Ninth Skandha · Chapter 13
Sourceनारद उवाच कलेः पञ्चसहस्राब्दे समतीते सुरेश्वर । क्व गता सा महाभाग तन्मे व्याख्यातुमर्हसि ॥ १ ॥ श्रीनारायण उवाच भारतं भारतीशापात्समागत्येश्वरेच्छया । जगाम तत्र वैकुण्ठे शापान्ते पुनरेव सा ॥ २ ॥ भारती भारतं त्यक्त्वा तज्जगाम हरेः पदम् । पद्मावती च शापान्ते गङ्गा सा चैव नारद ॥ ३ ॥ गङ्गा सरस्वती लक्ष्यीश्चैतास्तिस्रः प्रिया हरेः । तुलसीसहिता ब्रह्मंश्चतस्रः कीर्तिताः श्रुतौ ॥ ४ ॥ नारद उवाच केनोपायेन सा देवी विष्णुपादाब्जसम्भवा । ब्रह्मकमण्डलुस्था च श्रुता शिवप्रिया च सा ॥ ५ ॥ बभूव सा मुनिश्रेष्ठ गङ्गा नारायणप्रिया । अहो केन प्रकारेण तन्मे व्याख्यातुमर्हसि ॥ ६ ॥ श्रीनारायण उवाच पुरा बभूव गोलोके सा गङ्गा द्रवरूपिणी । राधाकृष्णाङ्गसम्भूता तदंशा तत्स्वरूपिणी ॥ ७ ॥ द्रवाधिष्ठातृदेवी या रूपेणाप्रतिमा भुवि । नवयौवनसम्पन्ना सर्वाभरणभूषिता ॥ ८ ॥ शरन्मध्याह्नपद्मास्या सस्मिता सुमनोहरा । तप्तकाञ्चनवर्णाभा शरच्चन्द्रसमप्रभा ॥ ९ ॥ स्निग्धप्रभातिसुस्निग्धा शुद्धसत्त्वस्वरूपिणी । सुपीनकठिनश्रोणिः सुनितम्बयुगंधरा ॥ १० ॥ पीनोन्नतं सुकठिनं स्तनयुग्मं सुवर्तुलम् । सुचारुनेत्रयुगलं सुकटाक्षं सुवंक्रिमम् ॥ ११ ॥ वंक्रिमं कबरीभारं मालतीमाल्यसंयुतम् । सिन्दूरबिन्दुललितं सार्धं चन्दनबिन्दुभिः ॥ १२ ॥ कस्तूरीपत्रिकायुक्तं गण्डयुग्मं मनोरमम् । बन्धूककुसुमाकारमधरोष्ठं च सुन्दरम् ॥ १३ ॥ पक्वदाडिमबीजाभदन्तपंक्तिसमुज्ज्वलम् । वाससी वह्निशुद्धे च नीवीयुक्ते च बिभ्रती ॥ १४ ॥ सा सकामा कृष्णपार्श्वे समुवास सुलज्जिता । वाससा मुखमाच्छाद्य लोचनाभ्यां विभोर्मुखम् ॥ १५ ॥ निमेषरहिताभ्यां च पिबन्ती सततं मुदा । प्रफुल्लवदना हर्षान्नवसङ्गमलालसा ॥ १६ ॥ मूर्च्छिता प्रभुरूपेण पुलकाङ्कितविग्रहा । एतस्मिन्नन्तरे तत्र विद्यमाना च राधिका ॥ १७ ॥ गोपीत्रिंशत्कोटियुक्ता चन्द्रकोटिसमप्रभा । कोपेनारक्तपद्मास्या रक्तपङ्कजलोचना ॥ १८ ॥ पीतचम्पकवर्णाभा गजेन्द्रमन्दगामिनी । अमूल्यरत्ननिर्माणनानाभूषणभूषिता ॥ १९ ॥ अमूल्यरत्नखचितममूल्यं वह्निशौचकम् । पीतवस्त्रस्य युगलं नीवीयुक्तं च बिभ्रती ॥ २० ॥ स्थलपद्मप्रभामुष्टं कोमलं च सुरञ्जितम् । कृष्णदत्तार्घ्यसंयुक्तं विन्यसन्ती पदाम्बुजम् ॥ २१ ॥ रत्नेन्द्रसारनिर्माणविमानादवरुह्य सा । सेव्यमाना च ऋषिभिः श्वेतचामरवायुना ॥ २२ ॥ कस्तूरीबिन्दुभिर्युक्तं चन्दनेन समन्वितम् । दीप्तदीपप्रभाकारं सिन्दूरं बिन्दुशोभितम् ॥ २३ ॥ दधती भालमध्ये च सीमन्ताधःस्थलोज्ज्वले । पारिजातप्रसूनानां मालायुक्तं सुवंक्रिमम् ॥ २४ ॥ सुचारुकबरीभारं कम्पयन्ती सुकम्पिता । सुचारुरागसंयुक्तमोष्ठं कम्पयती रुषा ॥ २५ ॥ गत्वोवास कृष्णपार्श्वे रत्नसिंहासने शुभे । सखीनां च समूहैश्च परिपूर्णा विभोः प्रिया ॥ २६ ॥ तां दृष्ट्वा च समुत्तस्थौ कृष्णः सादरपूर्वकम् । सम्भाष्य मधुरालापैः सस्मितश्च ससंभ्रमः ॥ २७ ॥ प्रणेमुरतिसन्त्रस्ता गोपा नम्रात्मकन्धराः । तुष्टुवुस्ते च भक्त्या च तुष्टाव परमेश्वरः ॥ २८ ॥ उत्थाय गङ्गा सहसा स्तुतिं बहु चकार सा । कुशलं परिपप्रच्छ भीतातिविनयेन च ॥ २९ ॥ नम्रभागस्थिता त्रस्ता शुष्ककण्ठोष्ठतालुका । ध्यानेन शरणायत्ता श्रीकृष्णचरणाम्बुजे ॥ ३० ॥ तां हृत्पद्मस्थितां कृष्णो भीतायै चाभयं ददौ । बभूव स्थिरचित्ता सा सर्वेश्वरवरेण च ॥ ३१ ॥ ऊर्ध्वसिंहासनस्थां च राधां गङ्गा ददर्श सा । सुस्निग्धां सुखदृश्यां च ज्वलन्तीं ब्रह्मतेजसा ॥ ३२ ॥ असंख्यब्रह्मणः कर्त्रीमादिसृष्टेः सनातनीम् । सदा द्वादशवर्षीयां कन्याभिनवयौवनाम् ॥ ३३ ॥ विश्ववृन्दे निरुपमां रूपेण च गुणेन च । शान्तां कान्तामनन्तां तामाद्यन्तरहितां सतीम् ॥ ३४ ॥ शुभां सुभद्रां सुभगां स्वामिसौभाग्यसंयुताम् । सौन्दर्यसुन्दरीं श्रेष्ठां सर्वासु सुन्दरीषु च ॥ ३५ ॥ कृष्णार्धाङ्गां कृष्णसमां तेजसा वयसा त्विषा । पूजितां च महालक्ष्मीं लक्ष्म्या लक्ष्मीश्वरेण च ॥ ३६ ॥ प्रच्छाद्यमानां प्रभया सभामीशस्य सुप्रभाम् । सखीदत्तं च ताम्बूलं भुक्तवन्तीं च दुर्लभम् ॥ ३७ ॥ अजन्यां सर्वजननीं धन्यां मान्यां च मानिनीम् । कृष्णप्राणाधिदेवीं च प्राणप्रियतमां रमाम् ॥ ३८ ॥ दृष्ट्वा रासेश्वरीं तृप्तिं न जगाम सुरेश्वरी । निमेषरहिताभ्यां च लोचनाभ्यां पपौ च ताम् ॥ ३९ ॥ एतस्मिन्नन्तरे राधा जगदीशमुवाच सा । वाचा मधुरया शान्ता विनीता सस्मिता मुने ॥ ४० ॥ राधोवाच केयं प्राणेश कल्याणी सस्मिता त्वन्मुखाम्बुजम् । पश्यन्ती सस्मितं पार्श्वे सकामा वक्रलोचना ॥ ४१ ॥ मूर्च्छां प्राप्नोति रूपेण पुलकाङ्कितविग्रहा । वस्त्रेण मुखमाच्छाद्य निरीक्षन्ती पुनः पुनः ॥ ४२ ॥ त्वं चापि तां संनिरीक्ष्य सकामः सस्मितः सदा । मयि जीवति गोलोके भूता दुर्वृत्तिरीदृशी ॥ ४३ ॥ त्वमेव चैव दुर्वृत्तं वारं वारं करोषि च । क्षमां करोमि प्रेम्णा च स्त्रीजातिः स्निग्धमानसा ॥ ४४ ॥ संगृह्येमां प्रियामिष्टां गोलोकाद् गच्छ लम्पट । अन्यथा न हि ते भद्रं भविष्यति व्रजेश्वर ॥ ४५ ॥ दृष्टस्त्वं विरजायुक्तो मया चन्दनकानने । क्षमा कृता मया पूर्वं सखीनां वचनादहो ॥ ४६ ॥ त्वया मच्छब्दमात्रेण तिरोधानं कृतं पुरा । देहं तत्याज विरजा नदीरूपा बभूव सा ॥ ४७ ॥ कोटियोजनविस्तीर्णा ततो दैर्घ्ये चतुर्गुणा । अद्यापि विद्यमाना सा तव सत्कीर्तिरूपिणी ॥ ४८ ॥ गृहं मयि गतायां च पुनर्गत्वा तदन्तिके । उच्चै रुरोद विरजे विरजे चेति संस्मरन् ॥ ४९ ॥ तदा तोयात्समुत्थाय सा योगात्सिद्धयोगिनी । सालङ्कारा मूर्तिमती ददौ तुभ्यं च दर्शनम् ॥ ५० ॥ ततस्तां च समाक्षिप्य वीर्याधानं कृतं त्वया । ततो बभूवुस्तस्यां च समुद्राः सप्त एव च ॥ ५१ ॥ दृष्टस्त्वं शोभया गोप्या युक्तश्चम्पककानने । सद्यो मच्छब्दमात्रेण तिरोधानं कृतं त्वया ॥ ५२ ॥ शोभा देहं परित्यज्य जगाम चन्द्रमण्डले । ततस्तस्याः शरीरं च स्निग्धं तेजो बभूव ह ॥ ५३ ॥ संविभज्य त्वया दत्तं हृदयेन विदूयता । रत्नाय किञ्चित्स्वर्णाय किञ्चिन्मणिवराय च ॥ ५४ ॥ किञ्चित्स्त्रीणां मुखाब्जेभ्यः किञ्चिद्राज्ञे च किञ्चन । किञ्चित्किसलयेभ्यश्च पुष्पेभ्यश्चापि किञ्चन ॥ ५५ ॥ किञ्चित्कलेभ्यः पक्वेभ्यः सस्येभ्यश्चापि किञ्चन । नृपदेवगृहेभ्यश्च संस्कृतेभ्यश्च किञ्चन ॥ ५६ ॥ किञ्चिन्नूतनपत्रेभ्यो दुग्धेभ्यश्चापि किञ्चन । दृष्टस्त्वं प्रभया गोप्या युक्तो वृन्दावने वने ॥ ५७ ॥ सद्यो मच्छब्दमात्रेण तिरोधानं कृतं त्वया । प्रभा देहं परित्यज्य जगाम सूर्यमण्डले ॥ ५८ ॥ ततस्तस्याः शरीरं च तीव्रं तेजो बभूव ह । संविभज्य त्वया दत्तं प्रेम्णा प्ररुदता पुरा ॥ ५९ ॥ विसृष्टं चक्षुषोः कृष्ण लज्जया मद्भयेन च । हुताशनाय किञ्चिच्च यक्षेभ्यश्चापि किञ्चन ॥ ६० ॥ किञ्चित्पुरुषसिंहेभ्यो देवेभ्यश्चापि किञ्चन । किञ्चिद्विष्णुजनेभ्यश्च नागेभ्योऽपि च किञ्चन ॥ ६१ ॥ ब्राह्मणेभ्यो मुनिभ्यश्च तपस्विभ्यश्च किञ्चन । स्त्रीभ्यः सौभाग्ययुक्ताभ्यो यशस्विभ्यश्च किञ्चन ॥ ६२ ॥ तत्तु दत्त्वा च सर्वेभ्यः पूर्वं प्ररुदितं त्वया । शान्तिगोप्या युतस्त्वं च दृष्टोऽसि रासमण्डले ॥ ६३ ॥ वसन्ते पुष्पशय्यायां माल्यवांश्चन्दनोक्षितः । रत्नप्रदीपैर्युक्ते च रत्ननिर्माणमन्दिरे ॥ ६४ ॥ रत्नभूषणभूषाढ्यो रत्नभूषितया सह । तया दत्तं च ताम्बूलं भुक्तवांश्च पुरा विभो ॥ ६५ ॥ सद्यो मच्छब्दमात्रेण तिरोधानं कृतं त्वया । शान्तिर्देहं परित्यज्य भिया लीना त्वयि प्रभो ॥ ६६ ॥ ततस्तस्याः शरीरं च गुणश्रेष्ठं बभूव ह । संविभज्य त्वया दत्तं प्रेम्णा प्ररुदता पुरा ॥ ६७ ॥ विश्वे तु विपिने किञ्चिद्ब्रह्मणे च मयि प्रभो । शुद्धसत्त्वस्वरूपायै किञ्चिल्लक्ष्म्यै पुरा विभो ॥ ६८ ॥ त्वन्मन्त्रोपासकेभ्यश्च शाक्तेभ्यश्चापि किञ्चन । तपस्विभ्यश्च धर्माय धर्मिष्ठेभ्यश्च किञ्चन ॥ ६९ ॥ मया पूर्वं च त्वं दृष्टो गोप्या च क्षमया सह । सुवेषयुक्तो मालावान् गन्धचन्दनचर्चितः ॥ ७० ॥ रत्नभूषितया गन्धचन्दनोक्षितया सह । सुखेन मूर्च्छितस्तल्पे पुष्पचन्दनचर्चिते ॥ ७१ ॥ श्लिष्टो निद्रितया सद्यः सुखेन नवसङ्गमात् । मया प्रबोधिता सा च भवांश्च स्मरणं कुरु ॥ ७२ ॥ गृहीतं पीतवस्त्रं च मुरली च मनोहरा । वनमालाकौस्तुभश्चाप्यमूल्यं रत्नकुण्डलम् ॥ ७३ ॥ पश्चात्प्रदत्तं प्रेम्णा च सखीनां वचनादहो । लज्जया कृष्णवर्णोऽभूद्भवान् पापेन यः प्रभो ॥ ७४ ॥ क्षमा देहं परित्यज्य लज्जया पृथिवीं गता । ततस्तस्याः शरीरं च गुणश्रेष्ठं बभूव ह ॥ ७५ ॥ संविभज्य त्वया दत्तं प्रेम्णा प्ररुदता पुनः । किञ्चिद्दत्तं विष्णवे च वैष्णवेभ्यश्च किञ्चन ॥ ७६ ॥ धार्मिकेभ्यश्च धर्माय दुर्बलेभ्यश्च किञ्चन । तपस्विभ्योऽपि देवेभ्यः पण्डितेभ्यश्च किञ्चन ॥ ७७ ॥ एतत्ते कथितं सर्वं किं भूयः श्रोतुमिच्छसि । त्वद्गुणं चैव बहुशो न जानामि परं प्रभो ॥ ७८ ॥ इत्येवमुक्त्वा सा राधा रक्तपङ्कजलोचना । गङ्गां वक्तुं समारेभे नम्रास्यां लज्जितां सतीम् ॥ ७९ ॥ गङ्गा रहस्यं विज्ञाय योगेन सिद्धयोगिनी । तिरोभूय सभामध्ये स्वजलं प्रविवेश सा ॥ ८० ॥ राधा योगेन विज्ञाय सर्वत्रावस्थितां च ताम् । पानं कर्तुं समारेभे गण्डूषात्सिद्धयोगिनी ॥ ८१ ॥ गङ्गा रहस्यं विज्ञाय योगेन सिद्धयोगिनी । श्रीकृष्णचरणाम्भोजे विवेश शरणं ययौ ॥ ८२ ॥ गोलोके सा च वैकुण्ठे ब्रह्मलोकादिके तथा । ददर्श राधा सर्वत्र नैव गङ्गां ददर्श सा ॥ ८३ ॥ सर्वत्र जलशून्यं च शुष्कपङ्कं च गोलकम् । जलजन्तुसमूहैश्च मृतदेहैः समन्वितम् ॥ ८४ ॥ ब्रह्मविष्णुशिवानन्तधर्मेन्द्रेन्दुदिवाकराः । मनवो मुनयः सर्वे देवसिद्धतपस्विनः ॥ ८५ ॥ गोलोकं च समाजग्मुः शुष्ककण्ठोष्ठतालुकाः । सर्वे प्रणेमुर्गोविन्दं सर्वेशं प्रकृतेः परम् ॥ ८६ ॥ वरं वरेण्यं वरदं वरिष्ठं वरकारणम् । गोपिकागोपवृन्दानां सर्वेषां प्रवरं प्रभुम् ॥ ८७ ॥ निरीहं च निराकारं निर्लिप्तं च निराश्रयम् । निर्गुणं च निरुत्साहं निर्विकारं निरञ्जनम् ॥ ८८ ॥ स्वेच्छामयं च साकारं भक्तानुग्रहकारकम् । सत्त्वस्वरूपं सत्येशं साक्षिरूपं सनातनम् ॥ ८९ ॥ परं परेशं परमं परमात्मानमीश्वरम् । प्रणम्य तुष्टुवुः सर्वे भक्तिनम्रात्मकन्धराः ॥ ९० ॥ सगद्गदाः साश्रुनेत्राः पुलकाङ्कितविग्रहाः । सर्वे संस्तूय सर्वेशं भगवन्तं परात्परम् ॥ ९१ ॥ ज्योतिर्मयं परं ब्रह्म सर्वकारणकारणम् । अमूल्यरत्ननिर्माणचित्रसिंहासनस्थितम् ॥ ९२ ॥ सेव्यमानं च गोपालैः श्वेतचामरवायुना । गोपालिकानृत्यगीतं पश्यन्तं सस्मितं मुदा ॥ ९३ ॥ प्राणाधिकप्रियतमं राधावक्षःस्थलस्थितम् । तया प्रदत्तं ताम्बूलं भुक्तवन्तं सुवासितम् ॥ ९४ ॥ परिपूर्णतमं रासे ददृशुश्च सुरेश्वरम् । मुनयो मनवः सिद्धास्तापसाश्च तपस्विनः ॥ ९५ ॥ प्रहृष्टमनसः सर्वे जग्मुः परमविस्मयम् । परस्परं समालोक्य प्रोचुस्ते च चतुर्मुखम् ॥ ९६ ॥ निवेदितं जगन्नाथं स्वाभिप्रायमभीप्सितम् । ब्रह्मा तद्वचनं श्रुत्वा विष्णुं कृत्वा स्वदक्षिणे ॥ ९७ ॥ वामतो वामदेवं च जगाम कृष्णसन्निधिम् । परमानन्दयुक्तं च परमानन्दरूपिणीम् ॥ ९८ ॥ सर्वं कृष्णमयं धाता ददर्श रासमण्डले । सर्वं समानवेषं च समानासनसंस्थितम् ॥ ९९ ॥ द्विभुजं मुरलीहस्तं वनमालाविभूषितम् । मयूरपिच्छचूडं च कौस्तुभेन विराजितम् ॥ १०० ॥ अतीव कमनीयं च सुन्दरं शान्तविग्रहम् । गुणभूषणरूपेण तेजसा वयसा त्विषा ॥ १०१ ॥ परिपूर्णतमं सर्वं सर्वैश्वर्यसमन्वितम् । किं सेव्यं सेवकं किं वा दृष्ट्वा निर्वक्तुमक्षमः ॥ १०२ ॥ क्षणं तेजः स्वरूपं च रूपं तत्र स्थितं क्षणम् । निराकारं च साकारं ददर्श द्विविधं क्षणम् ॥ १०३ ॥ एकमेव क्षणं कृष्णं राधया रहितं परम् । प्रत्येकासनसंस्थं च तया सार्धं च तत्क्षणम् ॥ १०४ ॥ राधारूपधरं कृष्णं कृष्णरूपं कलत्रकम् । किं स्त्रीरूपं च पुरुषं विधाता ध्यातुमक्षमः ॥ १०५ ॥ हृत्पद्मस्थं च श्रीकृष्णं ध्यात्वा ध्यानेन चक्षुषा । चकार स्तवनं भक्त्या परिहारमनेकधा ॥ १०६ ॥ ततः स्वचक्षुरुन्मील्य पुनश्च तदनुज्ञया । ददर्श कृष्णमेकं च राधावक्षःस्थलस्थितम् ॥ १०७ ॥ स्वपार्षदैः परिवृतं गोपीमण्डलमण्डितम् । पुनः प्रणेमुस्तं दृष्ट्वा तुष्टुवुः परमेश्वरम् ॥ १०८ ॥ तदभिप्रायमाज्ञाय तानुवाच रमेश्वरः । सर्वात्मा स च सर्वज्ञः सर्वेशः सर्वभावनः ॥ १०९ ॥ श्रीभगवानुवाच आगच्छ कुशलं ब्रह्मन्नागच्छ कमलापते । इहागच्छ महादेव शश्वत्कुशलमस्तु वः ॥ ११० ॥ आगता हि महाभागा गङ्गानयनकारणात् । गङ्गा च चरणाम्भोजे भयेन शरणं गता ॥ १११ ॥ राधेमां पातुमिच्छन्ती दृष्ट्वा मत्सन्निधानतः । दास्यामीमां च भवतां यूयं कुरुत निर्भयाम् ॥ ११२ ॥ श्रीकृष्णस्य वचः श्रुत्वा सस्मितः कमलोद्भवः । तुष्टाव राधामाराध्यां श्रीकृष्णपरिपूजिताम् ॥ ११३ ॥ वक्त्रैश्चतुर्भिः संस्तूय भक्तिनम्रात्मकन्धरः । धाता चतुर्णां वेदानामुवाच चतुराननः ॥ ११४ ॥ चतुरानन उवाच गङ्गा त्वदङ्गसम्भूता प्रभोश्च रासमण्डले । युवयोर्द्रवरूपा सा मुग्धयोः शङ्करस्वनात् ॥ ११५ ॥ कृष्णांशा च त्वदंशा च त्वत्कन्यासदृशी प्रिया । त्वन्मन्त्रग्रहणं कृत्वा करोतु तव पूजनम् ॥ ११६ ॥ भविष्यति पतिस्तस्या वैकुण्ठेशश्चतुर्भुजः । भूस्थायाः कलया तस्याः पतिर्लवणवारिधिः ॥ १ रे ७ ॥ गोलोकस्था च या गङ्गा सर्वत्रस्था तथाम्बिके । तदम्बिका त्वं देवेशी सर्वदा सा त्वदात्मजा ॥ ११८ ॥ ब्रह्मणो वचनं श्रुत्वा स्वीचकार च सस्मिता । वहिर्बभूव सा कृष्णपादाङ्गुष्ठनखाग्रतः ॥ ११९ ॥ तत्रैव सत्कृता शान्ता तस्थौ तेषां च मध्यतः । उवास तोयादुत्थाय तदधिष्ठातृदेवता ॥ १२० ॥ तत्तोयं ब्रह्मणा किञ्चित्स्थापितं च कमण्डलौ । किञ्चिद्दधार शिरसि चन्द्रार्धकृतशेखरः ॥ १२१ ॥ गङ्गायै राधिकामन्त्रं प्रददौ कमलोद्भवः । तत्स्तोत्रं कवचं पूजां विधानं ध्यानमेव च ॥ १२२ ॥ सर्वं तत्सामवेदोक्तं पुरश्चर्याक्रमं तथा । गङ्गा तामेव सम्पूज्य वैकुण्ठं प्रययौ सह ॥ १२३ ॥ लक्ष्मीः सरस्वती गङ्गा तुलसी विश्वपावनी । एता नारायणस्यैव चतस्रो योषितो मुने ॥ १२४ ॥ अथ तं सस्मितः कृष्णो ब्रह्माणं समुवाच सः । सर्वकालस्य वृत्तान्तं दुर्बोधमविपश्चितम् ॥ १२५ ॥ श्रीकृष्ण उवाच गृहाण गङ्गां हे ब्रह्मन् हे विष्णो हे महेश्वर । शृणु कालस्य वृत्तान्तं मत्तो ब्रह्मन्निशामय ॥ १२६ ॥ यूयं च येऽन्ये देवाश्च मुनयो मनवस्तथा । सिद्धा यशस्विनश्चैव ये येऽत्रैव समागताः ॥ १२७ ॥ एते जीवन्ति गोलोके कालचक्रविवर्जिते । जलाप्लुते सर्वविश्वं जातं कल्पक्षयोऽधुना ॥ १२८ ॥ ब्रह्माद्या येऽन्यविश्वस्थास्ते विलीनाधुना मयि । वैकुण्ठं च विना सर्वं जलमग्नं च पद्मज ॥ १२९ ॥ गत्वा सृष्टिं कुरु पुनर्ब्रह्मलोकादिकं भवम् । स्वं ब्रह्माण्डं विरचय पश्चाद् गङ्गा प्रयास्यति ॥ १३० ॥ एवमन्येषु विश्वेषु सृष्टौ ब्रह्मादिकं पुनः । करोम्यहं पुनः सृष्टिं गच्छ शीघ्रं सुरैः सह ॥ १३१ ॥ गतो बहुतरः कालो युष्माकं च चतुर्मुखाः । गताः कतिविधास्ते च भविष्यन्ति च वेधसः ॥ १३२ ॥ इत्युक्त्वा राधिकानाथो जगामान्तःपुरे मुने । देवा गत्वा पुनः सृष्टिं चक्रुरेव प्रयत्नतः ॥ १३३ ॥ गोलोके च स्थिता गङ्गा वैकुण्ठे शिवलोकके । ब्रह्मलोके स्थितान्यत्र यत्र यत्र पुरः स्थिता ॥ १३४ ॥ तत्रैव सा गता गङ्गा चाज्ञया परमात्मनः । निर्गता विष्णुपादाब्जात्तेन विष्णुपदी स्मृता ॥ १३५ ॥ इत्येवं कथितं ब्रह्मन् गङ्गोपाख्यानमुत्तमम् । सुखदं मोक्षदं सारं किं भूयः श्रोतुमिच्छसि ॥ १३६ ॥
nārada uvāca kaleḥ pañcasahasrābde samatīte sureśvara | kva gatā sā mahābhāga tanme vyākhyātumarhasi || 1 || śrīnārāyaṇa uvāca bhārataṃ bhāratīśāpātsamāgatyeśvarecchayā | jagāma tatra vaikuṇṭhe śāpānte punareva sā || 2 || bhāratī bhārataṃ tyaktvā tajjagāma hareḥ padam | padmāvatī ca śāpānte gaṅgā sā caiva nārada || 3 || gaṅgā sarasvatī lakṣyīścaitāstisraḥ priyā hareḥ | tulasīsahitā brahmaṃścatasraḥ kīrtitāḥ śrutau || 4 || nārada uvāca kenopāyena sā devī viṣṇupādābjasambhavā | brahmakamaṇḍalusthā ca śrutā śivapriyā ca sā || 5 || babhūva sā muniśreṣṭha gaṅgā nārāyaṇapriyā | aho kena prakāreṇa tanme vyākhyātumarhasi || 6 || śrīnārāyaṇa uvāca purā babhūva goloke sā gaṅgā dravarūpiṇī | rādhākṛṣṇāṅgasambhūtā tadaṃśā tatsvarūpiṇī || 7 || dravādhiṣṭhātṛdevī yā rūpeṇāpratimā bhuvi | navayauvanasampannā sarvābharaṇabhūṣitā || 8 || śaranmadhyāhnapadmāsyā sasmitā sumanoharā | taptakāñcanavarṇābhā śaraccandrasamaprabhā || 9 || snigdhaprabhātisusnigdhā śuddhasattvasvarūpiṇī | supīnakaṭhinaśroṇiḥ sunitambayugaṃdharā || 10 || pīnonnataṃ sukaṭhinaṃ stanayugmaṃ suvartulam | sucārunetrayugalaṃ sukaṭākṣaṃ suvaṃkrimam || 11 || vaṃkrimaṃ kabarībhāraṃ mālatīmālyasaṃyutam | sindūrabindulalitaṃ sārdhaṃ candanabindubhiḥ || 12 || kastūrīpatrikāyuktaṃ gaṇḍayugmaṃ manoramam | bandhūkakusumākāramadharoṣṭhaṃ ca sundaram || 13 || pakvadāḍimabījābhadantapaṃktisamujjvalam | vāsasī vahniśuddhe ca nīvīyukte ca bibhratī || 14 || sā sakāmā kṛṣṇapārśve samuvāsa sulajjitā | vāsasā mukhamācchādya locanābhyāṃ vibhormukham || 15 || nimeṣarahitābhyāṃ ca pibantī satataṃ mudā | praphullavadanā harṣānnavasaṅgamalālasā || 16 || mūrcchitā prabhurūpeṇa pulakāṅkitavigrahā | etasminnantare tatra vidyamānā ca rādhikā || 17 || gopītriṃśatkoṭiyuktā candrakoṭisamaprabhā | kopenāraktapadmāsyā raktapaṅkajalocanā || 18 || pītacampakavarṇābhā gajendramandagāminī | amūlyaratnanirmāṇanānābhūṣaṇabhūṣitā || 19 || amūlyaratnakhacitamamūlyaṃ vahniśaucakam | pītavastrasya yugalaṃ nīvīyuktaṃ ca bibhratī || 20 || sthalapadmaprabhāmuṣṭaṃ komalaṃ ca surañjitam | kṛṣṇadattārghyasaṃyuktaṃ vinyasantī padāmbujam || 21 || ratnendrasāranirmāṇavimānādavaruhya sā | sevyamānā ca ṛṣibhiḥ śvetacāmaravāyunā || 22 || kastūrībindubhiryuktaṃ candanena samanvitam | dīptadīpaprabhākāraṃ sindūraṃ binduśobhitam || 23 || dadhatī bhālamadhye ca sīmantādhaḥsthalojjvale | pārijātaprasūnānāṃ mālāyuktaṃ suvaṃkrimam || 24 || sucārukabarībhāraṃ kampayantī sukampitā | sucārurāgasaṃyuktamoṣṭhaṃ kampayatī ruṣā || 25 || gatvovāsa kṛṣṇapārśve ratnasiṃhāsane śubhe | sakhīnāṃ ca samūhaiśca paripūrṇā vibhoḥ priyā || 26 || tāṃ dṛṣṭvā ca samuttasthau kṛṣṇaḥ sādarapūrvakam | sambhāṣya madhurālāpaiḥ sasmitaśca sasaṃbhramaḥ || 27 || praṇemuratisantrastā gopā namrātmakandharāḥ | tuṣṭuvuste ca bhaktyā ca tuṣṭāva parameśvaraḥ || 28 || utthāya gaṅgā sahasā stutiṃ bahu cakāra sā | kuśalaṃ paripapraccha bhītātivinayena ca || 29 || namrabhāgasthitā trastā śuṣkakaṇṭhoṣṭhatālukā | dhyānena śaraṇāyattā śrīkṛṣṇacaraṇāmbuje || 30 || tāṃ hṛtpadmasthitāṃ kṛṣṇo bhītāyai cābhayaṃ dadau | babhūva sthiracittā sā sarveśvaravareṇa ca || 31 || ūrdhvasiṃhāsanasthāṃ ca rādhāṃ gaṅgā dadarśa sā | susnigdhāṃ sukhadṛśyāṃ ca jvalantīṃ brahmatejasā || 32 || asaṃkhyabrahmaṇaḥ kartrīmādisṛṣṭeḥ sanātanīm | sadā dvādaśavarṣīyāṃ kanyābhinavayauvanām || 33 || viśvavṛnde nirupamāṃ rūpeṇa ca guṇena ca | śāntāṃ kāntāmanantāṃ tāmādyantarahitāṃ satīm || 34 || śubhāṃ subhadrāṃ subhagāṃ svāmisaubhāgyasaṃyutām | saundaryasundarīṃ śreṣṭhāṃ sarvāsu sundarīṣu ca || 35 || kṛṣṇārdhāṅgāṃ kṛṣṇasamāṃ tejasā vayasā tviṣā | pūjitāṃ ca mahālakṣmīṃ lakṣmyā lakṣmīśvareṇa ca || 36 || pracchādyamānāṃ prabhayā sabhāmīśasya suprabhām | sakhīdattaṃ ca tāmbūlaṃ bhuktavantīṃ ca durlabham || 37 || ajanyāṃ sarvajananīṃ dhanyāṃ mānyāṃ ca māninīm | kṛṣṇaprāṇādhidevīṃ ca prāṇapriyatamāṃ ramām || 38 || dṛṣṭvā rāseśvarīṃ tṛptiṃ na jagāma sureśvarī | nimeṣarahitābhyāṃ ca locanābhyāṃ papau ca tām || 39 || etasminnantare rādhā jagadīśamuvāca sā | vācā madhurayā śāntā vinītā sasmitā mune || 40 || rādhovāca keyaṃ prāṇeśa kalyāṇī sasmitā tvanmukhāmbujam | paśyantī sasmitaṃ pārśve sakāmā vakralocanā || 41 || mūrcchāṃ prāpnoti rūpeṇa pulakāṅkitavigrahā | vastreṇa mukhamācchādya nirīkṣantī punaḥ punaḥ || 42 || tvaṃ cāpi tāṃ saṃnirīkṣya sakāmaḥ sasmitaḥ sadā | mayi jīvati goloke bhūtā durvṛttirīdṛśī || 43 || tvameva