Skip to main content

Twelfth Skandha · Chapter 12

Chapter 12

Unit 316 of 318Twelfth Skandha · Chapter 12Twelfth Skandha · Chapter 121 source entries

Twelfth Skandha · Chapter 12

Source

मणिद्वीपवर्णनम् व्यास उवाच तदेव देवीसदनं मध्यभागे विराजते । सहस्रस्तम्भसंयुक्ताश्चत्वारस्तेषु मण्डपाः ॥ १ ॥ शृङ्‌गारमण्डपश्चैको मुक्तिमण्डप एव च । ज्ञानमण्डपसंज्ञस्तु तृतीयः परिकीर्तितः ॥ २ ॥ एकान्तमण्डपश्चैव चतुर्थः परिकीर्तितः । नानावितानसंयुक्ता नानाधूपैस्तु धूपिताः ॥ ३ ॥ कोटिसूर्यसमाः कान्त्या भ्राजन्ते मण्डपाः शुभाः । तन्मण्डपानां परितः काश्मीरवनिका स्मृता ॥ ४ ॥ मल्लिकाकुन्दवनिका यत्र पुष्कलकाः स्थिताः । असंख्याता मृगमदैः पूरितास्तत्स्रवा नृप ॥ ५ ॥ महापद्माटवी तद्वद्‌रत्‍नसोपाननिर्मिता । सुधारसेन सम्पूर्णा गुञ्जन्मत्तमधुव्रता ॥ ६ ॥ हंसकारण्डवाकीर्णा गन्धपूरितदिक्तटा । वनिकानां सुगन्धैस्तु मणिद्वीपं सुवासितम् ॥ ७ ॥ शृङ्‌गारमण्डपे देव्यो गायन्ति विविधैः स्वरैः । सभासदो देववरा मध्ये श्रीजगदम्बिका ॥ ८ ॥ मुक्तिमण्डपमध्ये तु मोचयत्यनिशं शिवा । ज्ञानोपदेशं कुरुते तृतीये नृप मण्डपे ॥ ९ ॥ चतुर्थमण्डपे चैव जगद्‌रक्षाविचिन्तनम् । मन्त्रिणीसहिता नित्यं करोति जगदम्बिका ॥ १० ॥ चिन्तामणिगृहे राजञ्छक्तितत्त्वात्मकैः परैः । सोपानैर्दशभिर्युक्तो मञ्चकोऽप्यधिराजते ॥ ११ ॥ ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरश्च सदाशिवः । एते मञ्चखुराः प्रोक्ताः फलकस्तु सदाशिवः ॥ १२ ॥ तस्योपरि महादेवो भुवनेशो विराजते । या देवी निजलीलार्थं द्विधाभूता बभूव ह ॥ १३ ॥ सृष्ट्यादौ तु स एवायं तदर्धाङ्‌गो महेश्वरः । कन्दर्पदर्पनाशोद्यत्कोटिकन्दर्पसुन्दरः ॥ १४ ॥ पञ्चवक्त्रस्त्रिनेत्रश्च मणिभूषणभूषितः । हरिणाभीतिपरशून् वरं च निजबाहुभिः ॥ १५ ॥ दधानः षोडशाब्दोऽसौ देवः सर्वेश्वरो महान् । कोटिसूर्यप्रतीकाशश्चन्द्रकोटिसुशीतलः ॥ १६ ॥ शुद्धस्फटिकसंकाशस्त्रिनेत्रः शीतलद्युतिः । वामाङ्‌गे सन्निषण्णास्य देवी श्रीभुवनेश्वरी ॥ १७ ॥ नवरत्‍नगणाकीर्णकाञ्चीदामविराजिता । तप्तकाञ्चनसन्नद्धवैदूर्याङ्‌गदभूषणा ॥ १८ ॥ कनच्छ्रीचक्रताटङ्‌कविटङ्‌कवदनाम्बुजा । ललाटकान्तिविभवविजितार्थसुधाकरा ॥ १९ ॥ बिम्बकान्तितिरस्कारिरदच्छदविराजिता । लसत्कुङ्‌कुमकस्तुरीतिलकोद्‍भासितानना ॥ २० ॥ दिव्यचूडामणिस्फारचञ्चच्चन्द्रकसूर्यका । उद्यत्कविसमस्वच्छनासाभरणभासुरा ॥ २१ ॥ चिन्ताकलम्बितस्वच्छमुक्तागुच्छविराजिता । पाटीरपङ्‌ककर्पूरकुङ्‌कुमालङ्‌कृतस्तनी ॥ २२ ॥ विचित्रविविधाकल्पा कम्बुसंकाशकन्धरा । दाडिमीफलबीजाभदन्तपङ्‌क्तिविराजिता ॥ २३ ॥ अनर्घ्यरत्‍नघटितमुकुटाञ्चितमस्तका । मत्तालिमालाविलसदलकाढ्यमुखाम्बुजा ॥ २४ ॥ कलङ्‌ककार्श्यनिर्मुक्तशरच्चन्द्रनिभानना । जाह्नवीसलिलावर्तशोभिनाभिविभूषिता ॥ २५ ॥ माणिक्यशकलाबद्धमुद्रिकाङ्‌गुलिभूषिता । पुण्डरीकदलाकारनयनत्रयसुन्दरी ॥ २६ ॥ कल्पिताच्छमहारागपद्मरागोज्ज्वलप्रभा । रत्‍नकिङ्‌किणिकायुक्तरत्‍नकङ्‌कणशोभिता ॥ २७ ॥ मणिमुक्तासरापारलसत्पदकसन्ततिः । रत्‍नाङ्‌गुलिप्रविततप्रभाजाललसत्करा ॥ २८ ॥ कञ्चुकीगुम्फितापारनानारत्‍नततिद्युतिः । मल्लिकामोदिधम्मिल्लमल्लिकालिसरावृता ॥ २९ ॥ सुवृत्तनिबिडोत्तुङ्‌गकुचभारालसा शिवा । वरपाशाङ्‌कुशाभीतिलसद्बाहुचतुष्टया ॥ ३० ॥ सर्वशृङ्‌गारवेषाढ्या सुकुमाराङ्‌गवल्लरी । सौन्दर्यधारासर्वस्वा निर्व्याजकरुणामयी ॥ ३१ ॥ निजसंलापमाधुर्यविनिर्भर्त्सितकच्छपी । कोटिकोटिरवीन्दूनां कान्तिं या बिभ्रती परा ॥ ३२ ॥ नानासखीभिर्दासीभिस्तथा देवाङ्‌गनादिभिः । सर्वाभिर्देवताभिस्तु समन्तात्परिवेष्टिता ॥ ३३ ॥ इच्छाशक्त्या ज्ञानशक्त्या क्रियाशक्त्या समन्विता । लज्जा तुष्टिस्तथा पुष्टिः कीर्तिः कान्तिः क्षमा दया ॥ ३४ ॥ बुद्धिर्मेधा स्मृतिर्लक्ष्मीर्मूर्तिमत्योऽङ्‌गनाः स्मृताः । जया च विजया चैवाप्यजिता चापराजिता ॥ ३५ ॥ नित्या विलासिनी दोग्ध्री त्वघोरा मङ्‌गला नव । पीठशक्तय एतास्तु सेवन्ते यां पराम्बिकाम् ॥ ३६ ॥ यस्यास्तु पार्श्वभागे स्तो निधी तौ शङ्‌खपद्मकौ । नवरत्‍नवहा नद्यस्तथा वै काञ्चनस्रवाः ॥ ३७ ॥ सप्तधातुवहा नद्यो निधिभ्यां तु विनिर्गताः । सुधासिन्ध्वन्तगामिन्यस्ताः सर्वा नृपसत्तम ॥ ३८ ॥ सा देवी भुवनेशानी तद्वामाङ्‌के विराजते । सर्वेशत्वं महेशस्य यत्सङ्‌गादेव नान्यथा ॥ ३९ ॥ चिन्तामणिगृहस्यास्य प्रमाणं शृणु भूमिप । सहस्रयोजनायामं महान्तस्तत्प्रचक्षते ॥ ४० ॥ तदुत्तरे महाशालाः पूर्वस्माद्‌द्विगुणाः स्मृताः । अन्तरिक्षगतं त्वेतन्निराधारं विराजते ॥ ४१ ॥ सङ्‌कोचश्च विकासश्च जायतेऽस्य निरन्तरम् । पटवत्कार्यवशतः प्रलये सर्जने तथा ॥ ४२ ॥ शालानां चैव सर्वेषां सर्वकान्तिपरावधि । चिन्तामणिगृहं प्रोक्तं यत्र देवी महोमयी ॥ ४३ ॥ ये ये उपासकाः सन्ति प्रतिब्रह्माण्डवर्तिनः । देवेषु नागलोकेषु मनुष्येष्वितरेषु च ॥ ४४ ॥ श्रीदेव्यास्ते च सर्वेऽपि व्रजन्त्यत्रैव भूमिप । देवीक्षेत्रे ये त्यजन्ति प्राणान्देव्यर्चने रताः ॥ ४५ ॥ ते सर्वे यान्ति तत्रैव यत्र देवी महोत्सवा । घृतकुल्या दुग्धकुल्या दधिकुल्या मधुस्रवाः ॥ ४६ ॥ स्यन्दन्ति सरितः सर्वास्तथामृतवहाः पराः । द्राक्षारसवहाः काश्चिज्जम्बूरसवहाः पराः ॥ ४७ ॥ आम्रेक्षुरसवाहिन्यो नद्यस्तास्तु सहस्रशः । मनोरथफला वृक्षा वाप्यः कूपास्तथैव च ॥ ४८ ॥ यथेष्टपानफलदा न न्यूनं किञ्चिदस्ति हि । न रोगपलितं वापि जरा वापि कदाचन ॥ ४९ ॥ न चिन्ता न च मात्सर्यं कामक्रोधादिकं तथा । सर्वे युवानः सस्त्रीका सहस्रादित्यवर्चसः ॥ ५० ॥ भजन्ति सततं देवीं तत्र श्रीभुवनेश्वरीम् । केचित्सलोकतापन्नाः केचित्सामीप्यतां गताः ॥ ५१ ॥ सरूपतां गताः केचित्सार्ष्टितां च परे गताः । या यास्तु देवतास्तत्र प्रतिब्रह्माण्डवर्तिनाम् ॥ ५२ ॥ समष्टयः स्थितास्तास्तु सेवन्ते जगदीश्वरीम् । सप्तकोटिमहामन्त्रा मूर्तिमन्त उपासते ॥ ५३ ॥ महाविद्याश्च सकलाः साम्यावस्थात्मिकां शिवाम् । कारणब्रह्मरूपां तां मायाशबलविग्रहाम् ॥ ५४ ॥ इत्थं राजन् मया प्रोक्तं मणिद्वीपं महत्तरम् । न सूर्यचन्द्रौ नो विद्युत्कोटयोऽग्निस्तथैव च ॥ ५५ ॥ एतस्य भासा कोट्यंशकोट्यंशेनापि ते समाः । क्यचिद्विद्रुमसकाशं क्वचिन्मरकतच्छवि ॥ ५६ ॥ विद्युद्‍भानुसमच्छायं मध्यसूर्यसमं क्वचित् । विद्युत्कोटिमहाधारा सारकान्तिततं क्वचित् ॥ ५७ ॥ क्वचित्सिन्दूरनीलेन्द्रमाणिक्यसदृशच्छवि । हीरसारमहागर्भधगद्धगितदिक्तटम् ॥ ५८ ॥ कान्त्या दावानलसमं तप्तकाञ्चनसन्निभम् । क्वचिच्चन्द्रोपलोद्‌गारं सूर्योद्‌गारं च कुत्रचित् ॥ ५९ ॥ रत्‍नशृङ्‌गिसमायुक्तं रत्‍नप्राकारगोपुरम् । रत्‍नपत्रै रत्‍नफलैर्वक्षैश्च परिमण्डितम् ॥ ६० ॥ नृत्यन्मयूरसङ्‌घैश्च कपोतरणितोज्ज्वलम् । कोकिलाकाकलीलापैः शुकलापैश्च शोभितम् ॥ ६१ ॥ सुरम्यरमणीयाम्बुलक्षावधिसरोवृतम् । तन्मध्यभागविलसद्विकचद्‌रत्‍नपङ्‌कजैः ॥ ६२ ॥ सुगन्धिभिः समन्तात्तु वासितं शतयोजनम् । मन्दमारुतसम्भिन्नचलद्द्रुमसमाकुलम् ॥ ६३ ॥ चिन्तामणिसमूहानां ज्योतिषा वितताम्बरम् । रत्‍नप्रभाभिरभितो धगद्धगितदिक्तटम् ॥ ६४ ॥ वृक्षवातमहागन्धवातवातसुपूरितम् । धूपधूपायितं राजन् मणिदीपायुतोज्ज्वलम् ॥ ६५ ॥ मणिजालकसच्छिद्रतरलोदरकान्तिभिः । दिङ्‌मोहजनकं चैतद्दर्पणोदरसंयुतम् ॥ ६६ ॥ ऐश्वर्यस्य समग्रस्य शृङ्‌गारस्याखिलस्य च । सर्वज्ञतायाः सर्वायास्तेजसश्चाखिलस्य वै ॥ ६७ ॥ पराक्रमस्य सर्वस्य सर्वोत्तमगुणस्य च । सकलाया दयायाश्च समाप्तिरिह भूपते ॥ ६८ ॥ राज्ञ आनन्दमारभ्य ब्रह्मलोकान्तभूमिषु । आनन्दा ये स्थिताः सर्वे तेऽत्रैवान्तर्भवन्ति हि ॥ ६९ ॥ इति ते वर्णितं राजन् मणिद्वीपं महत्तरम् । महादेव्याः परं स्थानं सर्वलोकोत्तमोत्तमम् ॥ ७० ॥ एतस्य स्मरणात्सद्यः सर्वं पापं विनश्यति । प्राणोत्क्रमणसन्धौ तु स्मृत्वा तत्रैव गच्छति ॥ ७१ ॥ अध्यायपञ्चकं त्वेतत्पठेन्नित्यं समाहितः । भूतप्रेतपिशाचादिबाधा तत्र भवेन्न हि ॥ ७२ ॥ नवीनगृहनिर्माणे वास्तुयागे तथैव च । पठितव्यं प्रयत्‍नेन कल्याणं तेन जायते ॥ ७३ ॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां सहितायां द्वादशस्कन्धे मणिद्वीपवर्णनं नाम द्वादशोऽध्यायः ॥ १२ ॥

