Skip to main content

Aśvamedha-khaṇḍa · Chapter 42

Chapter 42

Unit 243 of 263Aśvamedha-khaṇḍa · Chapter 42Aśvamedha-khaṇḍa · Chapter 421 source entries

Aśvamedha-khaṇḍa · Chapter 42

Source

श्रीगर्ग उवाच - हेमंते मासि पूर्वस्मिन्‌राकायां राधिकेश्वरः ॥ वंशीं वशकरीं दघ्मौ यथा वृन्दावने पुरा ॥१॥ ध्वनिर्बभूव तस्याश्च सर्वेषामाहरन्मनः ॥ निशम्य गोप्यः संखिन्नाः कामखेदेन तत्रसुः ॥२॥ रुंधन्नंबुभृतश्चमत्कृतिपरं कुर्वन्मुहुस्त्वंबरं ध्यानाद्धंतनयन्सनंदनमुखा- न्विस्मेरयन्वेधसम् ॥ औत्सुक्याद्‌बलिभिर्बलिं चटुलय- न्भोगेंद्रमाघूर्णयन्- भिंदन्नंडकटाहभित्तिमभितो बभ्राम वंशीध्वनिः ॥३॥ अथोदगाच्चंद्रमास्तु चर्षणीनां शुचो मृजन् ॥ यथा प्रियाया राजेंद्र विदेशादागतः प्रियः ॥४॥ तदैव यमुना राजंस्तनुं दिव्यं दधार ह ॥ वृन्दावनं गिरींद्रञ्च व्रजभूमिञ्च मानद ॥५॥ कृष्णा नदी जयति यत्र मणींद्रमुक्ता- माणिक्यशुभ्रहरिता करतोलिकाभिः ॥ वैदूर्यनीलकहरिद्धरिवज्रपीत- सोपानमण्डपयुताभिरतिस्फुरन्ती ॥६॥ स्वच्छंदसूत्पतितमत्स्यगणैर्वहंती सच्छ्यामलेन वपुषाघगणं हरंती ॥ उत्तुंगलोललहरी कमलैर्लसंती कृष्णा नदी जयति कृष्णगृहे लुठंती ॥७॥ गोवर्धनं भज गिरीं शतचंद्रयुक्तं मंदारचन्दनलतावृतकल्पवृक्षम् ॥ श्रीरासमण्डलयुतं मणिमंडपाढ्यं कोटीरमंजुलनिकुंजकुटीरकोटिम् ॥८॥ वृन्दावनं च यमुनातटनीरतीर- संपृक्तमंदगमनैरतिगंधवातैः ॥ तत्कंपितं च सुरभीकृतसर्वदेशं श्रीखंडकुंकुममृदागुरुचर्चितं तम् ॥९॥ जुष्टं वसन्तनवपल्लवपुष्परंगै- र्मंदारचन्दनसुचम्पकनीपनिंबैः ॥ आम्रातकाम्रपनसागुरुनागरंगैः श्रीतालपिप्पलवटैर्नवनारिकेलैः ॥१०॥ खर्जूरश्रीफललवंगविराजमान- मंजीरशालकतमालकदंबयुक्तम् ॥ सन्तानकुंदबदरीकदलीसिताढ्यं श्रीशाल्मलीबकुलकेतकिसच्छिरीषम् ॥११॥ सन्मोदिनीजलजवृन्दमनोहराभं वृन्दारकं वरवनं तुलसीलताढ्याम् ॥ श्रीमल्लिकामृतलतामधुमाधवीभिः संराजितं स्मर नृपेंद्र व्रजस्य मध्ये ॥१२॥ वंशीवटं च कलकंठविहंगमैश्च कृष्णातटे च पुलिनं किल बालुकाढ्याम् ॥ श्रीपाटलैर्मधुककिंशुकसत्प्रियालै- रौदुंबरैः क्रमुकद्राक्षकपित्थयुक्तम् ॥१३॥ श्रीकोविदारपिचुमंदलतार्जुनैश्च प्लक्षैरशोकसरलैः सुरदारुभिश्च ॥ जंबूसुवेत्रनलकुब्जकस्वर्णयूथी- पुन्नागनागकुटजैः कुरबैर्वृतं च ॥१४॥ चक्राह्वसारसशुकैः सितराजहंसैः कारंडवैश्च जलकुक्कुटकूजितं च ॥१५॥ दात्यूहकोकिलकपोतकनीलकण्ठै- र्नृत्यन्मयूरकलराववृतं स्मर त्वम् ॥१६॥ श्यामाचकोरकलखंजनसारिकाभिः पारावतैर्भ्रमरतित्तिरतित्तिरीभिः ॥ श्रीकांचनीमधुलतामधुयूथिकाभिः संवेष्टितं हरिणमर्कटमर्कटीभिः ॥१७॥ श्रीपद्मरागशिखरं च निकुंजगेहं श्रीकौस्तुभेंद्रमणिराजिविराजमानम् ॥ कोटींदुमंडलवितानगणैश्च हैमैः श्रीपट्टसूत्ररचितैर्मणितोरणाढ्यम् ॥१८॥ मुक्तावृतैः कनकपीतपतत्पताकैः पारावतैः सितपतत्रिभिरावृतञ्च ॥ मंदारकुन्दकरवीरकयूथिकानां मालाविचित्ररचितं नवचंपकानाम् ॥१९॥ नागेशपद्महरिचंदनपल्लवानां श्रीमालतीकुरबकांचनयूथिकानाम् ॥ मालाभिरावृतमनंगहरं गृहं त- त्सद्‌रत्‍नदर्पणवृतं सितचामरैश्च ॥२०॥ सिंहासनैश्च नवपल्लवपुष्पयुक्तैः शय्यासनैः कनकविद्रुमपादवृन्दैः ॥ श्रीचंदनागुरुजलैर्मकरंदसंघैः कस्तूरिकामुदितकुंकुमचर्चितं तत् ॥२१॥ एजद्‌वसंततरुपल्लवमेव वातैः शीतैर्गजेंद्रगमनैः सुरभीकृतांगम् ॥ एतादृशं हरिनिकुंजगृहं स्मर त्वं सन्नम्रशाखतरुयुक्तमतीव पुष्पैः ॥२२॥ श्रीवेणुगीतं बहुकामवर्द्धनं निशम्य सर्वा व्रजयोषितो नृप ॥ श्रीकृष्णकांतेन गृहीतमानसा विसृज्य कर्माणि समाययुर्वने ॥२३॥ रुद्धा याः पतिभी राजन्कृष्णेन हृतमानसाः ॥ स्थूलं शरीरं तास्त्यक्त्वा त्वरं कृष्णांतिकं ययुः ॥२४॥ सिंहासने हेमदुकूलसंयुते मध्ये स्थितं सुन्दरनन्दनन्दनम् ॥ श्रीसुन्दरी राधिकया समं परं गले दधानं मधुमालतीस्रजम् ॥२५॥ श्यामं प्रभातार्ककिरीटिनं हरिं स्फुरत्प्रभं श्रीमुरलीमनोहरम् ॥ पीतांबरं मन्मथराशिमोहनं व्रजस्त्रियस्तं ददृशुः समागताः ॥२६॥ दृष्ट्वा प्रियाः प्रियतमं मत्स्यकुण्डलिनं हरिम् ॥ गोप्यो मूर्च्छां गताः सद्यो भूप चालक्षितोद्यमाः ॥२७॥ सांत्वयामास ताः कृष्णो मिष्टवाक्यैः सुधासमैः ॥ तदा गोप्यो वनोद्देशे सर्वाश्चैतन्यतां गताः ॥२८॥ कृष्णं गद्‌गदया वाचा स्तुत्वा भीताः स्त्रियो वराः ॥ त्यक्त्वा विरहजं दुःखं गोविंदं ददृशुः प्रियम् ॥२९॥ वृन्दावने भ्राजमाने मालतीवनसंकुले ॥ दिव्यद्रुमलताजाले मधुपध्वनिनादिते ॥३०॥ विचचार हरिः साक्षाद्देवो मदनमोहनः ॥ पद्माभं पद्महस्तेन गृहीत्वा राधिकाकरम् ॥३१॥ प्रहसन्भगवान्साक्षादाययौ यमुनातटम् ॥ कृष्णातीरे निकुंजे वै श्रीकृष्णो निषसाद ह ॥३२॥ तस्मिन्गृहे मधुपतेः शृणु गोपिकानां श्रीकृष्णचन्द्रचरणस्मरणावृतानाम् ॥ झंकारनूपुरझणत्करकंकणानां मंजीररत्‍नविचलत्कटिकिंकिणीनाम् ॥३३॥ स्मेरद्युतिस्फुटचमत्कृतगंडदेशैः श्रीदंतपंक्तिविलसत्तडितालिलेशैः ॥ कोटीरहारहरितांगदभूषितानां बालार्कमंडलविकुंडलमंडितानाम् ॥३४॥ तासां तु कापि युवती कथिता च मुग्धा मध्यापि कापि तरुणी रुचिरा प्रगल्भा ॥ काचित्तरुं विनयती मधुरं हसंती काचित्सखी मदयुता सुवने व्रजंती ॥३५॥ संताड्य तामपि करेण तु काप्यधाव- त्संगृह्य कापि भुवने कमलैर्जघान ॥ काचिच्छ्लथत्कनकहारमुपाजहार काचित्प्रमुक्तकबरी तु विहारमत्ता ॥३६॥ श्रीजाह्नवी च यमुना मधु माधवी च शीला रमा शशिमुखी विरजा सुशीला ॥ चन्द्रानना च ललिता त्वचला विशाखा मायाऽल्प एव कथिता भवने त्वसंख्याः ॥३७॥ लीलातपत्रमतिमौक्तिकदामजालं नीत्वा चलंति मणिभूमिषु तत्र काश्चित् ॥ श्रीचामरव्यजनदंडधरा वयस्याः काश्चिद्‌व्रजंति धृतपीतपतत्पताकाः ॥३८॥ नृत्यंति तत्र हरिवेषधरास्तु काश्चि- द्वीणाकरा मधुरतालमृदंगहस्ताः ॥ वंशीधराश्च वृषभानुसुताः सुवेषाः केयूरकुण्डलयुता मणिवेत्रहस्ताः ॥३९॥ सद्धावभावरसतालयुतस्मिताक्तै- र्झंकारनूपुरयुतैर्विशदैः कटाक्षैः ॥ संगीतनृत्यविदितैर्भ्रुकुटीविभंगै राधां हरिं च सततं परितोषयंत्यः ॥४०॥ तस्मिन्निकुञ्जभवने यमुनातटेऽपि वंशीवटे वनधरानिकटे हरिं तम् ॥ श्रीराधया च गिरिराजतटं व्रजंतं नंदात्मजं च नटवेषधरं स्मर त्वम् ॥