Second Skandha · Chapter 5
Sourceऋषय ऊचुः वसूनां सम्भवः सूत कथितः शापकारणात् । गाङ्गेयस्य तथोत्पत्तिः कथिता लोमहर्षणे ॥ १ ॥ माता व्यासस्य धर्मज्ञ नाम्ना सत्यवती सती । कथं शन्तनुना प्राप्ता भार्या गन्धवती शुभा ॥ २ ॥ तन्ममाचक्ष्व विस्तारं दाशपुत्री कथं धृता । राज्ञा धर्मवरिष्ठेन संशयं छिन्धि सुव्रत ॥ ३ ॥ सूत उवाच शन्तनुर्नाम राजर्षिर्मृगयानिरतः सदा । वनं जगाम निघ्नन्वै मृगांश्च महिषान् रुरून् ॥ ४ ॥ चत्वार्येव तु वर्षाणि पुत्रेण सह भूपतिः । रममाणः सुखं प्राप कुमारेण यथा हरः ॥ ५ ॥ एकदा विक्षिपन्बाणान्विनिघ्नन्खड्गसूकरान् । स कदाचिद्वनं प्राप्तः कालिन्दीं सरितां वराम् ॥ ६ ॥ महीपतिरनिर्देश्यमाजिघ्रद्गन्धमुत्तमम् । तस्य प्रभवमन्विच्छन्सजञ्चचार वनं तदा ॥ ७ ॥ न मन्दारस्य गन्धोऽयं मृगनाभिमदस्य न । चम्पकस्य न मालत्या न केतक्या मनोहरः ॥ ८ ॥ न चानुभूतपूर्वोऽयं वाति गन्धवहः शुभः । कुतोऽयमेति वायुर्वै मम घ्राणविमोहनः ॥ ९ ॥ इति सञ्चिन्त्यमानोऽसौ बभ्राम वनमण्डलम् । मोहितो गन्धलोभेन शन्तनुः पवनानुगः ॥ १० ॥ स ददर्श नदीतीरे संस्थितां चारुदर्शनाम् । शृङ्गाररहितां कान्तां सुस्थितां मलिनाम्बराम् ॥ ११ ॥ दृष्ट्वा तामसितापाङ्गीं विस्मितः स महीपतिः । अस्या देहस्य गन्धोऽयमिति सञ्जातनिश्चयः ॥ १२ ॥ तदद्भुतं रूपमतीव सुन्दरं तथैव गन्धोऽखिललोकसम्मतः । वयश्च तादृङ् नवयौवनं शुभं दृष्ट्वैव राजा किल विस्मितोऽभवत् ॥ १३ ॥ केयं कुतो वा समुपागताधुना देवाङ्गना वा किमु मानुषी वा । गन्धर्वपुत्री किल नागकन्या जाने कथं गन्धवतीं नु कामिनीम् ॥ १४ ॥ सञ्चिन्त्य चैवं मनसा नृपोऽसौ न निश्चयं प्राप यदा ततः स्वयम् । गङ्गां स्मरन्कामवशं गतोऽथ पप्रच्छ कान्तां तटसंस्थितां च ॥ १५ ॥ कासि प्रिये कस्य सुतासि कस्मा- दिह स्थिता त्वं विजने वरोरु । एकाकिनी किं वद चारुनेत्रे विवाहिता वा न विवाहितासि ॥ १६ ॥ सञ्जातकामोऽहमरालनेत्रे त्वां वीक्ष्य कान्तां च मनोरमां च । ब्रूहि प्रिये यासि चिकीर्षसि त्वं किं चेति सर्वं मम विस्तरेण ॥ १७ ॥ इत्येवमुक्ता सुदती नृपेण प्रोवाच तं सस्मितमम्बुजेक्षणा । दाशस्य पुत्रीं त्वमवेहि राजन् कन्यां पितुः शासनसंस्थितां च ॥ १८ ॥ तरीमिमां धर्मनिमित्तमेव संवाहयामीह जले नृपेन्द्र । पिता गृहे मेऽद्य गतोऽस्ति कामं सत्यं ब्रवीम्यर्थपते तवाग्रे ॥ १९ ॥ इत्येवमुक्त्वा विरराम बाला कामातुरस्तां नृपतिर्बभाषे । कुरुप्रवीरं कुरु मां पतिं त्वं वृथा न गच्छेन्ननु यौवनं ते ॥ २० ॥ न चास्ति पत्नी मम वै द्वितीया त्वं धर्मपत्नी भव मे मृगाक्षि । दासोऽस्मि तेऽहं वशगः सदैव मनोभवस्तापयति प्रिये माम् ॥ २१ ॥ गता प्रिया मां परिहृत्य कान्ता नान्या वृताहं विधुरोऽस्मि कान्ते । त्वां वीक्ष्य सर्वावयवातिरम्यां मनो हि जातं विवशं मदीयम् ॥ २२ ॥ श्रुत्वामृतास्वादरसं नृपस्य वचोऽतिरम्यं खलु दाशकन्या । उवाच तं सात्त्विकभावयुक्ता कृत्वातिधैर्यं नृपतिं सुगन्धा ॥ २३ ॥ यदात्थ राजन् मयि तत्तथैव मन्येऽहमेतत्तु यथा वचस्ते । नास्मि स्वतन्त्रा त्वमवेहि कामं दाता पिता मेऽर्थय तं त्वमाशु ॥ २४ ॥ न स्वैरिणीहास्म्यपि दाशपुत्री पितुर्वशेऽहं सततं चरामि । स चेद्ददाति प्रथितः पिता मे गृहाण पाणिं वशगास्मि तेऽहम् ॥ २५ ॥ मनोभवस्त्वां नृप किं दुनोति यथा पुनर्मां नवयौवनां च । दुनोति तत्रापि हि रक्षणीया धृतिः कुलाचारपरम्परासु ॥ २६ ॥ सूत उवाच इत्याकर्ण्य वचस्तस्या नृपति काममोहितः । गतो दाशपतेर्गेहं तस्या याचनहेतवे ॥ २७ ॥ दृष्ट्वा नृपतिमायान्तं दाशोऽतिविस्मयं गतः । प्रणामं नृपतेः कृत्वा कृताञ्जलिरभाषत ॥ २८ ॥ दाश उवाच दासोऽस्मि तव भूपाल कृतार्थोऽहं तवागमे । आज्ञां देहि महाराज यदर्थमिह चागमः ॥ २९ ॥ राजोवाच धर्मपत्नीं करिष्यामि सुतामेतां तवानघ । त्वया चेद्दीयते मह्यं सत्यमेतद्ब्रवीमि ते ॥ ३० ॥ दाश उवाच कन्यारत्नं मदीयं चेद्यत्त्वं प्रार्थयसे नृप । दातव्यं तु प्रदास्यामि न त्वदेयं कदाचन ॥ ३१ ॥ तस्याः पुत्रो महाराज त्वदन्ते पृथिवीपतिः । सर्वथा चाभिषेक्तव्यो नान्यः पुत्रस्तवेति वै ॥ ३२ ॥ सूत उवाच श्रुत्वावाक्यं तु दाशस्य राजा चिन्तातुरोऽभवत् । गाङ्गेयं मनसा कृत्वा नोवाच नृपतिस्तदा ॥ ३३ ॥ कामातुरो गृहं प्राप्तश्चिन्ताविष्टो महीपतिः । न सस्नौ बुभुजे नाथ न सुष्वाप गृहं गतः ॥ ३४ ॥ चिन्तातुरं तु तं दृष्ट्वा पुत्रो देवव्रतस्तदा । गत्वापृच्छन्महीपालं तदसन्तोषकारणम् ॥ ३५ ॥ दुर्जयः कोऽस्ति शत्रुस्ते करोमि वशगं तव । का चिन्ता नृपशार्दूल सत्यं वद नृपोत्तम ॥ ३६ ॥ किं तेन जातेन सुतेन राजन् दुःखं न जानाति न नाशयेद्यः । ऋणं ग्रहीतुं समुपागतोऽसौ प्राग्जन्मजं नात्र विचारणास्ति ॥ ३७ ॥ विमुच्य राज्यं रघुनन्दनोऽपि ताताज्ञया दाशरथिस्तु रामः । वनं गतो लक्ष्मणजानकीभ्यां सहैव शैलं किल चित्रकूटम् ॥ ३८ ॥ सुतो हरिश्चन्द्रनृपस्य राजन् यो रोहितश्चेति प्रसिद्धनामा । क्रीतोऽथ पित्रा विपणोद्यतश्च दासार्पितो विप्रगृहे तु नूनम् ॥ ३९ ॥ तथाजिगर्तस्य सुतो वरिष्ठो नाम्ना शुनःशेप इति प्रसिद्धः । क्रीतस्तु पित्राप्यथ यूपबद्धः सम्मोचितो गाधिसुतेन पश्चात् ॥ ४० ॥ पित्राज्ञया जामदग्न्येन पूर्वं छिन्नं शिरो मातुरिति प्रसिद्धम् । अकार्यमप्याचरितं च तेन गुरोरनुज्ञा च गरीयसी कृता ॥ ४१ ॥ इदं शरीरं तव भूपते न क्षमोऽस्मि नूनं वद किं करोम्यहम् । न शोचनीयं मयि वर्तमाने- ऽप्यसाध्यमर्थं प्रतिपादयाम्यदः ॥ ४२ ॥ प्रब्रूहि राजंस्तव कास्ति चिन्ता निवारयाम्यद्य धनुर्गृहीत्वा । देहेन मे चेच्चरितार्थता वा भवत्वमोघा भवतश्चिकीर्षा ॥ ४३ ॥ धिक् तं सुतं यः पितुरीप्सितार्थं क्षमोऽपि सन्न प्रतिपादयेद्यः । जातेन किं तेन सुतेन कामं पितुर्न चिन्तां हि समुद्धरेद्यः ॥ ४४ ॥ सूत उवाच निशम्येति वचस्तस्य पुत्रस्य शन्तनुर्नृपः । लज्जमानस्तु मनसा तमाह त्वरितं सुतम् ॥ ४५ ॥ राजोवाच चिन्ता मे महती पुत्र यस्त्वमेकोऽसि मे सुतः । शूरोऽतिबलवान्मानी संग्रामेष्वपराङ्मुखः ॥ ४६ ॥ एकापत्यस्य मे तात वृथेदं जीवितं किल । मृते त्वयि मृधे क्वापि किं करोमि निराश्रयः ॥ ४७ ॥ एषा मे महती चिन्ता तेनाद्य दुःखितोऽत्म्यहम् । नान्या चिन्तास्ति मे पुत्र यां तवाग्रे वदाम्यहम् ॥ ४८ ॥ सूत उवाच तदाकर्ण्याथ गाङ्गेयो मन्त्रिवृद्धानपृच्छत । न मां वदति भूपालो लज्जयाद्य परिप्लुतः ॥ ४९ ॥ वित्त वार्तां नृपस्याद्य पृष्ट्वा यूयं विनिश्चयात् । सत्यं ब्रुवन्तु मां सर्वं तत्करोमि निराकुलः ॥ ५० ॥ तच्छ्रुत्वा ते नृपं गत्वा संविज्ञाय च कारणम् । शशंसुर्विदितार्थस्तु गाङ्गेयस्तदचिन्तयत् ॥ ५१ ॥ सहितस्तैर्जगामाशु दाशस्य सदनं तदा । प्रेमपूर्वमुवाचेदं विनम्रो जाह्नवीसुतः ॥ ५२ ॥ गाङ्गेय उवाच पित्रे देहि सुतां तेऽद्य प्रार्थयामि सुमध्यमाम् । माता मेऽस्तु सुतेयं ते दासोऽत्म्यस्याः परन्तप ॥ ५३ ॥ दाश उवाच त्वं गृहाण महाभाग पत्नीं कुरु नृपात्मज । पुत्रोऽस्या न भवेद्राजा वर्तमाने त्वयीति वै ॥ ५४ ॥ गाङ्गेय उवाच मातेयं मम दाशेयी राज्यं नैव करोम्यहम् । पुत्रोऽस्याः सर्वथा राज्यं करिष्यति न संशयः ॥ ५५ ॥ दाश उवाच सत्यं वाक्यं मया ज्ञातं पुत्रस्ते बलवान्भवेत् । सोऽपि राज्यं बलान्नूनं गृह्णीयादिति निश्चयः ॥ ५६ ॥ गाङ्गेय उवाच न दारसंग्रहं नूनं करिष्यामि हि सर्वथा । सत्यं मे वचनं तात मया भीष्मं व्रतं कृतम् ॥ ५७ ॥ सूत उवाच एवं कृतां प्रतिज्ञां तु निशम्य झषजीवकः । ददौ सत्यवतीं तस्मै राज्ञे सर्वाङ्गशोभनाम् ॥ ५८ ॥ अनेन विधिना तेन वृता सत्यवती प्रिया । न जानाति परं जन्म व्यासस्य नृपसत्तमः ॥ ५९ ॥
ṛṣaya ūcuḥ vasūnāṃ sambhavaḥ sūta kathitaḥ śāpakāraṇāt | gāṅgeyasya tathotpattiḥ kathitā lomaharṣaṇe || 1 || mātā vyāsasya dharmajña nāmnā satyavatī satī | kathaṃ śantanunā prāptā bhāryā gandhavatī śubhā || 2 || tanmamācakṣva vistāraṃ dāśaputrī kathaṃ dhṛtā | rājñā dharmavariṣṭhena saṃśayaṃ chindhi suvrata || 3 || sūta uvāca śantanurnāma rājarṣirmṛgayānirataḥ sadā | vanaṃ jagāma nighnanvai mṛgāṃśca mahiṣān rurūn || 4 || catvāryeva tu varṣāṇi putreṇa saha bhūpatiḥ | ramamāṇaḥ sukhaṃ prāpa kumāreṇa yathā haraḥ || 5 || ekadā vikṣipanbāṇānvinighnankhaḍgasūkarān | sa kadācidvanaṃ prāptaḥ kālindīṃ saritāṃ varām || 6 || mahīpatiranirdeśyamājighradgandhamuttamam | tasya prabhavamanvicchansajañcacāra vanaṃ tadā || 7 || na mandārasya gandho'yaṃ mṛganābhimadasya na | campakasya na mālatyā na ketakyā manoharaḥ || 8 || na cānubhūtapūrvo'yaṃ vāti gandhavahaḥ śubhaḥ | kuto'yameti vāyurvai mama ghrāṇavimohanaḥ || 9 || iti sañcintyamāno'sau babhrāma vanamaṇḍalam | mohito gandhalobhena śantanuḥ pavanānugaḥ || 10 || sa dadarśa nadītīre saṃsthitāṃ cārudarśanām | śṛṅgārarahitāṃ kāntāṃ susthitāṃ malināmbarām || 11 || dṛṣṭvā tāmasitāpāṅgīṃ vismitaḥ sa mahīpatiḥ | asyā dehasya gandho'yamiti sañjātaniścayaḥ || 12 || tadadbhutaṃ rūpamatīva sundaraṃ tathaiva gandho'khilalokasammataḥ | vayaśca tādṛṅ navayauvanaṃ śubhaṃ dṛṣṭvaiva rājā kila vismito'bhavat || 13 || keyaṃ kuto vā samupāgatādhunā devāṅganā vā kimu mānuṣī vā | gandharvaputrī kila nāgakanyā jāne kathaṃ gandhavatīṃ nu kāminīm || 14 || sañcintya caivaṃ manasā nṛpo'sau na niścayaṃ prāpa yadā tataḥ svayam | gaṅgāṃ smarankāmavaśaṃ gato'tha papraccha kāntāṃ taṭasaṃsthitāṃ ca || 15 || kāsi priye kasya sutāsi kasmā- diha sthitā tvaṃ vijane varoru | ekākinī kiṃ vada cārunetre vivāhitā vā na vivāhitāsi || 16 || sañjātakāmo'hamarālanetre tvāṃ vīkṣya kāntāṃ ca manoramāṃ ca | brūhi priye yāsi cikīrṣasi tvaṃ kiṃ ceti sarvaṃ mama vistareṇa || 17 || ityevamuktā sudatī nṛpeṇa provāca taṃ sasmitamambujekṣaṇā | dāśasya putrīṃ tvamavehi rājan kanyāṃ pituḥ śāsanasaṃsthitāṃ ca || 18 || tarīmimāṃ dharmanimittameva saṃvāhayāmīha jale nṛpendra | pitā gṛhe me'dya gato'sti kāmaṃ satyaṃ bravīmyarthapate tavāgre || 19 || ityevamuktvā virarāma bālā kāmāturastāṃ nṛpatirbabhāṣe | kurupravīraṃ kuru māṃ patiṃ tvaṃ vṛthā na gacchennanu yauvanaṃ te || 20 || na cāsti patnī mama vai dvitīyā tvaṃ dharmapatnī bhava me mṛgākṣi | dāso'smi te'haṃ vaśagaḥ sadaiva manobhavastāpayati priye mām || 21 || gatā priyā māṃ parihṛtya kāntā nānyā vṛtāhaṃ vidhuro'smi kānte | tvāṃ vīkṣya sarvāvayavātiramyāṃ mano hi jātaṃ vivaśaṃ madīyam || 22 || śrutvāmṛtāsvādarasaṃ nṛpasya vaco'tiramyaṃ khalu dāśakanyā | uvāca taṃ sāttvikabhāvayuktā kṛtvātidhairyaṃ nṛpatiṃ sugandhā || 23 || yadāttha rājan mayi tattathaiva manye'hametattu yathā vacaste | nāsmi svatantrā tvamavehi kāmaṃ dātā pitā me'rthaya taṃ tvamāśu || 24 || na svairiṇīhāsmyapi dāśaputrī piturvaśe'haṃ satataṃ carāmi | sa ceddadāti