Goloka-khaṇḍa · Chapter 16
Sourceश्रीनारद उवाच - गाश्चारयन् नन्दनमङ्कदेशे संलालयन् दूरतमं सकाशात् । कलिंदजातीरसमीरकंपितं नंदोऽपि भांडीरवनं जगाम ॥ १ ॥ कृष्णेच्छया वेगतरोऽथ वातो घनैरभून्मेदुरमंबरं च । तमालनीपद्रुमपल्लवैश्च पतद्भिरेजद्भिरतीव भाः कौ ॥ २ ॥ तदांधकारे महति प्रजाते बाले रुदत्यंकगतेऽतिभीते । नंदो भयं प्राप शिशुं स बिभ्र- द्धरिं परेशं शरणं जगाम ॥ ३ ॥ तदैव कोट्यर्कसमूहदीप्ति- रागच्छतीवाचलती दिशासु । बभूव तस्यां वृषभानुपुत्रीं ददर्श राधां नवनंदराजः ॥ ४ ॥ कोटींदुबिंबद्युतिमादधानां नीलांबरां सुंदरमादिवर्णाम् । मंजीरधीरध्वनिनूपुराणा- माबिभ्रतीं शब्दमतीव मंजुम् ॥ ५ ॥ कांचीकलाकंकणशब्दमिश्रां हारांगुलीयांगदविस्फुरंतीम् । श्रीनासिकामौक्तिकहंसिकीभिः श्रीकंठचूडामणिकुंडलाढ्याम् ॥ ६ ॥ तत्तेजसा धर्षित आशु नंदो नत्वाथ तामाह कृतांजलिः सन् । अयं तु साक्षात्पुरुषोत्तमस्त्वं प्रियास्य मुख्यासि सदैव राधे ॥ ७ ॥ गुप्तं त्विदं गर्गमुखेन वेद्मि गृहाण राधे निजनाथमंकात् । एनं गृहं प्रापय मेघभीतं वदामि चेत्थं प्रकृतेर्गुणाढ्यम् ॥ ८ ॥ नमामि तुभ्यं भुवि रक्ष मां त्वं यथेप्सितं सर्वजनैर्दुरापम् । श्रीराधोवाव - अहं प्रसन्ना तव भक्तिभवा- न्मद्दर्शनं दुर्लभमेव नंद ॥ ९ ॥ श्रीनंद उवाच - यदि प्रसन्नासि तदा भवेन्मे भक्तिर्दृढा कौ युवयोः पदाब्जे । सतां च भक्तिस्तव भक्तिभाजां संगः सदा मेऽथ युगे युगे च ॥ १० ॥ श्रीनारद उवाच - तथास्तु चोक्त्वाथ हरिं कराभ्यां जग्राह राधा निजनाथमंकात् । गतेऽथ नंदे प्रणते व्रजेशे तदा हि भांडीरवनं जगाम ॥ ११ ॥ गोलोकलोकाच्च पुरा समागता भूमिर्निजं स्वं वपुरादधाना । या पद्मरागादिखचित्सुवर्णा बभूव सा तत्क्षणमेव सर्वा ॥ १२ ॥ वृंदावनं दिव्यवपुर्दधानं वृक्षैर्वरैः कामदुघैः सहैव । कलिंदपुत्री च सुवर्णसौधैः श्रीरत्नसोपानमयी बभूव ॥ १३ ॥ गोवर्धनो रत्नशिलामयोऽभू- त्सुवर्णशृङ्गैः परितः स्फुरद्भिः । मत्तालिभिर्निर्झरसुंदरीभि- र्दरीभिरुच्चांगकरीव राजन् ॥ १४ ॥ तदा निकुंजोऽपि निजं वपुर्दध- त्सभायुतं प्रांगणदिव्यमंडपम् । वसंतमाधुर्यधरं मधुव्रतै- र्मयूरपारावतकोकिलध्वनिम् ॥ १५ ॥ सुवर्णरत्नादिखचित्पटैर्वृतं पतत्पताकावलिभिर्विराजितम् । सरः स्फुरद्भिर्भ्रमरावलीढितै- र्विचर्चितं कांचनचारुपंकजैः ॥ १६ ॥ तदैव साक्षात्पुरुषोत्तमोत्तमो बभूव कैशोरवपुर्घनप्रभः । पीतांबरः कौस्तुभरत्नभूषणो वंशीधरो मन्मथराशिमोहनः ॥ १७ ॥ भुजेन संगृह्य हसन्प्रियां हरि- र्जगाम मध्ये सुविवाहमंडपम् । विवाहसंभारयुतः समेखलं सदर्भमृद्वारिघटादिमंडितम् ॥ १८ ॥ तत्रैव सिंहासन उद्गते वरे परस्परं संमिलितौ विरेजतुः । परं ब्रुवंतौ मधुरं च दंपती स्फुरत्प्रभौ खे च तडिद्घनाविव ॥ १९ ॥ तदांबराद्देववरो विधिः प्रभुः समागतस्तस्य परस्य संमुखे । नत्वा तदंघ्री ह्युशती गिराभिः कृताञ्जलिश्चारु चतुर्मुखो जगौ ॥ २० ॥ श्रीब्रह्मोवाच - अनादिमाद्यं पुरुषोत्तमोत्तमं श्रीकृष्णचन्द्रं निजभक्तवत्सलम् । स्वयं त्वसंख्यांडपतिं परात्परं राधापतिं त्वां शरणं व्रजाम्यहम् ॥ २१ ॥ गोलोकनाथस्त्वमतीव लीलो लीलावतीयं निजलोकलीला । वैकुंठनाथोऽसि यदा त्वमेव लक्ष्मीस्तदेयं वृषभानुजा हि ॥ २२ ॥ त्वं रामचंद्रो जनकात्मजेयं भूमौ हरिस्त्वं कमलालयेयम् । यज्ञावतारोऽसि यदा तदेयं श्रीदक्षिणा स्त्री प्रतिपत्निमुख्या ॥ २३ ॥ त्वं नारसिंहोऽसि रमा तदेयं नारायणस्त्वं च नरेण युक्तः । तदा त्वियं शांतिरतीव साक्षा- च्छायेव याता च तवानुरूपा ॥ २४ ॥ त्वं ब्रह्म चेयं प्रकृतिस्तटस्था कालो यदेमां च विदुः प्रधानाम् । महान्यदा त्वं जगदंकुरोऽसि राधा तदेयं सगुणा च माया ॥ २५ ॥ यदांतरात्मा विदितश्चतुर्भि- स्तदा त्वियं लक्षणरूपवृत्तिः । यदा विराड्देहधरस्त्वमेव तदाखिलं वा भुवि धारणेयम् ॥ २६ ॥ श्यामं च गौरं विदितं द्विधा मह- स्तवैव साक्षात्पुरुषोत्तमोत्तम । गोलोकधामाधिपतिं परेशं परात्परं त्वां शरणं व्रजाम्यहम् ॥ २७ ॥ सदा पठेद्यो युगलस्तवं परं गोलोकधामप्रवरं प्रयाति सः । इहैव सौंदर्यसमृद्धिसिद्धयो भवंति तस्यापि निसर्गतः पुनः ॥ २८ ॥ यदा युवां प्रीतियुतौ च दंपती परात्परौ तावनुरूपरूपितौ । तथापि लोकव्यवहारसङ्ग्रहा- द्विधिं विवाहस्य तु कारयाम्यहम् ॥ २९ ॥ श्रीनारद उवाच - तदा स उत्थाय विधिर्हुताशनं प्रज्वाल्य कुंडे स्थितयोस्तयोः पुरः । श्रुतेः करग्राहविधिं विधानतो विधाय धाता समवस्थितोऽभवत् ॥ ३० ॥ स वाहयामास हरिं च राधिकां प्रदक्षिणं सप्तहिरण्यरेतसः । ततश्च तौ तं प्रणमय्य वेदवि- त्तौ पाठयामास च सप्तमंत्रकम् ॥ ३१ ॥ ततो हरेर्वक्षसि राधिकायाः करं च संस्थाप्य हरेः करं पुनः । श्रीराधिकायाः किल पृष्ठदेशके संस्थाप्य मंत्रांश्च विधिः प्रपाठयन् ॥ ३२ ॥ राधा कराभ्यां प्रददौ च मालिकां किंजल्किनीं कृष्णगलेऽलिनादिनीम् । हरेः कराभ्यां वृषभानुजा गले । ततश्च वह्निं प्रणमय्य वेदवित् ॥ ३३ ॥ संवासयामास सुपीठयोश्च तौ कृतांजली मौनयुतौ पितामहः । तौ पाठयामास तु पंचमंत्रकं समर्प्य राधां च पितेव कन्यकाम् ॥ ३४ ॥ पुष्पाणि देवा ववृषुस्तदा नृप विद्याधरीभिर्ननृतुः सुरांगनाः । गंधर्वविद्याधरचारणाः कलं सकिन्नराः कृष्णसुमंगलं जगुः ॥ ३५ ॥ मृदंगवीणामुरुयष्टिवेणवः शंखानका दुंदुभयः सतालकाः । नेदुर्मुहुर्देववरैर्दिवि स्थितै- र्जयेत्यभून्मङ्गलशब्दमुच्चकैः ॥ ३६ ॥ उवाच तत्रैव विधिं हरिः स्वयं यथेप्सितं त्वं वद विप्र दक्षिणाम् । तदा हरिं प्राह विधिः प्रभो मे देहि त्वदंघ्र्योर्निजभक्तिदक्षिणाम् ॥ ३७ ॥ तथास्तु वाक्यं वदतो विधिर्हरेः श्रीराधिकायाश्च पदद्वयं शुभम् । नत्वा कराभ्यां शिरसा पुनः पुन- र्जगाम गेहं प्रणतः प्रहर्षितः ॥ ३८ ॥ ततो निकुंजेषु चतुर्विधान्नं दिव्यं मनोज्ञं प्रियया प्रदत्तम् । जघास कृष्णः प्रहसन्परात्मा कृष्णेन दत्तं क्रमुकं च राधा ॥ ३९ ॥ ततः करेणापि करं प्रियाया हरिर्गृहीत्वा प्रचचाल कुंजे । जगाम जल्पन्मधुरं प्रपश्यन् वृंदावनं श्रीयमुनां लताश्च ॥ ४० ॥ श्रीमल्लताकुंजनिकुंजमध्ये निलीयमानं प्रहसंतमेव । विलोक्य शाखांतरितं च राधा जग्राह पीतांबरमाव्रजंती ॥ ४१ ॥ दुद्राव राधा हरिहस्तपद्मा झंकारमंघ्र्योः प्रतिकुर्वती कौ । निलीयमाना यमुनानिकुंजे पुनर्व्रजंती हरिहस्तमात्रात् ॥ ४२ ॥ यथा तमालः कलधौतवल्ल्या घनो यथा चंचलया चकास्ति । नीलोऽद्रिराजो निकषाश्मखन्या श्रीराधयाऽऽद्यस्तु तया रमण्या ॥ ४३ ॥ श्रीरासरंगे जनवर्जिते परे रेमे हरी रासरसेन राधया । वृंदावने भृङ्गमयूरकूज- ल्लते चरत्येव रतीश्वरः परः ॥ ४४ ॥ श्रीराधया कृष्णहरिः परात्मा ननर्त गोवर्द्धनकंदरासु । मत्तालिषु प्रस्रवणैः सरोभि- र्विराजितासु द्युतिमल्लतासु ॥ ४५ ॥ चकार कृष्णो यमुनां समेत्य वरं विहारं वृषभानुपुत्र्या । राधाकराल्लक्षदलं सपद्मं धावन्गृहीत्वा यमुनाजलेषु ॥ ४६ ॥ राधा हरेः पीतपटं च वंशीं वेत्रं गृहीत्वा सहसा हसंती । देहीति वंशीं वदतो हरेश्च जगाद राधा कमलं नु देहि ॥ ४७ ॥ तस्यै ददौ देववरोऽथ पद्मं राधा ददौ पीततटं च वंशीम् । वेत्रं च तस्मै हरये तयोः पुन- र्बभूव लीला यमुनातटेषु ॥ ४८ ॥ ततश्च भांडीरवने प्रियाया- श्चकार शृङ्गारमलं मनोज्ञम् । पत्रावलीयावककज्जलाद्यैः पुष्पैः सुरत्नैर्व्रजगोपरत्नः ॥ ४९ ॥ हरेश्च शृङ्गारमलं प्रकर्तुं समुद्यता तत्र यदा हि राधा । तदैव कृष्णस्तु बभूव बालो विहाय कैशोरवपुः स्वयं हि ॥ ५० ॥ नंदेन दत्तं शिशुमेव यादृशं भूमौ लुठंतं प्ररुदंतमाययौ । हरिं विलोक्याशु रुरोद राधिका तनोषि मायां नु कथं हरे मयि ॥ ५१ ॥ इत्थं रुदंतीं सहसा विषण्णा- माकाशवागाह तदैव राधाम् । शोचं नु राधे इह मा कुरु त्वं मनोरथस्ते भविया हि पश्चात् ॥ ५२ ॥ श्रुत्वाथ राधा हि हरिं गृहीत्वा गताऽऽशु गेहे व्रजराजपत्न्याः । दत्त्वा च बालं किल नंदपत्न्या उवाच दत्तः पथि ते च भर्त्रा ॥ ५३ ॥ उवाच राधां नृप नंदगेहिनी धन्याऽसि राधे वृषभानुकन्यके । त्वया शिशुर्मे परिरक्षितो भया- न्मेघावृते व्योम्नि भयातुरो वने ॥ ५४ ॥ संपूजिता श्लाघितसद्गुणा सा सुनंदिता श्रीवृषभानुपुत्री । तदा ह्यनुज्ञाप्य यशोमतीं सा शनैः स्वगेहं हि जगाम राधा ॥ ५५ ॥ इत्थं हरेर्गुप्तकथा च वर्णिता राधाविवाहस्य सुमंगलावृता । श्रुत्वा च यैर्वा पठिता च पाठिता तान्पापवृन्दा न कदा स्पृशंति ॥ ५६ ॥
śrīnārada uvāca - gāścārayan nandanamaṅkadeśe saṃlālayan dūratamaṃ sakāśāt | kaliṃdajātīrasamīrakaṃpitaṃ naṃdo'pi bhāṃḍīravanaṃ jagāma || 1 || kṛṣṇecchayā vegataro'tha vāto ghanairabhūnmeduramaṃbaraṃ ca | tamālanīpadrumapallavaiśca patadbhirejadbhiratīva bhāḥ kau || 2 || tadāṃdhakāre mahati prajāte bāle rudatyaṃkagate'tibhīte | naṃdo bhayaṃ prāpa śiśuṃ sa bibhra- ddhariṃ pareśaṃ śaraṇaṃ jagāma || 3 || tadaiva koṭyarkasamūhadīpti- rāgacchatīvācalatī diśāsu | babhūva tasyāṃ vṛṣabhānuputrīṃ dadarśa rādhāṃ navanaṃdarājaḥ || 4 || koṭīṃdubiṃbadyutimādadhānāṃ nīlāṃbarāṃ suṃdaramādivarṇām | maṃjīradhīradhvaninūpurāṇā- mābibhratīṃ śabdamatīva maṃjum || 5 || kāṃcīkalākaṃkaṇaśabdamiśrāṃ hārāṃgulīyāṃgadavisphuraṃtīm | śrīnāsikāmauktikahaṃsikībhiḥ śrīkaṃṭhacūḍāmaṇikuṃḍalāḍhyām || 6 || tattejasā dharṣita āśu naṃdo natvātha tāmāha kṛtāṃjaliḥ san | ayaṃ tu sākṣātpuruṣottamastvaṃ priyāsya mukhyāsi sadaiva rādhe || 7 || guptaṃ tvidaṃ gargamukhena vedmi gṛhāṇa rādhe nijanāthamaṃkāt | enaṃ gṛhaṃ prāpaya meghabhītaṃ vadāmi cetthaṃ prakṛterguṇāḍhyam || 8 || namāmi tubhyaṃ bhuvi rakṣa māṃ tvaṃ yathepsitaṃ sarvajanairdurāpam | śrīrādhovāva - ahaṃ prasannā tava bhaktibhavā- nmaddarśanaṃ durlabhameva naṃda || 9 || śrīnaṃda uvāca - yadi prasannāsi tadā bhavenme bhaktirdṛḍhā kau yuvayoḥ padābje | satāṃ ca bhaktistava bhaktibhājāṃ saṃgaḥ sadā me'tha yuge yuge ca || 10 || śrīnārada uvāca - tathāstu coktvātha hariṃ karābhyāṃ jagrāha rādhā nijanāthamaṃkāt | gate'tha naṃde praṇate vrajeśe tadā hi bhāṃḍīravanaṃ jagāma || 11 || golokalokācca purā samāgatā bhūmirnijaṃ svaṃ vapurādadhānā | yā padmarāgādikhacitsuvarṇā babhūva sā tatkṣaṇameva sarvā || 12 || vṛṃdāvanaṃ divyavapurdadhānaṃ vṛkṣairvaraiḥ kāmadughaiḥ sahaiva | kaliṃdaputrī ca suvarṇasaudhaiḥ śrīratnasopānamayī babhūva || 13 || govardhano ratnaśilāmayo'bhū- tsuvarṇaśṛṅgaiḥ paritaḥ sphuradbhiḥ | mattālibhirnirjharasuṃdarībhi- rdarībhiruccāṃgakarīva rājan || 14 || tadā nikuṃjo'pi nijaṃ vapurdadha- tsabhāyutaṃ prāṃgaṇadivyamaṃḍapam | vasaṃtamādhuryadharaṃ madhuvratai- rmayūrapārāvatakokiladhvanim || 15 || suvarṇaratnādikhacitpaṭairvṛtaṃ patatpatākāvalibhirvirājitam | saraḥ sphuradbhirbhramarāvalīḍhitai- rvicarcitaṃ kāṃcanacārupaṃkajaiḥ || 16 || tadaiva sākṣātpuruṣottamottamo babhūva kaiśoravapurghanaprabhaḥ | pītāṃbaraḥ kaustubharatnabhūṣaṇo vaṃśīdharo manmatharāśimohanaḥ || 17 || bhujena saṃgṛhya hasanpriyāṃ hari- rjagāma madhye suvivāhamaṃḍapam | vivāhasaṃbhārayutaḥ samekhalaṃ sadarbhamṛdvārighaṭādimaṃḍitam || 18 || tatraiva siṃhāsana udgate vare parasparaṃ saṃmilitau virejatuḥ | paraṃ bruvaṃtau madhuraṃ ca daṃpatī sphuratprabhau khe ca taḍidghanāviva || 19 || tadāṃbarāddevavaro vidhiḥ prabhuḥ samāgatastasya parasya saṃmukhe | natvā tadaṃghrī hyuśatī girābhiḥ kṛtāñjaliścāru caturmukho jagau || 20 || śrībrahmovāca - anādimādyaṃ puruṣottamottamaṃ śrīkṛṣṇacandraṃ nijabhaktavatsalam | svayaṃ tvasaṃkhyāṃḍapatiṃ parātparaṃ rādhāpatiṃ tvāṃ śaraṇaṃ vrajāmyaham || 21 || golokanāthastvamatīva līlo līlāvatīyaṃ nijalokalīlā | vaikuṃṭhanātho'si yadā tvameva lakṣmīstadeyaṃ vṛṣabhānujā hi || 22 || tvaṃ rāmacaṃdro janakātmajeyaṃ bhūmau haristvaṃ kamalālayeyam | yajñāvatāro'si yadā tadeyaṃ śrīdakṣiṇā strī pratipatnimukhyā || 23 || tvaṃ nārasiṃho'si ramā tadeyaṃ nārāyaṇastvaṃ ca nareṇa yuktaḥ | tadā tviyaṃ śāṃtiratīva sākṣā- cchāyeva yātā ca tavānurūpā || 24 || tvaṃ brahma ceyaṃ prakṛtistaṭasthā kālo yademāṃ ca viduḥ pradhānām | mahānyadā tvaṃ jagadaṃkuro'si rādhā tadeyaṃ saguṇā ca māyā || 25 || yadāṃtarātmā viditaścaturbhi- stadā tviyaṃ lakṣaṇarūpavṛttiḥ | yadā virāḍdehadharastvameva tadākhilaṃ vā bhuvi dhāraṇeyam || 26 || śyāmaṃ ca gauraṃ viditaṃ dvidhā maha- stavaiva sākṣātpuruṣottamottama | golokadhāmādhipatiṃ pareśaṃ parātparaṃ tvāṃ śaraṇaṃ vrajāmyaham || 27 || sadā paṭhedyo yugalastavaṃ paraṃ golokadhāmapravaraṃ prayāti saḥ | ihaiva sauṃdaryasamṛddhisiddhayo bhavaṃti