caiva durvṛttaṃ vāraṃ vāraṃ karoṣi ca | kṣamāṃ karomi premṇā ca strījātiḥ snigdhamānasā || 44 || saṃgṛhyemāṃ priyāmiṣṭāṃ golokād gaccha lampaṭa | anyathā na hi te bhadraṃ bhaviṣyati vrajeśvara || 45 || dṛṣṭastvaṃ virajāyukto mayā candanakānane | kṣamā kṛtā mayā pūrvaṃ sakhīnāṃ vacanādaho || 46 || tvayā macchabdamātreṇa tirodhānaṃ kṛtaṃ purā | dehaṃ tatyāja virajā nadīrūpā babhūva sā || 47 || koṭiyojanavistīrṇā tato dairghye caturguṇā | adyāpi vidyamānā sā tava satkīrtirūpiṇī || 48 || gṛhaṃ mayi gatāyāṃ ca punargatvā tadantike | uccai ruroda viraje viraje ceti saṃsmaran || 49 || tadā toyātsamutthāya sā yogātsiddhayoginī | sālaṅkārā mūrtimatī dadau tubhyaṃ ca darśanam || 50 || tatastāṃ ca samākṣipya vīryādhānaṃ kṛtaṃ tvayā | tato babhūvustasyāṃ ca samudrāḥ sapta eva ca || 51 || dṛṣṭastvaṃ śobhayā gopyā yuktaścampakakānane | sadyo macchabdamātreṇa tirodhānaṃ kṛtaṃ tvayā || 52 || śobhā dehaṃ parityajya jagāma candramaṇḍale | tatastasyāḥ śarīraṃ ca snigdhaṃ tejo babhūva ha || 53 || saṃvibhajya tvayā dattaṃ hṛdayena vidūyatā | ratnāya kiñcitsvarṇāya kiñcinmaṇivarāya ca || 54 || kiñcitstrīṇāṃ mukhābjebhyaḥ kiñcidrājñe ca kiñcana | kiñcitkisalayebhyaśca puṣpebhyaścāpi kiñcana || 55 || kiñcitkalebhyaḥ pakvebhyaḥ sasyebhyaścāpi kiñcana | nṛpadevagṛhebhyaśca saṃskṛtebhyaśca kiñcana || 56 || kiñcinnūtanapatrebhyo dugdhebhyaścāpi kiñcana | dṛṣṭastvaṃ prabhayā gopyā yukto vṛndāvane vane || 57 || sadyo macchabdamātreṇa tirodhānaṃ kṛtaṃ tvayā | prabhā dehaṃ parityajya jagāma sūryamaṇḍale || 58 || tatastasyāḥ śarīraṃ ca tīvraṃ tejo babhūva ha | saṃvibhajya tvayā dattaṃ premṇā prarudatā purā || 59 || visṛṣṭaṃ cakṣuṣoḥ kṛṣṇa lajjayā madbhayena ca | hutāśanāya kiñcicca yakṣebhyaścāpi kiñcana || 60 || kiñcitpuruṣasiṃhebhyo devebhyaścāpi kiñcana | kiñcidviṣṇujanebhyaśca nāgebhyo'pi ca kiñcana || 61 || brāhmaṇebhyo munibhyaśca tapasvibhyaśca kiñcana | strībhyaḥ saubhāgyayuktābhyo yaśasvibhyaśca kiñcana || 62 || tattu dattvā ca sarvebhyaḥ pūrvaṃ praruditaṃ tvayā | śāntigopyā yutastvaṃ ca dṛṣṭo'si rāsamaṇḍale || 63 || vasante puṣpaśayyāyāṃ mālyavāṃścandanokṣitaḥ | ratnapradīpairyukte ca ratnanirmāṇamandire || 64 || ratnabhūṣaṇabhūṣāḍhyo ratnabhūṣitayā saha | tayā dattaṃ ca tāmbūlaṃ bhuktavāṃśca purā vibho || 65 || sadyo macchabdamātreṇa tirodhānaṃ kṛtaṃ tvayā | śāntirdehaṃ parityajya bhiyā līnā tvayi prabho || 66 || tatastasyāḥ śarīraṃ ca guṇaśreṣṭhaṃ babhūva ha | saṃvibhajya tvayā dattaṃ premṇā prarudatā purā || 67 || viśve tu vipine kiñcidbrahmaṇe ca mayi prabho | śuddhasattvasvarūpāyai kiñcillakṣmyai purā vibho || 68 || tvanmantropāsakebhyaśca śāktebhyaścāpi kiñcana | tapasvibhyaśca dharmāya dharmiṣṭhebhyaśca kiñcana || 69 || mayā pūrvaṃ ca tvaṃ dṛṣṭo gopyā ca kṣamayā saha | suveṣayukto mālāvān gandhacandanacarcitaḥ || 70 || ratnabhūṣitayā gandhacandanokṣitayā