Ninth Skandha · Chapter 37
Sourceसावित्र्युवाच धर्मराज उवाच पूर्णेन्दुमण्डलाकारं सर्वं कुण्डं च वर्तुलम् । निम्नं पाषाणभेदैश्च पाचितं बहुभिः सति ॥ १ ॥ न नश्वरं चाप्रलयं निर्मितं चेश्वरेच्छया । क्लेशदं पातकानां च नानारूपं तदालयम् ॥ २ ॥ ज्वलदङ्गाररूपं च शतहस्तशिखान्वितम् । परितः क्रोशमानं च वह्निकुण्डं प्रकीर्तितम् ॥ ३ ॥ महाशब्दं प्रकुर्वद्भिः पापिभिः परिपूरितम् । रक्षितं मम दूतैश्च ताडितैश्चापि सन्ततम् ॥ ४ ॥ प्रतप्तोदकपूर्णं च हिंस्रजन्तुसमन्वितम् । महाघोरं काकुशब्दं प्रहारेण दृढेन च ॥ ५ ॥ क्रोशार्धमानं तद्दूतैस्ताडितैर्मम पार्षदैः । तप्तक्षारोदकैः पूर्णं पुनः काकैश्च सङ्कुलम् ॥ ६ ॥ सङ्कुलं पापिभिश्चैव क्रोशमानं भयानकम् । त्राहीति शब्दं कुर्वद्भिर्मम दूतैश्च ताडितैः ॥ ७ ॥ प्रचलद्भिरनाहारैः शुष्ककण्ठोष्ठतालुकैः । विड्भिरेव कृतं पूर्णं क्रोशमानं च कुत्सितम् ॥ ८ ॥ अतिदुर्गन्धिसंसक्तं व्याप्तं पापिभिरन्वहम् । ताडितैर्मम दूतैश्च तदाहारैः सुदारुणैः ॥ ९ ॥ रक्षेति शब्दं कुर्वद्भिस्तत्कीटैरेव भक्षितैः । तप्तमूत्रद्रवैः पूर्णं मूत्रकीटैश्च सङ्कुलम् ॥ १० ॥ युक्तं महापातकिभिस्तत्कीटैर्भक्षितैः सदा । गव्यूतिमानं ध्वान्ताक्तं शब्दकृद्भिश्च सन्ततम् ॥ ११ ॥ मद्दूतैस्ताडितैर्घोरैः शुष्ककण्ठोष्ठतालुकैः । श्लेष्मपूर्णं प्रशमितं तत्कीटैः पूरितं सदा ॥ १२ ॥ तद्भोजिभिः पापिभिश्च वेष्टितं वेष्टितैः सदा । क्रोशार्धं गरकुण्डं च गरभोजिभिरन्वितम् ॥ १३ ॥ गरकीटैर्भक्षितैश्च पापिभिः पूर्णमेव च । ताडितैर्मम दूतैश्च शब्दकृद्भिश्च कम्पितैः ॥ १४ ॥ सर्पाकारेर्वज्रदंष्ट्रै शुष्ककण्ठैः सुदारुणैः । नेत्रयोर्मलपूर्णं च क्रोशार्धं कीटसंयुतम् ॥ १५ ॥ पापिभिः सङ्कुलं शश्वद्भ्रमद्भिः कीटभक्षितैः । वसारसेन सम्पूर्णं क्रोशतुर्यं सुदुःसहम् ॥ १६ ॥ तद्भोजिभिः पातकिभिर्मम दूतैश्च ताडितैः । शुक्रकुण्डं क्रोशमितं शुक्रकीटैश्च संयुतम् ॥ १७ ॥ पापिभिः सङ्कुलं शश्वद् द्रवद्भिः कीटभक्षितैः । दुर्गन्धिरक्तपूर्णं च वापीमानं गभीरकम् ॥ १८ ॥ तद्भोजिभिः पापिभिश्च सङ्कुलं कीटभक्षितम् । पूर्णं नेत्राश्रुभिस्तप्तं बहुपापिभिरन्वितम् ॥ १९ ॥ वापीतुर्यप्रमाणं च रुदद्भिः कीटभक्षितैः । नृणां गात्रमलैर्युक्तं तद्भक्षैः पापिभिर्युतम् ॥ २० ॥ ताडितैर्मम दूतैश्च व्यग्रैश्च कीटभक्षितैः । कर्णविट्परिपूर्णं च तद्भक्षैः पापिभिर्वृतम् ॥ २१ ॥ वापीतुर्यप्रमाणं च ब्रुवद्भिः कीटभक्षितैः । मज्जापूर्णं नराणां च महादुर्गन्धिसंयुतम् ॥ २२ ॥ महापातकिभिर्युक्तं वापीतुर्यप्रमाणकम् । परिपूर्णं सिग्धमांसैर्मम दूतैश्च ताडितैः ॥ २३ ॥ पापिभिः सङ्कुलं चैव वापीमानं भयानकम् । कन्याविक्रयिभिश्चैव तद्भक्ष्यैः कीटभक्षितैः ॥ २४ ॥ पाहीति शब्दं कुर्वद्भिस्त्रासितैश्च भयानकैः । वापीतुर्यप्रमाणं च नखादिकचतुष्टयम् ॥ २५ ॥ पापिभिः संयुतं शश्वन्मम दूतैश्च ताडितैः । प्रतप्तताम्रकुण्डं च ताम्रोपर्युल्मुकान्वितम् ॥ २६ ॥ ताम्राणां प्रतिमालक्षैः प्रतप्तैर्व्यापृतं सदा । प्रत्येकं प्रतिमाश्लिष्टैः रुदद्भिः पापिभिर्युतम् ॥ २७ ॥ गव्यूतिमानं विस्तीर्णं मम दूतैश्च ताडितैः । प्रतप्तलोहधारं च ज्ववलदङ्गारसंयुतम् ॥ २८ ॥ लोहानां प्रतिमाश्लिष्टैः रुदद्भिः पापिभिर्युतम् । प्रत्येकं प्रतिमाश्लिष्टैः शश्वत्प्रज्वलितैर्भिया ॥ २९ ॥ रक्ष रक्षेति शब्दं च कुर्वद्भिर्दूतताडितैः । महापातकिभिर्युक्तं द्विगव्यूतिप्रमाणकम् ॥ ३० ॥ भयानकं ध्वान्तयुक्तं लोहकुण्डं प्रकीर्तितम् । चर्मकुण्डं तप्तसुराकुण्डं वाप्यर्धमेव च ॥ ३१ ॥ तद्भोजिपापिभिर्व्याप्तं मम दूतैश्च ताडितैः । अतः शाल्मलिकुण्डं च वृक्षकण्टकशोभितम् ॥ ३२ ॥ लक्षपौरुषमानं च क्रोशमानं च दुःखदम् । धनुर्मानैः कण्टकैश्च सुतीक्ष्णैः परिवेष्टितम् ॥ ३३ ॥ प्रत्येकं विद्धगात्रैश्च महापातकिभिर्युतम् । वृक्षाग्रान्निपतद्भिश्च मम दूतैश्च पातितैः ॥ ३४ ॥ जलं देहीति शब्दं च कुर्वद्भिः शुष्कतालुकैः । महाभियातिव्यग्रैश्च दण्डैः सम्भग्नमस्तकैः ॥ ३५ ॥ प्रचलद्भिर्यथा तप्ततैलजीविभिरेव च । विषोदैस्तक्षकाणां च पूर्वं च क्रोशमानकम् ॥ ३६ ॥ तद्भक्षैः पापिभिर्युक्तं मम दूतैश्च ताडिते । प्रतप्ततैलपूर्णं च कीटादिपरिवर्जितम् ॥ ३७ ॥ महापातकिभिर्युक्तं दग्धाङ्गारैश्च वेष्टितम् । काकुशब्दं प्रकुर्वद्भिश्चलद्भिर्दूतपीडितैः ॥ ३८ ॥ ध्वान्तयुक्तं क्रोशमानं क्लेशदं च भयानकम् । शूलाकारैः सुतीक्ष्णाग्रैर्लोहशस्त्रैश्च वेष्टितम् ॥ ३९ ॥ शस्त्रतल्पस्वरूपञ्च कोशतुर्यप्रमाणकम् । वेष्टितं तत्पातकिभिः कुन्तविद्धैश्च वेष्टितैः ॥ ४० ॥ ताडितैर्मम दूतैश्च शुष्ककण्ठोष्ठतालुकैः । कीटैश्च शङ्कुप्रमितैः सर्पमानैर्भयङ्करैः ॥ ४१ ॥ तीक्ष्णदन्तैश्च विकृतैर्व्याप्तं ध्वान्तयुतं सति । महापातकिभिर्युक्तं मम दूतैश्च ताडिते ॥ ४२ ॥ द्विगव्यूतिप्रमाणं च पूयकुण्डं प्रचक्षते । तद्भक्ष्यैः प्राणिभिर्युक्तं मम दूतैश्च ताडितैः ॥ ४३ ॥ तालवृक्षप्रमाणैश्च सर्पकोटिभिरावृतम् । सर्पवेष्टितगात्रैश्च पापिभिः सर्पभक्षितैः ॥ ४४ ॥ सङ्कुलं शब्दकृद्भिश्च मम दूतैश्च ताडितैः । कुण्डत्रयं मशादीनां पूर्णं च मशकादिभिः ॥ ४५ ॥ सर्वं कोशार्धमानं च महापातकिभिर्युतम् । हस्तपादादिबद्धैश्च क्षतजौघेन लोहितैः ॥ ४६ ॥ हाहेति शब्दं कुर्वद्भिस्ताडितैर्मम पार्षदैः । वज्रवृश्चिकयोः कुण्डं ताभ्यां च परिपूरितम् ॥ ४७ ॥ वाप्यर्धं पापिभिर्युक्तं वज्रवृश्चिकदंशितैः । कुण्डत्रयं शरादीनां तैरेव परिपूरितम् ॥ ४८ ॥ तैर्विद्धैः पापिभिर्युक्तं वाप्यर्धं रक्तलोहितैः । तप्ततोयोदकैः पूर्णं सध्वान्तं गोलकुण्डकम् ॥ ४९ ॥ कीटैः शङ्कुसमानैश्च भक्षितैः पापिभिर्युतम् । वाप्यर्थमानं भीतैश्च पापिभिः कीटभक्षितैः ॥ ५० ॥ रुदद्भिः क्रोशमानैश्च मम दूतैश्च ताडितैः । अतिदुर्गन्धिसंयुक्तं दुःखदं पापिनां सदा ॥ ५१ ॥ दारुणैर्विकृताकारैर्भक्षितं पापिभिर्युतम् । वाप्यर्धं परिपूर्णं च जलस्थैर्नक्रकोटिभिः ॥ ५२ ॥ विण्मूत्रश्लेष्मभक्षैश्च संयुतं शतकोटिभिः । काकैश्च विकृताकारैर्भक्षितैः पापिभिर्युतम् ॥ ५३ ॥ मन्थानकुण्डं बीजकुण्डं ताभ्यां पूर्णं धनुःशतम् । भक्षितैः पापिभिर्युक्तं शब्दकृद्भिश्च सन्ततम् ॥ ५४ ॥ धनुःशतं जीवयुक्तं पापिभिः सङ्कुलं सदा । शब्दकृद्भिर्वज्रदंष्ट्रैः सान्द्रध्वान्तमयं परम् ॥ ५५ ॥ वापीद्विगुणमानं च तप्तप्रस्तरनिर्मितम् । ज्वलदङ्गारसदृशं चलद्भिः पापिभिर्युतम् ॥ ५६ ॥ क्षुरधारोपमैस्तीक्ष्णैः पाषाणैर्निर्मितं परम् । महापातकिभिर्युक्तं लालाकुण्डं च लोहितैः ॥ ५७ ॥ क्रोशमात्रं च गम्भीरं मम दूतैश्च ताडितैः । तप्ताञ्जनाचलाकारैः परिपूर्णं धनुःशतम् ॥ ५८ ॥ चलद्भिः पापिभिर्युक्तं मम दूतैश्च ताडितैः । पूर्णं चूर्णद्रवैः क्रोशमानं पापिभिरन्वितम् ॥ ५९ ॥ तद्भोजिभिः प्रदग्धैश्च मम दूतैश्च ताडितैः । कुण्डं कुलालचक्रं च घूर्णमानञ्च सन्ततम् ॥ ६० ॥ सुतीक्ष्णं षोडशारं च चूर्णितैः पापिभिर्युतम् । अतीव वक्रं निम्नं च द्विगव्यूतिप्रमाणकम् ॥ ६१ ॥ कन्दराकारनिर्माणं तप्तोदैश्च समन्वितम् । महापातकिभिर्युक्तं भक्षितैर्जलजन्तुभिः ॥ ६२ ॥ ज्वलद्भिः शब्दकृद्भिश्च ध्वान्तयुक्तं भयानकम् । कोटिभिर्विकृताकारैः कच्छपैश्च सुदारुणैः ॥ ६३ ॥ जलस्थैः संयुतं तैश्च भक्षितैः पापिभिर्युतम् । ज्वालाकलापैस्तेजोभिर्निर्मितैः क्रोशमानकम् ॥ ६४ ॥ शब्दकृद्भिः पातकिभिः संयुतं क्लेशदं सदा । क्रोशमानञ्च गम्भीरं तप्तभस्मभिरन्वितम् ॥ ६५ ॥ शश्वज्ज्वलद्भिः संयुक्तं पापिभिर्भस्मभक्षितैः । तप्तपाषाणलोहानां समूहैः परिपूरितैः ॥ ६६ ॥ पापिभिर्दग्धगात्रैश्च युक्तञ्च शुष्कतालुकैः । क्रोशमानं ध्वान्तयुक्तं गम्भीरमतिदारुणम् ॥ ६७ ॥ ताडितैश्च प्रदग्धैश्च दग्धकुण्डं प्रकीर्तितम् । अतीवोर्मियुतं तोयं प्रतप्तक्षारसंयुतम् ॥ ६८ ॥ नानाप्रकारैर्विरुतैर्जलजन्तुभिरन्वितम् । द्विगव्यूतिप्रमाणं च गम्भीरं ध्वान्तसंयुतम् ॥ ६९ ॥ तद्भक्ष्यैः पापिभिर्युक्तं दंशितैर्जलजन्तुभिः । ज्वलद्भिः शब्दकृद्भिश्च न पश्यद्भिः परस्परम् ॥ ७० ॥ प्रतप्तसूचीकुण्डञ्च कीर्तितं च भयानकम् । असीव धारापत्रस्याऽप्युच्चैस्तालतरोरधः ॥ ७१ ॥ क्रोशार्धमानं कुण्डं च पतत्पत्रसमन्वितम् । पापिनां रक्तपूर्णं च वृक्षाग्रात्पततां ध्रुवम् । ७२ परित्राहीति शब्दं च कुर्वतामसतामपि । गम्भीरं ध्वान्तयुक्तं च रक्तकीटसमन्वितम् ॥ ७३ ॥ तदसीपत्रकुण्डं च कीर्तितं च भयानकम् । धनुःशतप्रमाणं च क्षुरधारास्त्रसंयुतम् ॥ ७४ ॥ पापिनां रक्तपूर्णं च क्षुरधारं भयानकम् । सूचीमुखास्त्रसंयुक्तं पापिरक्तौघपूरतम् ॥ ७५ ॥ पञ्चाशद्धनुरायामं क्लेशदं सूचिकामुखम् । कस्यचिज्जन्तुभेदस्य गोकाख्यस्य मुखाकृति ॥ ७६ ॥ कूपरूपं गभीरं च धनुर्विंशत्प्रमाणकम् । महापातकिनां चैव महत्क्लेशप्रदं परम् ॥ ७७ ॥ तत्कीटभक्षितानां च नम्रास्यानां च सन्ततम् । कुण्डं नक्रमुखाकारं धनुःषोडशमानकम् ॥ ७८ ॥ गम्भीरं कूपरूपं च पापिनां सङ्कुलं सदा । धनुःशतप्रमाणं च कीर्तितं गजदंशनम् ॥ ७९ ॥ धनुस्त्रिंशत्प्रमाणं च कुण्डं च गोमुखाकृति । पापिनां क्लेशदं शश्वद् गोमुखं परिकीर्तितम् ॥ ८० ॥ कालचक्रेण संयुक्तं भ्रममाणं भयानकम् । कुम्भाकारं ध्वान्तयुक्तं द्विगव्यूतिप्रमाणकम् ॥ ८१ ॥ लक्षपौरुषमानं च गम्भीरं विस्मृतं सति । कुत्रचित्तप्ततैलं च ताम्रादिकुण्डमेव च ॥ ८२ ॥ पापिनां च प्रधानैश्च मूर्च्छितैः कृमिभिर्युतम् । परस्परं च नश्यद्भिः शब्दकृद्भिश्च सन्ततम् ॥ ८३ ॥ ताडितैर्यमदूतैश्च मुसलैर्मुद्गरैस्तथा । घूर्णमानैः पतद्भिश्च मूर्च्छितैश्च क्षणं क्षणम् ॥ ८४ ॥ पातितैर्यमदूतैश्च रुदन्त्यस्मात्क्षणं पुनः । यावन्तः पापिनः सन्ति सर्वकुण्डेषु सुन्दरि ॥ ८५ ॥ ततश्चतुर्गुणाः सन्ति कुम्भीपाके च दुःखदे । सुचिरं वध्यमानास्ते भोगदेहा न नश्वराः ॥ ८६ ॥ सर्वकुण्डप्रधानं च कुम्भीपाकं प्रकीर्तितम् । कालनिर्मितसूत्रेण निबद्धा यत्र पापिनः ॥ ८७ ॥ उत्थापिताश्च दूतैश्च क्षणमेव निमज्जिताः । निःश्वासबद्धाः सुचिरं तथा मोहं गताः पुनः ॥ ८८ ॥ अतीव क्लेशसंयुक्ता देहभोगेन सुन्दरि । प्रतप्ततोययुक्तं च कालसूत्रं प्रकीर्तितम् ॥ ८९ ॥ अवटः कूपभेदश्च मत्स्योदः स उदाहृतः । प्रतप्ततोयपूर्णं च चतुर्विंशत्प्रमाणकम् ॥ ९० ॥ व्याप्तं महापातकिभिर्व्यादग्धाङ्गैश्च सन्ततम् । मद्दूतैस्ताडितैः शश्वदवटोदं प्रकीर्तितम् ॥ ९१ ॥ यत्रोदस्पर्शमात्रेण सर्वव्याधिश्च पापिनाम् । भवेदकस्मात्पततां यस्मिन्कुण्डे धनुःशते ॥ ९२ ॥ अरुन्तुदैर्भक्षितैस्तु प्राणिभिर्यच्च सङ्कुलम् । हाहेति शब्दं कुर्वद्भिस्तदेवारुन्तुदं विदुः ॥ ९३ ॥ तप्तपांसुभिराकीर्णं ज्वलद्भिस्तुषदग्धकैः । तद्भक्षैः पापिभिर्युक्तं पांसुभोजैर्धनुःशतम् ॥ ९४ ॥ पातमात्रेण पापी च पाशेन वेष्टितो भवेत् । क्रोशमात्रेण कुण्डं च तत्पाशवेष्टनं विदुः ॥ ९५ ॥ पातमात्रेण पापी च शूलेन वेष्टितो भवेत् । धनुर्विंशत्प्रमाणं च शूलप्रोतं प्रकीर्तितम् ॥ ९६ ॥ पततां पापिनां यत्र भवेदेव प्रकम्पनम् । अतीव हिमतोयाक्तं क्रोशार्धं च प्रकम्पनम् ॥ ९७ ॥ ददत्येव हि मे दूता यत्रोल्काः पापिनां मुखे । धनुर्विंशत्प्रमाणं तदुल्काभिश्च सुसङ्कुलम् ॥ ९८ ॥ लक्षपौरुषमानं च गम्भीरं च धनुःशतम् । नानाप्रकारकृमिभिः संयुक्तं च भयानकम् ॥ ९९ ॥ अत्यन्धकारव्याप्तं च कूपाकारं च वर्तुलम् । तद्भक्ष्यैः पापिभिर्युक्तं प्रणश्यद्भिः परस्परम् ॥ १०० ॥ तप्ततोयप्रदग्धैश्च ज्वलद्भिः कीटभक्षितैः । ध्वान्तेन चक्षुषा चान्धैरन्धकूपः प्रकीर्तितः ॥ १०१ ॥ नानाप्रकारशस्त्रौघैर्यत्र विद्धाश्च पापिनः । धनुर्विंशत्प्रमाणं च वेधनं तत्प्रकीर्तितम् ॥ १०२ ॥ दण्डेन ताडिता यत्र मम दूतैश्च पापिनः । धनुःषोडशमानं च तत्कुण्डं दण्डताडनम् ॥ १०३ ॥ निरुद्धाश्च महाजालैर्यथा मीनाश्च पापिनः । धनुर्विंशत्प्रमाणं च जालरन्ध्रं प्रकीर्तितम् ॥ १०४ ॥ पततां पापिनां कुण्डे देहश्चूर्णो भवेदिह । लोहबन्दीनिबद्धानां कोटिपौरुषमानकम् ॥ १०५ ॥ गम्भीरं ध्वान्तसंयुक्तं धनुर्विंशत्प्रमाणकम् । मूर्च्छितानां जडानां च देहचूर्णं प्रकीर्तितम् ॥ १०६ ॥ दलिताः पापिनो यत्र मम दूतैश्च ताडिताः । धनुःषोडशमानं च तत्कुण्डं दलनं स्मृतम् ॥ १०७ ॥ पतनेनैव पापी च शुष्ककण्ठोष्ठतालुकः । बालुकासु च तप्तासु धनुस्त्रिंशत्प्रमाणकम् ॥ १०८ ॥ शतपौरुषमानं च गम्भीरं ध्वान्तसंयुतम् । शोषणं कुण्डमेतद्धि पापिनां परदुःखदम् ॥ १०९ ॥ नानाचर्मकषायोदपरिपूर्णं धनुःशतम् । दुर्गन्धियुक्ततद्भक्ष्यैः प्राणिभिः सङ्कुलं कषम् ॥ ११० ॥ शूर्पाकारमुखं कुण्डं धनुर्द्वादशमानकम् । तप्तलोहबालुकाभिः पूर्णं पातकिसंयुतम् ॥ १११ ॥ दुर्गन्धियुक्तं तद्भक्ष्यैः पापिभिः सङ्कुलं सति । शूर्पाकारमुखं कुण्डं धनुर्द्वादशमात्रकम् ॥ ११२ ॥ प्रतप्तबालुकापूर्णं महापातकिभिर्युतम् । अन्तरग्निशिखानां च ज्वालाव्याप्तमुखं सदा ॥ ११३ ॥ धनुर्विंशतिमात्रं च प्रमाणं यस्य सुन्दरि । ज्वालाभिर्दग्धगात्रैश्च पापिभिर्व्याप्तमेव च ॥ ११४ ॥ तन्महाक्लेशदं शश्वत्कुण्डं ज्वालामुखं स्मृतम् । पातमात्राद्यत्र पापी मूर्च्छितो वै नरो भवेत् ॥ ११५ ॥ तप्तेष्टकाभ्यन्तरितं वाप्यर्धं जिह्मकुण्डकम् । धूमान्धकारसंयुक्तं धूम्रान्धैः पापिभिर्युतम् ॥ ११६ ॥ धनुःशतं श्वासरन्ध्रैर्धूम्रान्धं परिकीर्तितम् । पातमात्राद्यत्र पापी नागैश्च वेष्टितो भवेत् ॥ ११७ ॥ धनुःशतं नागपूर्णं तन्नागैर्वेष्टितं भवेत् । षडशीति च कुण्डानि मयोक्तानि निशामय । लक्षणं चापि तेषां च किं भूयः श्रोतुमिच्छसि ॥ ११८ ॥
sāvitryuvāca dharmarāja uvāca pūrṇendumaṇḍalākāraṃ sarvaṃ kuṇḍaṃ ca vartulam | nimnaṃ pāṣāṇabhedaiśca pācitaṃ bahubhiḥ sati || 1 || na naśvaraṃ cāpralayaṃ nirmitaṃ ceśvarecchayā | kleśadaṃ pātakānāṃ ca nānārūpaṃ tadālayam || 2 || jvaladaṅgārarūpaṃ ca śatahastaśikhānvitam | paritaḥ krośamānaṃ ca vahnikuṇḍaṃ prakīrtitam || 3 || mahāśabdaṃ prakurvadbhiḥ pāpibhiḥ paripūritam | rakṣitaṃ mama dūtaiśca tāḍitaiścāpi santatam || 4 || prataptodakapūrṇaṃ ca hiṃsrajantusamanvitam | mahāghoraṃ kākuśabdaṃ prahāreṇa dṛḍhena ca || 5 || krośārdhamānaṃ taddūtaistāḍitairmama pārṣadaiḥ | taptakṣārodakaiḥ pūrṇaṃ punaḥ kākaiśca saṅkulam || 6 || saṅkulaṃ pāpibhiścaiva krośamānaṃ bhayānakam | trāhīti śabdaṃ kurvadbhirmama dūtaiśca tāḍitaiḥ || 7 || pracaladbhiranāhāraiḥ śuṣkakaṇṭhoṣṭhatālukaiḥ | viḍbhireva kṛtaṃ pūrṇaṃ krośamānaṃ ca kutsitam || 8 || atidurgandhisaṃsaktaṃ vyāptaṃ pāpibhiranvaham | tāḍitairmama dūtaiśca tadāhāraiḥ sudāruṇaiḥ || 9 || rakṣeti śabdaṃ kurvadbhistatkīṭaireva bhakṣitaiḥ | taptamūtradravaiḥ pūrṇaṃ mūtrakīṭaiśca saṅkulam || 10 || yuktaṃ mahāpātakibhistatkīṭairbhakṣitaiḥ sadā | gavyūtimānaṃ dhvāntāktaṃ śabdakṛdbhiśca santatam || 11 || maddūtaistāḍitairghoraiḥ śuṣkakaṇṭhoṣṭhatālukaiḥ | śleṣmapūrṇaṃ praśamitaṃ tatkīṭaiḥ pūritaṃ sadā || 12 || tadbhojibhiḥ pāpibhiśca veṣṭitaṃ veṣṭitaiḥ sadā | krośārdhaṃ garakuṇḍaṃ ca garabhojibhiranvitam || 13 || garakīṭairbhakṣitaiśca pāpibhiḥ pūrṇameva ca | tāḍitairmama dūtaiśca śabdakṛdbhiśca kampitaiḥ || 14 || sarpākārervajradaṃṣṭrai śuṣkakaṇṭhaiḥ sudāruṇaiḥ | netrayormalapūrṇaṃ ca krośārdhaṃ kīṭasaṃyutam || 15 || pāpibhiḥ saṅkulaṃ śaśvadbhramadbhiḥ kīṭabhakṣitaiḥ | vasārasena sampūrṇaṃ krośaturyaṃ suduḥsaham || 16 || tadbhojibhiḥ pātakibhirmama dūtaiśca tāḍitaiḥ | śukrakuṇḍaṃ krośamitaṃ śukrakīṭaiśca saṃyutam || 17 || pāpibhiḥ saṅkulaṃ śaśvad dravadbhiḥ kīṭabhakṣitaiḥ | durgandhiraktapūrṇaṃ ca vāpīmānaṃ gabhīrakam || 18 || tadbhojibhiḥ pāpibhiśca saṅkulaṃ kīṭabhakṣitam | pūrṇaṃ netrāśrubhistaptaṃ bahupāpibhiranvitam || 19 || vāpīturyapramāṇaṃ ca rudadbhiḥ kīṭabhakṣitaiḥ | nṛṇāṃ gātramalairyuktaṃ tadbhakṣaiḥ pāpibhiryutam || 20 || tāḍitairmama dūtaiśca vyagraiśca kīṭabhakṣitaiḥ | karṇaviṭparipūrṇaṃ ca tadbhakṣaiḥ pāpibhirvṛtam || 21 || vāpīturyapramāṇaṃ ca bruvadbhiḥ kīṭabhakṣitaiḥ | majjāpūrṇaṃ narāṇāṃ ca mahādurgandhisaṃyutam || 22 || mahāpātakibhiryuktaṃ vāpīturyapramāṇakam | paripūrṇaṃ sigdhamāṃsairmama dūtaiśca tāḍitaiḥ || 23 || pāpibhiḥ saṅkulaṃ caiva vāpīmānaṃ bhayānakam | kanyāvikrayibhiścaiva tadbhakṣyaiḥ kīṭabhakṣitaiḥ || 24 || pāhīti śabdaṃ kurvadbhistrāsitaiśca bhayānakaiḥ | vāpīturyapramāṇaṃ ca nakhādikacatuṣṭayam || 25 || pāpibhiḥ saṃyutaṃ śaśvanmama dūtaiśca tāḍitaiḥ | prataptatāmrakuṇḍaṃ ca tāmroparyulmukānvitam || 26 || tāmrāṇāṃ pratimālakṣaiḥ prataptairvyāpṛtaṃ sadā | pratyekaṃ pratimāśliṣṭaiḥ rudadbhiḥ pāpibhiryutam || 27 || gavyūtimānaṃ vistīrṇaṃ mama dūtaiśca tāḍitaiḥ | prataptalohadhāraṃ ca jvavaladaṅgārasaṃyutam || 28 || lohānāṃ pratimāśliṣṭaiḥ rudadbhiḥ pāpibhiryutam | pratyekaṃ pratimāśliṣṭaiḥ śaśvatprajvalitairbhiyā || 29 || rakṣa rakṣeti śabdaṃ ca kurvadbhirdūtatāḍitaiḥ | mahāpātakibhiryuktaṃ dvigavyūtipramāṇakam || 30 || bhayānakaṃ dhvāntayuktaṃ lohakuṇḍaṃ prakīrtitam | carmakuṇḍaṃ taptasurākuṇḍaṃ vāpyardhameva ca || 31 || tadbhojipāpibhirvyāptaṃ mama dūtaiśca tāḍitaiḥ | ataḥ śālmalikuṇḍaṃ ca vṛkṣakaṇṭakaśobhitam || 32 || lakṣapauruṣamānaṃ ca krośamānaṃ ca duḥkhadam | dhanurmānaiḥ kaṇṭakaiśca sutīkṣṇaiḥ pariveṣṭitam || 33 || pratyekaṃ viddhagātraiśca mahāpātakibhiryutam | vṛkṣāgrānnipatadbhiśca mama dūtaiśca pātitaiḥ || 34 || jalaṃ dehīti śabdaṃ ca kurvadbhiḥ śuṣkatālukaiḥ | mahābhiyātivyagraiśca daṇḍaiḥ sambhagnamastakaiḥ || 35 || pracaladbhiryathā taptatailajīvibhireva ca | viṣodaistakṣakāṇāṃ ca pūrvaṃ ca krośamānakam || 36 || tadbhakṣaiḥ pāpibhiryuktaṃ mama dūtaiśca tāḍite | prataptatailapūrṇaṃ ca kīṭādiparivarjitam || 37 || mahāpātakibhiryuktaṃ dagdhāṅgāraiśca veṣṭitam | kākuśabdaṃ prakurvadbhiścaladbhirdūtapīḍitaiḥ || 38 || dhvāntayuktaṃ krośamānaṃ kleśadaṃ ca bhayānakam | śūlākāraiḥ sutīkṣṇāgrairlohaśastraiśca veṣṭitam || 39 || śastratalpasvarūpañca kośaturyapramāṇakam | veṣṭitaṃ tatpātakibhiḥ kuntaviddhaiśca veṣṭitaiḥ || 40 || tāḍitairmama dūtaiśca śuṣkakaṇṭhoṣṭhatālukaiḥ | kīṭaiśca śaṅkupramitaiḥ sarpamānairbhayaṅkaraiḥ || 41 || tīkṣṇadantaiśca vikṛtairvyāptaṃ dhvāntayutaṃ sati | mahāpātakibhiryuktaṃ mama dūtaiśca tāḍite || 42 || dvigavyūtipramāṇaṃ ca pūyakuṇḍaṃ pracakṣate | tadbhakṣyaiḥ prāṇibhiryuktaṃ mama dūtaiśca tāḍitaiḥ || 43 || tālavṛkṣapramāṇaiśca sarpakoṭibhirāvṛtam | sarpaveṣṭitagātraiśca pāpibhiḥ sarpabhakṣitaiḥ || 44 || saṅkulaṃ śabdakṛdbhiśca mama dūtaiśca tāḍitaiḥ | kuṇḍatrayaṃ maśādīnāṃ pūrṇaṃ ca maśakādibhiḥ || 45 || sarvaṃ kośārdhamānaṃ ca mahāpātakibhiryutam | hastapādādibaddhaiśca kṣatajaughena lohitaiḥ || 46 || hāheti śabdaṃ kurvadbhistāḍitairmama pārṣadaiḥ | vajravṛścikayoḥ kuṇḍaṃ tābhyāṃ ca paripūritam || 47 || vāpyardhaṃ pāpibhiryuktaṃ vajravṛścikadaṃśitaiḥ | kuṇḍatrayaṃ śarādīnāṃ taireva paripūritam || 48 || tairviddhaiḥ pāpibhiryuktaṃ vāpyardhaṃ raktalohitaiḥ | taptatoyodakaiḥ pūrṇaṃ sadhvāntaṃ golakuṇḍakam || 49 || kīṭaiḥ śaṅkusamānaiśca bhakṣitaiḥ pāpibhiryutam | vāpyarthamānaṃ bhītaiśca pāpibhiḥ kīṭabhakṣitaiḥ || 50 || rudadbhiḥ krośamānaiśca mama dūtaiśca tāḍitaiḥ | atidurgandhisaṃyuktaṃ duḥkhadaṃ pāpināṃ sadā || 51 || dāruṇairvikṛtākārairbhakṣitaṃ pāpibhiryutam | vāpyardhaṃ paripūrṇaṃ ca jalasthairnakrakoṭibhiḥ || 52 || viṇmūtraśleṣmabhakṣaiśca saṃyutaṃ śatakoṭibhiḥ | kākaiśca vikṛtākārairbhakṣitaiḥ pāpibhiryutam || 53 || manthānakuṇḍaṃ bījakuṇḍaṃ tābhyāṃ pūrṇaṃ dhanuḥśatam | bhakṣitaiḥ pāpibhiryuktaṃ śabdakṛdbhiśca santatam || 54 || dhanuḥśataṃ jīvayuktaṃ pāpibhiḥ saṅkulaṃ sadā | śabdakṛdbhirvajradaṃṣṭraiḥ sāndradhvāntamayaṃ param || 55 || vāpīdviguṇamānaṃ ca taptaprastaranirmitam | jvaladaṅgārasadṛśaṃ caladbhiḥ pāpibhiryutam || 56 || kṣuradhāropamaistīkṣṇaiḥ pāṣāṇairnirmitaṃ param | mahāpātakibhiryuktaṃ lālākuṇḍaṃ ca lohitaiḥ || 57 || krośamātraṃ ca gambhīraṃ mama dūtaiśca tāḍitaiḥ | taptāñjanācalākāraiḥ paripūrṇaṃ dhanuḥśatam || 58 || caladbhiḥ pāpibhiryuktaṃ mama dūtaiśca tāḍitaiḥ | pūrṇaṃ cūrṇadravaiḥ krośamānaṃ pāpibhiranvitam || 59 || tadbhojibhiḥ pradagdhaiśca mama dūtaiśca tāḍitaiḥ | kuṇḍaṃ kulālacakraṃ ca ghūrṇamānañca santatam || 60 || sutīkṣṇaṃ ṣoḍaśāraṃ ca cūrṇitaiḥ pāpibhiryutam | atīva vakraṃ nimnaṃ ca dvigavyūtipramāṇakam || 61 || kandarākāranirmāṇaṃ taptodaiśca samanvitam | mahāpātakibhiryuktaṃ bhakṣitairjalajantubhiḥ || 62 || jvaladbhiḥ śabdakṛdbhiśca dhvāntayuktaṃ bhayānakam | koṭibhirvikṛtākāraiḥ kacchapaiśca sudāruṇaiḥ || 63 || jalasthaiḥ saṃyutaṃ taiśca bhakṣitaiḥ pāpibhiryutam | jvālākalāpaistejobhirnirmitaiḥ krośamānakam || 64 || śabdakṛdbhiḥ pātakibhiḥ saṃyutaṃ kleśadaṃ sadā | krośamānañca gambhīraṃ taptabhasmabhiranvitam || 65 || śaśvajjvaladbhiḥ saṃyuktaṃ pāpibhirbhasmabhakṣitaiḥ | taptapāṣāṇalohānāṃ samūhaiḥ paripūritaiḥ || 66 || pāpibhirdagdhagātraiśca yuktañca śuṣkatālukaiḥ | krośamānaṃ dhvāntayuktaṃ gambhīramatidāruṇam || 67 || tāḍitaiśca pradagdhaiśca dagdhakuṇḍaṃ prakīrtitam | atīvormiyutaṃ toyaṃ prataptakṣārasaṃyutam || 68 || nānāprakārairvirutairjalajantubhiranvitam | dvigavyūtipramāṇaṃ ca gambhīraṃ dhvāntasaṃyutam || 69 || tadbhakṣyaiḥ pāpibhiryuktaṃ daṃśitairjalajantubhiḥ | jvaladbhiḥ śabdakṛdbhiśca na paśyadbhiḥ parasparam || 70 || prataptasūcīkuṇḍañca kīrtitaṃ ca bhayānakam | asīva dhārāpatrasyā'pyuccaistālataroradhaḥ || 71 || krośārdhamānaṃ kuṇḍaṃ ca patatpatrasamanvitam | pāpināṃ raktapūrṇaṃ ca vṛkṣāgrātpatatāṃ dhruvam | 72 paritrāhīti śabdaṃ ca kurvatāmasatāmapi | gambhīraṃ dhvāntayuktaṃ ca raktakīṭasamanvitam || 73 || tadasīpatrakuṇḍaṃ ca kīrtitaṃ ca bhayānakam | dhanuḥśatapramāṇaṃ ca kṣuradhārāstrasaṃyutam || 74 || pāpināṃ raktapūrṇaṃ ca kṣuradhāraṃ bhayānakam | sūcīmukhāstrasaṃyuktaṃ pāpiraktaughapūratam || 75 || pañcāśaddhanurāyāmaṃ kleśadaṃ sūcikāmukham | kasyacijjantubhedasya gokākhyasya mukhākṛti || 76 || kūparūpaṃ gabhīraṃ ca dhanurviṃśatpramāṇakam | mahāpātakināṃ caiva mahatkleśapradaṃ param || 77 || tatkīṭabhakṣitānāṃ ca namrāsyānāṃ ca santatam | kuṇḍaṃ nakramukhākāraṃ dhanuḥṣoḍaśamānakam || 78 || gambhīraṃ kūparūpaṃ ca pāpināṃ saṅkulaṃ sadā | dhanuḥśatapramāṇaṃ ca kīrtitaṃ gajadaṃśanam || 79 || dhanustriṃśatpramāṇaṃ ca kuṇḍaṃ ca gomukhākṛti | pāpināṃ kleśadaṃ śaśvad gomukhaṃ parikīrtitam || 80 || kālacakreṇa saṃyuktaṃ bhramamāṇaṃ bhayānakam | kumbhākāraṃ dhvāntayuktaṃ dvigavyūtipramāṇakam || 81 || lakṣapauruṣamānaṃ ca gambhīraṃ vismṛtaṃ sati | kutracittaptatailaṃ ca tāmrādikuṇḍameva ca || 82 || pāpināṃ ca pradhānaiśca mūrcchitaiḥ kṛmibhiryutam | parasparaṃ ca naśyadbhiḥ śabdakṛdbhiśca santatam || 83 || tāḍitairyamadūtaiśca musalairmudgaraistathā | ghūrṇamānaiḥ patadbhiśca mūrcchitaiśca kṣaṇaṃ kṣaṇam || 84 || pātitairyamadūtaiśca rudantyasmātkṣaṇaṃ punaḥ | yāvantaḥ pāpinaḥ santi sarvakuṇḍeṣu sundari || 85 || tataścaturguṇāḥ santi kumbhīpāke ca duḥkhade | suciraṃ vadhyamānāste bhogadehā na naśvarāḥ || 86 || sarvakuṇḍapradhānaṃ ca kumbhīpākaṃ prakīrtitam | kālanirmitasūtreṇa nibaddhā yatra pāpinaḥ || 87 || utthāpitāśca dūtaiśca kṣaṇameva nimajjitāḥ | niḥśvāsabaddhāḥ suciraṃ tathā mohaṃ gatāḥ punaḥ || 88 || atīva kleśasaṃyuktā dehabhogena sundari | prataptatoyayuktaṃ ca kālasūtraṃ prakīrtitam || 89 || avaṭaḥ kūpabhedaśca matsyodaḥ sa udāhṛtaḥ | prataptatoyapūrṇaṃ ca caturviṃśatpramāṇakam || 90 || vyāptaṃ mahāpātakibhirvyādagdhāṅgaiśca santatam | maddūtaistāḍitaiḥ śaśvadavaṭodaṃ prakīrtitam || 91 || yatrodasparśamātreṇa sarvavyādhiśca pāpinām | bhavedakasmātpatatāṃ yasminkuṇḍe dhanuḥśate || 92 || aruntudairbhakṣitaistu prāṇibhiryacca saṅkulam | hāheti śabdaṃ kurvadbhistadevāruntudaṃ viduḥ || 93 || taptapāṃsubhirākīrṇaṃ jvaladbhistuṣadagdhakaiḥ | tadbhakṣaiḥ pāpibhiryuktaṃ pāṃsubhojairdhanuḥśatam || 94 || pātamātreṇa pāpī ca pāśena veṣṭito bhavet | krośamātreṇa kuṇḍaṃ ca tatpāśaveṣṭanaṃ viduḥ || 95 || pātamātreṇa pāpī ca śūlena veṣṭito bhavet | dhanurviṃśatpramāṇaṃ ca śūlaprotaṃ prakīrtitam || 96 || patatāṃ pāpināṃ yatra bhavedeva prakampanam | atīva himatoyāktaṃ krośārdhaṃ ca prakampanam || 97 || dadatyeva hi me dūtā yatrolkāḥ pāpināṃ mukhe | dhanurviṃśatpramāṇaṃ tadulkābhiśca susaṅkulam || 98 || lakṣapauruṣamānaṃ ca gambhīraṃ ca dhanuḥśatam | nānāprakārakṛmibhiḥ saṃyuktaṃ ca bhayānakam || 99 || atyandhakāravyāptaṃ ca kūpākāraṃ ca vartulam | tadbhakṣyaiḥ pāpibhiryuktaṃ praṇaśyadbhiḥ parasparam || 100 || taptatoyapradagdhaiśca jvaladbhiḥ kīṭabhakṣitaiḥ | dhvāntena cakṣuṣā cāndhairandhakūpaḥ prakīrtitaḥ || 101 || nānāprakāraśastraughairyatra viddhāśca pāpinaḥ | dhanurviṃśatpramāṇaṃ ca vedhanaṃ tatprakīrtitam || 102 || daṇḍena tāḍitā yatra mama dūtaiśca pāpinaḥ | dhanuḥṣoḍaśamānaṃ ca tatkuṇḍaṃ daṇḍatāḍanam || 103 || niruddhāśca mahājālairyathā mīnāśca pāpinaḥ | dhanurviṃśatpramāṇaṃ ca jālarandhraṃ prakīrtitam || 104 || patatāṃ pāpināṃ kuṇḍe dehaścūrṇo bhavediha | lohabandīnibaddhānāṃ koṭipauruṣamānakam || 105 || gambhīraṃ dhvāntasaṃyuktaṃ dhanurviṃśatpramāṇakam | mūrcchitānāṃ jaḍānāṃ ca dehacūrṇaṃ prakīrtitam || 106 || dalitāḥ pāpino yatra mama dūtaiśca tāḍitāḥ | dhanuḥṣoḍaśamānaṃ ca tatkuṇḍaṃ dalanaṃ smṛtam || 107 || patanenaiva pāpī ca śuṣkakaṇṭhoṣṭhatālukaḥ | bālukāsu ca taptāsu dhanustriṃśatpramāṇakam || 108 || śatapauruṣamānaṃ ca gambhīraṃ dhvāntasaṃyutam | śoṣaṇaṃ kuṇḍametaddhi pāpināṃ paraduḥkhadam || 109 || nānācarmakaṣāyodaparipūrṇaṃ dhanuḥśatam | durgandhiyuktatadbhakṣyaiḥ prāṇibhiḥ saṅkulaṃ kaṣam || 110 || śūrpākāramukhaṃ kuṇḍaṃ dhanurdvādaśamānakam | taptalohabālukābhiḥ pūrṇaṃ pātakisaṃyutam || 111 || durgandhiyuktaṃ tadbhakṣyaiḥ pāpibhiḥ saṅkulaṃ sati | śūrpākāramukhaṃ kuṇḍaṃ dhanurdvādaśamātrakam || 112 || prataptabālukāpūrṇaṃ mahāpātakibhiryutam | antaragniśikhānāṃ ca jvālāvyāptamukhaṃ sadā || 113 || dhanurviṃśatimātraṃ ca pramāṇaṃ yasya sundari | jvālābhirdagdhagātraiśca pāpibhirvyāptameva ca || 114 || tanmahākleśadaṃ śaśvatkuṇḍaṃ jvālāmukhaṃ smṛtam | pātamātrādyatra pāpī mūrcchito vai naro bhavet || 115 || tapteṣṭakābhyantaritaṃ vāpyardhaṃ jihmakuṇḍakam | dhūmāndhakārasaṃyuktaṃ dhūmrāndhaiḥ pāpibhiryutam || 116 || dhanuḥśataṃ śvāsarandhrairdhūmrāndhaṃ parikīrtitam | pātamātrādyatra pāpī nāgaiśca veṣṭito bhavet || 117 || dhanuḥśataṃ nāgapūrṇaṃ tannāgairveṣṭitaṃ bhavet | ṣaḍaśīti ca kuṇḍāni mayoktāni niśāmaya | lakṣaṇaṃ cāpi teṣāṃ ca kiṃ bhūyaḥ śrotumicchasi || 118 ||
English translation
1-60. Dharmaraja said All the Kundas (hells) are circular in form like the Full Moon. Of these, the Vahnikunda has the fire lit at its bottom, by the help of various kinds of stones. This Kunda will not be destroyed till Mahapralaya comes. Here the sinners are tormented severely. It looks like a blazing coke. The flames are rising from it one hundred hands high. In circumference those flames are two miles. This is named Vahnikunda. It is full of sinners crying loudly. It is constantly watched by My messengers who are chastising and punishing the sinners. Next comes the Tapta Kunda. It is filled with hot water and full of rapacious animals. The sinners there are severely beaten by My messengers and they are always crying out very loudly, which is being echoed and re-echoed all around terribly.
It extends for one mile. This Kunda is filled with hot salt water and the abode of many crows. Then there is the Bhayanaka Kunda. It extends for two miles and it is filled with sinners. They are being punished by My messengers and they are incessantly crying, “Save us, save us.”