tasyāpi nisargataḥ punaḥ || 28 || yadā yuvāṃ prītiyutau ca daṃpatī parātparau tāvanurūparūpitau | tathāpi lokavyavahārasaṅgrahā- dvidhiṃ vivāhasya tu kārayāmyaham || 29 || śrīnārada uvāca - tadā sa utthāya vidhirhutāśanaṃ prajvālya kuṃḍe sthitayostayoḥ puraḥ | śruteḥ karagrāhavidhiṃ vidhānato vidhāya dhātā samavasthito'bhavat || 30 || sa vāhayāmāsa hariṃ ca rādhikāṃ pradakṣiṇaṃ saptahiraṇyaretasaḥ | tataśca tau taṃ praṇamayya vedavi- ttau pāṭhayāmāsa ca saptamaṃtrakam || 31 || tato harervakṣasi rādhikāyāḥ karaṃ ca saṃsthāpya hareḥ karaṃ punaḥ | śrīrādhikāyāḥ kila pṛṣṭhadeśake saṃsthāpya maṃtrāṃśca vidhiḥ prapāṭhayan || 32 || rādhā karābhyāṃ pradadau ca mālikāṃ kiṃjalkinīṃ kṛṣṇagale'linādinīm | hareḥ karābhyāṃ vṛṣabhānujā gale | tataśca vahniṃ praṇamayya vedavit || 33 || saṃvāsayāmāsa supīṭhayośca tau kṛtāṃjalī maunayutau pitāmahaḥ | tau pāṭhayāmāsa tu paṃcamaṃtrakaṃ samarpya rādhāṃ ca piteva kanyakām || 34 || puṣpāṇi devā vavṛṣustadā nṛpa vidyādharībhirnanṛtuḥ surāṃganāḥ | gaṃdharvavidyādharacāraṇāḥ kalaṃ sakinnarāḥ kṛṣṇasumaṃgalaṃ jaguḥ || 35 || mṛdaṃgavīṇāmuruyaṣṭiveṇavaḥ śaṃkhānakā duṃdubhayaḥ satālakāḥ | nedurmuhurdevavarairdivi sthitai- rjayetyabhūnmaṅgalaśabdamuccakaiḥ || 36 || uvāca tatraiva vidhiṃ hariḥ svayaṃ yathepsitaṃ tvaṃ vada vipra dakṣiṇām | tadā hariṃ prāha vidhiḥ prabho me dehi tvadaṃghryornijabhaktidakṣiṇām || 37 || tathāstu vākyaṃ vadato vidhirhareḥ śrīrādhikāyāśca padadvayaṃ śubham | natvā karābhyāṃ śirasā punaḥ puna- rjagāma gehaṃ praṇataḥ praharṣitaḥ || 38 || tato nikuṃjeṣu caturvidhānnaṃ divyaṃ manojñaṃ priyayā pradattam | jaghāsa kṛṣṇaḥ prahasanparātmā kṛṣṇena dattaṃ kramukaṃ ca rādhā || 39 || tataḥ kareṇāpi karaṃ priyāyā harirgṛhītvā pracacāla kuṃje | jagāma jalpanmadhuraṃ prapaśyan vṛṃdāvanaṃ śrīyamunāṃ latāśca || 40 || śrīmallatākuṃjanikuṃjamadhye nilīyamānaṃ prahasaṃtameva | vilokya śākhāṃtaritaṃ ca rādhā jagrāha pītāṃbaramāvrajaṃtī || 41 || dudrāva rādhā harihastapadmā jhaṃkāramaṃghryoḥ pratikurvatī kau | nilīyamānā yamunānikuṃje punarvrajaṃtī harihastamātrāt || 42 || yathā tamālaḥ kaladhautavallyā ghano yathā caṃcalayā cakāsti | nīlo'drirājo nikaṣāśmakhanyā śrīrādhayā''dyastu tayā ramaṇyā || 43 || śrīrāsaraṃge janavarjite pare reme harī rāsarasena rādhayā | vṛṃdāvane bhṛṅgamayūrakūja- llate caratyeva ratīśvaraḥ paraḥ || 44 || śrīrādhayā kṛṣṇahariḥ parātmā nanarta govarddhanakaṃdarāsu | mattāliṣu prasravaṇaiḥ sarobhi- rvirājitāsu dyutimallatāsu || 45 || cakāra kṛṣṇo yamunāṃ sametya varaṃ vihāraṃ vṛṣabhānuputryā | rādhākarāllakṣadalaṃ sapadmaṃ dhāvangṛhītvā yamunājaleṣu || 46 || rādhā hareḥ pītapaṭaṃ ca vaṃśīṃ vetraṃ gṛhītvā sahasā hasaṃtī | dehīti vaṃśīṃ vadato