.

Your Majesty! The Supreme Personality of Godhead, Krishna, is the Supreme Being. It is through their delusion that the whole world has become powerful. Yashodaji's memory could not last under the influence of the same Maya. Then he developed an affectionate compassion for his child, Krishna. Ahhh! To what extent can I describe the tenacity of Sreenandrani? . 4.

Srinaradji said - The chief among the eight Vasus who is a Vasu named 'Drona', his feminine name is' Dhara '. They had no children. He was an ardent devotee of Lord Vishnu. The kingdom of the gods was also followed. The king! Once on the wish of a son, on the orders of Brahma, he went to the Mandrachal hills to perform penance with his consort Dhara. There, both couples performed penance by eating tubers, roots, and fruits, or by chewing dried leaves. Later, they started living on the basis of water. After that, they also stopped drinking water. Thus began his penance in the land of the desolate. While doing penance to him, when ten million years had passed, Brahma came pleased and said, "Ask for a boon." 6 - 9.

At that time, termites had climbed on them. So, removing them, Drona went out with his wife. They paid obeisance to Brahma and worshipped him ceremoniously. His heart swelled with joy. They spoke to the Lord who said, 10.

Sreedrona said, "Brahman! Thank you! May the most perfect Janardhana, Lord Krishna, be my son, and may the love-lakshana devotion of both of us remain in him forever, by the influence of which man easily transcends the vast ocean. Neither of us ascetics desires any other boon. 11-12 |

Śrībrahmājī said, "The boon you have asked for from me is one that will be fulfilled with difficulty and is extremely rare. Yet in the second life, your desires will be fulfilled. 13.

Srinardji says - Rajan! It was Drona who became Nanda on this earth and Dhara who became known as Yashoda. Lord Krishna's father Vasudevji had come to Vrajam from Puri Mathura to fulfill Brahma's wish. The auspicious character of Lord Krishna is sweeter than the Sudha-made well. I have heard this from Lord Nara-Narayana's face on the peak of Mount Gandhamadana. I felt grateful for his kindness. That's the story I told you; what else do you want to hear? . . 14 - 16.

Sri Bahulashvana asked, "O Lord! Tell me what feasts Lord Srihari, the eternal man in child's form, performed with Balramji. 17.

Srinardji said, "Rajan! One day, Mahamuni Gargacharya, sent by Vasudeva GK, arrived at Nanda Bhavan with his disciples. Nanda Ji ritually worshipped Munishreshtha Garga with the best of remedies - Padya, etc. - and prostrated himself before him by circumambulating. . 18-19 |

Nandaji said - Today our ancestors, gods and goddesses are all satisfied. The dust from your feet made our home extremely sacred. Dear Sir! You name my child. Dear Lord! Even after consuming many virtues and pilgrimages, your good fortune is not accessible. . 20-21 |

Srigarghji said - "Nandarayji! I will name your son, no doubt; but I will tell you something of the past, so go to a secluded place. 22.

Says Srinardji - Rajan. Gargaji then took Nanda-Yashoda and the two children - Shrikrishna and Balarama - and went to the cowshed where no one else was present. There, they performed the naming ceremony of the children. First, he worshipped deities like Ganesha, then spoke to Mahamuni Gargacharya Nanda, who was overjoyed after diligently purifying (contemplating) the planets. . 23-24. .

Gargji said - These are Rohini's sons, let me name them - listen. In these, yogis meditate or enjoy them all or entertain the minds of the devotees through their virtues, for these reasons, they are known as' Rama 'by the learned ones. They originated from the contraction of the uterus by yogamaya, hence they would be known as' contractions'. They remain even after the annihilation of the infinite universe, hence they are known by the name 'Shesh'. Being the strongest, they will also be known by the name 'Bal'. 25-263 |

Oh no! Now listen carefully to your son's name - all these names are immediately sanctifying and most beneficial to the whole world. 'A 'stands for Kamalakanta;' R 'stands for Rama; the letter' Sh 'is a reciter of Lord Vishnu, the Svetadvipa, the lord of the sixfold wealth. The 'n' is the symbol of Narasimha and the 'akara' is the descriptor of Agnibhuk (the savior or protector of the fire god in the form of Agni) and both the visarupa points (:) are the descriptors of Nara-Narayana. The Mahamantra form in which these six Absolute Elements are absorbed into the Absolute Word is called 'Krishna' because of this etymology. Hence one of the names of this child is' Krishna '. In the Satya Yuga, Treta, Dvapara, and Kali Yuga - these eras - they have eclipsed Shukla, Rakta, Yellow, and Krishna Kanti. At the end of Dwaparaka and the beginning of Kali, this child 'Krishna' is received by Angakantika, for this reason it will also be known as Nandanandan 'Krishna'. . 27-32 |

Bharata Vamshodbhava Nanda! There is no end to their names. All those names are enigmatic in the Vedas. Their names will also be known according to their karmas because of their pastimes. One should not be surprised at their amazing staff. Blessed are you, for the most perfect Lord, the Most High, is gracing your house as a son. . 37-38 |

Srinardji says - Rajan! Having said this, when Sri Gargaji left, Mahamati Nandarayan, who had risen to prominence, considered himself complete and accomplished, including Yashoda. 39.

Subsequently, Sage Shree Gargaji, the Gyanishiromani Gyanadata, arrived at Vrishabhanuji's Puri adorned on the Yamuna. Wearing an umbrella adorned him like another Indra and wearing a danda directly adorned him like a Dharmaraja. Just like the other sun, they were illuminating all directions with their brightness. Wiprawar Garg, with his book and ring, looked like another Brahma. They were adorned with shukla clothes and had the grace of Lord Vishnu. Seeing the great sage, Vrishabhanu immediately got up and bowed before him with great reverence, and with folded hands, he stood before him. Vrishabha, a connoisseur of worship rituals, seated the sage in an auspicious posture and performed the ritual worship of the wise Shiromani Garga by the padyas, etc. Then, circling him, the great 'Vrishabhanuvar' spoke thus. 40-45 |

Srinardji says - Rajan! Muniwar Gargji then went to the banks of the Yamuna, holding Vrishabhanuji's hand. There was a desolate and very beautiful place, where the sound of the murmurs of the Kalindijal always echoed. At the same time, Gopeshwar Vrishabhanu sat down and the theologian Munindra Garg began to say the following. 50-51 |

Mr. Gargji said, "Vrishabhanuji! It's a secret you shouldn't tell anyone. Those who are the overlord of innumerable universes, the lord of Golokdham, the transcendent and the most absolute; none is greater than them; they themselves have appeared in the house of Lord Krishna Nanda. . 52-53 |

Sri Vrishabha said - Mahamune. The fate of Nandaji is also wonderful, blessed, and indescribable. Now you tell me the whole reason for the incarnation of Lord Krishna. . 54. .

Lord Krishna has descended to the earth after praying to Brahma to unload the earth and destroy the evildoers like Kansa, said Lord Gargaji. It is the daughter-in-law of the same Supreme Lord, Shri Krishna, who appears in your house, Priya Shridharaji Golokdham. You do not know those superpowers Radhika. . 55-56. .

Srinardji says - Rajan! At that moment, Gopa Vrishabhanu was filled with joy and was greatly astonished. He called Kalavati (Kirti) and had a discussion with her. Knowing the influence of Shri Radha-Krishna again, Gopavara Vrishabhanu began to speak to Mahamuni Garga again, shedding tears of joy. 57-58 |

Sri Vrishabha said, "Dwijavar! To the same Lord Krishna, I will dedicate this Kamalnayani Kanya of mine. It is you who have shown me this path; therefore, it is through you that the auspicious marriage ceremony should be performed. 59.

Srigarji said - Rajan. I will not perform the Panigrahan-samskara of Shri Radha and Shri Krishna. The wedding will take place at Bhandir-Van on the banks of the Yamuna. In the desolate picturesque place near Vrindavan, Lord Brahma himself will arrive and arrange the marriage of the two. The coward! You consider these Śrīdīra as the valabha of Lord Krishna. You are the crown prince of kings in the world and the crown prince of people is Golokdham. You have come to this world from the entire Gopa Golok Dham. In the same way, all the Gopis have also come from Goloka following the command of Sridharaji. Even for those who do not have access to a glimpse of the deities for many lives after performing major yajnas, those whose darshan is accidental have been secretly residing in the courtyard of Shri Radhaji Tumhare Temple and the majority of gopas and gopis have a direct darshan of them. . 60 - 64. (Golok Khand Chapters 11 to 15)

Srinardji says - Rajan! Hearing this admirable influence of Sri Radhaji and Lord Krishna, both Sri Vrishabhanu and Kirti were very surprised and delighted and started talking to Gargaji. 65.

The couple said, "Brahman! Explain the concept of the word 'Radha'. Dear Sir! There is no one else on this earth like you who can dispel the doubts of the mind. . 66. .

Srigarghji said - Once upon a time, I went to Mount Gandhamadan. There were also a group of disciples accompanying them. It was there that I heard this summary of the Samaveda from the mouth of Lord Narayana. There is an eclipse of Ramaka by 'Rakar', Gopikaonka by 'Aakara', Dharaka by 'Dhakar' and Viraja Nadi by 'Aakara'. The Supreme Personality of Godhead is divided into the four supreme forms of Lord Krishna. Leela, Bhoo, Shri, and Viraja are his only four beats. All of them went to Kunj Bhavan and immersed themselves in the idol of Shri Radhaji. This is why experts call Sriradha the "Absolute." Goop! All the four elements, even Lord Krishna, become accessible to those who repeatedly utter this name of 'Radhakrishna'. 67-71 |

Srinardji says - Rajan! At that time, Sri Vrishabha, including Bharya, did not have much of a surprise. Sri Radha - Knowing the divine influence of Krishna, he became the embodiment of bliss. Thus Sri Vrishabhanu worshipped Gyanishiromani - Sri Gargaji. He then established himself as the omniscient and omniscient Munindra Garg. 72-73. .

Thus the Narada Bahulashka Samvad under Golokhanda in the Srigargha Samhita completed the fifteenth chapter titled 'Nanda-Pati ka Vishwaruparupadarshana and Sri Krishna-Balarama ka Naamakarana Samskara'. 15.

Complete chapter-aligned witnesses. Sanskrit Wikisource page 26573, revision 364093 (2022-12-29T10:42:31Z). English was rendered from the complete Hindi chapter at https://www.mahakavya.com/garga-samhita-golok-khand-chapters-11-to-15/ as a transparent machine-assisted translation using the pinned IndicTrans2 Indic–English Distilled 200M model and retained without claiming verse-by-verse alignment.