Balabhadra-khaṇḍa · Chapter 13
Sourceबलभद्रखण्डः - त्रयोदशोऽध्यायः बलराम सहस्रनामम् - दुर्योधन उवाच - बलभद्रस्य देवस्य प्राड्विपाक महामुने ॥ नाम्नां सहस्रं मे ब्रूहि गुह्यं देवगणैरपि ॥१॥ प्राड्विपाक उवाच - साधु साधु महाराज साधु ते विमलं यशः ॥ यत्पृच्छसे परमिदं गर्गोक्तं देवदुर्लभम् ॥२॥ नाम्नां सहस्रं दिव्यानां वक्ष्यामि तव चाग्रतः ॥ गर्गाचार्येण गोपीभ्यो दत्तं कृष्णातटे शुभे ॥३॥ ॐअस्य श्रीबलभद्रसहस्रनामस्त्रोत्रमंत्रस्य गर्गाचार्य ऋषिः अनुष्टुप् छन्दः संकर्षणः परमात्मा देवता बलभद्र इति बीजं रेवतीति शक्तिः अनंत इति कीलकं बलभद्रप्रीत्यर्थे जपे विनियोगः ॥ अथ ध्यानम् स्फुरदमलकिरीटं किंकिणीकंकणार्हं चलदलककपोलं कुंडलश्रीमुखाब्जम् ॥ तुहिनगिरिमनोज्ञं नीलमेघांबराढ्यं हलमुसलविशालं कामपालं समीडे ॥४॥ ॐ बलभद्रो रामभद्रो रामः संकर्षणोऽच्युतः ॥ रेवतीरमणो देवः कामपालो हलायुधः ॥५॥ नीलांबरः श्वेतवर्णो बलदेवोऽच्युताग्रजः ॥ प्रलंबघ्नो महावीरो रौहिणेयः प्रतापवान् ॥६॥ तालांको मुसली हली हरिर्यदुवरो बली ॥ सीरपाणिः पद्मपाणिर्लगुडी वेणुवादनः ॥७॥ कालिंदिभेदनो वीरो बलः प्रबल ऊर्ध्वगः ॥ वासुदेवकलानन्तः सहस्रवदनः स्वराट् ॥८॥ वसुर्वसुमतीभर्ता वासुदेवो वसूत्तमः ॥ यदूत्तमो यादवेन्द्रो माधवो वृष्णिवल्लभः ॥९॥ द्वारकेशो माथुरेशो दानी मानी महामनाः ॥ पूर्णः पुराणः पुरुषः परेशः परमेश्वरः ॥१०॥ परिपूर्णतमः साक्षात्परमः पुरुषोत्तमः ॥ अनन्तः शाश्वतः शेषो भगवान्प्रकृतेः परः ॥११॥ जीवात्मा परमात्मा च ह्यंतरात्मा ध्रुवोऽव्ययः ॥ चतुर्व्यूहश्चतुर्वेद-श्चतुर्मूर्तिश्चतुष्पदः ॥१२॥ प्रधानं प्रकृतिः साक्षी संघातः संघवान् सखी ॥ महामना बुद्धिसखश्चेतोऽहंकार आवृतः ॥१३॥ इन्द्रियेशो देवातात्मा ज्ञानं कर्म च शर्म च ॥ अद्वितीयो द्वितीयश्च निराकारो निरञ्जनः ॥१४॥ विराट् सम्राट् महौघश्च धारः स्थास्नुश्चरिष्णुमान् ॥ फणीन्द्रः फणिराजश्च सहस्रफणमण्डितः ॥१५॥ फणीश्वरः फणी स्फूर्तिः फूत्कारी चीत्करः प्रभुः ॥ मणिहारो मणिधरो वितली सुतली तली ॥१६॥ अतली सुतलेशश्च पातालश्च तलातलः ॥ रसातलो भोगितलः स्फुरद्दन्तो महातलः ॥१७॥ वासुकिः शंखचूडाभो देवदत्तो धनंजयः ॥ कंबलाश्वो वेगतरो धृतराष्ट्रो महाभुजः ॥१८॥ वारुणीमदमत्ताङ्गो मदघूर्णितलोचनः ॥ पद्माक्षः पद्ममाली च वनमाली मधुश्रवाः ॥१९॥ कोटिकंदर्पलावण्यो नागकन्यासमर्चितः ॥ नूपुरी कटिसूत्री च कटकी कनकांगदी ॥२०॥ मुकुटी कुण्डली दण्डी शिखण्डी खंडमंडली ॥ कलिः कलिप्रियः कालो निवातकवचेश्वरः ॥२१॥ संहारकद्रुर्द्रवयुः कालाग्निः प्रलयो लयः ॥ महाहिः पाणिनिः शास्त्रभाष्यकारः पतञ्जलिः ॥२२॥ कात्यायनः पक्विमाभः स्फोटायन उरङ्गमः ॥ वैकुंठो याज्ञिको यज्ञो वामनो हरिणो हरिः ॥२३॥ कृष्णो विष्णुर्महाविष्णुः प्रभविष्णुर्विशेषवित् ॥ हंसो योगेश्वरः कूर्मो वाराहो नारदो मुनिः ॥२४॥ सनकः कपिलो मत्स्यः कमठो देवमंगलः ॥ दत्तात्रेयः पृथुर्वृद्ध ऋषभो भार्गवोत्तमः ॥२५॥ धन्वन्तरिर्नृसिंहश्च कलिर्नारायणो नरः ॥ रामचन्द्रो राघवेन्द्रः कोशलेन्द्रो रघूद्वहः ॥२६॥ काकुत्स्थः करुणासिंधू राजेन्द्रः सर्वलक्षणः ॥ शूरो दाशरथिस्त्राता कौसल्यानन्दवर्द्धनः ॥२७॥ सौमित्रिर्भरतो धन्वी शत्रुघ्नः शत्रुतापनः ॥ निषंगी कवची खड्गी शरी ज्याहतकोष्ठकः ॥२८॥ बद्धगोधाङ्गुलित्राणः शंभुकोदण्डभंजनः ॥ यज्ञत्राता यज्ञभर्ता मारीचवधकारकः ॥२९॥ असुरारिस्ताटकारिर्विभीषणसहायकृत् ॥ पितृवाक्यकरो हर्षी विराधारिर्वनेचरः ॥३०॥ मुनिर्मुनिप्रियश्चित्र-कूटारण्यनिवासकृत् ॥ कबंधहा दण्डकेशो रामो राजीवलोचनः ॥३१॥ मतंगवनसंचारी नेता पंचवटीपतिः ॥ सुग्रीवः सुग्रीवसखो हनुमत्प्रीतमानसः ॥३२॥ सेतुबन्धो रावणारि-र्लंकादहनतत्परः ॥ रावण्यरिः पुष्पकस्थो जानकीविरहातुरः ॥३३॥ अयोध्याधिपतिः श्रीमाँल्लवणारिः सुरार्चितः ॥ सूर्यवंशी चंद्रवंशी वंशीवाद्यविशारदः ॥३४॥ गोपतिर्गोपवृंदेशो गोपो गोपीशतावृतः ॥ गोकुलेशो गोपपुत्रो गोपालो गोगणाश्रयः ॥३५॥ पूतनारिर्बकारिश्च तृणावर्तनिपातकः ॥ अघारिर्धेनुकारिश्च प्रलंबारिर्व्रजेश्वरः ॥३६॥ अरिष्टहा केशिशत्रुर्व्योमासुरविनाशकृत् ॥ अग्निपानो दुग्धपानो वृंदावनलताश्रितः ॥३७॥ यशोमतीसुतो भव्यो रोहिणीलालितः शिशुः ॥ रासमंडलमध्यस्थो रासमंडलमंडनः ॥३८॥ गोपिकाशतयूथार्थी शंखचूडवधोद्यतः ॥ गोवर्धनसमुद्धर्ता शक्रजिद्व्रजरक्षकः ॥३९॥ वृषभानुवरो नंद आनन्दो नन्दवर्धनः ॥ नन्दराजसुतः श्रीशः कंसारिः कालियांतकः ॥४०॥ रजकारिर्मुष्टिकारिः कंसकोदण्डभंजनः ॥ चाणूरारिः कूटहंता शलारिस्तोशलांतकः ॥४१॥ कंसभ्रातृनिहन्ता च मल्लयुद्धप्रवर्तकः ॥ गजहन्ता कंसहन्ता कालहन्ता कलङ्कहा ॥४२॥ मागधारिर्यवनहा पांडुपुत्रसहायकृत् ॥ चतुर्भुजः श्यामलांगः सौम्यश्चौपगविप्रियः ॥४३॥ युद्धभृदुद्धवसखा मन्त्री मन्त्रविशारदः ॥ वीरहा वीरमथनः शंखचक्रगदाधरः ॥४४॥ रेवतीचित्तहर्ता च रेवतीहर्षवर्द्धनः ॥ रेवतीप्राणनाथश्च रेवतीप्रियकारकः ॥४५॥ ज्योतिर्ज्योतिष्मतीभर्ता रैवताद्रिविहारकृत् ॥ धृतिनाथो धनाध्यक्षो दानाध्यक्षो धनेश्वरः ॥४६॥ मैथिलार्चितपादाब्जो मानदो भक्तवत्सलः ॥ दुर्योधनगुरुर्गुर्वीगदाशिक्षाकरः क्षमी ॥४७॥ मुरारिर्मदनो मन्दोऽनिरुद्धो धन्विनां वरः ॥ कल्पवृक्षः कल्पवृक्षी कल्पवृक्षवनप्रभुः ॥४८॥ स्यमन्तकमणिर्मान्यो गांडीवी कौरवेश्वरः ॥ कुम्भाण्डखण्डनकरः कूपकर्णप्रहारकृत् ॥४९॥ सेव्यो रैवतजामाता मधुमाधवसेवितः ॥ बलिष्ठपुष्टसर्वांगो हृष्टः पुष्टः प्रहर्षितः ॥५०॥ वाराणसीगतः क्रुद्धः सर्वः पौंड्रकघातकः ॥ सुनन्दी शिखरी शिल्पी द्विविदांगनिषूदनः ॥५१॥ हस्तिनापुरसंकर्षी रथी कौरवपूजितः ॥ विश्वकर्मा विश्वधर्मा देवशर्मा दयानिधिः ॥५२॥ महाराजच्छत्रधरो महाराजोपलक्षणः ॥ सिद्धगीतः सिद्धकथः शुक्लचामरवीजितः ॥५३॥ ताराक्षः कीरनासश्च बिम्बोष्ठः सुस्मितच्छविः ॥ करीन्द्रकरदोर्दंडः प्रचंडो मेघमण्डलः ॥५४॥ कपाटवक्षाः पीनांसः पद्मपादस्फुरद्द्युतिः ॥ महविभूतिर्भूतेशो बंधमोक्षी समीक्षणः ॥५५॥ चैद्यशत्रुः शत्रुसंधो दंतवक्त्रनिषूदकः ॥ अजातशत्रुः पापघ्नो हरिदाससहायकृत् ॥५६॥ शालबाहुः शाल्वहन्ता तीर्थयायी जनेश्वरः ॥ नैमिषारण्ययात्रार्थी गोमतीतीरवासकृत् ॥५७॥ गंडकीस्नानवान्स्रग्वी वैजयन्तीविराजितः ॥ अम्लानपंकजधरो विपाशी शोणसंप्लुतः ॥५८॥ प्रयागतीर्थराजश्च सरयूः सेतुबन्धनः ॥ गयाशिरश्च धनदः पौलस्त्यः पुलहाश्रमः ॥५९॥ गंगासागरसंगार्थी सप्तगोदावरीपतिः ॥ वेणि भीमरथी गोदा ताम्रपर्णी वटोदका ॥६०॥ कृतमाला महापुण्या कावेरी च पयस्विनी ॥ प्रतीची सुप्रभा वेणी त्रिवेणी सरयूपमा ॥६१॥ कृष्णा पंपा नर्मदा च गंगा भागीरथी नदी ॥ सिद्धाश्रमः प्रभासश्च बिन्दुर्बिन्दुसरोवरः ॥६२॥ पुष्करः सैंधवो जंबू नरनारायणाश्रमः ॥ कुरुक्षेत्रपती रामो जामदग्न्यो महामुनिः ॥