hareśca jagāda rādhā kamalaṃ nu dehi || 47 || tasyai dadau devavaro'tha padmaṃ rādhā dadau pītataṭaṃ ca vaṃśīm | vetraṃ ca tasmai haraye tayoḥ puna- rbabhūva līlā yamunātaṭeṣu || 48 || tataśca bhāṃḍīravane priyāyā- ścakāra śṛṅgāramalaṃ manojñam | patrāvalīyāvakakajjalādyaiḥ puṣpaiḥ suratnairvrajagoparatnaḥ || 49 || hareśca śṛṅgāramalaṃ prakartuṃ samudyatā tatra yadā hi rādhā | tadaiva kṛṣṇastu babhūva bālo vihāya kaiśoravapuḥ svayaṃ hi || 50 || naṃdena dattaṃ śiśumeva yādṛśaṃ bhūmau luṭhaṃtaṃ prarudaṃtamāyayau | hariṃ vilokyāśu ruroda rādhikā tanoṣi māyāṃ nu kathaṃ hare mayi || 51 || itthaṃ rudaṃtīṃ sahasā viṣaṇṇā- mākāśavāgāha tadaiva rādhām | śocaṃ nu rādhe iha mā kuru tvaṃ manorathaste bhaviyā hi paścāt || 52 || śrutvātha rādhā hi hariṃ gṛhītvā gatā''śu gehe vrajarājapatnyāḥ | dattvā ca bālaṃ kila naṃdapatnyā uvāca dattaḥ pathi te ca bhartrā || 53 || uvāca rādhāṃ nṛpa naṃdagehinī dhanyā'si rādhe vṛṣabhānukanyake | tvayā śiśurme parirakṣito bhayā- nmeghāvṛte vyomni bhayāturo vane || 54 || saṃpūjitā ślāghitasadguṇā sā sunaṃditā śrīvṛṣabhānuputrī | tadā hyanujñāpya yaśomatīṃ sā śanaiḥ svagehaṃ hi jagāma rādhā || 55 || itthaṃ harerguptakathā ca varṇitā rādhāvivāhasya sumaṃgalāvṛtā | śrutvā ca yairvā paṭhitā ca pāṭhitā tānpāpavṛndā na kadā spṛśaṃti || 56 ||
English translation
Praise of Shri Radha Ji by Nandaji in Bhandir-Van; Marriage of Shri Radha and Shri Krishna by Brahma Ji; Praise of Shri Krishna by Brahma Ji and Sweet Leelas of the New Couple
Srinardji says - Rajan! One day, Nandaji, taking his Nandan into account, went far away from Khirak, fighting pranks and grazing cows. Slowly they reached Bhandir-Van, which was trembling with the gust of the archery cooler Samir touching Kalindi-Nirka. In no time, the wind speed became very high at the wish of Lord Krishna. The sky became less and less covered with clouds. The Pallavas of the Tamal and Kadamba trees began to fall apart, fly away, and produce great terror. At that time, there was a great deal of darkness. Nandanandan started to cry. They looked very frightened in their father's barn. The Nandas too became frightened. They took the children to God's sanctuary in Srihariki. 1-3. (Golok Khand Chapter 16 to 20)
Sri Radha said, "Nandaji! You're right My philosophy is a rare one. I have appeared to you today, pleased with your devotion. 9.
Sreenanda said, "O Goddess! If indeed you are pleased with me, may my strong devotion remain in the feet of both of you, dear and dear. At the same time, may I always have the company of saints and seers full of your devotion. May my love remain at the feet of those saints and mahatmas in every age. 10.