Next comes the Vistha Kunda. It is filled with faeces and excrements where the sinners are moving without any food and with their palate and throats dry. Its size is two miles and it is very bad and ugly with foetid and nasty smell. It is always filled with sinners, who are being chastised by My Dutas (messengers) and eat those faeces and excrements. The worms therein are constantly biting and stinging them and they are crying, “deliver us, deliver us.” Then comes the hot Muttra Kunda. It is filled with the hot urine and the worms thereof. The great sinners always dwell here. It measures four miles; and it is quite dark. My Dutas always beat them and their throats, lips, palates are all dry. Then comes the S’lesma Kunda. It is filled with phlegm and the insects thereof. The sinners dwell in phlegm and eat
that phlegm. Then comes the Gara Kunda. It is filled with (factitious) poison. It measures one mile. The sinners eat this poison and dwell here. The worms thereof bite them. They tremble at the chastisement of My Dutas and cry aloud. My messengers look like serpents, with teeth like thunderbolt and they are very furious and fierce, with their throats dry and their words very harsh. Then comes Dusika Kunda. It is filled with the rheum and dirt of the eyes and it measures one mile. Innumerable worms are born therein. Numberless sinners live there, and as they move, the insects immediately bite and sting them. Next comes the Vasa Kunda. It is filled with the serum or marrow of the flesh and it measures one-half mile. The sinners dwell there, chastised and punished by My messengers. Then comes the S’ukra Kunda. It measures two miles in diameter. The insects, born in the semen, bite the sinners, and they move on and on. Then comes the Rakta Kunda, with very offensive, foetid smell. It is deep like a well and filled with blood. The sinners dwell here, drinking blood. The insects therein are always biting them. Then follows the As’ru Kunda. It measures in size one fourth the measure of the well (above-mentioned). It is always filled with hot tears of the eyes; and many sinners are seen there living weeping and crying and being bitten by the snakes. Then there is the Gatra Mala Kunda. The sinners are chastised and punished there by My messengers and being bitten by the insects thereof, they eat the dirts of the body and dwell there. Then comes the Kama Mala Kunda. The sinners eat the wax of the ear and fill the place. The insects always bite them and they are crying aloud. It measures one fourth the measure of a Vapi. Then comes the Majja Kunda. It is filled with fat and marrow, emitting foetid offensive odour. It measures one fourth the measure of a Vapi. The great sinners always dwell there. Then comes the Mamsa Kunda. This is filled with the greasy flesh. It measures (one-fourth) that of a Vapi. Those who sell their daughters dwell here. My messengers always chastise and punish them and horrible insects bite and sting them and they cry, out of fear and agony, “Save us, save us,” and eat at times that flesh. Then come in succession the four Kundas Nakha, Loma and others. They also measure each one-fourth that of a Vapi. The sinners dwell
there, always chastised by My messengers. Next comes the very hot Tamra Kunda. Burning cokes exist on the top of very hot coppers. There are lakhs and lakhs of very hot copper figures in that Kunda. The sinners, being compelled by My messengers, are made to embrace each of these hot copper figures and they cry loudly and live there. It measures four miles. Then come the burning Angara Kunda and the hot Lauha Dhara Kunda. Here the sinners are made to embrace the hot iron figures and, feeling themselves burnt, cry out of fear and agony. Whenever My messengers punish them, they immediately cry out, “Save us, save us.” It measures eight miles; and it is pitch dark and very awful. This is named the hot Lauha Kunda. Then come the Charma Kunda and Sura Kunda. The sinners, beaten by My men, eat the skin and drink the hot urine and dwell there. Then comes the S’almalT Kunda; it is overspread with thorns and thorny trees, causing intense pain. It measures two miles. Millions and millions of great sinners are made by My men to fall from the tops of those trees down below where their bodies get pierced by very sharp thorns, six feet long; and thus they dwell there, beaten by My men. Out of thirst, their palates get dried up; and they cry out repeatedly, “Water, water.” Out of fear, they get very anxious and then their heads get broken by the clubs brought down on them by My men. So they move there like the beings burnt in very hot oil. Then comes the Visoda Kunda. It measures two miles in diameter and is filled with the poison of the serpent called Taksakas. My men punish the sinners and they drink the poison thereof and dwell there. Then comes the hot Taila Kunda. There are no insects here. Only the great sinners dwell. All around burning coals are flaring and when My men beat the sinners, they run hither and thither. It is filled with horrible intense darkness and it is exceedingly painful. It looks dreadful and measures two miles. Then comes the Kunta Kunda. Sharp pointed iron weapons like tridents are placed in order all round. The sinners, pierced by those weapons, are seen encircling the Kunda. It measures one-half mile. Beaten by My men, their throats and lips get dried up. Then comes the Krimi Kunda. It is filled with terrible worms and insects, snake-like with sharp teeth, of the size of a S’anku (a Sal tree) deformed and hideous looking; and it is
filled with pitch darkness, terrible to look at. Beaten by My men, the great sinners dwell there. Then comes the Puya Kunda. It measures eight miles in diameter (or in circumference?). The sinners dwell and eat the pus thereof and, are beaten by My men. Then comes the Sarpa Kunda. Millions and millions of snakes of the length of a Tal tree are existing there. These serpents encircle the sinners and as they bite them. My men also beat them at the same time. So there arises a general hue and cry, “Save us, save us; we are done for.” Then come in order the Dams’a Kunda, Mas’aka Kunda, and the Garala Kunda. These are filled with gad-flies, mosquitoes, and poison respectively. Each of them measures one mile. The sinners’ hands and feet are tied up. So when the gad-flies and mosquitoes fiercely sting them, and My men violently beat them simultaneously, they raise a loud uproar and are made to move on, in their tied states by My persons. Their bodies get thoroughly reddened and covered with blood by the stinging of the flies, etc. Then come the Vajra Kunda and the Vris’chika Kunda filled respectively with Vajra insects and the scorpions. Each of them measures one-half that of the Vapi. The sinners that dwell there, are incessantly bitten by insects (Vajras and scorpions). Then come in order the S’ara Kunda, S’ula Kunda, and the Khadga Kundas. They are filled respectively with arrows, spikes, and scimitars. Each of them measures one half that of the Vapi. The sinners are pierced by arrows, etc., and become covered over with blood and dwell there. Then comes the Gola Kunda. It is filled with boiling hot water and it is pitch dark. The sinners live there, bitten by the insects. This Kunda measures half that of the Vapi. The insects bite them and My men beat them so their fear knows no bounds; everyone of them is weeping and crying loudly. This Kunda is filled with hideously offensive smells. So the pains of the sinners are infinite. The Nakra Kunda comes next. It measures half the Vapi, is filled with millions and millions of crocodiles living in water. The horrible looking deformed sinners live there. The Kaka Kunda then follows. The sinners here are being bitten by hundreds of deformed crows eating faeces, urines and phlegm. Then come the Manthana Kunda and Vija Kunda. These are filled respectively with insects called Manthana and Vija. Each of
them measures one hundred Dhanus (one Dhanu - four hastas). Those insects are stinging the sinners and they cry out very loudly. Then follows the Vajra Kunda. It measures one hundred Dhanus. Many insects with their teeth as hard as thunderbolt live there and bite the sinners who cry out loudly. It is pitch dark. Then comes the hot Pasana Kunda. It measures twice that of the VapT. It is so built of hot stones as it resembles a burning mass of coal. The sinners become restless with the heat and turn round and round in the middle. Then comes the Pasana Kunda and the Lala Kunda. The Pasana Kunda is made up of the sharp pointed stones, having sharp edges. Innumerable sinners dwell there. Many red beings live in the Lala Kunda. Then comes the Mapi Kunda. Its size is one hundred Dhanus and its depth is two miles. It is made up of hot stones, each measuring the Anjana mountain. The sinners, beaten and driven by My persons, move on and on in the middle. Then comes the Churna Kunda. It measures two miles (in circumference) and is filled with (seven) churnas (powders). The sinners, driven and beaten by My men, go on, restless hither and thither and eat the powders and get themselves burnt. Then comes the Chakra Kunda. Here a potter’s wheel with sixteen sharp-edged spokes is constantly whirling round and round; the sinners are being crushed by this wheel.