६३॥ इल्वलात्मजहन्ता च सुदामासौख्यदायकः ॥ विश्वजिद्विश्वनाथश्च त्रिलोकविजयी जयी ॥६४॥ वसन्तमालतीकर्षी गदो गद्यो गदाग्रजः ॥ गुणार्णवो गुणनिधिर्गुणपात्रो गुणाकरः ॥६५॥ रंगवल्लीजलाकारो निर्गुणः सगुणो बृहत् ॥ दृष्टः श्रुतो भवद्भूतो भविष्यच्चाल्पविग्रहः ॥६६॥ अनादिरादिरानन्दः प्रत्यग्धामा निरन्तरः ॥ गुणातीतः समः साम्यः समदृङ् निर्विकल्पकः ॥६७॥ गूढाव्यूढो गुणो गौणो गुणाभासो गुणावृतः ॥ नित्योऽक्षरो निर्विकारोऽक्षरोऽजस्रसुखोऽमृतः ॥६८॥ सर्वगः सर्ववित्सार्थः समबुद्धिः समप्रभः ॥ अक्लेद्योऽच्छेद्य आपूर्णो शोष्यो दाह्यो निवर्तकः ॥६९॥ ब्रह्म ब्रह्मधरो ब्रह्मा ज्ञापको व्यापकः कविः ॥ अध्यात्मकोऽधिभूतश्चाधिदैवः स्वाश्रयाश्रयः ॥७०॥ महावायुर्महावीरश्चेष्टारूपतनुस्थितः ॥ प्रेरको बोधको बोधी त्रयोविंशतिको गणः ॥७१॥ अंशांशश्च नरावेशोऽवतारो भूपरिस्थितः ॥ महर्जनस्तपःसत्यं भूर्भुवःस्वरिति त्रिधा ॥७२॥ नैमित्तिकः प्राकृतिक आत्यंतिकमयो लयः ॥ सर्गो विसर्गः सर्गादिर्निरोधो रोध ऊतिमान् ॥७३॥ मन्वन्तरावतारश्च मनुर्मनुसुतोऽनघः ॥ स्वयंभूः शांभवः शंकुः स्वायंभुवसहायकृत् ॥७४॥ सुरालयो देवगिरिर्मेरुर्हेमार्चितो गिरिः ॥ गिरिशो गणनाथश्च गिरीशो गिरिगह्वरः ॥७५॥ विंध्यस्त्रिकूटो मैनाकः सुवेलः पारिभद्रकः ॥ पतंगः शिशिरः कंको जारुधिः शैलसत्तमः ॥७६॥ कालंजरो बृहत्सानुर्दरीभृन्नंदिकेश्वरः ॥ संतानस्तरुराजश्च मन्दारः पारिजातकः ॥७७॥ जयंतकृज्जयंतांगो जयन्तीदिग्जयाकुलः ॥ वृत्रहा देवलोकश्च शशी कुमुदबांधवः ॥७८॥ नक्षत्रेशः सुधासिंधुर्मृगः पुष्यः पुनर्वसुः ॥ हस्तोऽभिजिच्च श्रवणो वैधृतिर्भास्करोदयः ॥७९॥ ऐन्द्रः साध्यः शुभः शुक्लो व्यतीपातो ध्रुवः सितः ॥ शिशुमारो देवमयो ब्रह्मलोको विलक्षणः ॥८०॥ रामो वैकुण्ठनाथश्च व्यापी वैकुण्ठनायकः ॥ श्वेतद्वीपो जितपदो लोकालोकाचलाश्रितः ॥८१॥ भूमिर्वैकुण्ठदेवश्च कोटिब्रह्मांडकारकः ॥ असंख्यब्रह्मांडपति-र्गोलोकेशो गवां पतिः ॥८२॥ गोलोकधामधिषणो गोपिकाकंठभूषणः ॥ श्रीधारः श्रीधरो लीलाधरो गिरिधरो धुरी ॥८३॥ कुंतधारी त्रिशूली च बीभत्सी घर्घरस्वनः ॥ शूलसूच्यर्पितगजो गजचर्मधरो गजी ॥८४॥ अंत्रमाली मुण्डमाली व्याली दंडकमण्डलुः ॥ वेतालभृद्भूतसंघः कूष्मांडगणसंवृतः ॥८५॥ प्रमथेशः पशुपतिर्मृडानीशो मृडो वृषः ॥ कृतांतकालसंघारिः कूटः कल्पांतभैरवः ॥८६॥ षडाननो वीरभद्रो दक्षयज्ञविघातकः ॥ खर्पराशी विषाशी च शक्तिहस्तः शिवार्थदः ॥८७॥ पिनाकटंकारकरश्चलज्झंकारनूपुरः ॥ पंडितस्तर्कविद्वान्वै वेदपाठी श्रुतीश्वरः ॥८८॥ वेदांतकृत्सांख्यशास्त्री मीमांसी कणनामभाक् ॥ काणादिर्गौतमो वादी वादो नैयायिको नयः ॥८९॥ वैशेषिको धर्मशास्त्री सर्वशास्त्रार्थतत्त्वगः ॥ वैयाकरणकृच्छंदो वैयासः प्राकृतिर्वचः ॥९०॥ पाराशरीसंहितावित्काव्यकृन्नाटकप्रदः ॥ पौराणिकः स्मृतिकरो वैद्यो विद्याविशारदः ॥९१॥ अलंकारो लक्षणार्थो व्यंग्यविद्धनवद्ध्वनिः ॥ वाक्यस्फोटः पदस्फोटः स्फोटवृत्तिश्च सार्थवित् ॥९२॥ शृङ्गार उज्ज्वलः स्वच्छोऽद्भुतो हास्यो भयानकः ॥ अश्वत्थो यवभोजी च यवक्रीतो यवाशनः ॥९३॥ प्रह्लादरक्षकः स्निग्ध ऐलवंशविवर्द्धनः ॥ गताधिरंबरीषांगो विगाधिर्गाधिनां वरः ॥९४॥ नानामणिसमाकीर्णो नानारत्नविभूषणः ॥ नानापुष्पधरः पुष्पी पुष्पधन्वा प्रपुष्पितः ॥९५॥ नानाचंदनगंधाढ्यो नानापुष्परसार्चितः ॥ नानावर्णमयो वर्णो नानावस्त्रधरः सदा ॥९६॥ नानापद्मकरः कौशी नानाकौशेयवेषधृक् ॥ रत्नकंबलधारी च धौतवस्त्रसमावृतः ॥९७॥ उत्तरीयधरः पर्णो घनकंचुकसंघवान् ॥ पीतोष्णीषः सितोष्णीषो रक्तोष्णीषो दिगंबरः ॥९८॥ दिव्यांगो दिव्यरचनो दिव्यलोकविलोकितः ॥ सर्वोपमो निरुपमो गोलोकाङ्गीकृताङ्गणः ॥९९॥ कृतस्वोत्संगगो लोकः कुण्डलीभूत आस्थितः ॥ माथुरो माथुरादर्शी चलत्खंजनलोचनः ॥१००॥ दधिहर्ता दुग्धहरो नवनीतसिताशनः ॥ तक्रभुक् तक्रहारी च दधिचौर्यकृतश्रमः ॥१०१॥ प्रभावतीबद्धकरो दामी दामोदरो दमी ॥ सिकताभूमिचारी च बालकेलिर्व्रजार्भकः ॥१०२॥ धूलिधूसरसर्वांगः काकपक्षधरः सुधीः ॥ मुक्तकेशो वत्सवृंदः कालिंदीकूलवीक्षणः ॥१०३॥ जलकोलाहली कूली पङ्कप्रांगणलेपकः ॥ श्रीवृंदावनसंचारी वंशीवटतटस्थितः ॥१०४॥ महावननिवासी च लोहार्गलवनाधिपः ॥ साधुः प्रियतमः साध्यः साध्वीशो गतसाध्वसः ॥१०५॥ रंगनाथो विठ्ठलेशो मुक्तिनाथोऽघनाशकः ॥ सुकिर्तिः सुयशाः स्फीतो यशस्वी रंगरंजनः ॥१०६॥ रागषट्को रागपुत्रो रागिणीरमणोत्सुकः ॥ दीपको मेघमल्हारः श्रीरागो मालकोशकः ॥१०७॥ हिन्दोलो भैरवाख्यश्च स्वरजातिस्मरो मृदुः ॥ तालो मानप्रमाणश्च स्वरगम्यः कलाक्षरः ॥१०८॥ शमी श्यामी शतानन्दः शतयामः शतक्रतुः ॥ जागरः सुप्त आसुप्तः सुषुप्तः स्वप्न उर्वरः ॥१०९॥ उर्जः स्फूर्जो निर्जरश्च विज्वरो ज्वरवर्जितः ॥ ज्वरजिज्ज्वरकर्ता च ज्वरयुक् त्रिज्वरो ज्वरः ॥११०॥ जांबवान् जंबुकाशंकी जंबूद्वीपो द्विपारिहा ॥ शाल्मलिः शाल्मलिद्वीपः प्लक्षः प्लक्षवनेश्वरः ॥१११॥ कुशधारी कुशः कौशी कौशिकः कुशविग्रहः ॥ कुशस्थलीपतिः काशीनाथो भैरवशासनः ॥११२॥ दाशार्हः सात्वतो वृष्णिर्भोजोऽधकनिवासकृत् ॥ अंधको दुन्दुभिर्द्योतः प्रद्योतः सात्वतां पतिः ॥११३॥ शूरसेनोऽनुविषयो भोजवृष्ण्यंधकेश्वरः ॥ आहुकः सर्वनीतिज्ञ उग्रसेनो महोग्रवाक् ॥११४॥ उग्रसेनप्रियः प्रार्थ्यः पार्थो यदुसभापतिः ॥ सुधर्माधिपतिः सत्त्वं वृष्णिचक्रावृतो भिषक् ॥११५॥ सभाशीलः सभादीपः सभाग्निश्च सभारविः ॥ सभाचंद्रः सभाभासः सभादेवः सभापतिः ॥११६॥ प्रजार्थदः प्रजाभर्ता प्रजापालनतत्परः ॥ द्वारकादुर्गसंचारी द्वारकाग्रहविग्रहः ॥११७॥ द्वारकादुःखसंहर्ता द्वारकाजनमंगलः ॥ जगन्माता जगत्त्राता जगद्भर्ता जगत्पिता ॥११८॥ जगद्बंधुर्जगद्भ्राता जगन्मित्रो जगत्सखः ॥ ब्रह्मण्यदेवो ब्रह्मण्यो ब्रह्मपादरजो दधत् ॥११९॥ ब्रह्मपादरजःस्पर्शी ब्रह्मपादनिषेवकः ॥ विप्रांघ्रिजलपूतांगो विप्रसेवापरायणः ॥१२०॥ विप्रमुख्यो विप्रहितो विप्रगीतमहाकथः ॥ विप्रपादजलार्द्राङ्गो विप्रपादोदकप्रियः ॥१२१॥ विप्रभक्तो विप्रगुरुर्विप्रो विप्रपदानुगः ॥ अक्षौहिणीवृतो योद्धा प्रतिमापंचसंयुतः ॥१२२॥ चतुरोंऽगिराः पद्मवर्ती सामंतोद्धृतपादुकः ॥ गजकोटिप्रयायी च रथकोटिजयध्वजः ॥१२३॥ महारथश्चातिरथो जैत्रं स्यंदनमास्थितः ॥ नारायणास्त्री ब्रह्मास्त्री रणश्लाघी रणोद्भटः ॥१२४॥ मदोत्कटो युद्धवीरो देवासुरभयंकरः ॥ करिकर्णमरुत्प्रेजत्कुंतलव्याप्तकुंडलः ॥१२५॥ अग्रगो वीरसंमर्दो मर्दलो रणदुर्मदः ॥ भटः प्रतिभटः प्रोच्यो बाणवर्षी सुतोयदः ॥१२६॥ खड्गखंडितसर्वांगः षोडशाब्दः षडक्षरः ॥ वीरघोषः क्लिष्टवपुर्वज्रांगो वज्रभेदनः ॥१२७॥ रुग्णवज्रो भग्नदंडः शत्रुनिर्भत्सनोद्यतः ॥ अट्टहासः पट्टधरः पट्टराज्ञीपतिः पटुः ॥१२८॥ कलः पटहवादित्रो हुंकारो गर्जितस्वनः ॥ साधुर्भक्तपराधीनः स्वतंत्रः साधुभूषणः ॥१२९॥ अस्वतंत्रः साधुमयः साधुग्रस्तमना मनाक् ॥ साधुप्रियः साधुधनः साधुज्ञातिः सुधाघनः ॥१३०॥ साधुचारी साधुचित्तः साधुवासी शुभास्पदः ॥ इति नाम्नां सहस्रं तु बलभद्रस्य कीर्तितम् ॥ १३१॥ सर्वसिद्धिप्रदं नॄणां चतुर्वर्गफलप्रदम् ॥ शतवारं पठेद्यस्तु स विद्यावान् भवेदिह ॥१३२॥ इन्दिरां च विभूतिं चाभिजनं रूपमेव च ॥ बलमोजश्च पठनात्सर्वं प्राप्नोति मानवः ॥१३३॥ गंगाकूलेऽथ कालिंदिकूले देवालये तथा ॥ सहस्रावर्तपाठेन बलात्सिद्धिः प्रजायते ॥१३४॥ पुत्रार्थी लभते पुत्रं धनार्थी लभते धनम् ॥ बंधात्प्रमुच्यते बद्धो रोगी रोगान्निवर्तते ॥१३५॥ अयुतावर्तपाठे च पुरश्चर्याविधानतः ॥ होमतर्पणगोदानविप्रार्चनकृतोद्यमात् ॥१३६॥ पटलं पद्धतिं स्तोत्रं कवचं तु विधाय च ॥ महामंडलभर्ता स्यान्मंडितो मंडलेश्वरैः ॥१३७॥ मत्तेभकर्णप्रहिता मदगंधेन विह्वला ॥ अलंकरोति तद्द्वारां भ्रमद्भृंगावली भृशम् ॥१३८॥ निष्कारणः पठेद्यस्तु प्रीत्यर्थं रेवतीपतेः ॥ नाम्नां सहस्रं राजेंद्र स जीवन्मुक्त उच्यते ॥१३९॥ सदा वसेत्तस्य गृहे बलभद्रोऽच्युताग्रजः ॥ महापातक्यपि जनः पठेन्नामसहस्रकम् ॥१४०॥ छित्त्वा मेरुसमं पापं भुक्त्वा सर्वसुखं त्विह ॥ परात्परं महाराज गोलोकं धाम याति हि ॥१४१॥ श्रीनारद उवाच - इति श्रुत्वाऽच्युताग्रजस्य बलदेवस्य पंचांगं धृतिमान् धार्तराष्ट्रः सपर्यया सहितया परया भक्त्या प्राड्विपाकं पूजयामास ॥ तमनुज्ञाप्याशिषं दत्वा प्राड्विपाको मुनींद्रो गजाह्वयात्स्वाश्रमं जगाम ॥१४२॥ भगवतोऽनंतस्य बलभद्रस्य परब्रह्मणः कथां यः शृणुते श्रावयते तयाऽऽनंदमयो भवति ॥१४३॥ इदं मया ते कथितं नृपेन्द्र सर्वार्थदं श्रीबलभद्रखंडम् ॥ शृणोति यो धाम हरेः स याति विशोकमानंदमखंडरूपम् ॥१४४॥ इति श्रीगर्गसंहितायां बलभद्रखण्डे प्राड्विपाकदुर्योधनसंवादे बलभद्रसहस्रनामवर्णनं नाम त्रयोदशोऽध्यायः ॥१३॥ हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
balabhadrakhaṇḍaḥ - trayodaśo'dhyāyaḥ balarāma sahasranāmam - duryodhana uvāca - balabhadrasya devasya prāḍvipāka mahāmune || nāmnāṃ sahasraṃ me brūhi guhyaṃ devagaṇairapi ||1|| prāḍvipāka uvāca - sādhu sādhu mahārāja sādhu te vimalaṃ yaśaḥ || yatpṛcchase paramidaṃ gargoktaṃ devadurlabham ||2|| nāmnāṃ sahasraṃ divyānāṃ vakṣyāmi tava cāgrataḥ || gargācāryeṇa gopībhyo dattaṃ kṛṣṇātaṭe śubhe ||3|| oṃasya śrībalabhadrasahasranāmastrotramaṃtrasya gargācārya ṛṣiḥ anuṣṭup chandaḥ saṃkarṣaṇaḥ paramātmā devatā balabhadra iti bījaṃ revatīti śaktiḥ anaṃta iti kīlakaṃ balabhadraprītyarthe jape viniyogaḥ || atha dhyānam sphuradamalakirīṭaṃ kiṃkiṇīkaṃkaṇārhaṃ caladalakakapolaṃ kuṃḍalaśrīmukhābjam || tuhinagirimanojñaṃ nīlameghāṃbarāḍhyaṃ halamusalaviśālaṃ kāmapālaṃ samīḍe ||4|| oṃ balabhadro rāmabhadro rāmaḥ saṃkarṣaṇo'cyutaḥ || revatīramaṇo devaḥ kāmapālo halāyudhaḥ ||5|| nīlāṃbaraḥ śvetavarṇo baladevo'cyutāgrajaḥ || pralaṃbaghno mahāvīro rauhiṇeyaḥ pratāpavān ||6|| tālāṃko musalī halī hariryaduvaro balī || sīrapāṇiḥ padmapāṇirlaguḍī veṇuvādanaḥ ||7|| kāliṃdibhedano vīro balaḥ prabala ūrdhvagaḥ || vāsudevakalānantaḥ sahasravadanaḥ svarāṭ ||8|| vasurvasumatībhartā vāsudevo vasūttamaḥ || yadūttamo yādavendro mādhavo vṛṣṇivallabhaḥ ||9|| dvārakeśo māthureśo dānī mānī mahāmanāḥ || pūrṇaḥ purāṇaḥ puruṣaḥ pareśaḥ parameśvaraḥ ||10|| paripūrṇatamaḥ sākṣātparamaḥ puruṣottamaḥ || anantaḥ śāśvataḥ śeṣo bhagavānprakṛteḥ paraḥ ||11|| jīvātmā paramātmā ca hyaṃtarātmā dhruvo'vyayaḥ || caturvyūhaścaturveda-ścaturmūrtiścatuṣpadaḥ ||12|| pradhānaṃ prakṛtiḥ sākṣī saṃghātaḥ saṃghavān sakhī || mahāmanā buddhisakhaśceto'haṃkāra āvṛtaḥ ||13|| indriyeśo devātātmā jñānaṃ karma ca śarma ca || advitīyo dvitīyaśca nirākāro nirañjanaḥ ||14|| virāṭ samrāṭ mahaughaśca dhāraḥ sthāsnuścariṣṇumān || phaṇīndraḥ phaṇirājaśca sahasraphaṇamaṇḍitaḥ ||15|| phaṇīśvaraḥ phaṇī sphūrtiḥ phūtkārī cītkaraḥ prabhuḥ || maṇihāro maṇidharo vitalī sutalī talī ||16|| atalī sutaleśaśca pātālaśca talātalaḥ || rasātalo bhogitalaḥ sphuraddanto mahātalaḥ ||17|| vāsukiḥ śaṃkhacūḍābho devadatto dhanaṃjayaḥ || kaṃbalāśvo vegataro dhṛtarāṣṭro mahābhujaḥ ||18|| vāruṇīmadamattāṅgo madaghūrṇitalocanaḥ || padmākṣaḥ padmamālī ca vanamālī madhuśravāḥ ||19|| koṭikaṃdarpalāvaṇyo nāgakanyāsamarcitaḥ || nūpurī kaṭisūtrī ca kaṭakī kanakāṃgadī ||20|| mukuṭī kuṇḍalī daṇḍī śikhaṇḍī khaṃḍamaṃḍalī || kaliḥ kalipriyaḥ kālo nivātakavaceśvaraḥ ||21|| saṃhārakadrurdravayuḥ kālāgniḥ pralayo layaḥ || mahāhiḥ pāṇiniḥ śāstrabhāṣyakāraḥ patañjaliḥ ||22|| kātyāyanaḥ pakvimābhaḥ sphoṭāyana uraṅgamaḥ || vaikuṃṭho yājñiko yajño vāmano hariṇo hariḥ ||23|| kṛṣṇo viṣṇurmahāviṣṇuḥ prabhaviṣṇurviśeṣavit || haṃso yogeśvaraḥ kūrmo vārāho nārado muniḥ ||24|| sanakaḥ kapilo matsyaḥ kamaṭho devamaṃgalaḥ || dattātreyaḥ pṛthurvṛddha ṛṣabho bhārgavottamaḥ ||25|| dhanvantarirnṛsiṃhaśca kalirnārāyaṇo naraḥ || rāmacandro rāghavendraḥ kośalendro raghūdvahaḥ ||26|| kākutsthaḥ karuṇāsiṃdhū rājendraḥ sarvalakṣaṇaḥ || śūro dāśarathistrātā kausalyānandavarddhanaḥ ||27|| saumitrirbharato dhanvī śatrughnaḥ śatrutāpanaḥ || niṣaṃgī kavacī khaḍgī śarī jyāhatakoṣṭhakaḥ ||28|| baddhagodhāṅgulitrāṇaḥ śaṃbhukodaṇḍabhaṃjanaḥ || yajñatrātā yajñabhartā mārīcavadhakārakaḥ ||29|| asurāristāṭakārirvibhīṣaṇasahāyakṛt || pitṛvākyakaro harṣī virādhārirvanecaraḥ ||30|| munirmunipriyaścitra-kūṭāraṇyanivāsakṛt || kabaṃdhahā daṇḍakeśo rāmo rājīvalocanaḥ ||31|| mataṃgavanasaṃcārī netā paṃcavaṭīpatiḥ || sugrīvaḥ sugrīvasakho hanumatprītamānasaḥ ||32|| setubandho rāvaṇāri-rlaṃkādahanatatparaḥ || rāvaṇyariḥ puṣpakastho jānakīvirahāturaḥ ||33|| ayodhyādhipatiḥ śrīmā~llavaṇāriḥ surārcitaḥ || sūryavaṃśī caṃdravaṃśī vaṃśīvādyaviśāradaḥ ||34|| gopatirgopavṛṃdeśo gopo gopīśatāvṛtaḥ || gokuleśo gopaputro gopālo gogaṇāśrayaḥ ||35|| pūtanārirbakāriśca tṛṇāvartanipātakaḥ || aghārirdhenukāriśca pralaṃbārirvrajeśvaraḥ ||36|| ariṣṭahā keśiśatrurvyomāsuravināśakṛt || agnipāno dugdhapāno vṛṃdāvanalatāśritaḥ ||37|| yaśomatīsuto bhavyo rohiṇīlālitaḥ śiśuḥ || rāsamaṃḍalamadhyastho rāsamaṃḍalamaṃḍanaḥ ||38|| gopikāśatayūthārthī śaṃkhacūḍavadhodyataḥ || govardhanasamuddhartā śakrajidvrajarakṣakaḥ ||39|| vṛṣabhānuvaro naṃda ānando nandavardhanaḥ || nandarājasutaḥ śrīśaḥ kaṃsāriḥ kāliyāṃtakaḥ ||40|| rajakārirmuṣṭikāriḥ kaṃsakodaṇḍabhaṃjanaḥ || cāṇūrāriḥ kūṭahaṃtā śalāristośalāṃtakaḥ ||41|| kaṃsabhrātṛnihantā ca mallayuddhapravartakaḥ || gajahantā kaṃsahantā kālahantā kalaṅkahā ||42|| māgadhāriryavanahā pāṃḍuputrasahāyakṛt || caturbhujaḥ śyāmalāṃgaḥ saumyaścaupagavipriyaḥ ||43|| yuddhabhṛduddhavasakhā mantrī mantraviśāradaḥ || vīrahā vīramathanaḥ śaṃkhacakragadādharaḥ ||44|| revatīcittahartā ca revatīharṣavarddhanaḥ || revatīprāṇanāthaśca revatīpriyakārakaḥ ||45|| jyotirjyotiṣmatībhartā raivatādrivihārakṛt || dhṛtinātho dhanādhyakṣo dānādhyakṣo dhaneśvaraḥ ||46|| maithilārcitapādābjo mānado bhaktavatsalaḥ || duryodhanagururgurvīgadāśikṣākaraḥ kṣamī ||47|| murārirmadano mando'niruddho dhanvināṃ varaḥ || kalpavṛkṣaḥ kalpavṛkṣī kalpavṛkṣavanaprabhuḥ ||48|| syamantakamaṇirmānyo gāṃḍīvī kauraveśvaraḥ || kumbhāṇḍakhaṇḍanakaraḥ kūpakarṇaprahārakṛt ||49|| sevyo raivatajāmātā madhumādhavasevitaḥ || baliṣṭhapuṣṭasarvāṃgo hṛṣṭaḥ puṣṭaḥ praharṣitaḥ ||50|| vārāṇasīgataḥ kruddhaḥ sarvaḥ pauṃḍrakaghātakaḥ || sunandī śikharī śilpī dvividāṃganiṣūdanaḥ ||51|| hastināpurasaṃkarṣī rathī kauravapūjitaḥ || viśvakarmā viśvadharmā devaśarmā dayānidhiḥ ||52|| mahārājacchatradharo mahārājopalakṣaṇaḥ || siddhagītaḥ siddhakathaḥ śuklacāmaravījitaḥ ||53|| tārākṣaḥ kīranāsaśca bimboṣṭhaḥ susmitacchaviḥ || karīndrakaradordaṃḍaḥ pracaṃḍo meghamaṇḍalaḥ ||54|| kapāṭavakṣāḥ pīnāṃsaḥ padmapādasphuraddyutiḥ || mahavibhūtirbhūteśo baṃdhamokṣī samīkṣaṇaḥ ||55|| caidyaśatruḥ śatrusaṃdho daṃtavaktraniṣūdakaḥ || ajātaśatruḥ pāpaghno haridāsasahāyakṛt ||56|| śālabāhuḥ śālvahantā tīrthayāyī janeśvaraḥ || naimiṣāraṇyayātrārthī gomatītīravāsakṛt ||57|| gaṃḍakīsnānavānsragvī vaijayantīvirājitaḥ || amlānapaṃkajadharo vipāśī śoṇasaṃplutaḥ ||58|| prayāgatīrtharājaśca sarayūḥ setubandhanaḥ || gayāśiraśca dhanadaḥ paulastyaḥ pulahāśramaḥ ||59|| gaṃgāsāgarasaṃgārthī saptagodāvarīpatiḥ || veṇi bhīmarathī godā tāmraparṇī vaṭodakā ||60|| kṛtamālā mahāpuṇyā kāverī ca payasvinī || pratīcī suprabhā veṇī triveṇī sarayūpamā ||61|| kṛṣṇā paṃpā narmadā ca gaṃgā bhāgīrathī nadī || siddhāśramaḥ prabhāsaśca bindurbindusarovaraḥ ||62|| puṣkaraḥ saiṃdhavo jaṃbū naranārāyaṇāśramaḥ || kurukṣetrapatī rāmo jāmadagnyo mahāmuniḥ ||63|| ilvalātmajahantā ca sudāmāsaukhyadāyakaḥ || viśvajidviśvanāthaśca trilokavijayī jayī ||64|| vasantamālatīkarṣī gado gadyo gadāgrajaḥ || guṇārṇavo guṇanidhirguṇapātro guṇākaraḥ ||65|| raṃgavallījalākāro nirguṇaḥ saguṇo bṛhat || dṛṣṭaḥ śruto bhavadbhūto bhaviṣyaccālpavigrahaḥ ||66|| anādirādirānandaḥ pratyagdhāmā nirantaraḥ || guṇātītaḥ samaḥ sāmyaḥ samadṛṅ nirvikalpakaḥ ||67|| gūḍhāvyūḍho guṇo gauṇo guṇābhāso guṇāvṛtaḥ || nityo'kṣaro nirvikāro'kṣaro'jasrasukho'mṛtaḥ ||68|| sarvagaḥ sarvavitsārthaḥ samabuddhiḥ samaprabhaḥ || akledyo'cchedya āpūrṇo śoṣyo dāhyo nivartakaḥ ||69|| brahma brahmadharo brahmā jñāpako vyāpakaḥ kaviḥ || adhyātmako'dhibhūtaścādhidaivaḥ svāśrayāśrayaḥ ||70|| mahāvāyurmahāvīraśceṣṭārūpatanusthitaḥ || prerako bodhako bodhī trayoviṃśatiko gaṇaḥ ||71|| aṃśāṃśaśca narāveśo'vatāro bhūparisthitaḥ || maharjanastapaḥsatyaṃ bhūrbhuvaḥsvariti tridhā ||72|| naimittikaḥ prākṛtika ātyaṃtikamayo layaḥ || sargo visargaḥ sargādirnirodho rodha ūtimān ||73|| manvantarāvatāraśca manurmanusuto'naghaḥ || svayaṃbhūḥ śāṃbhavaḥ śaṃkuḥ svāyaṃbhuvasahāyakṛt ||74|| surālayo devagirirmerurhemārcito giriḥ || giriśo gaṇanāthaśca girīśo girigahvaraḥ ||75|| viṃdhyastrikūṭo mainākaḥ suvelaḥ pāribhadrakaḥ || pataṃgaḥ śiśiraḥ kaṃko jārudhiḥ śailasattamaḥ ||76|| kālaṃjaro bṛhatsānurdarībhṛnnaṃdikeśvaraḥ || saṃtānastarurājaśca mandāraḥ pārijātakaḥ ||77|| jayaṃtakṛjjayaṃtāṃgo jayantīdigjayākulaḥ || vṛtrahā devalokaśca śaśī kumudabāṃdhavaḥ ||78|| nakṣatreśaḥ sudhāsiṃdhurmṛgaḥ puṣyaḥ punarvasuḥ || hasto'bhijicca śravaṇo vaidhṛtirbhāskarodayaḥ ||79|| aindraḥ sādhyaḥ śubhaḥ śuklo vyatīpāto dhruvaḥ sitaḥ || śiśumāro devamayo brahmaloko vilakṣaṇaḥ ||80|| rāmo vaikuṇṭhanāthaśca vyāpī vaikuṇṭhanāyakaḥ || śvetadvīpo jitapado lokālokācalāśritaḥ ||81|| bhūmirvaikuṇṭhadevaśca koṭibrahmāṃḍakārakaḥ || asaṃkhyabrahmāṃḍapati-rgolokeśo gavāṃ patiḥ ||82|| golokadhāmadhiṣaṇo gopikākaṃṭhabhūṣaṇaḥ || śrīdhāraḥ śrīdharo līlādharo giridharo dhurī ||83|| kuṃtadhārī triśūlī ca bībhatsī ghargharasvanaḥ || śūlasūcyarpitagajo gajacarmadharo gajī ||84|| aṃtramālī muṇḍamālī vyālī daṃḍakamaṇḍaluḥ || vetālabhṛdbhūtasaṃghaḥ kūṣmāṃḍagaṇasaṃvṛtaḥ ||85|| pramatheśaḥ paśupatirmṛḍānīśo mṛḍo vṛṣaḥ || kṛtāṃtakālasaṃghāriḥ kūṭaḥ kalpāṃtabhairavaḥ ||86|| ṣaḍānano vīrabhadro dakṣayajñavighātakaḥ || kharparāśī viṣāśī ca śaktihastaḥ śivārthadaḥ ||87|| pinākaṭaṃkārakaraścalajjhaṃkāranūpuraḥ || paṃḍitastarkavidvānvai vedapāṭhī śrutīśvaraḥ ||88|| vedāṃtakṛtsāṃkhyaśāstrī mīmāṃsī kaṇanāmabhāk || kāṇādirgautamo vādī vādo naiyāyiko nayaḥ ||89|| vaiśeṣiko dharmaśāstrī sarvaśāstrārthatattvagaḥ || vaiyākaraṇakṛcchaṃdo vaiyāsaḥ prākṛtirvacaḥ ||90|| pārāśarīsaṃhitāvitkāvyakṛnnāṭakapradaḥ || paurāṇikaḥ smṛtikaro vaidyo vidyāviśāradaḥ ||91|| alaṃkāro lakṣaṇārtho vyaṃgyaviddhanavaddhvaniḥ || vākyasphoṭaḥ padasphoṭaḥ sphoṭavṛttiśca sārthavit ||92|| śṛṅgāra ujjvalaḥ svaccho'dbhuto hāsyo bhayānakaḥ || aśvattho yavabhojī ca yavakrīto yavāśanaḥ ||93|| prahlādarakṣakaḥ snigdha