Srinardji says - Rajan! Then, saying 'Tathastu', Shri Radha took his Prananath in both hands from the lap of Nandaji. Then when Nandarayaji paid obeisance to him and left, Sridharaji went to Bhandir-Van. The first 'earth goddess' from Golokdham, who descended to this surface, appeared at that time in her divine form. Just as the golden earth adorned with lotus flowers adorns the said abode, so also on this ground floor, that divine role in the celestial sphere immediately manifested itself in its full form. Vrindavan began to flourish by assuming its divine form with complementary divine trees. The Kalindanandini Yamuna was also enriched with gilded palaces and beautiful jewelled steps on the banks. Mount Govardhan became full of boulders. Its golden spires began to appear on all sides. The king! The hill kingdom was being adorned like an extremely tall Gajaraja by the Kandaravas, who were adorned with mythical fountains and waterfalls. At that time the garden of Vrindavan also revealed its divine form. In it, the assembly hall, the courtyard, and the divine pavilion began to flourish. All the sweetness of spring was expressed there. The sounds of honeybees, peacocks, doves, and cuckoos began to be heard. The spires of the divine pavilions in the park were adorned with urns studded with gold and jewels. Flags flying all over the place adorned them. A beautiful lake appeared there, where the golden beautiful Saroj was blooming, and the Madhupavalis sitting on those lakes were drinking her sweet nectar. 11 - 16. (Golok Khand Chapter 16 to 20)
As soon as the splendor of Divyadham descended, Lord Krishna, the Purushottamottam Ghanshyam, stood before Sri Radha in the divine form of adolescence. Pitambar was gracing their limbs. Decorated with Kaustubhamani, he began to captivate the Nandanandana zodiac sign Manmathas (Kamadevas), who wore the Vamsi in their hands. He grinned, took his sweetheart's hand in his and entered the marriage hall with her. All the wedding materials were stored in that pavilion. Mekhala, Kusha, Saptaritika and Kalash filled with water etc. adorned the mandapa. It was there that a transcendent throne appeared, upon which the two beloved and beloved fell in love with each other and began to spread their divine splendor. The two of them were talking sweetly to each other, shining brightly like clouds and electricity. At the same time, Lord Brahma, the supreme deity among the gods, descended from the sky and appeared before Lord Krishna, bowing at their feet, joining hands, and singing pleasant praises with all four faces through graceful speech. 17-20 |
Lord Brahma said, "O Lord! You are the origin of all things, but you have no beginning or end. You are the best of all Purushottams. He is always affectionate towards his devotees and is known by the name 'Shri Krishna'. There are foster-husbands of countless universes. Thus I take refuge in You, the Most Mighty Lord, Radha - Pranavallabha Krishna - Chandra. You are the Adinath of Golokdham, there is no end to your pastimes. Along with you, this Leelavati Sriradha performs the Lalit Leelas in her Lok (daily abode). When you are seated as Vaikunthanatha, it is Vrishabhanunandini who is adorned with you as Lakshmi. When you descend to the earth as' Shriramchandra ', these Janakanandinis consume you as' Sita '. You are 'Srivishnu' and this Kamalavanavasini is' Kamala '; when you incarnate as' Yajna-purusha ', this Sriji resides with you in the form of' Dakshina '. If you are a husband and wife, these are the main wives. If you are a 'Narasimha', it resides in your heart as' Rama '. You are the one who performs penance by being in the form of 'Nara-Narayana', at that time she sits with you in the form of 'supreme peace'. Wherever you live, they live with you like a shadow, wearing a body that corresponds to your form. You are Brahman and this is nature. " When you are positioned as' Kaala ', these are known as' pradhan '(nature). When you are situated in the form of 'Mahana' (greatness), the sprouts of the world. Then these Sriradha are positioned in the form of 'Saguna Maya'. When you are situated in the form of an 'Atman' with the four senses - mind, intellect, mind and ego - these Sriradhas are seated in the form of 'Lakshanavritti'. When you take the form of 'Virat', it is called 'Dharana' in the cosmic realm. The best of men! Your own dark and fierce duality is omnipresent. You are the Most High God, the ruler of Golokdham. I take refuge in you. One who recites the excellent hymns of this couplet always goes to the highest Golok Dham among all the Dhamas, and in this world too, he naturally attains beauty, prosperity, and accomplishments. Though both of you are eternal couples and are filled with mutual love, transcendent yet harmonious in form, they indulge in merriment; yet I will cause you both to enter into matrimonial union for the accomplishment of public conduct or public gathering. * 21-29 | (Golok Khand Chapter 16 to 20)