61-80. Then comes the Vakra Kunda. Its depth is eight miles. It is fashioned very much curved; and with and sharp slope it has gone down. It is built on the plan of a mountain cave, filled with hot water and it is enveloped with deep dense darkness. The aquatic animals there are biting the sinners, who got very much restless and are crying out very loudly. Then comes the Kurma Kunda. Here millions and millions of tortoises in the water awfully distorted, are biting the sinners. Then comes the Jvala Kunda. It is built of fierce fiery flames. It measures two miles in circumference. The sinners here are always in great difficulty, with intense pain and crying out loudly. Next follows the Bhasma Kunda. It measures two miles. The sinners get themselves well burnt in hot ashes and live there, eating the ashes.
It is filled with hot stones and hot irons. The sinners here are always being burnt in hot irons and hot stones and their throats and palates are being parched up. Then comes the Dagdha Kunda. It is deep and horrible. It measures two miles in circumference. My messengers threaten always the sinners there. Then comes the Suchi Kunda. It is filled with salt water. Waves are always rising there. It is filled with various aquatic animals making all sorts of noises. It measures eight miles in circumference and it is deep and dark. The sinners here cannot see each other and are bitten by the animals. Pained very much, they cry out loudly. Then comes the Asipattra Kunda. On the top surface of the Kunda there is a very big Tal tree very high. The edges of the leaves of this tree are sharp like the edge of a sword. One mile below this Tal tree is situated the Kunda. The sharp-edged Tal leaves, then, fall on the bodies of the sinners from the height of a mile and they get cut and wounded; blood comes out of them and the sinners, in great pain, cry out “save, save.” It is very deep, very dark and filled with Rakta Kita a kind of blood like insects. This is the horrible Asipatra Kunda. Next comes the Ksura Dhara Kunda, measuring one hundred Dhanus (one Dhanu - four hastas). It is filled with keen-edged weapons, as sharp as nice razors. The blood of the sinners is flowing here profusely. Then comes the Suchi Mukha Kunda, filled with sharp weapons of the form of long needles. It measures fifty Dhanus. The sinners get pierced by them end are constantly emitting blood. Their intense pain knows no bounds. Then comes the Gokamukha Kunda; inhabited by a sort of insect, called Goka. They look like mouths; hence they are named Gokamukha. It is deep like a well and it measures twenty Dhanus. The great sinners suffer an intense amount of pain there. They have got to keep their mouths always downwards as the Goka insects always bite and sting them. Then comes the Nakra Kunda. It resembles like the mouth of a crocodile and measures sixteen Dhanus. It is deep like a well and numbers of sinners dwell there. Then comes the Gaja Dams’a Kunda. It measures one hundred Dhanus. Next comes the Gomukha Kunda. It measures thirty Dhanus and resembles the mouth of a cow. It gives incessant pains and troubles to the sinners.
81-101. Then comes the Kumbhipaka Kunda. It is like a wheel resembling that of this Kalachakra, very horrible; and it is rotating incessantly. It looks like a water-jar, measuring eight miles, and it is quite dark. Its depth is one lakh Purusas of the height of 100,000 persons. There are many other Kundas, Tapta Taila Kunda and Tapta Taila Tamra Kunda, etc., within it. This Kunda is filled with almost unconscious great sinners and insects. They beat each other and cry out loudly. My messengers also threaten them with clubs and Musalas. So at times they fall dizzy-headed, at times they get unconscious, and sometimes they get up and cry. O Fair One! The numbers of sinners here equal to four times that of all the other sinners in all the other Kundas. They know no death, however much you beat them. Their lives persist. For the body is built up for sufferance, it is indestructible. This Kumbhipaka Kunda is the chief of all the Kundas. This Kunda where the sinners are tied to a thread built by Kala, where My men lift the sinners on high at one time, and sink them down below at another time, where the sinners becoming suffocated for a long time, get unconscious, where their sufferings know no bounds, where it is filled with boiling oil, is named the Kalasutra Kunda. Then comes the Matsyoda Kunda, hollow like a well. It is filled with boiling water and it measures twenty-four Dhanus. Next comes the Abatoda Kunda. It measures one hundred Dhanus. The sinners get their bodies burned and chastised by My persons, live there. No sooner they drop into the water of this Kunda, then they are attacked with all sorts of diseases. Then comes the Krimikantuka Kunda. The sinners are bitten by the Krimi Kantuka insects and cry out loudly, creating a general consternation and live there. Its another name is Aruntuda Kunda. Next comes the Pams’u Kunda. It measures one hundred Dhanus. It is overspread with burning rice husks. The sinners eat those hot husks and live there. Then comes the Pas’avestana Kunda. It measures two miles. No sooner the sinners fall in this Kunda than they are twined round by this rope or Pas’a. Hence its name. Then comes the Sulaprota Kunda. It measures twenty Dhanus. No sooner the sinners fall here
than they are encircled with the Sulastra (darts). Then comes the Prakampana Kunda. It measures one mile. It is filled with ice-cold water. The sinners, going there, shiver at once. Next follows the Ulka Kunda. It measures twenty Dhanus. It is filled with burning to ashes and meteors. My messengers thrust the torches and meteors into the mouths of the sinners living there. Next comes the Andha-Kupa Kunda. It is pitch-dark, shaped like a well, circular and very horrible. The sinners beat each other and eat the insects thereof. Their bodies are burnt with hot water; they cannot see anything on account of dire darkness.
102-118. The Kunda where the sinners are pierced by various weapons is known as the Vedhana Kunda. It measures twenty Dhanus. Then comes the Dandatadana Kunda. It measures sixteen Dhanus. The sinners dwell here, threatened by My messengers. Then comes the Jalarandhra Kunda. Here the sinners live encompassed by a great net as fishes, etc., are tied in a net. Next comes the Dehachurna Kunda. It is quite dark and its depth is that of the height of one koti persons; its circumference is twenty Dhanus. The sinners, here, encompassed by iron chains are made to fall below where their bodies are reduced to powders and they are inert and almost unconscious. The Kunda where the sinners are crushed and threatened by My messengers is known as the Dalana Kunda; it measures sixteen Dhanus in circumference. Next comes the S’osana Kunda. It is deep up to the height of one hundred persons and it is very dark. It measures thirty Dhanus. On falling on the hot sand, the throats and palates of sinners get dried up. Their pain knows no bounds. Hence it is called the S’osana Kunda. Then comes the Kasa Kunda. It measures one hundred Dhanus. It is filled with the juices of skins and its smell is very offensive. The sinners eat those astringent waters and live there. Then comes S’urpa Kunda. It measures twelve Dhanus and is extended like a winnowing basket. It is filled with hot iron dust and many sinners live there, eating those foetid iron dusts. Next comes the Jvalamukha Kunda. It
is filled with red hot sand. From the (bottom) centre rises a flame, over-spreading the mouth of the Kunda. It measures twenty Dhanus. The sinners are burnt here by the flame and live awfully; they get fainted no sooner they are dropped in this Kunda. Then comes the Dhumrandha Kunda. It is dark, quite filled with smoke. Within that the hot bricks are placed. The sinners get suffocated with smoke; and their eye-sight becomes also obstructed. It measures one hundred Dhanus. Then comes the Nagabestana Kunda. It is encircled and filled with the serpents. No sooner the sinners are let fall there, than they are surrounded by the snakes. O Savitri! Thus I have spoken to you about the eighty-six Kundas and their characteristics. Now what more do you want to hear? Say.
Here ends the Thirty-seventh Chapter of the Ninth Book on the eighty-six Kundas and their characteristics in the Maha Puranam S'ri Mad Devi Bhagavatam of 18,000 verses by Maharsi Veda Vyasa.
Complete chapter-aligned witnesses. Sanskrit Wikisource page 24532, revision 75180 (2016-07-27T13:58:54Z). English is Swami Vijñanananda’s complete 1921–23 public-domain translation, controlled against the archival OCR and its chapter page at https://sacred-texts.com/hin/db/bk09ch37.htm. Historic spelling and transliteration are lightly normalized; no verse-by-verse alignment is asserted.