maṇidvīpavarṇanam vyāsa uvāca tadeva devīsadanaṃ madhyabhāge virājate | sahasrastambhasaṃyuktāścatvārasteṣu maṇḍapāḥ || 1 || śṛṅ‌gāramaṇḍapaścaiko muktimaṇḍapa eva ca | jñānamaṇḍapasaṃjñastu tṛtīyaḥ parikīrtitaḥ || 2 || ekāntamaṇḍapaścaiva caturthaḥ parikīrtitaḥ | nānāvitānasaṃyuktā nānādhūpaistu dhūpitāḥ || 3 || koṭisūryasamāḥ kāntyā bhrājante maṇḍapāḥ śubhāḥ | tanmaṇḍapānāṃ paritaḥ kāśmīravanikā smṛtā || 4 || mallikākundavanikā yatra puṣkalakāḥ sthitāḥ | asaṃkhyātā mṛgamadaiḥ pūritāstatsravā nṛpa || 5 || mahāpadmāṭavī tadvad‌rat‍nasopānanirmitā | sudhārasena sampūrṇā guñjanmattamadhuvratā || 6 || haṃsakāraṇḍavākīrṇā gandhapūritadiktaṭā | vanikānāṃ sugandhaistu maṇidvīpaṃ suvāsitam || 7 || śṛṅ‌gāramaṇḍape devyo gāyanti vividhaiḥ svaraiḥ | sabhāsado devavarā madhye śrījagadambikā || 8 || muktimaṇḍapamadhye tu mocayatyaniśaṃ śivā | jñānopadeśaṃ kurute tṛtīye nṛpa maṇḍape || 9 || caturthamaṇḍape caiva jagad‌rakṣāvicintanam | mantriṇīsahitā nityaṃ karoti jagadambikā || 10 || cintāmaṇigṛhe rājañchaktitattvātmakaiḥ paraiḥ | sopānairdaśabhiryukto mañcako'pyadhirājate || 11 || brahmā viṣṇuśca rudraśca īśvaraśca sadāśivaḥ | ete mañcakhurāḥ proktāḥ phalakastu sadāśivaḥ || 12 || tasyopari mahādevo bhuvaneśo virājate | yā devī nijalīlārthaṃ dvidhābhūtā babhūva ha || 13 || sṛṣṭyādau tu sa evāyaṃ tadardhāṅ‌go maheśvaraḥ | kandarpadarpanāśodyatkoṭikandarpasundaraḥ || 14 || pañcavaktrastrinetraśca maṇibhūṣaṇabhūṣitaḥ | hariṇābhītiparaśūn varaṃ ca nijabāhubhiḥ || 15 || dadhānaḥ ṣoḍaśābdo'sau devaḥ sarveśvaro mahān | koṭisūryapratīkāśaścandrakoṭisuśītalaḥ || 16 || śuddhasphaṭikasaṃkāśastrinetraḥ śītaladyutiḥ | vāmāṅ‌ge sanniṣaṇṇāsya devī śrībhuvaneśvarī || 17 || navarat‍nagaṇākīrṇakāñcīdāmavirājitā | taptakāñcanasannaddhavaidūryāṅ‌gadabhūṣaṇā || 18 || kanacchrīcakratāṭaṅ‌kaviṭaṅ‌kavadanāmbujā | lalāṭakāntivibhavavijitārthasudhākarā || 19 || bimbakāntitiraskāriradacchadavirājitā | lasatkuṅ‌kumakasturītilakod‍bhāsitānanā || 20 || divyacūḍāmaṇisphāracañcaccandrakasūryakā | udyatkavisamasvacchanāsābharaṇabhāsurā || 21 || cintākalambitasvacchamuktāgucchavirājitā | pāṭīrapaṅ‌kakarpūrakuṅ‌kumālaṅ‌kṛtastanī || 22 || vicitravividhākalpā kambusaṃkāśakandharā | dāḍimīphalabījābhadantapaṅ‌ktivirājitā || 23 || anarghyarat‍naghaṭitamukuṭāñcitamastakā | mattālimālāvilasadalakāḍhyamukhāmbujā || 24 || kalaṅ‌kakārśyanirmuktaśaraccandranibhānanā | jāhnavīsalilāvartaśobhinābhivibhūṣitā || 25 || māṇikyaśakalābaddhamudrikāṅ‌gulibhūṣitā | puṇḍarīkadalākāranayanatrayasundarī || 26 || kalpitācchamahārāgapadmarāgojjvalaprabhā | rat‍nakiṅ‌kiṇikāyuktarat‍nakaṅ‌kaṇaśobhitā || 27 || maṇimuktāsarāpāralasatpadakasantatiḥ | rat‍nāṅ‌gulipravitataprabhājālalasatkarā || 28 || kañcukīgumphitāpāranānārat‍natatidyutiḥ | mallikāmodidhammillamallikālisarāvṛtā || 29 || suvṛttanibiḍottuṅ‌gakucabhārālasā śivā | varapāśāṅ‌kuśābhītilasadbāhucatuṣṭayā || 30 || sarvaśṛṅ‌gāraveṣāḍhyā sukumārāṅ‌gavallarī | saundaryadhārāsarvasvā nirvyājakaruṇāmayī || 31 || nijasaṃlāpamādhuryavinirbhartsitakacchapī | koṭikoṭiravīndūnāṃ kāntiṃ yā bibhratī parā || 32 || nānāsakhībhirdāsībhistathā devāṅ‌ganādibhiḥ | sarvābhirdevatābhistu samantātpariveṣṭitā || 33 || icchāśaktyā jñānaśaktyā kriyāśaktyā samanvitā | lajjā tuṣṭistathā puṣṭiḥ kīrtiḥ kāntiḥ kṣamā dayā || 34 || buddhirmedhā smṛtirlakṣmīrmūrtimatyo'ṅ‌ganāḥ smṛtāḥ | jayā ca vijayā caivāpyajitā cāparājitā || 35 || nityā vilāsinī dogdhrī tvaghorā maṅ‌galā nava | pīṭhaśaktaya etāstu sevante yāṃ parāmbikām || 36 || yasyāstu pārśvabhāge sto nidhī tau śaṅ‌khapadmakau | navarat‍navahā nadyastathā vai kāñcanasravāḥ || 37 || saptadhātuvahā nadyo nidhibhyāṃ tu vinirgatāḥ | sudhāsindhvantagāminyastāḥ sarvā nṛpasattama || 38 || sā devī bhuvaneśānī tadvāmāṅ‌ke virājate | sarveśatvaṃ maheśasya yatsaṅ‌gādeva nānyathā || 39 || cintāmaṇigṛhasyāsya pramāṇaṃ śṛṇu bhūmipa | sahasrayojanāyāmaṃ mahāntastatpracakṣate || 40 || taduttare mahāśālāḥ pūrvasmād‌dviguṇāḥ smṛtāḥ | antarikṣagataṃ tvetannirādhāraṃ virājate || 41 || saṅ‌kocaśca vikāsaśca jāyate'sya nirantaram | paṭavatkāryavaśataḥ pralaye sarjane tathā || 42 || śālānāṃ caiva sarveṣāṃ sarvakāntiparāvadhi | cintāmaṇigṛhaṃ proktaṃ yatra devī mahomayī || 43 || ye ye upāsakāḥ santi pratibrahmāṇḍavartinaḥ | deveṣu nāgalokeṣu manuṣyeṣvitareṣu ca || 44 || śrīdevyāste ca sarve'pi vrajantyatraiva bhūmipa | devīkṣetre ye tyajanti prāṇāndevyarcane ratāḥ || 45 || te sarve yānti tatraiva yatra devī mahotsavā | ghṛtakulyā dugdhakulyā dadhikulyā madhusravāḥ || 46 || syandanti saritaḥ sarvāstathāmṛtavahāḥ parāḥ | drākṣārasavahāḥ kāścijjambūrasavahāḥ parāḥ || 47 || āmrekṣurasavāhinyo nadyastāstu sahasraśaḥ | manorathaphalā vṛkṣā vāpyaḥ kūpāstathaiva ca || 48 || yatheṣṭapānaphaladā na nyūnaṃ kiñcidasti hi | na rogapalitaṃ vāpi jarā vāpi kadācana || 49 || na cintā na ca mātsaryaṃ kāmakrodhādikaṃ tathā | sarve yuvānaḥ sastrīkā