४१॥ श्रीपद्मरागनखदीप्तिपदारविन्दं झंकारनूपुरधरं स्फुरदंगदेशम् ॥ कुर्वंतमेव तु पदारुणभूमिदेशं श्रीमत्परागसुरुचालमितस्ततस्तु ॥४२॥ लक्ष्मीकराब्जपरिलालितजानुदेशं रंभोरु पीतवसनं तु कृशोदराभम् ॥ रोमावलिभ्रमरनाभिसरस्त्रिरेखं कांचीधरं भृगुपदं मणीकौस्तुभाढ्यम् ॥४३॥ श्रीवत्सहाररुचिरं नवमेघनीलं पीतांबरं करिकरस्फुटबाहुदण्डम् ॥ रत्‍नांगदं च मणीकंकणपद्महस्तं श्रीराजहंसवरकंधरशोभमानम् ॥४४॥ श्रीकम्बुकण्ठललितं विलसत्कपोलं मध्यं तु निम्नचिबुकं किल कुन्ददंतम् ॥ बिंबाधरं स्मितलसच्छुकचंचुनासं पीयूषकल्पवचनं प्रचलत्कटाक्षम् ॥४५॥ श्रीपुण्डरीकदलनेत्रमनंगलीलं भ्रूमण्डलस्मितगुणावृतकामचापम् ॥ विद्युच्छटोच्छलितरत्‍नकिरीटकोटिं मार्तंडमंडलविकुण्डमंडिताभम् ॥४६॥ वंशीधरं त्वहिविलोलगुडालकाढ्यं राधापतिं सजलपद्ममुखं चलंतम् ॥ कंदर्पकोटिघनमानहरं कृशांगं वंशीवटे नटवरं भज सर्वथा त्वम् ॥४७॥ आरक्तरक्तनखचन्द्रपदाब्जशोभां मञ्जीरनूपुररणत्कटिकिंकिणीकाम् ॥ श्रीघंटिकाकनककंकणशब्दमुक्तां राधां दधामि तरुपुञ्जनिकुञ्जमध्ये ॥४८॥ नीलांबरैः कनकरश्मितटस्फुरद्‌भिः श्रीभानुजातटमरुद्‌गतिचंचलांगैः ॥ सूक्ष्मस्वरूपललितैरतिगौरवर्णां रासेश्वरीं भज मनोहरमंदहासाम् ॥४९॥ बालार्कमंडलमहांगदरत्‍नहारां ताटंकतोरणमणींद्रमनोहराभाम् ॥ श्रीकण्ठभालसुमनोनवपंचदाम्नीं रत्‍नांगुलीयललितां व्रजराजपत्‍नीम् ॥५०॥ चूडामणिद्युतिलसत्स्फुरदर्द्धचंद्रां ग्रैवेयकालपनपत्रविचित्ररूपाम् ॥ श्रीपट्टसूत्रमणीपट्टचलद्‌द्विदाम्नीं स्फूर्ज्जत्सहस्रदलपद्मधरां भजस्व ॥५१॥ श्रीबाहुकंकणलसत्कुचरत्‍नदीप्तिं श्रीनासिकाभरणभूषितगण्डदेशाम् ॥ सद्यौवनालसगतिं कलसर्पवेणीं मध्येंदुकोटिवदनां स्फुटचंपकाभाम् ॥५२॥ सद्धावभावसहितां नवपद्मनेत्रां स्फूर्ज्जत्स्मितद्युतिकलां प्रचलत्कटाक्षाम् ॥ कृष्णप्रियां ललितकुन्तलपुंजलाभां मंदारहारमधुरभ्रमरीरवाढ्याम् ॥५३॥ श्रीखंडकुंकुममृदागुरुवारिसिक्तां श्रीबिंदुकीरुचिरपत्रविचित्रचित्राम् ॥ संतानपत्ररुचिरामलमंजनाभां रासेश्वरीं गजगतिं भज पद्मिनीं ताम् ॥५४॥ एतादृशीं रतिवरां तु समेत्य कृष्णो गच्छन्निकुञ्जवनजालविलोकानाय ॥ धावंति तत्र मणिछत्रधराश्च गोप्यो नीत्वा तथा चमरचारुपतत्पताकाः ॥५५॥ षड्‌रागमेव वरधैवतमध्यमाद्यै- र्गायंतमादिपुरुषं भज नन्दपुत्रम् ॥ षट्‌त्रिंशतस्तदनुवर्त्तितरागिणीनां वंशीवरेण ललितेन वरं व्रजंतम् ॥५६॥ शृङ्गारवीरकरुणाद्‌भुतहास्यरौद्र- बीभत्सशांतकभयानकनित्ययुक्तम् ॥ भक्तप्रियं व्रजवधूमुखपद्मभृंगं योगीन्द्रहृत्कमलविस्फुरदंघ्रियुग्मम् ॥५७॥ क्षेत्रज्ञमादिपुरुषं स्वधियज्ञरूपं सर्वेश्वरं सकलकारणकारणेशम् ॥ कृष्णं हरिं प्रकृतिपूरषयोः पुमांसं सर्वं निरस्तकपटं निजतेजसेह ॥५८॥ यं वै स्तुवंति शिवधर्मसुरेशशेष- लोकेशसिद्धिदगणेशसुरादयोऽपि ॥ राधारमाप्रकृतिभूविरजास्वराद्या वेदा भजंति सततं तमहं भजामि ॥५९॥ इति श्रीगर्गसंहितायां हयमेधखण्डे रासक्रीडायां द्विचत्वारिंशोऽध्यायः ॥४२॥ हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥

śrīgarga uvāca - hemaṃte māsi pūrvasmin‌rākāyāṃ rādhikeśvaraḥ || vaṃśīṃ vaśakarīṃ daghmau yathā vṛndāvane purā ||1|| dhvanirbabhūva tasyāśca sarveṣāmāharanmanaḥ || niśamya gopyaḥ saṃkhinnāḥ kāmakhedena tatrasuḥ ||2|| ruṃdhannaṃbubhṛtaścamatkṛtiparaṃ kurvanmuhustvaṃbaraṃ dhyānāddhaṃtanayansanaṃdanamukhā- nvismerayanvedhasam || autsukyād‌balibhirbaliṃ caṭulaya- nbhogeṃdramāghūrṇayan- bhiṃdannaṃḍakaṭāhabhittimabhito babhrāma vaṃśīdhvaniḥ ||3|| athodagāccaṃdramāstu carṣaṇīnāṃ śuco mṛjan || yathā priyāyā rājeṃdra videśādāgataḥ priyaḥ ||4|| tadaiva yamunā rājaṃstanuṃ divyaṃ dadhāra ha || vṛndāvanaṃ girīṃdrañca vrajabhūmiñca mānada ||5|| kṛṣṇā nadī jayati yatra maṇīṃdramuktā- māṇikyaśubhraharitā karatolikābhiḥ || vaidūryanīlakahariddharivajrapīta- sopānamaṇḍapayutābhiratisphurantī ||6|| svacchaṃdasūtpatitamatsyagaṇairvahaṃtī sacchyāmalena vapuṣāghagaṇaṃ haraṃtī || uttuṃgalolalaharī kamalairlasaṃtī kṛṣṇā nadī jayati kṛṣṇagṛhe luṭhaṃtī ||7|| govardhanaṃ bhaja girīṃ śatacaṃdrayuktaṃ maṃdāracandanalatāvṛtakalpavṛkṣam || śrīrāsamaṇḍalayutaṃ maṇimaṃḍapāḍhyaṃ koṭīramaṃjulanikuṃjakuṭīrakoṭim ||8|| vṛndāvanaṃ ca yamunātaṭanīratīra- saṃpṛktamaṃdagamanairatigaṃdhavātaiḥ || tatkaṃpitaṃ ca surabhīkṛtasarvadeśaṃ śrīkhaṃḍakuṃkumamṛdāgurucarcitaṃ tam ||9|| juṣṭaṃ vasantanavapallavapuṣparaṃgai- rmaṃdāracandanasucampakanīpaniṃbaiḥ || āmrātakāmrapanasāgurunāgaraṃgaiḥ śrītālapippalavaṭairnavanārikelaiḥ ||10|| kharjūraśrīphalalavaṃgavirājamāna- maṃjīraśālakatamālakadaṃbayuktam || santānakuṃdabadarīkadalīsitāḍhyaṃ śrīśālmalībakulaketakisacchirīṣam ||11|| sanmodinījalajavṛndamanoharābhaṃ vṛndārakaṃ varavanaṃ tulasīlatāḍhyām || śrīmallikāmṛtalatāmadhumādhavībhiḥ saṃrājitaṃ smara nṛpeṃdra vrajasya madhye ||12|| vaṃśīvaṭaṃ ca kalakaṃṭhavihaṃgamaiśca kṛṣṇātaṭe ca pulinaṃ kila bālukāḍhyām || śrīpāṭalairmadhukakiṃśukasatpriyālai- rauduṃbaraiḥ kramukadrākṣakapitthayuktam ||13|| śrīkovidārapicumaṃdalatārjunaiśca plakṣairaśokasaralaiḥ suradārubhiśca || jaṃbūsuvetranalakubjakasvarṇayūthī- punnāganāgakuṭajaiḥ kurabairvṛtaṃ ca ||14|| cakrāhvasārasaśukaiḥ sitarājahaṃsaiḥ kāraṃḍavaiśca jalakukkuṭakūjitaṃ ca ||15|| dātyūhakokilakapotakanīlakaṇṭhai- rnṛtyanmayūrakalarāvavṛtaṃ smara tvam ||16|| śyāmācakorakalakhaṃjanasārikābhiḥ pārāvatairbhramaratittiratittirībhiḥ || śrīkāṃcanīmadhulatāmadhuyūthikābhiḥ saṃveṣṭitaṃ hariṇamarkaṭamarkaṭībhiḥ ||17|| śrīpadmarāgaśikharaṃ ca nikuṃjagehaṃ śrīkaustubheṃdramaṇirājivirājamānam || koṭīṃdumaṃḍalavitānagaṇaiśca haimaiḥ śrīpaṭṭasūtraracitairmaṇitoraṇāḍhyam ||18|| muktāvṛtaiḥ kanakapītapatatpatākaiḥ pārāvataiḥ sitapatatribhirāvṛtañca || maṃdārakundakaravīrakayūthikānāṃ mālāvicitraracitaṃ navacaṃpakānām ||19|| nāgeśapadmaharicaṃdanapallavānāṃ śrīmālatīkurabakāṃcanayūthikānām || mālābhirāvṛtamanaṃgaharaṃ gṛhaṃ ta- tsad‌rat‍nadarpaṇavṛtaṃ sitacāmaraiśca ||20|| siṃhāsanaiśca navapallavapuṣpayuktaiḥ śayyāsanaiḥ kanakavidrumapādavṛndaiḥ || śrīcaṃdanāgurujalairmakaraṃdasaṃghaiḥ kastūrikāmuditakuṃkumacarcitaṃ tat ||21|| ejad‌vasaṃtatarupallavameva vātaiḥ śītairgajeṃdragamanaiḥ surabhīkṛtāṃgam || etādṛśaṃ harinikuṃjagṛhaṃ smara tvaṃ sannamraśākhataruyuktamatīva puṣpaiḥ ||22|| śrīveṇugītaṃ bahukāmavarddhanaṃ niśamya sarvā vrajayoṣito nṛpa || śrīkṛṣṇakāṃtena gṛhītamānasā visṛjya karmāṇi samāyayurvane ||23|| ruddhā yāḥ patibhī rājankṛṣṇena hṛtamānasāḥ || sthūlaṃ śarīraṃ tāstyaktvā tvaraṃ kṛṣṇāṃtikaṃ yayuḥ ||24|| siṃhāsane hemadukūlasaṃyute madhye sthitaṃ sundaranandanandanam || śrīsundarī rādhikayā samaṃ paraṃ gale dadhānaṃ madhumālatīsrajam ||25|| śyāmaṃ prabhātārkakirīṭinaṃ hariṃ sphuratprabhaṃ śrīmuralīmanoharam || pītāṃbaraṃ manmatharāśimohanaṃ vrajastriyastaṃ dadṛśuḥ samāgatāḥ ||26|| dṛṣṭvā priyāḥ priyatamaṃ matsyakuṇḍalinaṃ harim || gopyo mūrcchāṃ gatāḥ sadyo bhūpa cālakṣitodyamāḥ ||27|| sāṃtvayāmāsa tāḥ kṛṣṇo miṣṭavākyaiḥ sudhāsamaiḥ || tadā gopyo vanoddeśe sarvāścaitanyatāṃ gatāḥ ||28|| kṛṣṇaṃ gad‌gadayā vācā stutvā bhītāḥ striyo varāḥ || tyaktvā virahajaṃ duḥkhaṃ goviṃdaṃ dadṛśuḥ priyam ||29|| vṛndāvane bhrājamāne mālatīvanasaṃkule || divyadrumalatājāle madhupadhvaninādite ||30|| vicacāra hariḥ sākṣāddevo madanamohanaḥ || padmābhaṃ padmahastena gṛhītvā rādhikākaram ||31|| prahasanbhagavānsākṣādāyayau yamunātaṭam || kṛṣṇātīre nikuṃje vai śrīkṛṣṇo niṣasāda ha ||32|| tasmingṛhe madhupateḥ śṛṇu gopikānāṃ śrīkṛṣṇacandracaraṇasmaraṇāvṛtānām || jhaṃkāranūpurajhaṇatkarakaṃkaṇānāṃ maṃjīrarat‍navicalatkaṭikiṃkiṇīnām ||33|| smeradyutisphuṭacamatkṛtagaṃḍadeśaiḥ śrīdaṃtapaṃktivilasattaḍitālileśaiḥ || koṭīrahāraharitāṃgadabhūṣitānāṃ bālārkamaṃḍalavikuṃḍalamaṃḍitānām ||34|| tāsāṃ tu kāpi yuvatī kathitā ca mugdhā madhyāpi kāpi taruṇī rucirā pragalbhā || kācittaruṃ vinayatī madhuraṃ hasaṃtī kācitsakhī madayutā suvane vrajaṃtī ||35|| saṃtāḍya tāmapi kareṇa tu kāpyadhāva- tsaṃgṛhya kāpi bhuvane kamalairjaghāna || kācicchlathatkanakahāramupājahāra kācitpramuktakabarī tu vihāramattā ||36|| śrījāhnavī ca yamunā madhu mādhavī ca śīlā ramā śaśimukhī virajā suśīlā || candrānanā ca lalitā tvacalā viśākhā māyā'lpa eva kathitā bhavane tvasaṃkhyāḥ ||37|| līlātapatramatimauktikadāmajālaṃ nītvā calaṃti maṇibhūmiṣu tatra kāścit || śrīcāmaravyajanadaṃḍadharā vayasyāḥ kāścid‌vrajaṃti dhṛtapītapatatpatākāḥ ||38|| nṛtyaṃti tatra hariveṣadharāstu kāści- dvīṇākarā madhuratālamṛdaṃgahastāḥ || vaṃśīdharāśca vṛṣabhānusutāḥ suveṣāḥ keyūrakuṇḍalayutā maṇivetrahastāḥ ||39|| saddhāvabhāvarasatālayutasmitāktai- rjhaṃkāranūpurayutairviśadaiḥ kaṭākṣaiḥ || saṃgītanṛtyaviditairbhrukuṭīvibhaṃgai rādhāṃ hariṃ ca satataṃ paritoṣayaṃtyaḥ ||40|| tasminnikuñjabhavane yamunātaṭe'pi vaṃśīvaṭe vanadharānikaṭe hariṃ tam || śrīrādhayā ca girirājataṭaṃ vrajaṃtaṃ naṃdātmajaṃ ca naṭaveṣadharaṃ smara tvam ||41|| śrīpadmarāganakhadīptipadāravindaṃ jhaṃkāranūpuradharaṃ sphuradaṃgadeśam || kurvaṃtameva tu padāruṇabhūmideśaṃ śrīmatparāgasurucālamitastatastu ||42|| lakṣmīkarābjaparilālitajānudeśaṃ raṃbhoru pītavasanaṃ tu kṛśodarābham || romāvalibhramaranābhisarastrirekhaṃ kāṃcīdharaṃ bhṛgupadaṃ maṇīkaustubhāḍhyam ||43|| śrīvatsahāraruciraṃ navameghanīlaṃ pītāṃbaraṃ karikarasphuṭabāhudaṇḍam || rat‍nāṃgadaṃ ca maṇīkaṃkaṇapadmahastaṃ śrīrājahaṃsavarakaṃdharaśobhamānam ||44|| śrīkambukaṇṭhalalitaṃ vilasatkapolaṃ madhyaṃ tu nimnacibukaṃ kila kundadaṃtam || biṃbādharaṃ smitalasacchukacaṃcunāsaṃ pīyūṣakalpavacanaṃ pracalatkaṭākṣam ||45|| śrīpuṇḍarīkadalanetramanaṃgalīlaṃ bhrūmaṇḍalasmitaguṇāvṛtakāmacāpam || vidyucchaṭocchalitarat‍nakirīṭakoṭiṃ mārtaṃḍamaṃḍalavikuṇḍamaṃḍitābham ||46|| vaṃśīdharaṃ tvahivilolaguḍālakāḍhyaṃ rādhāpatiṃ sajalapadmamukhaṃ calaṃtam || kaṃdarpakoṭighanamānaharaṃ kṛśāṃgaṃ vaṃśīvaṭe naṭavaraṃ bhaja sarvathā tvam ||47|| āraktaraktanakhacandrapadābjaśobhāṃ mañjīranūpuraraṇatkaṭikiṃkiṇīkām || śrīghaṃṭikākanakakaṃkaṇaśabdamuktāṃ rādhāṃ dadhāmi tarupuñjanikuñjamadhye ||48|| nīlāṃbaraiḥ kanakaraśmitaṭasphurad‌bhiḥ śrībhānujātaṭamarud‌gaticaṃcalāṃgaiḥ || sūkṣmasvarūpalalitairatigauravarṇāṃ rāseśvarīṃ bhaja manoharamaṃdahāsām ||49|| bālārkamaṃḍalamahāṃgadarat‍nahārāṃ tāṭaṃkatoraṇamaṇīṃdramanoharābhām || śrīkaṇṭhabhālasumanonavapaṃcadāmnīṃ rat‍nāṃgulīyalalitāṃ vrajarājapat‍nīm ||50|| cūḍāmaṇidyutilasatsphuradarddhacaṃdrāṃ graiveyakālapanapatravicitrarūpām || śrīpaṭṭasūtramaṇīpaṭṭacalad‌dvidāmnīṃ sphūrjjatsahasradalapadmadharāṃ bhajasva ||51|| śrībāhukaṃkaṇalasatkucarat‍nadīptiṃ śrīnāsikābharaṇabhūṣitagaṇḍadeśām || sadyauvanālasagatiṃ kalasarpaveṇīṃ madhyeṃdukoṭivadanāṃ sphuṭacaṃpakābhām ||52|| saddhāvabhāvasahitāṃ navapadmanetrāṃ sphūrjjatsmitadyutikalāṃ pracalatkaṭākṣām || kṛṣṇapriyāṃ lalitakuntalapuṃjalābhāṃ maṃdārahāramadhurabhramarīravāḍhyām ||53|| śrīkhaṃḍakuṃkumamṛdāguruvārisiktāṃ śrībiṃdukīrucirapatravicitracitrām || saṃtānapatrarucirāmalamaṃjanābhāṃ rāseśvarīṃ gajagatiṃ bhaja padminīṃ tām ||54|| etādṛśīṃ rativarāṃ tu sametya kṛṣṇo gacchannikuñjavanajālavilokānāya || dhāvaṃti tatra maṇichatradharāśca gopyo nītvā tathā camaracārupatatpatākāḥ ||55|| ṣaḍ‌rāgameva varadhaivatamadhyamādyai- rgāyaṃtamādipuruṣaṃ bhaja nandaputram || ṣaṭ‌triṃśatastadanuvarttitarāgiṇīnāṃ vaṃśīvareṇa lalitena varaṃ vrajaṃtam ||56|| śṛṅgāravīrakaruṇād‌bhutahāsyaraudra- bībhatsaśāṃtakabhayānakanityayuktam || bhaktapriyaṃ vrajavadhūmukhapadmabhṛṃgaṃ yogīndrahṛtkamalavisphuradaṃghriyugmam ||57|| kṣetrajñamādipuruṣaṃ svadhiyajñarūpaṃ sarveśvaraṃ sakalakāraṇakāraṇeśam || kṛṣṇaṃ hariṃ prakṛtipūraṣayoḥ pumāṃsaṃ sarvaṃ nirastakapaṭaṃ nijatejaseha ||58|| yaṃ vai stuvaṃti śivadharmasureśaśeṣa- lokeśasiddhidagaṇeśasurādayo'pi || rādhāramāprakṛtibhūvirajāsvarādyā vedā bhajaṃti satataṃ tamahaṃ bhajāmi ||59|| iti śrīgargasaṃhitāyāṃ hayamedhakhaṇḍe rāsakrīḍāyāṃ dvicatvāriṃśo'dhyāyaḥ ||42|| hariḥ oṃ tatsat śrīkṛṣṇārpaṇamastu ||