ailavaṃśavivarddhanaḥ || gatādhiraṃbarīṣāṃgo vigādhirgādhināṃ varaḥ ||94|| nānāmaṇisamākīrṇo nānāratnavibhūṣaṇaḥ || nānāpuṣpadharaḥ puṣpī puṣpadhanvā prapuṣpitaḥ ||95|| nānācaṃdanagaṃdhāḍhyo nānāpuṣparasārcitaḥ || nānāvarṇamayo varṇo nānāvastradharaḥ sadā ||96|| nānāpadmakaraḥ kauśī nānākauśeyaveṣadhṛk || ratnakaṃbaladhārī ca dhautavastrasamāvṛtaḥ ||97|| uttarīyadharaḥ parṇo ghanakaṃcukasaṃghavān || pītoṣṇīṣaḥ sitoṣṇīṣo raktoṣṇīṣo digaṃbaraḥ ||98|| divyāṃgo divyaracano divyalokavilokitaḥ || sarvopamo nirupamo golokāṅgīkṛtāṅgaṇaḥ ||99|| kṛtasvotsaṃgago lokaḥ kuṇḍalībhūta āsthitaḥ || māthuro māthurādarśī calatkhaṃjanalocanaḥ ||100|| dadhihartā dugdhaharo navanītasitāśanaḥ || takrabhuk takrahārī ca dadhicauryakṛtaśramaḥ ||101|| prabhāvatībaddhakaro dāmī dāmodaro damī || sikatābhūmicārī ca bālakelirvrajārbhakaḥ ||102|| dhūlidhūsarasarvāṃgaḥ kākapakṣadharaḥ sudhīḥ || muktakeśo vatsavṛṃdaḥ kāliṃdīkūlavīkṣaṇaḥ ||103|| jalakolāhalī kūlī paṅkaprāṃgaṇalepakaḥ || śrīvṛṃdāvanasaṃcārī vaṃśīvaṭataṭasthitaḥ ||104|| mahāvananivāsī ca lohārgalavanādhipaḥ || sādhuḥ priyatamaḥ sādhyaḥ sādhvīśo gatasādhvasaḥ ||105|| raṃganātho viṭhṭhaleśo muktinātho'ghanāśakaḥ || sukirtiḥ suyaśāḥ sphīto yaśasvī raṃgaraṃjanaḥ ||106|| rāgaṣaṭko rāgaputro rāgiṇīramaṇotsukaḥ || dīpako meghamalhāraḥ śrīrāgo mālakośakaḥ ||107|| hindolo bhairavākhyaśca svarajātismaro mṛduḥ || tālo mānapramāṇaśca svaragamyaḥ kalākṣaraḥ ||108|| śamī śyāmī śatānandaḥ śatayāmaḥ śatakratuḥ || jāgaraḥ supta āsuptaḥ suṣuptaḥ svapna urvaraḥ ||109|| urjaḥ sphūrjo nirjaraśca vijvaro jvaravarjitaḥ || jvarajijjvarakartā ca jvarayuk trijvaro jvaraḥ ||110|| jāṃbavān jaṃbukāśaṃkī jaṃbūdvīpo dvipārihā || śālmaliḥ śālmalidvīpaḥ plakṣaḥ plakṣavaneśvaraḥ ||111|| kuśadhārī kuśaḥ kauśī kauśikaḥ kuśavigrahaḥ || kuśasthalīpatiḥ kāśīnātho bhairavaśāsanaḥ ||112|| dāśārhaḥ sātvato vṛṣṇirbhojo'dhakanivāsakṛt || aṃdhako dundubhirdyotaḥ pradyotaḥ sātvatāṃ patiḥ ||113|| śūraseno'nuviṣayo bhojavṛṣṇyaṃdhakeśvaraḥ || āhukaḥ sarvanītijña ugraseno mahogravāk ||114|| ugrasenapriyaḥ prārthyaḥ pārtho yadusabhāpatiḥ || sudharmādhipatiḥ sattvaṃ vṛṣṇicakrāvṛto bhiṣak ||115|| sabhāśīlaḥ sabhādīpaḥ sabhāgniśca sabhāraviḥ || sabhācaṃdraḥ sabhābhāsaḥ sabhādevaḥ sabhāpatiḥ ||116|| prajārthadaḥ prajābhartā prajāpālanatatparaḥ || dvārakādurgasaṃcārī dvārakāgrahavigrahaḥ ||117|| dvārakāduḥkhasaṃhartā dvārakājanamaṃgalaḥ || jaganmātā jagattrātā jagadbhartā jagatpitā ||118|| jagadbaṃdhurjagadbhrātā jaganmitro jagatsakhaḥ || brahmaṇyadevo brahmaṇyo brahmapādarajo dadhat ||119|| brahmapādarajaḥsparśī brahmapādaniṣevakaḥ || viprāṃghrijalapūtāṃgo viprasevāparāyaṇaḥ ||120|| vipramukhyo viprahito vipragītamahākathaḥ || viprapādajalārdrāṅgo viprapādodakapriyaḥ ||121|| viprabhakto vipragururvipro viprapadānugaḥ || akṣauhiṇīvṛto yoddhā pratimāpaṃcasaṃyutaḥ ||122|| caturoṃ'girāḥ padmavartī sāmaṃtoddhṛtapādukaḥ || gajakoṭiprayāyī ca rathakoṭijayadhvajaḥ ||123|| mahārathaścātiratho jaitraṃ syaṃdanamāsthitaḥ || nārāyaṇāstrī brahmāstrī raṇaślāghī raṇodbhaṭaḥ ||124|| madotkaṭo yuddhavīro devāsurabhayaṃkaraḥ || karikarṇamarutprejatkuṃtalavyāptakuṃḍalaḥ ||125|| agrago vīrasaṃmardo mardalo raṇadurmadaḥ || bhaṭaḥ pratibhaṭaḥ procyo bāṇavarṣī sutoyadaḥ ||126|| khaḍgakhaṃḍitasarvāṃgaḥ ṣoḍaśābdaḥ ṣaḍakṣaraḥ || vīraghoṣaḥ kliṣṭavapurvajrāṃgo vajrabhedanaḥ ||127|| rugṇavajro bhagnadaṃḍaḥ śatrunirbhatsanodyataḥ || aṭṭahāsaḥ paṭṭadharaḥ paṭṭarājñīpatiḥ paṭuḥ ||128|| kalaḥ paṭahavāditro huṃkāro garjitasvanaḥ || sādhurbhaktaparādhīnaḥ svataṃtraḥ sādhubhūṣaṇaḥ ||129|| asvataṃtraḥ sādhumayaḥ sādhugrastamanā manāk || sādhupriyaḥ sādhudhanaḥ sādhujñātiḥ sudhāghanaḥ ||130|| sādhucārī sādhucittaḥ sādhuvāsī śubhāspadaḥ || iti nāmnāṃ sahasraṃ tu balabhadrasya kīrtitam || 131|| sarvasiddhipradaṃ nṝṇāṃ caturvargaphalapradam || śatavāraṃ paṭhedyastu sa vidyāvān bhavediha ||132|| indirāṃ ca vibhūtiṃ cābhijanaṃ rūpameva ca || balamojaśca paṭhanātsarvaṃ prāpnoti mānavaḥ ||133|| gaṃgākūle'tha kāliṃdikūle devālaye tathā || sahasrāvartapāṭhena balātsiddhiḥ prajāyate ||134|| putrārthī labhate putraṃ dhanārthī labhate dhanam || baṃdhātpramucyate baddho rogī rogānnivartate ||135|| ayutāvartapāṭhe ca puraścaryāvidhānataḥ || homatarpaṇagodānaviprārcanakṛtodyamāt ||136|| paṭalaṃ paddhatiṃ stotraṃ kavacaṃ tu vidhāya ca || mahāmaṃḍalabhartā syānmaṃḍito maṃḍaleśvaraiḥ ||137|| mattebhakarṇaprahitā madagaṃdhena vihvalā || alaṃkaroti taddvārāṃ bhramadbhṛṃgāvalī bhṛśam ||138|| niṣkāraṇaḥ paṭhedyastu prītyarthaṃ revatīpateḥ || nāmnāṃ sahasraṃ rājeṃdra sa jīvanmukta ucyate ||139|| sadā vasettasya gṛhe balabhadro'cyutāgrajaḥ || mahāpātakyapi janaḥ paṭhennāmasahasrakam ||140|| chittvā merusamaṃ pāpaṃ bhuktvā sarvasukhaṃ tviha || parātparaṃ mahārāja golokaṃ dhāma yāti hi ||141|| śrīnārada uvāca - iti śrutvā'cyutāgrajasya baladevasya paṃcāṃgaṃ dhṛtimān dhārtarāṣṭraḥ saparyayā sahitayā parayā bhaktyā prāḍvipākaṃ pūjayāmāsa || tamanujñāpyāśiṣaṃ datvā prāḍvipāko munīṃdro gajāhvayātsvāśramaṃ jagāma ||142|| bhagavato'naṃtasya balabhadrasya parabrahmaṇaḥ kathāṃ yaḥ śṛṇute śrāvayate tayā''naṃdamayo bhavati ||143|| idaṃ mayā te kathitaṃ nṛpendra sarvārthadaṃ śrībalabhadrakhaṃḍam || śṛṇoti yo dhāma hareḥ sa yāti viśokamānaṃdamakhaṃḍarūpam ||144|| iti śrīgargasaṃhitāyāṃ balabhadrakhaṇḍe prāḍvipākaduryodhanasaṃvāde balabhadrasahasranāmavarṇanaṃ nāma trayodaśo'dhyāyaḥ ||13|| hariḥ oṃ tatsat śrīkṛṣṇārpaṇamastu ||
English translation
Balabhadra - Sahasranama
Duryodhana said, "O great prince! Tell me the Sahasranama of Lord Balabhadra, which is confidential and unknown even to the gods. 1.