sahasrādityavarcasaḥ || 50 || bhajanti satataṃ devīṃ tatra śrībhuvaneśvarīm | kecitsalokatāpannāḥ kecitsāmīpyatāṃ gatāḥ || 51 || sarūpatāṃ gatāḥ kecitsārṣṭitāṃ ca pare gatāḥ | yā yāstu devatāstatra pratibrahmāṇḍavartinām || 52 || samaṣṭayaḥ sthitāstāstu sevante jagadīśvarīm | saptakoṭimahāmantrā mūrtimanta upāsate || 53 || mahāvidyāśca sakalāḥ sāmyāvasthātmikāṃ śivām | kāraṇabrahmarūpāṃ tāṃ māyāśabalavigrahām || 54 || itthaṃ rājan mayā proktaṃ maṇidvīpaṃ mahattaram | na sūryacandrau no vidyutkoṭayo'gnistathaiva ca || 55 || etasya bhāsā koṭyaṃśakoṭyaṃśenāpi te samāḥ | kyacidvidrumasakāśaṃ kvacinmarakatacchavi || 56 || vidyud‍bhānusamacchāyaṃ madhyasūryasamaṃ kvacit | vidyutkoṭimahādhārā sārakāntitataṃ kvacit || 57 || kvacitsindūranīlendramāṇikyasadṛśacchavi | hīrasāramahāgarbhadhagaddhagitadiktaṭam || 58 || kāntyā dāvānalasamaṃ taptakāñcanasannibham | kvaciccandropalod‌gāraṃ sūryod‌gāraṃ ca kutracit || 59 || rat‍naśṛṅ‌gisamāyuktaṃ rat‍naprākāragopuram | rat‍napatrai rat‍naphalairvakṣaiśca parimaṇḍitam || 60 || nṛtyanmayūrasaṅ‌ghaiśca kapotaraṇitojjvalam | kokilākākalīlāpaiḥ śukalāpaiśca śobhitam || 61 || suramyaramaṇīyāmbulakṣāvadhisarovṛtam | tanmadhyabhāgavilasadvikacad‌rat‍napaṅ‌kajaiḥ || 62 || sugandhibhiḥ samantāttu vāsitaṃ śatayojanam | mandamārutasambhinnacaladdrumasamākulam || 63 || cintāmaṇisamūhānāṃ jyotiṣā vitatāmbaram | rat‍naprabhābhirabhito dhagaddhagitadiktaṭam || 64 || vṛkṣavātamahāgandhavātavātasupūritam | dhūpadhūpāyitaṃ rājan maṇidīpāyutojjvalam || 65 || maṇijālakasacchidrataralodarakāntibhiḥ | diṅ‌mohajanakaṃ caitaddarpaṇodarasaṃyutam || 66 || aiśvaryasya samagrasya śṛṅ‌gārasyākhilasya ca | sarvajñatāyāḥ sarvāyāstejasaścākhilasya vai || 67 || parākramasya sarvasya sarvottamaguṇasya ca | sakalāyā dayāyāśca samāptiriha bhūpate || 68 || rājña ānandamārabhya brahmalokāntabhūmiṣu | ānandā ye sthitāḥ sarve te'traivāntarbhavanti hi || 69 || iti te varṇitaṃ rājan maṇidvīpaṃ mahattaram | mahādevyāḥ paraṃ sthānaṃ sarvalokottamottamam || 70 || etasya smaraṇātsadyaḥ sarvaṃ pāpaṃ vinaśyati | prāṇotkramaṇasandhau tu smṛtvā tatraiva gacchati || 71 || adhyāyapañcakaṃ tvetatpaṭhennityaṃ samāhitaḥ | bhūtapretapiśācādibādhā tatra bhavenna hi || 72 || navīnagṛhanirmāṇe vāstuyāge tathaiva ca | paṭhitavyaṃ prayat‍nena kalyāṇaṃ tena jāyate || 73 || iti śrīmaddevībhāgavate mahāpurāṇe'ṣṭādaśasāhasryāṃ sahitāyāṃ dvādaśaskandhe maṇidvīpavarṇanaṃ nāma dvādaśo'dhyāyaḥ || 12 ||