English translation

Description of the splendor of Srivrindavan, Yamuna-Pulin, Vamsivat, Nikunj Bhavan, etc., in the context of Rasa Krida; pictorial reflection of Gopasundaris, Shyamsundar and Sriradha

Srigarji says - Rajan! On the full moon night in the first month of the autumn season, Radhikavallabha Shyam-Sundara played the subjugating Vamsi as before in Vrindavan. The sound of the flag went off in every direction, captivating everyone. Hearing this, the gopasundaris fell in love and were distressed. The sound of the clouds blocking the movement, repeatedly surprising the Tumburus, obstructing the meditation of the Sanak-sanandana etc., surprising Brahma, making the king Bali also agile with the anxieties, bringing rest of Nagaraja rest rest rest rest rest restless and penetrating the walls of the cosmic abyss, that Vamsi sound spread everywhere. 1-3.

Rajendra! It was then that the moon rose, dispelling the sun-induced wrath of mortals; as if a beloved from a foreign land dispelled the grief of his beloved. A king who respected others! At the same time, the Yamuna assumed a divine form. The forms of Vrindavan, Giriraja, and Vrajabhumika also became divine. The Yamuna, a dark river, rose to its zenith. There were beads and cymbals made of the finest gems, pearls, rubies, jewels (diamonds), emeralds (emeralds), etc., which adorned the Rathi of Yamunaji with steps and gems made of Vaidyurya, Neelam, Harinmani, Indranil, Vajramani, and brass. The Yamuna river was exquisitely adorned by all the rivers returning to Shri Krishna's abode there. Floating freely with flocks of fish and plucking the zodiac from the beautiful dark limb, she was adorned with her high and lively waves and cheerful lotuses. 4 - 7. (Ashwamedh Khand Chapters 41 to 45)

Consume that Govardhanagiri bhajan. Luminous with hundreds of moons, Mandar and Kalpavriks surrounded by sandalwood vines that exude splendor, where Rasmandal and Manimaya Mandapas are located, and at the top of which are glittering multi-manjula gardens and cottages. The entire stretch of Vrindavan is fragrant, vibrating with the very fragrant air that flows slowly in contact with the Yamuna's banks, water bodies, and arrows, and the forest, known for its shrubs, verdant soil, and agarus, seems to be of supreme welfare. In the spring season, Vrindavan is adorned with fresh Pallava and floral colours, Mandar, Sandalwood, Champa, Kadamba, Niramba, Amda, Mango, Jackfruit, Aguru, Orange, Shriphal, Palm, Peepal, Banyan, and Naval Coconut. Dates, Shrifals (vines), and cloves adorned the forest. He was endowed with figs, sal, tamal, kadamba, santhan (Kalpavriksha), kund, ber, banana, and pearls. Trees such as Semal, Moulsiri, Ketaki, and Shirish were its splendor. 8-11 |

Nripendra The exquisite Vrindavan Srimallika, rich in Tulasi and nectar, is adorned with Amritalata and the sweet Madhavi - vines, which seem to have an enchanting aura from the group of vines and lotuses that adorn the minds of the virtuous. In the center of the celestial sphere, you contemplate such a Vrindavan. The banks of the Yamuna are adorned with lush green meadows. Its culvert is rich in sands. Trees such as Sripatal, Mahua, Palash, Priyal, Gular, Areca nut, Areca nut, and Kapittha (Kaith) adorn the Yamuna. It is also covered with Kovidar (Kachnar), Pichumand (Neem), Latajal, Arjun (Saral), Deodar, Jamun, Sundara cane, Narkul, Kubjak, Swarnayuthi, Punnag, Nagakesar, Kutj, and Kurbak. Chakravaka, Saras, Parrots, White Flamingos, Karandavas, and Jalkukutas roam the Yamuna all the time. May you always remember the Yamuna Puli, enriched with the colours of the Datiyuh (papyrus), cuckoo, pigeon, sapphire, and dancing peacocks. 12-16 |

Shyama, Chakor, Kanjarit, Sarika (myna), Paravat (pareva), Bhramar, Pheetar, Titri, Kanaklata, Madhulata, Honeycombed Juhi - all of which are enveloped, adorned with deer, Markat, and Markatis, which are ever-wandering and adorned with the peaks of Padmaragamani, is the Nikunjabhavan of Vrindavan, adorned with Sri Kaustumani and Indraneel beads. There are golden sandwiches, made of silk yarn, adorned with layers of moonlight. The entrance to the park is adorned with ornate ornaments. Gold-colored yellow flags with bead blades are flown there. Birds such as pigeons and geese surround it. The garden is beautifully decorated with exotic garlands of Mandar, Kund, Kaner, Juhi and Nutan Champake. Surrounded by garlands of the Pallavas of Nagakesara, Kamal and Harichandan, and garlands of flowers of Srimalati, Kurbak and Kanchanayuthika, the park-building is also enchanting to the mind of Kamadeva. There are beautiful gemstone mirrors on the walls and white leather adorns the building. The new Pallavas and the flower-decorated thrones, the beds, are studded with gold and coral, giving the building its unique charm. The building has been sprinkled with water from Srichandan and Aguru, nectar from fragrant flowers, and saffron petals radiating from the aroma of musk. The building's all-pervading aroma was imbued with the cool, thunderous rhythmic rhythm that the Pallavas of the swaying spring trees suggest. The branches of the trees there were very low-leaning and were adorned with more and more flower clusters. Think of such a park-building in Sriharika. 17-22 |

Nareshwar. The song that came out of Sriharike Venuvadana was very romantic. Hearing this, the heart of all the Brajasundaris fell upon the beloved Lord Krishna. She left all the household chores and went to Vrajam. The king. Those who were stopped by their husbands also left their fat bodies and immediately went to Lord Krishna due to the beating of their hearts by the beloved Lord. Shyamsundar Nandanandan sat with Srisundari Radhika in the center of the throne on which was laid the golden dukula. A garland of nectar-filled Malti adorned her neck. His penis was dark in color. They were adorned with crowns as bright as the morning sun. His shadow was spreading all over the place. The beauty of Srihariki was further enhanced by the adjacent Sri Murali. The Vrajasundaris who came there saw the pitambar-clad Shyamsundar, who enchanted the hordes of Kamadeva. 23-26 | (Ashwamedh Khand Chapters 41 to 45)

