Goloka-khaṇḍa · Chapter 11
Sourceश्रीनारद उवाच - परिपूर्णतमः साक्षाच्छ्रीकृष्णो भगवान् स्वयम् । विवेश वसुदेवस्य मनः पूर्वं परात्परः ॥ १ ॥ सूर्येन्दुवह्निसंकाशो वसुदेवो महामनाः । बभूवात्यन्तमहसा साक्षाद्यज्ञ इवापरः ॥ २ ॥ देवक्यामागते कृष्णे सर्वेषामभयंकरे । रराज तेन सा गेहे घने सौदामिनी यथा ॥ ३ ॥ तेजोवतीं च तां वीक्ष्य कंसः प्राह भयातुरः । प्राप्तोऽयं प्राणहन्ता मे पूर्वमेषा न चेदृशी ॥ ४ ॥ जातमात्रं हनिष्यामीत्युक्त्वाऽऽस्ते भयविह्वलः । पश्यन्सर्वत्र च हरिं पूर्वशत्रुं विचिन्तयन् ॥ ५ ॥ अहो वैरानुबन्धेन साक्षात्कृष्णोऽपि दृश्यते । तस्माद्वैरं प्रकुर्वन्ति कृष्णप्राप्त्यर्थमासुराः ॥ ६ ॥ अथ ब्रह्मादयो देवा मुनीन्द्रैरस्मदादिभिः । शौरिगेहोपरि प्राप्ताः स्तवं चक्रुः प्रणम्य तम् ॥ ७ ॥ देवा ऊचुः - यज्जागरादिषु भवेषु परं ह्यहेतु- र्हेतुः स्विदस्य विचरन्ति गुणाश्रयेण । नैतद्विशन्ति महदिन्द्रियदेवसंघा- स्तस्मै नमोऽग्निमिव विस्तृतविस्फुलिंगाः ॥ ८ ॥ नैवेशितुं प्रभुरयं बलिनां बलीयान् माया न शब्द उत नो विषयीकरोति । तद्ब्रह्म पूर्णममृतं परमं प्रशान्तं शुद्धं परात्परतरं शरणं गताः स्मः ॥ ९ ॥ अंशांशकांशककलाद्यवतारवृन्दै- रावेशपूर्णसहितैश्च परस्य यस्य । सर्गादयः किल भवन्ति तमेव कृष्णं पूर्णात्परं तु परिपूर्णतमं नताः स्मः ॥ १० ॥ मन्वन्तरेषु च युगेषु गतागतेषु कल्पेषु चांशकलया स्ववपुर्बिभर्षि । अद्यैव धाम परिपूर्णतमं तनोषि धर्मं विधाय भुवि मंगलमातनोषि ॥ ११ ॥ यद्दुर्लभं विशदयोगिभिरप्यगम्यं गम्यं द्रवद्भिरमलाशयभक्तियोगैः । आनंदकंद चरतस्तव मन्दयानं पादारविन्दमकरन्दरजो दधामः ॥ १२ ॥ पूर्वं तथात्र कमनीयवपुष्मयं त्वां कंदर्पकोटिशतमोहनमद्भुतं च । गोलोकधामधिषणद्युतिमादधानं राधापतिं धरणिधुर्यधनं दधामः ॥ १३ ॥ श्रीनारद उवाच - नत्वा हरिं तदा देवा ब्रह्माद्या मुनिभिः सह । गायन्तस्तं प्रशंसन्तः स्वधामानि ययुर्मुदा ॥ १४ ॥ अथ मैथिलराजेन्द्र जन्मकाले हरेः सति । अंबरं निर्मलं भूतं निर्मलाश्च दिशो दश ॥ १५ ॥ उज्ज्वलास्तारका जाताः प्रसन्नं भूमिमंडलम् । नदा नद्यः समुद्राश्च प्रसन्नापः सरोवराः ॥ १६ ॥ सहस्रदलपद्मानि शतपत्राणि सर्वतः । विचकानि मरुत्स्पर्शैः पतद्गन्धिरजांसि च ॥ १७ ॥ तेषु नेदुर्मधुकरा नदन्तश्चित्रपक्षिणः । शीतला मन्दयानाश्च गंधाक्ता वायवो ववुः ॥ १८ ॥ ऋद्धा जनपदा ग्रामा नगरा मंगलायनाः । देवा विप्रा नगा गावो बभूवुः सुखसंवृताः ॥ १९ ॥ देवदुन्दुभयो नेदुर्जयध्वनिसमाकुलाः । यत्र तत्र महाराज सर्वेषां मंगलं परम् ॥ २० ॥ विद्याधराश्च गंधर्वाः सिद्धकिन्नरचारणाः । जगुः सुनायका देवास्तुष्टुवुः स्तुतिभिः परम् ॥ २१ ॥ ननृतुर्दिवि गन्धर्वा विद्याधर्य्यो मुदान्विताः । पारिजातकमन्दारमालतीसुमनांसि च ॥ २२ ॥ मुमुचुर्देवमुख्याश्च गर्जन्तश्च घना जले । भाद्रे बुधे कृष्णपक्षे धात्रर्क्षे हर्षणे वृषे । कर्णेऽष्टम्यामर्द्धरात्रे नक्षत्रेशमहोदये ॥ २३ ॥ अन्धकारावृते काले देवक्यां शौरिमन्दिरे । आविरासीद्धरिः साक्षादरण्यामध्वरेऽग्निवत् ॥ २४ ॥ स्फुरदक्षविचित्रहारिणं विलसत्कौस्तुभरत्नधारिणम् । परिधिद्युतिनूपुरांगदं धृतबालार्ककिरीटकुंडलम् ॥ २५ ॥ चलदद्भुतवन्हिकंकणं तडिदूर्जितगुणमेखलाञ्चितम् । मधुभृद्ध्वनिपद्ममालिनं नवजांबूनददिव्यवाससम् ॥ २६ ॥ सतडित्घनदिव्यसौभगं चलनीलालकवृन्दभृन्मुखम् । चलदंशु तमोहरं परं शुभदं सुन्दरमंबुजेक्षणम् ॥ २७ ॥ कृतपत्रविचित्रमंडनं सततं कोटिमनोजमोहनम् । परिपूर्णतमं परात्परं कलवेणुध्वनिवाद्यतत्परम् ॥ २८ ॥ तमवेक्ष्य सुतं यदूत्तमो हरिजन्मोत्सवफुल्ललोचनः । अथ विप्रजनेषु चाशु वै नियुतं सन्मनसा गवां ददौ ॥ २९ ॥ हरिमानकदुंदुभिः स्तवैः स्तवनं तं प्रणिपत्य विस्मितः । अकरोदुदितप्रभूदयो गतभीः सूतिगृहे कृतांजलिः ॥ ३० ॥ श्रीवसुदेव उवाच - एको यः प्रकृतिगुणैरनेकधासि हर्ता त्वं जनक उतास्य पालकस्त्वम् । निर्लिप्तः स्फटिक इवाद्य देहवर्णै- स्तस्मै श्रीभुवनपते नमामि तुभ्यम् ॥ ३१ ॥ एधःसु त्वनल इवात्र वर्तमानो योऽन्तस्थो बहिरपि चाम्बरं यथा हि । आधारो धरणिरिवास्य सर्वसाक्षी तस्मै ते नम इव सर्वगो नभस्वान् ॥ ३२ ॥ भूभारोद्भटहरणार्थमेव जातो गोदेवद्विजनिजवत्सपालकोऽसि । गेहे मे भुवि पुरुषोत्तमोत्तमस्त्वं कंसान्मां भुवनपते प्रपाहि पापात् ॥ ३३ ॥ श्रीनारद उवाच - परिपूर्णतमं साक्षाच्छ्रीकृष्णं श्यामसुन्दरम् । ज्ञात्वा नत्वाथ तं प्राह देवकी सर्वदेवता ॥ ३४ ॥ श्रीदेवक्युवाच - हे कृष्ण हे विगणिताण्डपते परेश गोलोकधामधिषणध्वज आदिदेव । पूर्णेश पूर्ण परिपूर्णतम प्रभो मां त्वं पाहि परमेश्वर कंसपापात् ॥ ३५ ॥ श्रीनारद उवाच - तच्छ्रुत्वा भगवान्कृष्णः परिपूर्णतमः स्वयम् । सस्मितो देवकीं शौरिं प्राह स वृजिनार्दनः ॥ ३६ ॥ श्रीभगवानुवाच - इयं च पृश्निः पतिदेवता च त्वं पूर्वसर्गे सुतपा प्रजार्थी । ब्रह्माज्ञया दिव्यतपो युवाभ्यां कृतं परं निर्जलभोजनाभ्याम् ॥ ३७ ॥ कालेषु मन्वन्तरके व्यतीते तपः परं तत्तपसः प्रजार्थी । तदा प्रसन्नो युवयोरभूवं वरं परं ब्रूत मया तदोक्तम् ॥ ३८ ॥ श्रुत्वा युवाभ्यां कथितं तदैव भूयात्सुतस्त्वत्सदृशः किलावयोः । तथास्तु चोक्त्वाथ गते मयि प्रजा- पती ह्यभूत स्वकृतेन दम्पती ॥ ३९॥ न मत्समः कोऽपि सुतो जगत्यलं विचार्य तद्वामभवं परेश्वरः । श्रीपृश्निगर्भो भुवि विश्रुतः पुन- र्द्वितीयकालेऽहमुपेन्द्रवामनः ॥ ४० ॥ तथाऽभवं ह्यद्यतमे परात्परो नीत्वाऽथ मां प्रापय नन्दमन्दिरम् अतो न भूयाद्भयमौग्रसेनतः सुतां समादाय सुखी भविष्यथः ॥ ४१ ॥ श्रीनारद उवाच - तूष्णीं भूत्वा हरिस्तत्र तद्भूयः पश्यतोस्तयोः । दृश्यं ह्यप्रकटं कृत्वा बालोऽभूत्कौ यथा नटः ॥ ४२ ॥ प्रेंखे धृत्वाऽथ तं शौरिर्यावद्गन्तुं समुद्यतः । तवाद्व्रजे नन्दपत्न्यां योगमायाऽजनि स्वतः ॥ ४३ ॥ तया शयाने विश्वस्मिन् रक्षकेषु स्वपत्सु च । द्वार उद्घाटिताः सर्वाः प्रस्फुटच्छृङ्खलार्गलाः ॥ ४४ ॥ निर्गते वसुदेवे च मूर्ध्नि श्रीकृष्णशोभिते । सूर्योदये यथा सद्यस्तमोनाशोऽभवत्स्वतः ॥ ४५ ॥ घनेषु व्योम्नि वर्षत्सु सहस्रवदनः स्वराट् । निवारयन्दीर्घफणैरासारं शौरिमन्वगात् ॥ ४६ ॥ ऊर्म्यावर्ताकुलावेगैः सिंहसर्पादिवाहिनी । सद्यो मार्गं ददौ तस्मै कालिन्दी सरितां वरा ॥ ४७ ॥ नन्दव्रजं समेत्यासौ प्रसुप्तं सर्वतः परम् । शिशुं यशोदाशयने निधायाशु ददर्श ताम् ॥ ४८ ॥ तत्सुतां समुपादाय पुनर्गेहाज्जगाम सः । तीर्त्वा श्रीयमुनां शौरिः स्वागारे पूर्ववत्स्थितः ॥ ४९ ॥ सुतं सुतां वा जातं चाज्ञात्वा गोपी यशोमती । परिश्रान्ता स्वशयने सुष्वापानन्दनिद्रया ॥ ५० ॥ अथ बालध्वनिं श्रुत्वा रक्षकाः समुपस्थिताः । ऊचुः कंसाय वीराय गत्वा तद्राजमन्दिरम् ॥ ५१ ॥ सूतीगृहं त्वरं प्रागात्कंसो वै भयकातरः । स्वसाथ भ्रातरं प्राह रुदती दीनवत्सती ॥ ५२ ॥ श्रीदेवक्युवाच - सुतामेकां देहि मे त्वं पुत्रेषु प्रमृतेषु च । स्त्रियं हन्तुं न योग्योऽसि भ्रातस्त्वं दीनवत्सलः ॥ ५३ ॥ तेऽनुजाहं हतसुता कारागारे निपातिता । दातुमर्हसि कल्याण कल्याणीं तनुजां च मे ॥ ५४ ॥ श्रीनारद उवाच - अश्रुमुख्या मोहितया समाच्छाद्यात्मजां बहु । प्रार्थितोऽङ्काद्विनिर्भर्त्स्य तां स आचिच्छिदे खलः ॥ ५५ ॥ कुसङ्गनिरतः पापः खलो यदुकुलाधमः । स्वसुः सुतां शिलापृष्ठे गृहीत्वांघ्र्योर्न्यपातयत् ॥ ५६ ॥ कंसहस्तात्समुत्पत्य त्वरं सा चांबरे गता । शतपत्रे रथे दिव्ये सहस्रहयसेविते ॥ ५७ ॥ चामरांदोलिते शुभ्रे स्थितादृश्यत दिव्यदृक् । सायुधाष्टभुजा माया पार्षदैः परिसेविता । शतसूर्यप्रतीकाशा कंसमाह घनस्वना ॥ ५८ ॥ श्रीयोगमायोवाच - परिपूर्णतमः साक्षाच्छ्रीकृष्णो भगवान् स्वयम् । जातः क्व वा तु ते हन्ता वृथा दीनां दुनोषि वै ॥ ५९ ॥ श्रीनारद उवाच - इत्युक्त्वा तं ततो देवी गता विन्ध्याचले गिरौ । योगमाया भगवती बहुनामा बभूव ह ॥ ६० ॥ अथ कंसो विस्मितोऽभूच्छ्रुत्वा मायावचः परम् । देवकीं वसुदेवं च मोचयामास बन्धनात् ॥ ६१ ॥ कंस उवाच - पापोऽहं पापकर्माहं खलो यदुकुलाधमः । युष्मत्पुत्रप्रहन्तारं क्षमध्वं मे कृतं भुवि ॥ ६२ ॥ हे स्वसः शृणु मे शौरे मन्ये कालकृतं त्विदम् । येन निश्चाल्यमानो वा वायुनेव घनावलेः ॥ ६३ ॥ विश्वस्तोऽहं देववाक्ये देवास्तेऽपि मृषागिरः । न जानामि क्व मे शत्रुर्जातः कौ कथितोऽनया ॥ ६४ ॥ श्रीनारद उवाच - इत्थं कंसस्तदंघ्र्योश्च पतितोऽश्रुमुखो रुदन् । चकार सेवां परमां सौहृदं दर्शयंस्तयोः ॥ ६५ ॥ अहो श्रीकृष्णचन्द्रस्य परिपूर्णतमप्रभोः । दानदक्षैः कटाक्षैश्च किन्न स्याद्भूमिमंडले ॥ ६६ ॥ प्रातःकाले तदा कंसः प्रलंबादीन्महासुरान् । समाहूय खलस्तेभ्योऽवददुक्तं च मायया ॥ ६७ ॥ कंस उवाच - जातो मे ह्यंतकृतद्भूमौ कथितो योगमायया । अनिर्दशान्निर्दशांश्च शिशून्यूयं हनिष्यथ ॥ ६८ ॥ दैत्या ऊचुः - सज्जस्य धनुषो युद्धे भवता द्वंद्वयोधिना । टंकारेणोद्गता देवा मन्यसे तैः कथं भयम् ॥ ६९ ॥ गोविप्रसाधुश्रुतयो देवा धर्मादयः परे । विष्णोश्च तनवो ह्येषां नाशे दैत्यबलं स्मृतम् ॥ ७० ॥ जातो यदि महाविष्णुस्ते शत्रुर्यो महीतले । अयं चैतद्वधोपायो गवादीनां विहिंसनम् ॥ ७१ ॥ इत्थं महोद्भटा दुष्टा दैतेयाः कंसनोदिताः । दुद्रुवुः खं गवादिभ्यो जघ्नुर्जातांश्च बालकान् ॥ ७२ ॥ आसमुद्राद्भूमितले विशंतश्च गृहे गृहे । कामरूपधरा दैत्याश्चेरुः सर्पा इवाभवन् ॥ ७३ ॥ उत्पथा उद्भटा दैत्यास्तत्रापि कंसनोदिताः । कपिः सुरापोऽलिहतो भूतग्रस्त इवाभवन् ॥ ७४ ॥ वैदेह मैथिल नरेन्द्र उपेन्द्रभक्त धर्मिष्ठमुख्य सुतपो जनक प्रतापिन् । एतत्सतां च भुवि हेलनमंग राजन् सर्वं छिनत्ति बहुलाश्व चतुष्पदार्थान् ॥ ७५ ॥
śrīnārada uvāca - paripūrṇatamaḥ sākṣācchrīkṛṣṇo bhagavān svayam | viveśa vasudevasya manaḥ pūrvaṃ parātparaḥ || 1 || sūryenduvahnisaṃkāśo vasudevo mahāmanāḥ | babhūvātyantamahasā sākṣādyajña ivāparaḥ || 2 || devakyāmāgate kṛṣṇe sarveṣāmabhayaṃkare | rarāja tena sā gehe ghane saudāminī yathā || 3 || tejovatīṃ ca tāṃ vīkṣya kaṃsaḥ prāha bhayāturaḥ | prāpto'yaṃ prāṇahantā me pūrvameṣā na cedṛśī || 4 || jātamātraṃ haniṣyāmītyuktvā''ste bhayavihvalaḥ | paśyansarvatra ca hariṃ pūrvaśatruṃ vicintayan || 5 || aho vairānubandhena sākṣātkṛṣṇo'pi dṛśyate | tasmādvairaṃ prakurvanti kṛṣṇaprāptyarthamāsurāḥ || 6 || atha brahmādayo devā munīndrairasmadādibhiḥ | śaurigehopari prāptāḥ stavaṃ cakruḥ praṇamya tam || 7 || devā ūcuḥ - yajjāgarādiṣu bhaveṣu paraṃ hyahetu- rhetuḥ svidasya vicaranti guṇāśrayeṇa | naitadviśanti mahadindriyadevasaṃghā- stasmai namo'gnimiva vistṛtavisphuliṃgāḥ || 8 || naiveśituṃ prabhurayaṃ balināṃ balīyān māyā na śabda uta no viṣayīkaroti | tadbrahma pūrṇamamṛtaṃ paramaṃ praśāntaṃ śuddhaṃ parātparataraṃ śaraṇaṃ gatāḥ smaḥ || 9 || aṃśāṃśakāṃśakakalādyavatāravṛndai- rāveśapūrṇasahitaiśca parasya yasya | sargādayaḥ kila bhavanti tameva kṛṣṇaṃ pūrṇātparaṃ tu paripūrṇatamaṃ natāḥ smaḥ || 10 || manvantareṣu ca yugeṣu gatāgateṣu kalpeṣu cāṃśakalayā svavapurbibharṣi | adyaiva dhāma paripūrṇatamaṃ tanoṣi dharmaṃ vidhāya bhuvi maṃgalamātanoṣi || 11 || yaddurlabhaṃ viśadayogibhirapyagamyaṃ gamyaṃ dravadbhiramalāśayabhaktiyogaiḥ | ānaṃdakaṃda caratastava mandayānaṃ pādāravindamakarandarajo dadhāmaḥ || 12 || pūrvaṃ tathātra kamanīyavapuṣmayaṃ tvāṃ kaṃdarpakoṭiśatamohanamadbhutaṃ ca | golokadhāmadhiṣaṇadyutimādadhānaṃ rādhāpatiṃ dharaṇidhuryadhanaṃ dadhāmaḥ || 13 || śrīnārada uvāca - natvā hariṃ tadā devā brahmādyā munibhiḥ saha | gāyantastaṃ praśaṃsantaḥ svadhāmāni yayurmudā || 14 || atha maithilarājendra janmakāle hareḥ sati | aṃbaraṃ nirmalaṃ bhūtaṃ nirmalāśca diśo daśa || 15 || ujjvalāstārakā jātāḥ prasannaṃ bhūmimaṃḍalam | nadā nadyaḥ samudrāśca prasannāpaḥ sarovarāḥ || 16 || sahasradalapadmāni śatapatrāṇi sarvataḥ | vicakāni marutsparśaiḥ patadgandhirajāṃsi ca || 17 || teṣu nedurmadhukarā nadantaścitrapakṣiṇaḥ | śītalā mandayānāśca gaṃdhāktā vāyavo vavuḥ || 18 || ṛddhā janapadā grāmā nagarā maṃgalāyanāḥ | devā viprā nagā gāvo babhūvuḥ sukhasaṃvṛtāḥ || 19 || devadundubhayo nedurjayadhvanisamākulāḥ | yatra tatra mahārāja sarveṣāṃ maṃgalaṃ param || 20 || vidyādharāśca gaṃdharvāḥ siddhakinnaracāraṇāḥ | jaguḥ sunāyakā devāstuṣṭuvuḥ stutibhiḥ param || 21 || nanṛturdivi gandharvā vidyādharyyo mudānvitāḥ | pārijātakamandāramālatīsumanāṃsi ca || 22 || mumucurdevamukhyāśca garjantaśca ghanā jale | bhādre budhe kṛṣṇapakṣe dhātrarkṣe harṣaṇe vṛṣe | karṇe'ṣṭamyāmarddharātre nakṣatreśamahodaye || 23 || andhakārāvṛte kāle devakyāṃ śaurimandire | āvirāsīddhariḥ sākṣādaraṇyāmadhvare'gnivat || 24 || sphuradakṣavicitrahāriṇaṃ vilasatkaustubharatnadhāriṇam | paridhidyutinūpurāṃgadaṃ dhṛtabālārkakirīṭakuṃḍalam || 25 || caladadbhutavanhikaṃkaṇaṃ taḍidūrjitaguṇamekhalāñcitam | madhubhṛddhvanipadmamālinaṃ navajāṃbūnadadivyavāsasam || 26 || sataḍitghanadivyasaubhagaṃ calanīlālakavṛndabhṛnmukham | caladaṃśu tamoharaṃ paraṃ śubhadaṃ sundaramaṃbujekṣaṇam || 27 || kṛtapatravicitramaṃḍanaṃ satataṃ koṭimanojamohanam | paripūrṇatamaṃ parātparaṃ kalaveṇudhvanivādyatatparam || 28 || tamavekṣya sutaṃ yadūttamo harijanmotsavaphullalocanaḥ | atha viprajaneṣu cāśu vai niyutaṃ sanmanasā gavāṃ dadau || 29 || harimānakaduṃdubhiḥ stavaiḥ stavanaṃ taṃ praṇipatya vismitaḥ | akaroduditaprabhūdayo gatabhīḥ sūtigṛhe kṛtāṃjaliḥ || 30 || śrīvasudeva uvāca - eko yaḥ prakṛtiguṇairanekadhāsi hartā tvaṃ janaka utāsya pālakastvam | nirliptaḥ sphaṭika ivādya dehavarṇai- stasmai śrībhuvanapate namāmi tubhyam || 31 || edhaḥsu tvanala ivātra vartamāno yo'ntastho bahirapi cāmbaraṃ yathā hi | ādhāro dharaṇirivāsya sarvasākṣī tasmai te nama iva sarvago nabhasvān || 32 || bhūbhārodbhaṭaharaṇārthameva jāto godevadvijanijavatsapālako'si | gehe me bhuvi puruṣottamottamastvaṃ kaṃsānmāṃ bhuvanapate prapāhi pāpāt || 33 || śrīnārada uvāca - paripūrṇatamaṃ sākṣācchrīkṛṣṇaṃ śyāmasundaram | jñātvā natvātha taṃ prāha devakī sarvadevatā || 34 || śrīdevakyuvāca - he kṛṣṇa he vigaṇitāṇḍapate pareśa golokadhāmadhiṣaṇadhvaja ādideva | pūrṇeśa pūrṇa paripūrṇatama prabho māṃ tvaṃ pāhi parameśvara kaṃsapāpāt || 35 || śrīnārada uvāca - tacchrutvā