English translation

1-17. Vyasa said O King Janamejaya! The Ratnagriha, above mentioned, is the Central, the Chief and the Crowning Place of Mula Prakriti. [The nine jewels are (1) Mukta, (2) Manikya, (3) Vaidurya, (4) Gomeda, (5) Vajra, (6) Vidruma, (7) Padmaraga, (8) Marakata, and (9) Nila.] This is situated in the centre of all the enclosures. Within this there are the four Mandapas, i.e., halls built of one thousand (i.e., innumerable) pillars. These are the S’ringara Mandapa, Mukti Mandapa, Jhana Mandapa and Ekanta Mandapa; on the top there are canopies of various colours; within are many scented articles scented by the Dhupas, etc. The brilliance of each of these is like that of one Koti Suns. On all sides of these four Mandapas there are nice groups of gardens of Kas’mira, Mallika, and Kunda flowers. Various scents, and scented articles, for example, of musk, etc., are fully arranged in due order. There is a very big lotus tank here; the steps leading to it are built of jewels. Its water is nectar, on it are innumerable full-blown lotuses and the bees are humming always over them. Many birds, swans, Karandavas, etc., are swimming to and fro. The sweet scents of lotuses are playing all round. In fact, the whole Manidvipa is perfumed with various scented things. Within the S’ringara Mandapa, the Devi Bhagavati is situated in the centre on an Asana (seat) and She hears the songs sung in tune by the other Devis along with the other Devas. Similarly sitting on the Mukti Mandapa, She frees the Jivas from the bondages of the world. Sitting on the Jhana Mandapa, She gives instructions on Jhana, and sitting on the fourth Ekanta Mandapa, She consults with Her ministers, the Sakhis, Ananga Kusuma, etc., on the creation, preservation, etc., of the universe. O King! Now I shall describe about the main, Khas, room of S’ri Devi. Listen. The Khas Mahal palace of the Devi Bhagavati is named S’ri Chintamani Griha. Within this is placed the raised platform, the dais and sofa whereon the Devi taketh Her honourable seat. The ten S’akti-tattvas form the staircases. The four legs are (1) Brahma, (2)

Visnu, (3) Rudra, and (4) MahesVara. Sadas’iva forms the upper covering plank. Over this S’ri BhuvanesVara Maha Deva or the Supreme Architect of the Universe is reigning. Now hear something about this BhuvanesVara. Before creation while intending to sport, the Devi Bhagavati divided Her Body into two parts and from the right part created BhuvanesVara. He has five faces and each face has three eyes. He has four hands and He is holding in each hand speer, signs indicating do not fear, axe, and signs granting boons. He looks sixteen years old. The lustre of of His Body is more beautiful then Koti Kandarpas and more fiery than thousand Suns; and at the same time cool like Koti Suns. His colour is crystal white, and on His left lap S’ri BhuvanesVari Devi is always sitting.

18-29. On the hip of S’ri BhuvanesVari, is shining the girdle with small tinkling bells, built of various jewels; the ornaments on the arms are made of burnished gold studded with Vaiduryamanis; the Tatanka ornaments on Her ears are very beautiful like S’richakra and they enhance very much the beauty of Her lotus face. The beauty of Her forehead vies with, or defies the Moon of the eighth bright lunar day. Her lips challenge the fully ripened Bimba fruits. Her face is shining with the Tilaka mark made of musk and saffron. The divine crown on Her head is beautified with the Sun and Moon made of jewels; the nose ornaments are like the star Venus and built of transparent gems, looking exceedingly beautiful and shedding charming lustre all around. The neck is decorated with necklaces built of gems and jewels. Her breasts are nicely decorated with camphor and saffron. Her neck is shining like a conchshell decorated with artistic designs. Her teeth look like fully ripe pomegranate fruits. On Her head is shining the jewel crown. Her lotus face is beautified with alaka as if these are mad bees. Her navel is beautiful like the whirls in the river Bhagirathi; Her fingers are decorated with jewel rings; She has three eyes like lotus leaves; the lustre of Her body is bright like Padmaragamani cut and carved and sharpened on stone. The bracelets are adorned with jewel tinkling bells; Her neck

ornaments and medals are studded with gems and jewels. Her hands are resplendent with the lustre of the jewels on the fingers; the braid of hair on Her head is wreathed with a garland of Mallika flowers; Her bodice (short jacket) is studded with various jewels.

30-45. O King! S’ri Devi is slightly bent down with the weight of Her very high hard breasts. She has four hands and She is holding noose, goad and signs granting boons and “do not fear.” The all beautiful all merciful Devi is full of love gestures and beauties. Her voice is sweeter than that of lute; the lustre of Her body is like Kotis and Kotis of Suns and Moons if they rise simultaneously on the sky. The Sakhis, attendants, the Devas and the Devis surround Her on all sides. Ichcha S’akti, Jhana S’akti, and Kriya S’akti all are present always before the Devi. Lajja, Tusti, Pusti, Kirti, Kanti, Ksama, Daya, Buddhi, Medha, Smriti, and Laksmi are always seen here incarnate in their due Forms. The nine Pitha S’aktis, Jaya, Vijaya, Ajita, Aparajita, Nitya, Vilasini, Dogdhri, Aghora, and Mangala reside here always and are in the service of the Devi BhuvanesVari. On the side of the Devi are the two oceans of treasures; from these streams of Navaratna, gold, and seven Dhatus (elements) go out and assume the forms of rivers and fall into the ocean Sudha Sindhu. Because such a Devi BhuvanesVari, resplendent with all powers and prosperities, sits on the left lap of BhuvanesVara, that He has, no doubt acquired His omnipotence. O King! Now I will describe the dimensions of the Chintamani Griha. Listen. It is one thousand Yojanas wide; its centre is very big; the rooms situated further and further are twice those preceding them. It lies in Antariksa (the intervening space) without any support. At the times of dissolution and creation it contracts and expands like a cloth. The lustre of this Chintamani Griha is comparatively far more bright and beautiful than that of other enclosure walls. S’ri Devi Bhagavati dwells always in this place. O King! All the great Bhaktas of the Devi in every Brahmanda, in the Devaloka, in Nagaloka, in the world of men or in any other loka, all those that were engaged in the meditation of the

Devi in the sacred places of the Devi and died there, they all come here and reside with the Devi in great joy and festivity.