Sadhu! The sage Pradwipak said, "Sadhu, Maharaj! Your fame is absolutely pure. What you have questioned is narrated by Param Devdurlabh Sahasranam Gargajike. I am describing to you those divine Sahasranamas. Gargacharya had bestowed this Sahasranama on the Gopis on the auspicious banks of the Yamuna. 2.
Upanayana Om Asya Sri Balabhadra Sahastranamastotrasya Mantrasya Gargacharya Rishi:, Anushtupa Chanda:, Sankarshana: Paramatma Devta, Balabhadra Iti Bijam, Revatiramana Iti Shakti:, Ananta Iti Keelikam, Balabhadra Prietyarte Jape Upanayana:. " 3.
(This Balabhadra Sahasranamastotra form of mantra is Gargacharya Rishi, Anushtupa is Chanda, Paramatma is Sankarsha Devta, Balabhadra is Seed, Revatiramana is Shakti, Eternal is Key, it is appropriated for the love of Sri Balabhadra. 3 |) (Shribalabhadrakhand chapter 7 to 13)
After reading this, leave the Sahasranama water to the reader. Then meditate as follows -
Dhyana Fursadamalakritam Kinkinkankanayi Chaladalkapolam Kundalashrimukhabjam. Tuhinagiri Manojana Nilameghambaradacha Halmusalavishal Kampalam Samide. 4. whose immaculate crown is shining, adorned with earrings and bracelets, whose foreheads are adorned with vibrant alcoves, whose faces are illuminated by lotus coils, who are as gracefully bright as the Himalayas, and wearing sapphires. I praise Lord Kampala Balabhadra, the great plough-bearer. 4.
1. Om Balabhadra, 2. Rambhadra, 3. Rama, 4. Sankarshana, 5. Achyuta, 6. Revatiramana, 7. Deva, 8. Kampala, 9. Halayudha. 5.
10. Nilambar, 19. Shwetavarna, 12. Baldev, 13. Achyutagraj, 14. Pralabhagna, 15. Mahavira, 16. Rohinayya, 17. Pratapavana. 6.
18. Talanka, 19. Musali, 20. Hali, 21. Hari, 22. Yaduvar, 23. Bali, 24. Sirapani, 25. Padmapani, 26. Lagudi, 27. Venuvadana. 7.
28. Kalindibhedan, 29. Veera, 30. Bal, 31. Prabal, 32. Uttarga, 33. Vasudevakala, 34. Ananta, 35. Sahasravadana, 36. Swara. 8.
37. Vasu, 38. Vasumati, 39. Bharata, 400. Vasudeva, 41. Vasuttam, 42. Yaduttam, 43. Yadavendra, 44. Madhava, 45. Vrishnivallabha. 9.
46. Dwarakesh, 47. Mathuresh, 48. Dani, 49. Mani, 50. Mahamana, 51. Purna, 52. Purana, 53. Purusha, 54. Paresh, 55. Parameshwara. 10.
56. The Absolute, 57. The Absolute, 58. The Supreme, 59. The Infinite, 60. The Eternal, 61. The Shesh, 62. The Divine, 63. On the Nature. 11.
64. Jivatma, 65. Paramatma, 66. Antaratma, 67. Dhruva, 68. Avyaya, 69. Chaturayuha, 70. Chaturvedi, 79. Chaturmurti, 72. Chatushpada. 12 | (Shribalabhadrakhand Chapter 7 to 13)
73. Pradhan, 74. Prakriti, 75. Sakshi, 76. Sanghavana, 77. Sanghavana, 78. Sakhi, 79. Mahamana, 80. Budhisakh, 81. Chet, 82. Ego, 83. Avrita. 13.
84. Indresh, 85. Devata, 86. Atman, 87. Jnana, 88. Karma, 89. Shame, 90. Unique, 91. II. 92. Formless, 93. Nirvana. 14.
94. Virat, 95. Samrat, 96. Mahugh, 97. Aadhar, 98. Sthastu, 99. Charishnumana, 100. Phanindra, 101. Phaniraj, 102. Sahasra Phanamandit. 15.
103. Phanishwar, 104. Phani, 105. Furti, 106. Futkari, 107. Cheetkar, 108. Prabhu, 109. Manihara, 110. Manidhar, 111. Vitali, 112. Sutali, 113. Tali. 16.
114. Atali, 115. Sutalesh, 116. Patal, 117. Talatal, 118. Rasatal, 119. Bhogital, 120. Spuraddanta, 121. Mahatal. 17.
122. Vasuki, 123. Shankhachudabha, 124. Devadatta, 125. Dhananjaya, 126. Kambalashva, 127. Vegatar, 128. Dhritarashtra, 129. Mahabhuja. 18.
130. Varunimadamattang, 131. Madaghurnit-lochan, 132. Padmaksha, 133. Padmamali, 134. Vanamali, 135. Madhushrava. 19.
136. Kotikandarpalavanya, 137. Nagakanya - Dedicated, 138. Nupuri, 139. Katki, 141. Kanakangadi. 20. (Shribalabhadrakhand chapter 7 to 13)
Katisutri, 140.142. Mukuti, 143. Kundali, 144. Dandi, 145. Shikhandi, 146. Khandamandali, 147. Kali, 148. Kalipriya, 149. Kaal, 150. Nivatakavchesvara. 21.
151. Saharkruta, 152. Rudravapu, 153. Kalagni, 154. Pralaya, 155. Laya, 156. Mahahi, 157. Panini, 158. Shastrakar, 159. Bhashya-kar, 160. Patanjali. 22.
161. Katyayana, 162. Fakkikabhu, 163. Poshtayana, 164. Urangam, 165. Vaikuntha, 166. Yajnik, 167. Yajna, 168. Vamana, 169. Harina, 170. Hari. 23.
171. Krishna, 172. Vishnu, 173. Mahavishnu, 174. Prabhavishnu, 175. Visheshvitta, 176. Hansa, 177. Yogesvara, 178. Kurma, 179. Varaha, 180. Narada, 181. Muni. 24.
182. Sanak, 183. Kapila, 184. Matsya, 185. Kamath, 186. Deomangal, 187. Dattatreya, 188. Prithu, 189. Vriddha, 1900. Rishabha, 1990. Bhargavottam. 25.
192. Dhanvantari, 193. Nrusingha, 194. Kalki, 195. Narayana, 196. Nar, 197. Ramachandra, 1980. Raghavendra, 199. Koslendra, 200. Raghudvah. 26.
201. Kakutstha, 202. Karunasindhu, 203. Rajendra, 204. Sarvakshana, 205. Shura, 206. Dasarathi, 207. Trata, 208. Kausalyanandavardhana. 27.
209. Saumitri, 210. Bharata, 211. Dhanvi, 212. Shatrughra, 213. Shatrughna, 214. Nishangi, 215. Kavachi, 216. Khadgi, 217. Shari, 218. Jyathakosthaka. 28.
219. Badhagodhangulitran, 220. Shambhu-Kodandabhanjan, 229. Yajñatrāta, 222. Yajñabharta, 223. Marichavadhakaraka. 29.
224. Asurari, 225. Tadkari, 226. Vibhishana Sahayakrut, 227. Pitruvakakar, 228. Harshi, 229. Viradhari, 230. Vanechar. 30.
231. Muni, 232. Munipriya, 233. Chitra-Kutaranya Niwasakrita, 234. Kabandha, 235. Dandakesh, 236. Rama, 237. Rajivlochan. 31.
238. Matanga, 239. Vanachari, 240. Netta, 241. Panchavatipati, 242. Sugriva, 243. Sugrivasakha, 244. Hanumatapritamanasa. 32.
245. Setubandha, 246. Ravanaari, 247. Lankadahantapara, 248. Ravanyari, 249. Pushpakastha, 250. Janakivirahatur. 33.
251. Ayodhyadhipati, 252. Sriman, 253. Lavanari, 254. Surarchit, 255. Suryavanshi, 256. Chandravanshi, 257. Vamshavidya Visharad. 34.
258. Gopati, 259. Gopavrndesh, 260. Gopa, 261. Gopishatavrita, 262. Gokulesh, 263. Gopa-putra, 264. Gopal, 265. Gognasraya. 35.
266. Putnari, 267. Vakari, 268. Haravarta-nitaka, 269. Aghari, 270. Dhenukari, 271. Prahlabari, 272. Vrajeswara. 36.
273. Arishthaha, 274. Keshishatru, 275. Vyomasuravinashakruta, 276. Agnipana, 277. Milking, 278. Vrindavanalata, 279. Dependent. 37.
280. Yashomatisuta, 281. Bhavya, 282. Rohinilalit, 283. Shishu, 284. Rasamandala - Mediator, 285. Rasamandala Mandana. 38.
286. Gopikashatayutharthi, 287. Shankhachuda Vadhodyata, 288. Govardhanasamudrta, 289. Shatrujit, 290. Vrajarakshaka. 39. (Shribalabhadrakhand chapter 7 to 13)
291. Vrishabhanuvar, 292. Nanda, 293. Ananda, 294. Nandavardhana, 295. Nandarajasut, 296. Shrish, 297. Kansari, 298. Kaliyantaka. 40.