bhagavānkṛṣṇaḥ paripūrṇatamaḥ svayam | sasmito devakīṃ śauriṃ prāha sa vṛjinārdanaḥ || 36 || śrībhagavānuvāca - iyaṃ ca pṛśniḥ patidevatā ca tvaṃ pūrvasarge sutapā prajārthī | brahmājñayā divyatapo yuvābhyāṃ kṛtaṃ paraṃ nirjalabhojanābhyām || 37 || kāleṣu manvantarake vyatīte tapaḥ paraṃ tattapasaḥ prajārthī | tadā prasanno yuvayorabhūvaṃ varaṃ paraṃ brūta mayā tadoktam || 38 || śrutvā yuvābhyāṃ kathitaṃ tadaiva bhūyātsutastvatsadṛśaḥ kilāvayoḥ | tathāstu coktvātha gate mayi prajā- patī hyabhūta svakṛtena dampatī || 39|| na matsamaḥ ko'pi suto jagatyalaṃ vicārya tadvāmabhavaṃ pareśvaraḥ | śrīpṛśnigarbho bhuvi viśrutaḥ puna- rdvitīyakāle'hamupendravāmanaḥ || 40 || tathā'bhavaṃ hyadyatame parātparo nītvā'tha māṃ prāpaya nandamandiram ato na bhūyādbhayamaugrasenataḥ sutāṃ samādāya sukhī bhaviṣyathaḥ || 41 || śrīnārada uvāca - tūṣṇīṃ bhūtvā haristatra tadbhūyaḥ paśyatostayoḥ | dṛśyaṃ hyaprakaṭaṃ kṛtvā bālo'bhūtkau yathā naṭaḥ || 42 || preṃkhe dhṛtvā'tha taṃ śauriryāvadgantuṃ samudyataḥ | tavādvraje nandapatnyāṃ yogamāyā'jani svataḥ || 43 || tayā śayāne viśvasmin rakṣakeṣu svapatsu ca | dvāra udghāṭitāḥ sarvāḥ prasphuṭacchṛṅkhalārgalāḥ || 44 || nirgate vasudeve ca mūrdhni śrīkṛṣṇaśobhite | sūryodaye yathā sadyastamonāśo'bhavatsvataḥ || 45 || ghaneṣu vyomni varṣatsu sahasravadanaḥ svarāṭ | nivārayandīrghaphaṇairāsāraṃ śaurimanvagāt || 46 || ūrmyāvartākulāvegaiḥ siṃhasarpādivāhinī | sadyo mārgaṃ dadau tasmai kālindī saritāṃ varā || 47 || nandavrajaṃ sametyāsau prasuptaṃ sarvataḥ param | śiśuṃ yaśodāśayane nidhāyāśu dadarśa tām || 48 || tatsutāṃ samupādāya punargehājjagāma saḥ | tīrtvā śrīyamunāṃ śauriḥ svāgāre pūrvavatsthitaḥ || 49 || sutaṃ sutāṃ vā jātaṃ cājñātvā gopī yaśomatī | pariśrāntā svaśayane suṣvāpānandanidrayā || 50 || atha bāladhvaniṃ śrutvā rakṣakāḥ samupasthitāḥ | ūcuḥ kaṃsāya vīrāya gatvā tadrājamandiram || 51 || sūtīgṛhaṃ tvaraṃ prāgātkaṃso vai bhayakātaraḥ | svasātha bhrātaraṃ prāha rudatī dīnavatsatī || 52 || śrīdevakyuvāca - sutāmekāṃ dehi me tvaṃ putreṣu pramṛteṣu ca | striyaṃ hantuṃ na yogyo'si bhrātastvaṃ dīnavatsalaḥ || 53 || te'nujāhaṃ hatasutā kārāgāre nipātitā | dātumarhasi kalyāṇa kalyāṇīṃ tanujāṃ ca me || 54 || śrīnārada uvāca - aśrumukhyā mohitayā samācchādyātmajāṃ bahu | prārthito'ṅkādvinirbhartsya tāṃ sa ācicchide khalaḥ || 55 || kusaṅganirataḥ pāpaḥ khalo yadukulādhamaḥ | svasuḥ sutāṃ śilāpṛṣṭhe gṛhītvāṃghryornyapātayat || 56 || kaṃsahastātsamutpatya tvaraṃ sā cāṃbare gatā | śatapatre rathe divye sahasrahayasevite || 57 || cāmarāṃdolite śubhre sthitādṛśyata divyadṛk | sāyudhāṣṭabhujā māyā pārṣadaiḥ parisevitā | śatasūryapratīkāśā kaṃsamāha ghanasvanā || 58 || śrīyogamāyovāca - paripūrṇatamaḥ sākṣācchrīkṛṣṇo bhagavān svayam | jātaḥ kva vā tu te hantā vṛthā dīnāṃ dunoṣi vai || 59 || śrīnārada uvāca - ityuktvā taṃ tato devī gatā vindhyācale girau | yogamāyā bhagavatī bahunāmā babhūva ha || 60 || atha kaṃso vismito'bhūcchrutvā māyāvacaḥ param | devakīṃ vasudevaṃ ca mocayāmāsa bandhanāt || 61 || kaṃsa uvāca - pāpo'haṃ pāpakarmāhaṃ khalo yadukulādhamaḥ | yuṣmatputraprahantāraṃ kṣamadhvaṃ me kṛtaṃ bhuvi || 62 || he svasaḥ śṛṇu me śaure manye kālakṛtaṃ tvidam | yena niścālyamāno vā vāyuneva ghanāvaleḥ || 63 || viśvasto'haṃ devavākye devāste'pi mṛṣāgiraḥ | na jānāmi kva me śatrurjātaḥ kau kathito'nayā || 64 || śrīnārada uvāca - itthaṃ kaṃsastadaṃghryośca patito'śrumukho rudan | cakāra sevāṃ paramāṃ sauhṛdaṃ darśayaṃstayoḥ || 65 || aho śrīkṛṣṇacandrasya paripūrṇatamaprabhoḥ | dānadakṣaiḥ kaṭākṣaiśca kinna syādbhūmimaṃḍale || 66 || prātaḥkāle tadā kaṃsaḥ pralaṃbādīnmahāsurān | samāhūya khalastebhyo'vadaduktaṃ ca māyayā || 67 || kaṃsa uvāca - jāto me hyaṃtakṛtadbhūmau kathito yogamāyayā | anirdaśānnirdaśāṃśca śiśūnyūyaṃ haniṣyatha || 68 || daityā ūcuḥ - sajjasya dhanuṣo yuddhe bhavatā dvaṃdvayodhinā | ṭaṃkāreṇodgatā devā manyase taiḥ kathaṃ bhayam || 69 || goviprasādhuśrutayo devā dharmādayaḥ pare | viṣṇośca tanavo hyeṣāṃ nāśe daityabalaṃ smṛtam || 70 || jāto yadi mahāviṣṇuste śatruryo mahītale | ayaṃ caitadvadhopāyo gavādīnāṃ vihiṃsanam || 71 || itthaṃ mahodbhaṭā duṣṭā daiteyāḥ kaṃsanoditāḥ | dudruvuḥ khaṃ gavādibhyo jaghnurjātāṃśca bālakān || 72 || āsamudrādbhūmitale viśaṃtaśca gṛhe gṛhe | kāmarūpadharā daityāśceruḥ sarpā ivābhavan || 73 || utpathā udbhaṭā daityāstatrāpi kaṃsanoditāḥ | kapiḥ surāpo'lihato bhūtagrasta ivābhavan || 74 || vaideha maithila narendra upendrabhakta dharmiṣṭhamukhya sutapo janaka pratāpin | etatsatāṃ ca bhuvi helanamaṃga rājan sarvaṃ chinatti bahulāśva catuṣpadārthān || 75 ||
English translation
The Lord's passion for Vasudeva-Devaki; his praise by the gods; the time of his emergence; the glimpse of the avatar-figure; the Bhagavata-praise created by Vasudeva-Devaki; the Lord's order to convey himself to the Nanda Bhavan by narrating the account of his previous birth; the remorseful release of Vasudeva-Devaki from bondage, asking for forgiveness, and ordering the demons to kill the child by Kansa upon learning of the appearance of Krishna by the Nanda-kanya Yogamaya.
Shrinaradji says - Mithileshwar! Subsequently, the most transcendent and perfect Lord Krishna first appeared in Vasudeva's mind. Mahamana Vasudeva, with his great radiance as the sun, moon, and fire, appeared as if another Yajnanarayana had appeared in his form. Then Lord Krishna, who gave shelter to all, appeared in the womb of Goddess Devaki. This awakened Devaki in that prison to the same divine radiance as the sparkle in the garland. Seeing the radiant form of Devaki, Kansa was terrified and said, "This is my death, because before this, she was not so radiant. I will surely kill this child as soon as he is born. With that, he waited anxiously for the baby to be born. Out of fear, he thought of his former enemy, Lord Vishnu, and looked up at him everywhere. Ahhh! A firm grudge leads to a direct vision of Lord Krishna. Therefore, the Asuras enmity with him only for the purpose of achieving Krishna. When the Lord appeared in the womb, the gods Brahma and Asmadadi (Narada- et al.) began to bow down and praise the sage Vasudeva, seated in the sky above his house. . 1 - 7.