46-59. On all sides rivers are flowing; some of ghee, some of milk, curd, honey, nectar, pomegranate juice, jambu juice, and some of mango juice, sugarcane juices are flowing on all sides. The trees here yield fruits according to one’s desires and the wells and tanks yield water also as people desire. Never is there any want felt here of anything. Never are seen here diseases, sorrow, old age, decrepitude, anxiety, anger, jealousy, and envy and other lower ideas. All the inhabitants of this place are full of youth and look like one thousand Suns. All enjoy with their wives and they worship S’ri Bhuvanes’vari. Some have attained Salokya, some Samipya, some Sarupya and some have attained Sarsti and pass their days in highest comfort. The Devas that are in every Brahmanda all live here and worship S’ri Devi. The seven Koti Maha Mantras and Maha Vidyas here assume forms and worship the Maha Maya S’ri Bhagavati, Who is of the nature of Brahma. O King! Thus I have described to you all about this Manidvipa. The lustre of Sun, Moon and Kotis and Kotis of lightnings cannot be one Kotieth of one Koti part of Its lustre. At some places the lustre is like Vidrumamani; some places as are illumined like the lustre of Marakata Mani; some, like Surya Kanta mani and some places are rendered brilliant like Kotis and Kotis of lightnings. The light at some places is like Sindura; at some places like Indranilamani; at some places, like Manikya, and at some places like diamond. Some places are blazing like the conflagration of fire; and some places look like molten gold; some places seem filled with the lustre of Chandrakantamani, and some places look brilliant like Suryakantamani.

60-73. The mountains here are all built of gems and jewels; the entrance gates and enclosures are built of gems and jewels; the trees and their leaves all are of gems; in fact all that exist here are all

of gems and jewels. At some places numbers of peacocks are dancing; at some places cuckoos are captivating the minds of persons by cooing in the fifth tune and at others doves and pigeons and parrots are making sweet cackling sounds. Lakhs and lakhs of tanks are there with their pure crystal-like waters. The Red lotuses have blown fully and enhanced the beauty of the place. The captivating scents of these lotuses extend to a distance one hundred Yojanas all round and gladden the minds of people. The leaves are rustling with gentle breeze. The whole sky overhead is radiant with the lustre of Chintamani gems and jewels. All the sides are illuminated with the brilliancy of the gems and jewels. O King! These jewels act like lamps. And the sweet scented trees emit their flagrance and it is transmitted by breeze all around. Thus these trees serve the purpose of dhup (scent). The rays of these gems pierce through the openings of the jewel screens on the houses and fall on the mirrors inside, thus causing a nice brilliant appearance that captivates the mind and causes confusion. O King! And what shall I say of this place, more than this, that all the powers, and wealth, all the love sentiments, all the dress suited to amorous interviews, all the splendours, fire, energy, beauty and brilliance, the omniscience, the indomitable strength, all the excellent qualities and all mercy and kindness are present here! The All Comprehending Bliss and the Brahmananda can always be witnessed here! O King! Thus I have described to you about the Manidvipa, the most exalted place of the Devi Bhagavati. At Her remembrance all the sins are instantly destroyed. The more so, if a man remembers the Devi and about this place at the time of death. He surely goes there. O King! He who daily reads the five Chapters, i.e., from the eighth to this twelfth chapter, is surely untouched by any obstacles due to the Bhutas, Pretas and Pis’achas. Especially the recitation of this at the time of building a new house and at the time of Vastuyaga ensures all good and auspiciousness.

Here ends the Twelfth Chapter of the Twelfth Book on the description of Mani Dvipa in the Mahapuranam S’ri Mad Devi Bhagavatam of 18,000 verses by Maharsi Veda Vyasa.

Complete chapter-aligned witnesses. Sanskrit Wikisource page 31987, revision 84738 (2016-10-10T09:14:00Z). English is Swami Vijñanananda’s complete 1921–23 public-domain translation, controlled against the archival OCR and its chapter page at https://sacred-texts.com/hin/db/bk12ch12.htm. Historic spelling and transliteration are lightly normalized; no verse-by-verse alignment is asserted.