299. Rajakari, 300. Mushtikari, 301. Kansakondabhanjan, 302. Chanurari, 303. Koot-Hanta, 304. Shalari, 305. Toshalantaka. 41.
306. Kansabhratnihanta, 307. Mallayuddha-Pramukhaka, 308. Gajahanta, 309. Kansahanta, 310. Kalahanta, 311. Kalankaha. 42.
312. Magadhari, 313. Yavanha, 314. Pandu - Putra Sahayakrita, 315. Chaturbhuj, 316. Shyamalanga, 317. Soumya, 318. Aupagavipriya. 43.
319. Yuddhabhut, 320. Udhavasakha, 321. Mantri, 322. Mantravisharada, 323. Veeraha, 324. Veeramadhana, 325. Shankhadhara, 326. Chakradhara, 327. Gadadhara. 44.
328. Revatichitaharta, 329. Revatiharsha-vardhana, 330. Revatipranath, 331. Revatipriya-karak. 45.
332. Jyothi, 333. Jyotishmati Bharata, 334. Ravatadriviharakruta, 335. Dhritinath, 336. Dhanadhyaksha, 337. Danadhyaksha, 338. Dhaneshwara. 46.
339. Maithilarchitapadabja, 340. Honorary, 341. Bhaktavatsala, 342. Duryodhana Guru, 343. Gurvi, 344. Gada Shikshakara, 345. Kshami. 47.
346. Murari, 347. Madan, 348. Manda, 3510. 349. Aniruddha, 350. Dhanvinavar, Kalpavriksha, 352. Kalpavriksha, 353. Kalpavriksha-Prabhu. 48.
354. Syamantakamani, 355. Manya, 356. Gandivi, 357. Kauraveshwara, 358. Kushmand-Pandankar, 359. Kupakarna Praharakruta. 49.
360. Sevya, 361. Revatjamata, 362. Madhusevita, 363. Madhusevita, 364. Durastha, 365. Pushtasarvanga, 366. Hrishta, 367. Pushta, 368. Praharshit. 50.
Sarva, 369. Varanasiagata, 370. Kuddha, 371. 372. Poundukhataka, 373. Sunandi, 374. Shikhari, 375. Shilpi, 376. Dwividanga Nishudana. 51.
377. Hastinapur Sankarshi, 378. Rathi, 379. Kauravapujita, 380. Vishwakarma, 381. Vishwadharma, 382. Devasharma, 383. Dayanidhi. 52.
384. Maharaj, 385. Chhatradhar, 386. Maha-Rajopanishthana, 387. Siddhageeta, 388. Siddhakatha, 389. Shuklachamaravijita. 53.
390. Taraksha, 391. Keeranas, 392. Bimbostha, 393. Susmitachchavi, 394. Karindra, Karadordanda, Medhamandala. 54.
396. Prachanda, 397.398. Kapatavaksha, 399. Peenanas, 400. Padma-pada, 401. Fursudyuti, 402. Mahavibhuti, 403. Bhutesh, 404. Bandhamokshi, 405. Samiksha. 55.
406. Chaidyasatru, 407. Shatrusandha, 408. Dantavakranishudaka, 409. Ajatashatru, 410. Papaghana, 411. Haridasa Sahayakrita. 56. (Shribalabhadrakhand chapter 7 to 13)
412. Shalbahu, 413. Shalvahanta, 414. Tirthayayi, 415. Janeshwara, 416. Naimisharanya-Yatrathi, 417. Gomati Teeravasakrut. 57.
418. Gandakistranavan, 419. Stragvi, 420. Vyjayanthivirajit, 421. Amlan, 422. Pankaj-Dhar, 423. Vipasi, 424. Shonasampalut. 58.
425. Prayagatirtharaj, 426. Sarayu, 427. Setubandhan, 428. Gayashir, 429. Dhanad, 430. Paulastya, 431. Pulahashram. 59. 432. Gangasagarasangarthi, 433. Saptagodavari-pati, 434. Veni, 435. Bhimarthi, 436. Goda, 437. Tamraparni, 438. Vatodaka. 60.
439. Kritamala, 440. Mahapunya, 441. Kaveri, 442. Payaswini, 443. Pratichi, 444. Suprabha, 445. Veni, 446. Triveni, 447. Sarayupama. 61.
448. Krishna, 449. Pampa, 450. Narmada, 451. Gadda, 452. Bhagirathi, 453. Nadi, 454. Siddhashram, 455. Prabhas, 456. Bindu, 457. Bindusarovar. 62.
458. Pushkar, 459. Sandhava, 460. Jambu, 461. Naranarayanashrama, 462. Kurukshetrapati, 463. Rama, 464. Jamad Granth, 465. Mahamuni. 63.
466. Ilvalatmajahanta, 467. Sudama, 468. Saubhayadaka, 469. Vishwajit, 470. Vishwanath, 471. Trilokavijayi, 472. Jai. 64.
473. Vasantamalatikarshi, 474. Gada, 475. Prose, 476. Gadagraj, 477. Gunarnava, 478. Guna-nidhi, 479. Gunapatri, 480. Multiply. 65.
481. Rangavalli, 482. Jalakara, 483. Nirguna, 484. Saguna, 485. Brihat, 486. Drishta, 487. Shruta, 488. Bhavata, 489. Bhoota, 490. Bhavishya, 491. Apavigraha. 66.
4950 492. Anadi, 493. etc., 494. Anand, Pratyagadham, 496. Nirvatantra, 497. Gunatitra, 498. Sam, 499. Samya, 500. Samadrk, 501. Nirvaplakar. 67.
502. Gupta, 503. Vyuddha, 504. Guna, 505. Adhyayana, 506. Gunabhasa, 507. Gunavrita, 508. Nitya, 509. Akshara, 510. Nirvikaara, 511. Kshara, 512. Ajastrasukh, 513. Amrit. 68.
514. Sarvanga, 515. Sarvavita, 516. Sartha, 517. Samabuddhi, 518. Samaprabha, 519. Akaledya, 520. Achchedya, 521. Apurna, 522. Ashosya, 523. Adhyaya, 524. Anivartaka. 69.
525. Brahma, 526. Brahmadhara, 527. Brahma, 528. Yajnaka, 529. Prakara, 530. Kavi, 531. Adhyatmya, 532. Adhubhuta, 533. Daryaiva, 534. Swashraya, 535. Ashraya. 70.
536. Mahavayu, 537. Mahavira, 538. Nishtha, 539. Rupatnusthita, 540. Prerak, 541. Bodhaka, 542. Bodhi, 543. Trayavishtikagana. 71. (Shribalabhadrakhand chapter 7 to 13)
544. Anshansh, 545. Naravesh, 546. Avatar, 547. Bhooparishthit, 548. Mah, 549. Jan, 550. Tap, 551. Satya, 552. Bhu, 553. Bhu, 554. Sv. 72.
555. Naimitika, 556. Naturika, 557. Atimikamaya Laya, 558. Sarga, 559. Visarga, 560. Sargaadi, 561. Nirodh, 562. Rodh, 563. Uthiman. 73.
564. Manvantaravatar, 565. Manu, 566. Manu-suta, 567. Anagh, 568. Swayambhu, 569. Shambhava, 570. Shonku, 571. Swayambhuva Sahayakrut. 74.
572. Suralaya, 573. Devagiri, 574. Meru, 575.hema, 576. Archit, 577. Giri, 578. Girish, 579. Gananath, 580. Gauri, 581. Ish, 582. Girigharwar. 75.
583. Vindhya, 584. Trikuta, 585. Manaka, 586. Suvel, 587. Paribhadrak, 588. Patang, 589. Sisir, 590. Kanka, 591. Jarudhi, 592. Shailasattam. 76.
593. Kalanjara, 594. Brihatsanu, 5950. Daribhrut, 596. Nandikesvara, 597. Santhan, 598. Taruraja, 599. Mandar, 600. Parijataka. 77.
601. Jayantakrita, 602. Jayantanga, 603. Jayanti, 604. Dig, 605. Jayakula, 6060. Vritraha, 607. Devaloka, 608. Sasi, 609. Kumudabandhava. 78.
610. Nakshatresh, 611. Sudha, 612. Sindhu, 613. Mrig, 614. Pushya, 615. Punarvasu, 616. Hasta, 617. Abhijit, 618. Shravan, 619. Vidyavrita, 620. Bhaskarodaya. 79.
621. Indra, 622. Sadhya, 623. Shubha, 624. Shukla, 625. Vyatipata, 626. Dhruva, 627. Sita, 628. Shishumar, 629. Devamaya, 630. Brahmaloka, 631. Vishyakta. 80.
632. Rama, 633. Vaikunthanatha, 634. Vividha, 635. Vaikunthanayak, 636. Shwetadvipa, 637. Ajitapada, 638. Lokalokachalashrita. 81.
639. Bhumi, 640. Vaikuntha Deva, 641. Koti-Brahmakara, 642. Anushtha Brahmandapati, 643. Golokesh, 644. Ga Pati. 82. (Shribalabhadrakhand chapter 7 to 13)
645. Golokdhamadhishan, 646. Gopika Kandabhushan, 647. Hridhar, 648. Sridhar, 649. Leeladhar, 650. Giridhar, 651. Dhuri. 83.
652. Kuntadhari, 653. Trishuli. 654. Bibhatsi, 655. Ghargharswan, 656. Shularpitagaj, 657. Sucharpitagaj, 658. Gajacharmadhar, 659. Gaji. 84.
660. Antramali, 661. Mundamali, 662. Vali, 663. Dandakamandalu, 664. Vetalabhrut, 665. Bhoota Sangha, 666. Kushmandaganasavrita. 85.
667. Pramadhesh, 668. Pashupati, 669. Mridani, 670. Ish, 671. Mrid, 672. Vrisha, 673. Kritanta-Sangari, 674. Kalasangari, 675. Kuta, 676. Kalpantabhairava. 86.
677, Shadanan, 678. Veerabhadra, 679. Daksha Yajna-Vighataka, 680. Kharparashi, 681. Vishashi, 682. Shaktistha, 683. Shiva, 684. Arthada. 87.
685. Pinakatankarkar, 686. Chalajhankar-Nupur, 687. Pandit, 688. Tark-Vidwan, 689. Vedapathi, 690. Shrutishvara. 88.
691. Vedantakrita, 692. Samkhyasastri, 693. Mimamsi, 694. Kananambhaka, 695. Kanadi, 696. Gotam, 697. Vadi. 698. Vad, 699. Nayayik, 700. Nay. 89.
701. Vaisheshika, 702. Dharmashastri, 703. Sarva-Shastraarthatvaga, 704. Vyakarana-krita, 705. Chanda 706. Vyasa, 707. Prakriti, 708. Vach. 90.
709. Parashari Samhita Vita, 710. Kavyakrita, 711. Natakaprada, 712. Puranic, 713. Smriti-Kara, 714. Vaidya, 795. Vidyavisharada. 99.