At that time, along with the sages, all the deities like Brahma and others went to their respective abodes with joy, saluting Srihari and praising his majestic singing and nature. Bahulashva, the Emperor of Mithila! Then, when it was time for Sriharika to begin, the sky became clear. All ten of the directions became clear. The stars became very bright. There was an outpouring of joy across the globe. The waters of rivers, rivulets, tanks, and seas became cleaner. Thousand and hundred lotuses bloomed all over the place. Their fragrant pollen began to spread in all directions with the touch of the wind. The hallucinations began to echo over those oranges. A cool, gentle, fragrant breeze began to blow. The districts and villages prospered with convenience. The big cities became the abodes of Mars. The gods, the Brahmins, the mountains, the trees, and the cows - all became full of pleasures. The cries of the gods grew louder. At the same time, the sound of cheering spread everywhere. Your Majesty! The best of luck to everyone everywhere. Vidyadhara, Gandharva, Siddha, Kinara, and Charan, who were proficient in the art of singing, started singing songs. The deities began to praise the Supreme Being by reciting hymns. In Devloka, the Gandharvas and the Vidyadharis danced in bliss. The chief deities Parijat, Mandar, and Malati started showering pleasant flowers and thundering with thunder. In the month of Bhadrapada, Krishna Paksha, Rohini Nakshatra, Harshana-Yoga, and Vrisha Lagna, at the midnight of the Ashtami tithi, during the moonrise period, while darkness enveloped the world, Sri Hari appeared directly from Devaki's womb in the Vasudeva temple - just as Anika appears from Aranikastha. 14 - 24.
The radiant pure and peculiar Muktahara in the throat, the graceful Kaustubha-beads coordinated on the thorax and garlands of jewels, the nupur at the feet and the bajubandha in the arms - the Divine Divine emanating from the sphere-shaped Prabhapunja. The crowns on the head and the couplets in the ears glowed like balloons. The sparkling miraculous sparks were flickering in the wrists. The string or chain that was attached to the katiki was radiating electrically. A garland of lotuses adorned the necklace on which Madhukar, the honey-loving, was hovering. The divine brass cloth on his limbs was an abhorrence to the beauty of Nutan (scorched) Jambunad (gold). Adorned on an idol of Shyamsundar, he used to snatch away the auspicious beauty of the blue clouds enriched by Pitambar Vidyutvilasa. Black curly hair adorned the top of the head. The faint rays of the moonlight dispelled all the darkness there was. He was adorned with the most beautiful Shubhad and the most radiant Indivar-like pair of eyes. It had a peculiarly charming design, which always fascinated millions of Kamadevas who were enthralled by the majestic Abhiram Mukha. He was ready to play the flute with the melodious voice of the Most High God. 25-28 | (Golok Khand Chapters 11 to 15)
Observing such a son, Yadukulatilaka Vasudeva's eyes gleamed with the joy of the Lord's birthday. He then resolved to donate one lakh cows to the Brahmins soon after. The Lord's presence in the cotton shed became evident, causing all the fear of Vasudevji. Surprised, they bowed to Adi-Intarhit Srihari with folded hands and praised him with hymns. . 29-30 |
Srivasudeva said, "Oh my God! The only one who is unique is the Supreme Personality of Godhead, who appears in many forms because of the Sattva-like qualities of nature. You are the destroyer, you are the producer, and you are the sustainer of this world. Oh dear God! O Lord of the Tribhuvanas! Just as crystalline doesn't indulge in opaque colours, you remain detached from body colours. That is how I salute you, God. 31.
Just as fire hides in fuel, so you exist in this whole world in a latent form; and just as the heavens exist in and out of all, so you exist in and out of all. You are the foundation of this whole world like the earth, witness to everything and have the power to go everywhere like the wind. You are the protector of cows, gods, Brahmins, your devotees and calves, and have come down to my house to take away the burdensome land. You are the best of all men on this earth. The Bhuvanpate Save me from the power of sin. . 32-33 |
Shrinaradji says - Mithilapate! Devaki, the embodiment of omnipotence, also came to know that in my house, the most perfect Lord, Shyamsundara Shri Krishna, has appeared. So she said hello to them as well. . 34. .
Devaki said, "O Satchidanandadhana Sri Krishna! O Lord of the myriad universes. Oh my God! O Golok - the flag of the abode! Oh dear God! O God, the Absolute! O most perfect God! O Lord! Protect me from the fear of the sinful Kansa, protect me. 35.