The king! The gopis were instantly moved by the sight of Priya-Dearie Srihariko in a Meenakar Kundal. There was no sign of any kind of effort in their limbs. Then Lord Krishna consoled and strengthened them all with words as sweet as nectar. Then all the gopasundaris attained consciousness in that forest area. The gopasundaris, who were frightened by the praise of Lord Krishna with their eloquent speech, looked at Pranavallabha Govinda with great love, abandoning the sorrows of separation. In the splendid Vrindavan, enveloped by a web of divine trees and divine vines stretching from Malativan, Madanmohan Dev Shrihari wandered directly with the Gopanganas. With a smile, Lord Nandananda came directly to the banks of the Yamuna, holding the lotus of Sridhara with his palm. Lord Krishna took his seat in the majestic park-building on the banks of the Yamuna. The king! Listen attentively to the melodious sounds of hand bracelets, anklets, and gem-studded kinkinis of the lumbar region while digging into the footsteps of the Gopanganas engaged in the contemplation of Sri Krishna's charanarvindus in the Madhupati building. 27-33 |

Arun, like Sri Padmaragamani, appears radiant with radiant nails whose feet seem to be radiant, clutching a twinkling nupur in his feet, with divine light gleaming from his entire limb, who, in his wanderings, paints the earth with the color of Arun with his reddish-red soles, walking around, scattering the beautiful glow of the graceful Charanparag, whose couple is adored on all sides by the karkam of Janudesh Lakshmi, whose thighs like Rambha are adorned with Pitambar, whose abdomen is extremely crisp, adorned with nipples and fur-like illusions. In one hand is the divine lotus, and in the other, the divine conch is adorned like a swan perched on a lotus, which looks beautiful with a conch-shaped neck, whose central part of the forehead is very graceful, the chin (chin) is deep, and the teeth are as bright as a cudgel, the half that shames the ripe bumblebee in its youth is painted with a faint smile, the nostrils are as sharp as a parrot's beak, and their words are as if pouring nectar, the sarcasm is very lively, the eyes are as charming as the radiant lotus, whose every play is an outpouring of love for them, and the eyebrows are as dull as a smile, full of realism. Consider all the hymns of Radhavallabha Natvara Nandakishore, who is thin in form and who is wandering near Vamsivata in Vrindavan. 42-47 |

I meditate on Charanarvinda, whose reddish-red claws make her look red, whose loins twinkle with a twinkle, adorned with the sweet sound of gonghuru and golden bracelets, and who sits in the garden of the Tarupus. Shriradhaka's body is adorned with blue robes, which are shining like the rays of the sun due to their golden edges. The gusty winds that blow over the Yamuna make the clothes flutter and look very fine because they are very fine. Pay obeisance to Raseshwari Sriradha, adorned with such garments, with a very proud and charming gentle smile. Remember Shri Radha, the wife of Vrajaraja Nandanandan, whose precious gemstone angad and gemstone necklace are as radiant as the morning sun, adorned with earrings (bali) and a necklace adorned with Maniraja Kaustubha, adorned with jewelled necklaces and fourteen battlements of flowers. The crescent-shaped ornament adorned with the Chudamaniki kanti glowing on their foreheads, the neck ornaments and the lettering on their faces make their appearance seem strange (wonderful), the two fighters who wear the Chanchal mala made by the Shripattasutra and Manimaya Pattasutra, and those who hold the illuminated Sahasradala lotus in one of their hands, sing the hymns of Shriradha. The jewelled necklaces adorned in the kuchamandal double the brilliance of the jeweled necklace, the beautiful nasal necklaces and other ornaments illuminate the entire kapolamandal. They have a slow pace consistent with a good puberty. The beautiful braid tied over the head adorns it like a serpent. There is a yellowish-gourd aura of blooming chimpanzees and the beauty of the mouth repulses the kanti of the millions of moons that rise in the evening, sing such hymns of Shriradha. Consider Srikrishnavallabha Radha, adorned with graceful gestures, eyes like the newly developed sapphire, illuminating the soft-smiling Kantimati art, and captivating because of her fickle sarcasm, whose dark aura of the Kuntala zodiac is very charming, and who is adorned with the hum of illusions enticed by the sweet nectar of the garlands of Parijata. Offer hymns to Shrikhandachandan, the saffron-punk, and agur-mixed jalase, who is anointed, who wears a kumkumki braid in Bhaldesh, and whose mouth is painted with a peculiar picture in the form of a tasteful letter structure, whose taste is similar to the leaves of the Kalpavriksha, whose gour-kanti and which perfectly adorns the eyes of Anjan, that Gajagamini, the Padmini heroine, Raseshwari Shriradha. 48-54 |

Thus was completed the forty-second chapter in the Ashvamedha Khanda under the Srigargha Samhita, titled 'Rasa Krida-Vidya'. 42.

Complete chapter-aligned witnesses. Sanskrit Wikisource page 32054, revision 230431 (2020-04-15T04:03:34Z). English was rendered from the complete Hindi chapter at https://www.mahakavya.com/ashwamedh-khand-chapter-41-to-45/ as a transparent machine-assisted translation using the pinned IndicTrans2 Indic–English Distilled 200M model and retained without claiming verse-by-verse alignment.