Srinardji says - Rajan! Thus, in praise, Brahma rose and ignited the fire in the pot and performed the Panigrahan-samskara, a Vedic rite of passage for both the beloved and the beloved, seated before the fire god. Having done all this, Brahma stood up and made Srihari and Radhika make seven parikrama of Agnidev. After that, after bowing down to both of them, Vedavedatta Vidhata made both of them recite the seven mantras. After that, Vidhata made him recite the Manlons aloud by placing the hand of Shri Radha on Shri Krishna's chest and placing the hand of Shri Krishna in the background of Shri Radha. They wore a saffron garland around Krishna's neck with Radha's hands, over which Bhramar was humming. Similarly, by placing a garland around the neck of Vrishabhanu-Nandini with the hands of Lord Krishna, Veda-Jnana Brahma made them both pay obeisance to the god of fire and seated the innovative couple on a beautiful throne. They both remained silent with folded hands. The grandmother taught them both the five mantras and handed over Sriradha to Lord Krishna, just as the father donates his daughter to a worthy benefactor. 30-34 |
The king! At that time, the gods showered flowers and the divinities danced along with the learned. The Gandhavas, Vidyadharas, Charanas, and Kinnas sang melodious hymns to Lord Krishna. Mridangam, Veena, Murchanga, Venu, Shankha, Nagare, Dundubhi, and cymbals were played, and the supreme deities standing in the sky repeatedly chanted and chanted the word Mangal aloud. On that occasion, Srihari said to Vidhata: "Brahman! Say the dakshina as you wish. 'Then Brahma said to Srihari as follows - 'Prabu! Grant me the devotion of your couplets as Dakshina. Srihari gave him the desired boon by saying, "Tathastu." Brahma then proceeded to his abode, paying repeated obeisance to the auspicious couple - Charanarvindo - of Sridhara, with both hands and head. At that time, Brahma was overjoyed as he went to pay obeisance. 35-38 | (Golok Khand Chapter 16 to 20)
Thereafter, in the Nikunj Bhavan, the divine enchanting fourfold grain offered by the beloved was received with laughter by the Supreme Being, Srihari, and Sri Radha also took the fourfold grain from the hands of Lord Krishna and ate the betel nut offered by him. Srihari then walked towards Kunj, holding Priya's hand in his own. The two of them began to move, making melodious alaps and observing the vines of Vrindavan, the Yamuna, and the forest. Laughing and hiding in the beautiful lanterns and niches, Sri Radha, coming from behind, saw Sri Krishna in the shade of a branch and took the edge of his pitambara. Then Sriradha also escaped from Madhav's Kamalopam hands and hid in the Yamuna park, revealing the twinkling of twine steps. When Sriharis left an arm's length behind, they rose again and fled. Just as Tamal is adorned with golden vines and cloud cover, and just as the great mountain of sapphire is adorned with a golden crown, so was Nandanandan Sri Krishna adorned with Ramani Sriradhase. Arriving in the desolate region of the Raas-Rangasthali, Srihari performed lila-ramana with Sriradha taking the Raas-Rasa. He was wandering like another Kamadeva in Vrindavan with its vines, enchanted by the chirping of beavers and peacocks. Lord Krishna danced with Radha in the kandaras of Govardhan, where devotees used to sing hymns, many waterfalls and tanks adorned with lights and lights. 39-45 |
Krishna then entered the Yamuna and went on a vihara with Vrishabhanu-Nandini. They snatched the lotus from Radha's hands and fled, plucking it from the Yamuna water. Then Sriradhana also followed him with laughter and took possession of his Pitambara, Vamsi, and cane stick. Srihari began to say - 'Give me my flute. 'Then Radha replied - 'Return my lotus. 'Then Lord Krishna gave him the lotus. Radha then also returned the Pitambara, the Vamsi, and the cane to Sriharika. After this, they again began to have beautiful pageants on the banks of the Yamuna. 46-48 | (Golok Khand Chapter 16 to 20)
Afterward, in the Bhandir forest, Vraj-Gop-Ratna Sreenandanandan adorned Priyaka with his hands - cardamom on her face, applied mahavar on both feet, drew a thin line of kajal in her eyes, and also adorned her with exquisite gems and flowers. After this, when Sriradha also tried to make Sriharika wear makeup, at the same time, Sri Krishna gave up his teenage form and became a small child. They fell to the ground and wept in terror, in the same form as the child that Nanda had given to Radha. Seeing Srihariko in this form, Sriradhika also started lamenting immediately and said - 'Hare! Why are you spreading love towards me? "Thus, weeping in melancholy, Sriradha suddenly said to All India Radio - 'Radhe! Don't think about it at this point. Your wish will be fulfilled after some time. " 49-52 |
Hearing this, Sriradha immediately went to the house of Yashodaji, the wife of Vrajraj, with the child-like Krishna, and handed over the child to him, saying, "Your husband gave this child to me on the way. 'At that time, the Nanda-home-maker said to Sriradha - 'Vrishabhanu-Nandini Radhe! Blessed are you; for at this time, while the sky is less clouded, you have fully protected my little one, terrified within the forest, from greed. Saying this, Nandarani treated Sriradha well and praised his virtues. This brought great joy to Vrishabhanunandini Sriradha. She took Yashodaji's orders and went to her house slowly. 53-55 |
Thus was completed the sixteenth chapter in the Sri Narda Bahulashva-Samvada under Golokhanda in the Srigarghasamhita, titled "Description of the Marriage of Sridhara." 16.
Complete chapter-aligned witnesses. Sanskrit Wikisource page 26574, revision 92534 (2016-11-28T07:21:00Z). English was rendered from the complete Hindi chapter at https://www.mahakavya.com/golok-khand-chapter-16-to-20/ as a transparent machine-assisted translation using the pinned IndicTrans2 Indic–English Distilled 200M model and retained without claiming verse-by-verse alignment.