prathitaḥ pitā me gṛhāṇa pāṇiṃ vaśagāsmi te'ham || 25 || manobhavastvāṃ nṛpa kiṃ dunoti yathā punarmāṃ navayauvanāṃ ca | dunoti tatrāpi hi rakṣaṇīyā dhṛtiḥ kulācāraparamparāsu || 26 || sūta uvāca ityākarṇya vacastasyā nṛpati kāmamohitaḥ | gato dāśapatergehaṃ tasyā yācanahetave || 27 || dṛṣṭvā nṛpatimāyāntaṃ dāśo'tivismayaṃ gataḥ | praṇāmaṃ nṛpateḥ kṛtvā kṛtāñjalirabhāṣata || 28 || dāśa uvāca dāso'smi tava bhūpāla kṛtārtho'haṃ tavāgame | ājñāṃ dehi mahārāja yadarthamiha cāgamaḥ || 29 || rājovāca dharmapatnīṃ kariṣyāmi sutāmetāṃ tavānagha | tvayā ceddīyate mahyaṃ satyametadbravīmi te || 30 || dāśa uvāca kanyāratnaṃ madīyaṃ cedyattvaṃ prārthayase nṛpa | dātavyaṃ tu pradāsyāmi na tvadeyaṃ kadācana || 31 || tasyāḥ putro mahārāja tvadante pṛthivīpatiḥ | sarvathā cābhiṣektavyo nānyaḥ putrastaveti vai || 32 || sūta uvāca śrutvāvākyaṃ tu dāśasya rājā cintāturo'bhavat | gāṅgeyaṃ manasā kṛtvā novāca nṛpatistadā || 33 || kāmāturo gṛhaṃ prāptaścintāviṣṭo mahīpatiḥ | na sasnau bubhuje nātha na suṣvāpa gṛhaṃ gataḥ || 34 || cintāturaṃ tu taṃ dṛṣṭvā putro devavratastadā | gatvāpṛcchanmahīpālaṃ tadasantoṣakāraṇam || 35 || durjayaḥ ko'sti śatruste karomi vaśagaṃ tava | kā cintā nṛpaśārdūla satyaṃ vada nṛpottama || 36 || kiṃ tena jātena sutena rājan duḥkhaṃ na jānāti na nāśayedyaḥ | ṛṇaṃ grahītuṃ samupāgato'sau prāgjanmajaṃ nātra vicāraṇāsti || 37 || vimucya rājyaṃ raghunandano'pi tātājñayā dāśarathistu rāmaḥ | vanaṃ gato lakṣmaṇajānakībhyāṃ sahaiva śailaṃ kila citrakūṭam || 38 || suto hariścandranṛpasya rājan yo rohitaśceti prasiddhanāmā | krīto'tha pitrā vipaṇodyataśca dāsārpito vipragṛhe tu nūnam || 39 || tathājigartasya suto variṣṭho nāmnā śunaḥśepa iti prasiddhaḥ | krītastu pitrāpyatha yūpabaddhaḥ sammocito gādhisutena paścāt || 40 || pitrājñayā jāmadagnyena pūrvaṃ chinnaṃ śiro māturiti prasiddham | akāryamapyācaritaṃ ca tena guroranujñā ca garīyasī kṛtā || 41 || idaṃ śarīraṃ tava bhūpate na kṣamo'smi nūnaṃ vada kiṃ karomyaham | na śocanīyaṃ mayi vartamāne- 'pyasādhyamarthaṃ pratipādayāmyadaḥ || 42 || prabrūhi rājaṃstava kāsti cintā nivārayāmyadya dhanurgṛhītvā | dehena me ceccaritārthatā vā bhavatvamoghā bhavataścikīrṣā || 43 || dhik taṃ sutaṃ yaḥ piturīpsitārthaṃ kṣamo'pi sanna pratipādayedyaḥ | jātena kiṃ tena sutena kāmaṃ piturna cintāṃ hi samuddharedyaḥ || 44 || sūta uvāca niśamyeti vacastasya putrasya śantanurnṛpaḥ | lajjamānastu manasā tamāha tvaritaṃ sutam || 45 || rājovāca cintā me mahatī putra yastvameko'si me sutaḥ | śūro'tibalavānmānī saṃgrāmeṣvaparāṅmukhaḥ || 46 || ekāpatyasya me tāta vṛthedaṃ jīvitaṃ kila | mṛte tvayi mṛdhe kvāpi kiṃ karomi nirāśrayaḥ || 47 || eṣā me mahatī cintā tenādya duḥkhito'tmyaham | nānyā cintāsti me putra yāṃ tavāgre vadāmyaham || 48 || sūta uvāca tadākarṇyātha gāṅgeyo mantrivṛddhānapṛcchata | na māṃ vadati bhūpālo lajjayādya pariplutaḥ || 49 || vitta vārtāṃ nṛpasyādya pṛṣṭvā yūyaṃ viniścayāt | satyaṃ bruvantu māṃ sarvaṃ tatkaromi nirākulaḥ || 50 || tacchrutvā te nṛpaṃ gatvā saṃvijñāya ca kāraṇam | śaśaṃsurviditārthastu gāṅgeyastadacintayat || 51 || sahitastairjagāmāśu dāśasya sadanaṃ tadā | premapūrvamuvācedaṃ vinamro jāhnavīsutaḥ || 52 || gāṅgeya uvāca pitre dehi sutāṃ te'dya prārthayāmi sumadhyamām | mātā me'stu suteyaṃ te dāso'tmyasyāḥ parantapa || 53 || dāśa uvāca tvaṃ gṛhāṇa mahābhāga patnīṃ kuru nṛpātmaja | putro'syā na bhavedrājā vartamāne tvayīti vai || 54 || gāṅgeya uvāca māteyaṃ mama dāśeyī rājyaṃ naiva karomyaham | putro'syāḥ sarvathā rājyaṃ kariṣyati na saṃśayaḥ || 55 || dāśa uvāca satyaṃ vākyaṃ mayā jñātaṃ putraste balavānbhavet | so'pi rājyaṃ balānnūnaṃ gṛhṇīyāditi niścayaḥ || 56 || gāṅgeya uvāca na dārasaṃgrahaṃ nūnaṃ kariṣyāmi hi sarvathā | satyaṃ me vacanaṃ tāta mayā bhīṣmaṃ vrataṃ kṛtam || 57 || sūta uvāca evaṃ kṛtāṃ pratijñāṃ tu niśamya jhaṣajīvakaḥ | dadau satyavatīṃ tasmai rājñe sarvāṅgaśobhanām || 58 || anena vidhinā tena vṛtā satyavatī priyā | na jānāti paraṃ janma vyāsasya nṛpasattamaḥ || 59 ||
English translation
1-20. The Risis said “O son of Lomaharsana, O Suta; you have described to us how the eight Vasus, cursed by Vas'istha, took their birth and how Bhisma was born. O knower of Dharma! Now describe to us in detail how the greatly religious king S’antanu married the auspicious Yojanagandha, the chaste Satyavati, the mother of Vyasa, knowing full well that she was a fisherman's daughter? O Suvrata! Remove our this doubt. Suta then said The sage king S’antanu always used to go to forests on hunting expeditions, with his heart addicted to hunting buffaloes, deer and various other wild animals.