Srinardji says - Rajan! Hearing the hymns from his parents, Papanasana directly spoke to the most perfect Lord Krishna, Devaki and Vasudeva, smiling softly. 36. (Golok Khand Chapters 11 to 15)
Srinardji says - Rajan! Saying this, may the Lord be silent there, making the present form invisible to both of them, may the child form fall to the earth - as if disguised in a fleeting moment. Just as Vasudevji was about to take the infants to bed, Yogamayana was born spontaneously from the womb of the Nanda consort in the Mahavana. All the people fell asleep under the influence of him. The guards also started to fall asleep. It was as if someone had opened all the doors. The shackles and the arches were broken. As Vasudeva stepped out of the house, taking Krishna on his forehead, the ignorance within him and the darkness outside vanished spontaneously - just as the darkness immediately vanished at sunrise. Clouds covered the sky and they started raining heavily. It was then that Sheshnag, the self-manifested self-manifested with a thousand faces, began to follow him, shadowing the falling water currents with his swords. At that time, the Yamuna was in spate, causing high waves and whirlwinds. Animals like lions and serpents were also carried away; but the Kalindanandini Yamuna, the best of the streams, gave Vasudevji immediate access. All the Vrajas of Nanda-Raiji were fast asleep. On reaching there, Vasudevji quickly put his last child to sleep on Yashodaji's bed and saw the divine maiden. Vasudevji took the maiden of Yashodaji to the godown and returned to his house. They crossed the Yamuna and settled in their former homes. 42-49 | (Golok Khand Chapters 11 to 15)
Meanwhile, all that Gopi Yashoda knew was that he had a son or daughter. She had slept happily on her bed, extremely tired from the labor of childbirth. Here, on hearing the child's cries, the guards arrived at the Raj Bhavan and informed Veer Kansako of the baby's birth. As soon as Kansa heard the news, he went to the cotton shed in panic. At that time, the sati-sadhvi sister Devaki cried like a witch and spoke to her brother. 50-52 |
Devaki said, "Brother! You are the one who shows affection and mercy to the needy. I am your sister, yet I have been put in prison. All my sons have been killed. I am the unfortunate mother whose sons have been murdered. This is the only daughter left, give her to me for alms. This is a woman, it is not worth killing like you. Well done brother! Give this Kalyani kanyan my godown. This will be the job you deserve. 53-54 |
Srinardji says - Rajan! Tears streamed down Devaki's face. She begged a lot by hiding her daughter in the attic due to infatuation - she cried a lot; yet the wicked one scolded the sister and snatched the girl from her lap. He was a disgrace and a great man of Yadukul. His life had become sinful because he had always been in bad company. The demon grabbed both legs of his sister's baby and hit her on the rock. The maiden was actually Goddess Anansha, an incarnation of Yogamaya. As soon as she was out of Kansaka's hands, she jumped and went into the sky. The divine sat on the chariot 'Shatapatra', mounted by a thousand horses. There the chauffeurs were being pushed. Sitting on the white chariot, she appeared in a divine form. It had eight arms and was equipped with all sorts of weapons. That Mayadevi was served by her councilors. Its brightness looked like that of a hundred suns. He spoke in a loud voice like the roar of a cloud. 55-58 |
Shriyogamaya said - Case! The Supreme Personality of Godhead who killed you, Lord Krishna, descended somewhere else. You are causing unnecessary pain to this poor Devaki. . 59.
Srinardji says - Rajan! Saying this, Bhagwati Yogmaya went to the Vindhya mountains. There she became known by many names. Kansaku was amazed to hear the best of Yogamaya. He immediately freed Devaki and Vasudeva from bondage. . 60-61 |
Kansa said, "Sister and brother-in-law Vasudevji! I am the spirit of sin. My actions are sinful. I am great and evil in this generation. I am the murderer of both your sons on this earth. May you both forgive me for this crime committed by me. Listen to me I think it is all done by Kalane. Just as the wind blows away clouds wherever it wants, Kalne has driven me willingly. I believed in the Word of God, but even the gods turned out to be liars. This yogamaya states, 'Your enemy has descended to the earth'. But I don't know where he is born. 62 - 64. .
Srinardji says - Rajan! With that, Kansa fell at the feet of his sister and brother-in-law and started crying profusely. There were tears streaming down her face. He rendered great service to them both, showing them amity (utmost affection). Ahhh! What can't be done on the ground floor by the benevolent sarcasm of the most perfect Lord Shrikrushna Chandra? Then in the morning, the demon Kansa called the great Asuras like Paralabha and narrated to them all that Yogamaya had said. 65 - 67. .
Kansa said, "Friends! As Yogamayane has pointed out, my destructive enemy has arisen somewhere on earth. So kill all the children that are born to you within ten days, and those who are more than ten days old when they are born. 68.
The demons said, "Your Majesty! When you were in a duel, all the gods in the battlefield ran away after hearing the sound of your bow and arrow, so why do you fear them? Cow, Brahmin, Sadhu, Veda, Devta and Dharma and Yajna etc., which are the other elements, are considered to be the bodies of Lord Vishnu; the strength of the daityas is considered capable of destroying all these. If Mahavishnu, your enemy, is born on this earth, the only way to slay him is to launch a campaign of violence, especially against cow-Brahmins. . 69-71 | (Golok Khand Chapters 11 to 15)
Srinardji says - Rajan! Kansa ordered the demons to do this. Thus, on his orders, they flew high into the sky, tormenting cows, Brahmins, etc., and killing newborns. All over the world, right up to the sea, they went from house to house, like giant serpents and rats, taking their form at will. Kansaki was also inspired by the fact that demons are by nature aliens. One is a monkey, then he drinks alcohol and scorpion stings him too, so what about his agility? The same was the case with the demons, they had become haunted. Videhakulnandan, Maithilnaresh, devotee of Vishnu, chief among the righteous souls, supreme ascetic, glorious, king, father of many! This disregard of saints and seers on earth completely destroys the four purusharthis - Dharma, Artha, Kama and Moksha. 72-75. .
Thus was completed the eleventh chapter of the Narada Bahulashva-Samvad under Golokhanda in the Srigarghasamhita, the 'Narrative of the Birth-Virtan of Krishna'. 11.
Complete chapter-aligned witnesses. Sanskrit Wikisource page 26569, revision 92529 (2016-11-28T07:18:29Z). English was rendered from the complete Hindi chapter at https://www.mahakavya.com/garga-samhita-golok-khand-chapters-11-to-15/ as a transparent machine-assisted translation using the pinned IndicTrans2 Indic–English Distilled 200M model and retained without claiming verse-by-verse alignment.