716. Alankar, 717. Lakshanartha, 798. Satire, 719. Phonetics, 720. Sound, 729. Sentence explosion, 722. Foot explosion, 723. Explosion activity, 724. Rasarthvit. 92.
725. Shringara, 726. Bright, 727. Clean, 728. Amazing, 729. Humor, 730. Terrifying, 739. Ashwath, 732. Yavabhoji, 733. Yavakrita, 734. Yavashana. 93.
735. Prahladrakshak, 736. Snigdha, 737. Elvamsavivardhana, 738. Gatadhi, 739. Ambarishang, 740. Vigadhi, 741. Gadhinam Vara. 94.
742. Nanamanisamakirna, 743. Nanaratna Vibhushan, 744. Nanapushpadhar, 745. Pushpi, 746. Pushpadhanva, 747. Prapushyit. 95.
748. Nanachandanagandhadhandha, 749. Nanapushpa-rasarchitta, 750. Nanavarnamaya, 751. Varna, 752. Sada Nanavasvadhara. 96.
753. Nanapadmakar, 754. Kaushi, 755. Nanakausheyavedhrik, 756. Ranakambaladhari, 757. Thouvastra Samavrita. 97.
758. Uttaridhara, 759. Purna, 760. Ghan-Kanchakavan, 761. Sanghavana, 762. Pitoshnisha, 763. Sitoshnisha, 764. Raktoshnisha, 765. Digambara. 98.
766. Divyang, 767. Divyārachna, 768. Divyalokavilokita, 769. Sarvopam, 770. Nirupam, 771. Golokankikiritangan. 99.
772. Kritasvotsanggolok, 773. Kundali, 774. Bhoot, 775. Asthan, 776. Mathur, 777. Mathura, 778. Adarshi, 779. Chalatkhanjan-lochan. 100.
780. Dadhiharta, 781. Dudhahar, 782. Navneet Sitashan, 783. Takrabhuk, 784. Takrahari, 785. Dadhichaurikritashram. 101. (Shribalabhadrakhand chapter 7 to 13)
786. Prabhavatibandakar, 787. Dami, 788. Damodar, 789. Dami, 790. Siktabhumichari, 791. Balakeli, 792. Vrajarbha. 102.
793. Dhulidhusar Sarwang, 794. Kakapakshadhara, 795. Sudhi, 796. Muktakesh, 797. Vatsvrinda, 798. Kalindikulavyakshana. 103.
799. Jalakolahalli, 800, Coolie, 809. Pankapranganlepak, 802. Srivrindavanachari, 803. Located on the banks of the Vamsi. 104.
804. Mahavanavasi 805. Lohargalavanadhipa, 806. Sadhu, 807. Priyam, 808. Sadhya, 809. Sadhvis, 810. Gatsadhvas. 105.
891. Ranganatha, 812. Vidulesha, 813. Muktinath, 814. Adhanashaka, 815. Sukirti, 816. Suyasha, 817. Sphit, 818. Yashasvi, 819. Rangarajan. 106.
820 Ragashatka, 821. Ragaputra, 822.823. Ramanotsuka, Ragini, 824. Deepak, 825. Meghamallar, 826. Shriraga, 827. Malakosaka. 107.
828. Hindol, 829. Bhairavakhya, 830. Swara-jatismar, 831. Mridu 832. Taal, 833. Maan, 834. Pramana, 835. Swaragamya, 836. Kalakshara. 108.
837. Shami, 838. Shyami, 839. Shatananda, 840. Shatyam, 841. Shatakrtu, 842. Jagara, 843. Supt, 844. Asupta, 845. Susupta, 846. Swapna, 847. Fertile. 109.
848. Urja, 849. Spurj, 850. Nirjara, 851. Vunchara, 852. Vichitra, 853. Bhairavajit, 854. Bhairavajit, 855. Bhairavajit, 855. Bhairavajit, 856. Trijvara, 857. Bhairav. 110.
858. Jambavan, 859. Jambukashanki, 860. Jambudvipa, 861. Dwipariha, 862. Shalmali, 863. Shalmalidvipa, 864. Plaksha, 865. Plakshavanesvara. 111.
866. Kushadhari, 867. Kush, 868. Kaushi, 869. Kaushik, 870. Kushavigraha, 871. Kushasthalipati, 872. Kashinath, 873. Bhairavasana. 112.
874. Dashai, 875. Sātvata, 876. Vrishni, 877. Bhoja, 878. Andhakana Nivasakrita, 879. Andhaka, 880. Dundubhi, 881. Diyuta, 882. Pradyota, 883. Sātvatana Pati. 113.
884. Shurasena, 885. Anuvishaya, 886. Bhojeshvara, 887. Vrishnishvara, 888. Andhakesvara, 889. Ahuka, 890. Sarvanitigya, 891. Ugrasena, 892. Mahogravaka. 114.
893. Ugrasenapriya, 894. Prarthya, 895. Prarthana, 896. Yadusabhapati, 897. Sudharmadhipati, 899. Vrishnichakravrita, 900.898. Sattva, Bhishaka. 115.
901. Sabhaseel, 902. Sabhadeep, 903. Sabhagni, 904. Sabharevi, 905. Sabhachandra, 906. Sabhabhasa, Chairman. 116.
907. Sabhadeva, 908.909. Prajartha, 910. Praja Bharata, 911. Praja - 912. Dwarakadurgachari, 913. Palanataptar, Dwarakagraha Vigraha. 117.
914. Dwarakadu: Khasaharata, 915. Dwarakajan-Mangal, 916. Jaganmata, 917. Jagatrata, 918. Jagadbharta, 919. Jagatpita. 118.
920. Jagadvandhu, 921. Jagaddhata, 922. Jaganmitra, 923. Jagatsakh, 924. Brahmanya-Deva, 925. Brahmanya, 926. Brahmapadarajo Dadhat. 119.
Brahmapadaj: Sparshi, 928. Brahmapad-927. Nirbhavaka, 929. Vipranghrijalputang, 930. Vipraseva Parayana. 120 | (Shribalabhadrakhand chapter 7 to 13)
931. Vipra Mukhya, 932. Viprahit, 933. Viprageetamahakatha, 934. Viprapadajalardrang, 9350. Viprapadodakapriya. 121.
936. Viprabhakta, 937. Vipraguru, 938. Vipra, 939. Viprapadanuga, 940. Akshauhinivrita, 941. Yoddha, 942. Pratimapancha Samyuta. 122.
943. Chatur, 944. Angira, 945. Padmavarti, 946. Samantodhrutapaduka, 947. Gajakoti-Prayayi, 948. Rathakotijayadhvaja. 123.
949. Maharatha, 950. Athiratha, 951. Jayatrasyandanamatthaya, 952. Narayanastri, 953. Brahmastri, 954. Ranasladhi, 955. Ranodbhata. 124.
956. Madotkata, 957. Yuddhavira, 958. Devasura - fierce, 959. Karikarnamarutprejatkuntal - pervasive Kundala. 125.
960. Agrag, 961. Veerasammard, 962. Mail, 963. Randurmad, 964. Bhatpratibhat, 965. Prochya, 966. Banavarshi, 967. Iyutoyad. 126.
968. Khadgakhanditsarvanga, 969. 16th century, 970. Shadakshara, 971. Viraghosa, 972. Akalistavapu, 973. Vajranga, 974. Vajrabhedana. 127.
975. Mittavajra, 976. Bhangradanta, 977. Shatru-Nirvatsanodayata, 978. Attahasa, 979. Pattadhara, 980. Pattarajanipati, 981. Patu. 128.
982. Yesterday, 983. Patahavaditra, 984. Hunkar, 985. Garjitsvan, 986. Sadhu, 987. Bhaktaparadheen, 988. Swatantra, 989. Sadhu Bhushan. 129.
990. Asvatantra, 991. Sadhumaya, 992. Manakshadhu Prachitamana, 993. Sadhupriya, 994. Sadhudhana, 995. Sadhugnati, 996. Sudha Ghan. 130.
997. Sadhuchari, 998. Sadhuchitta 9990 Sadhuvisya, 1000. Shubhavya.
Thus a thousand names of Lord Balabhadra were described. 131.
This Sahasranama is supposed to bestow all kinds of siddhis and the four-fold (Artha, Dharma, Kama, Moksha) fruits on humans. He who recites it a hundred times is learned in this world. By reciting this Sahasranama, a person attains Lakshmi, Vaibhav, birth in Sadvamsa, form, strength, and radiance - everything. On the banks of the Ganges and the Yamuna, or in a Devalaya (temple), performing a thousand of its recitations forcibly leads to siddhi. From its recitation, wealth is obtained by the son of the son's desire and by the moneylender. The human in bondage is freed from it, and the patient goes away. The person who recites this Sahasranama ten thousand times with the method of Purusharana, with the padala, stotra, and kavacham, and performs the ritual of worshiping Homa, Tarpan, Godana, and Brahmana, is the Chakravarti King, the lord of all the worlds. He is surrounded by many feudal lords. Enchanted by the aroma of the drink, the illusionists, hurt by the elephant's stinging ears, fly to its gate and continue to decorate it. Rajendra. If a person recites this Sahasranama to the delight of Revati-Ramana Bhagwan Balabhadra Ji in a carefree manner, he becomes lifeless. Achyutagraj Balabhadra Ji always resides in her house. O Your Majesty. Even a grossly sinful person, if he recites this Sahasranama, will have all his sins cut off like his spine, and he will enjoy all the pleasures in this world and finally travel to the supreme world. 132-141 |
Naradji says - Hearing this calendar of Achyutagraj Sri Balabhadraji, Dhritiman Duryodhana worshipped Pradvipaka Muni with a sense of service and utmost devotion. Subsequently, Munindra Pradvipakji blessed Duryodhana and obtained his permission and left Hastinapur for his ashram. The man who listens or narrates the story of the Supreme Being, Lord Ananta Sribalabhadra, becomes blissful. Nripendra I have already described to you the Balabhadra Khand, which fulfills all these desires. A person who listens to it attains the blissful abode of Lord Sri Hari without sorrow. 142-144 |
Thus was completed the thirteenth chapter of the Pravipaka-Duryodhana dialogue under the Sribalabhadra Khanda in the Srigarghasamhita, the "Sribalabhadra Sahasranama." 13.
Complete chapter-aligned witnesses. Sanskrit Wikisource page 32087, revision 219458 (2019-12-18T23:14:32Z). English was rendered from the complete Hindi chapter at https://www.mahakavya.com/shribalabhadrakhand-chapter-7-to-13/ as a transparent machine-assisted translation using the pinned IndicTrans2 Indic–English Distilled 200M model and retained without claiming verse-by-verse alignment.