Thus, for four years that king went out a hunting, with his son Bhisma, deer and other wild animals and got the highest happiness as Mahadeva finds in company with Kartikeya. Once, on an occasion, while he was shooting arrows at rhinoceros and boar, etc., he went so far as to reach a forest on the banks of the Yamuna, the chief of the rivers. There he began to smell an excellent nice smell that could not be described in words; he tried to find out the source and wandered here and there, and on all sides of the forest; and thought that this enchanting smell was not that of Mandara flowers, musk, champaka nor that of Malati nor that of Ketaki flower; the air was blowing saturated with peculiar fragrant smell that he never experienced before. Thus thinking of that smell, the king S’antanu, being enchanted with that, followed to its source in that forest. At last he came to a spot on the banks of the Yamuna the chief of the rivers, where a very beautiful girl, calm and quiet and with feminine gestures and posture amorous, lovely but ill-clad, was sitting; and he found out that the above beautiful smell was coming out of her body. The form of the lady was extremely beautiful; the smell was very wonderful, and captivating the hearts of all; her age then entered to youth and she was very auspicious. The king was greatly surprised and was eager to know who the lady was; whence she had come;
whether she was a Deva girl, or a human or a Gandarbha daughter or a Naga daughter? But, being unable to come to a definite conclusion and becoming passionate, he remembered Ganga and asked that lady sitting on the bank of the Yumna, thus “O dear! Who are you? Whose daughter are you? Why are you alone in this lovely forest? O beautiful eyed! Are you married? Or are you as yet unmarried? So answer to all these. O lovely eyed one! Seeing your lovely enchanting form I am become extremely passionate. So, O dear! Describe in detail to me, who are you? and what do you intend to do?” When the king spoke thus the lotus eyed nice-teethed lady replied as follows “O king! Know me as a fisherman's daughter and I am completely under my father's command. O king of kings! For Dharma's sake I carry ferry across this Yumna river. My father has gone to-day to our house. O Master of wealth! Thus I have spoken truth to you.” Thus saying the lady desisted; the passionate king then spoke to her“I am the foremost hero of the Kuru family; so choose me as your husband; then your this youth will not go in vain.
21-32. O fawn-eyed one! I have no other wife existing; so you will be my legal wife. O Dear! Passion is giving much pains to me; therefore I am now become your obedient servant for ever. O Beloved! My former dear wife has abandoned me and gone away; but I have not married since then. Now seeing you beautiful, in all respects, I cannot bring my mind under control.”
Hearing these nectar-like beautiful words of the king, the sweet scented fisherman's daughter, though also turned extremely passionate, held patience and exclaimed “O king! I also desire that which you have expressed; I am of opinion to act according to your wishes. But, what am I to do? I am not dependent. You are to know this. My father alone can give me in marriage to you. So better ask my father for me. Though I am a fisherman's daughter, still I am not wanton and wilful. I am always obedient to my father; if my father wills, you can marry me. And I will be obedient to you. O king! The
god of love is tormenting me, who is endowed with youth; he does not torment you so much. Still I must regard my family manners and customs coming down from ancient times. I must hold my patience.” Suta said Thus passionately pleased with these fascinating words of the lady, the king went to the fisherman's house for the lady. Seeing the king coming, the fisherman was greatly bewildered and astonished and bowed down with great devotion and said “O King! I am Thy servant. I am blessed by Thy presence. O great King! Now be graciously pleased to order me the cause of Thy arrival.” Hearing the fisherman's words, the King said “O sinless one! This I tell you truly that if you give me your daughter in marriage I will certainly make her my legal wife.” The fisherman replied “O king! What must be given ever, how can I say that is not to be given. Therefore if Thou askest for my daughter, I will certainly give her to Thee. But, O great King! Thou wilt have to make her son, the king of Thy kingdom; no other son of Thine could be king, after Thy absence.”
33-40. Hearing these words of the fisherman, the king S’antanu became very anxious. He remembered Gangeya and could not speak anything. He, being sick with love anxiously returned home; but he abandoned bathing, feeding, sleeping, etc. At this, the son Gangeya Bhisma whose vow was equal to that of the gods, marking that the king was being troubled with some thought, went to him and asked why he was anxious “O king! Say truly what is your anxiety; who is your enemy that is not conquered; whom do you went to bring under your control? O king! What use is there of having a son who does not understand the difficulties of his father, or does not try to remove these difficulties. A son can be called really the son, who is born to repay the debts incurred by him in previous births; there is no manner of discussion in this. See, Raghu's son Dasarathi Ram abandoned his kingdom under the orders of his father and repaired to Chitrakuta forest with his brother Laksman and wife Sita. The son of king Haris Chandra, Rohita, ready to repay the debt of his father
and sold by his father, worked as a servant at a Brahmana's house. So the famous S’unahs'ephah, sold by his high souled father Ajigarta was tied for sacrifice in a sacrificial post; but he was afterwards freed by the Gadhi's son VisVamitra.
41-59. It is well known that, in ancient days, the Jamadagni's son Paras'uram cut off his mother's head under the orders of his father. He considered the father's words more important, and hence could do such an unjust act. O king! This my body is at your disposal; I can certainly do what you order me to do. So say what am I to do? as long as I am living, you need not express any sorrow; if you permit, I will do what is even hardly practicable to do. O king! Say why you are anxious; I will remove that at once with this bow in my hand. If my body goes in carrying your mandate know that your desire will be fructified. Fie to that son, who, being capable, is averse to do what his father desires! What use is there in having a son who does not remove the cause of his father's anxiety? Hearing the words of the son, the king S’antanu felt much ashamed in his heart and said “O son! This is now my gravest care that you are my only son; besides you are a hero very powerful, honoured and never showing your back in battles; therefore, if, out of ill-luck you become dead in some battlefield, I will become issueless; under such circumstances what am I to do? So, O son! My life is fruitless when I have got only one son; this is my gravest care; therefore I am sorry. O son! I have no other cares that I can mention to you.” Hearing these words of the father, Gangeya called the old ministers and said that the king was too ashamed to speak out to me the real matter; so I ask you all to know exactly the king's cares and communicate them to me as they are; I can carry them out, without any hitch, then. At these Bhisma's words, the ministers went to the king, and learned the true cause, and spoke to Bhisma; learning this, he began to think what ought to be done.
The Ganga's son Bhisma, then, accompanied by the ministers, quickly went to the house of the fisherman, and with words of
humility and affection, spoke “O tormentor of foes! I pray to you to give your beautiful daughter in marriage to my father. Your daughter will be my mother and I will be her servant.” The fisherman, then, said “O highly lucky prince! Then the king's son will not be able to become king, in your presence; so kindly marry yourself my daughter.” At this Bhisma again said Let your daughter be my mother; I will never accept the kingdom. The son of your daughter will, no doubt, become king. The fisherman said “I know your words are true; but if your son be powerful, he can take forcibly the kingdom for himself.” At this Bhisma again said “O Sire! Know my words as true; I will never marry; from to-day I have accepted this difficult vow.” Suta said Hearing this firm resolve of Bhisma; the fisherman gave over his beautiful daughter to the king S’antanu.
Thus S’antanu married the dear Satyavati; but he was quite unaware of the wonderful birth of Vyasa Deva.
Thus ends the fifth Chapter of the second Skandha on the marriage of Satyavati in the Mahapurana S’rimad Devi Bhagavatam of 18,000 verses.
Complete chapter-aligned witnesses. Sanskrit Wikisource page 24719, revision 75572 (2016-08-03T10:48:42Z). English is Swami Vijñanananda’s complete 1921–23 public-domain translation, controlled against the archival OCR and its chapter page at https://sacred-texts.com/hin/db/bk02ch05.htm. Historic spelling and transliteration are lightly normalized; no verse-by-verse alignment is asserted.