saha | sukhena mūrcchitastalpe puṣpacandanacarcite || 71 || śliṣṭo nidritayā sadyaḥ sukhena navasaṅgamāt | mayā prabodhitā sā ca bhavāṃśca smaraṇaṃ kuru || 72 || gṛhītaṃ pītavastraṃ ca muralī ca manoharā | vanamālākaustubhaścāpyamūlyaṃ ratnakuṇḍalam || 73 || paścātpradattaṃ premṇā ca sakhīnāṃ vacanādaho | lajjayā kṛṣṇavarṇo'bhūdbhavān pāpena yaḥ prabho || 74 || kṣamā dehaṃ parityajya lajjayā pṛthivīṃ gatā | tatastasyāḥ śarīraṃ ca guṇaśreṣṭhaṃ babhūva ha || 75 || saṃvibhajya tvayā dattaṃ premṇā prarudatā punaḥ | kiñciddattaṃ viṣṇave ca vaiṣṇavebhyaśca kiñcana || 76 || dhārmikebhyaśca dharmāya durbalebhyaśca kiñcana | tapasvibhyo'pi devebhyaḥ paṇḍitebhyaśca kiñcana || 77 || etatte kathitaṃ sarvaṃ kiṃ bhūyaḥ śrotumicchasi | tvadguṇaṃ caiva bahuśo na jānāmi paraṃ prabho || 78 || ityevamuktvā sā rādhā raktapaṅkajalocanā | gaṅgāṃ vaktuṃ samārebhe namrāsyāṃ lajjitāṃ satīm || 79 || gaṅgā rahasyaṃ vijñāya yogena siddhayoginī | tirobhūya sabhāmadhye svajalaṃ praviveśa sā || 80 || rādhā yogena vijñāya sarvatrāvasthitāṃ ca tām | pānaṃ kartuṃ samārebhe gaṇḍūṣātsiddhayoginī || 81 || gaṅgā rahasyaṃ vijñāya yogena siddhayoginī | śrīkṛṣṇacaraṇāmbhoje viveśa śaraṇaṃ yayau || 82 || goloke sā ca vaikuṇṭhe brahmalokādike tathā | dadarśa rādhā sarvatra naiva gaṅgāṃ dadarśa sā || 83 || sarvatra jalaśūnyaṃ ca śuṣkapaṅkaṃ ca golakam | jalajantusamūhaiśca mṛtadehaiḥ samanvitam || 84 || brahmaviṣṇuśivānantadharmendrendudivākarāḥ | manavo munayaḥ sarve devasiddhatapasvinaḥ || 85 || golokaṃ ca samājagmuḥ śuṣkakaṇṭhoṣṭhatālukāḥ | sarve praṇemurgovindaṃ sarveśaṃ prakṛteḥ param || 86 || varaṃ vareṇyaṃ varadaṃ variṣṭhaṃ varakāraṇam | gopikāgopavṛndānāṃ sarveṣāṃ pravaraṃ prabhum || 87 || nirīhaṃ ca nirākāraṃ nirliptaṃ ca nirāśrayam | nirguṇaṃ ca nirutsāhaṃ nirvikāraṃ nirañjanam || 88 || svecchāmayaṃ ca sākāraṃ bhaktānugrahakārakam | sattvasvarūpaṃ satyeśaṃ sākṣirūpaṃ sanātanam || 89 || paraṃ pareśaṃ paramaṃ paramātmānamīśvaram | praṇamya tuṣṭuvuḥ sarve bhaktinamrātmakandharāḥ || 90 || sagadgadāḥ sāśrunetrāḥ pulakāṅkitavigrahāḥ | sarve saṃstūya sarveśaṃ bhagavantaṃ parātparam || 91 || jyotirmayaṃ paraṃ brahma sarvakāraṇakāraṇam | amūlyaratnanirmāṇacitrasiṃhāsanasthitam || 92 || sevyamānaṃ ca gopālaiḥ śvetacāmaravāyunā | gopālikānṛtyagītaṃ paśyantaṃ sasmitaṃ mudā || 93 || prāṇādhikapriyatamaṃ rādhāvakṣaḥsthalasthitam | tayā pradattaṃ tāmbūlaṃ bhuktavantaṃ suvāsitam || 94 || paripūrṇatamaṃ rāse dadṛśuśca sureśvaram | munayo manavaḥ siddhāstāpasāśca tapasvinaḥ || 95 || prahṛṣṭamanasaḥ sarve jagmuḥ paramavismayam | parasparaṃ samālokya procuste ca caturmukham || 96 || niveditaṃ jagannāthaṃ svābhiprāyamabhīpsitam | brahmā tadvacanaṃ śrutvā viṣṇuṃ kṛtvā svadakṣiṇe || 97 || vāmato vāmadevaṃ ca jagāma kṛṣṇasannidhim | paramānandayuktaṃ ca paramānandarūpiṇīm || 98 || sarvaṃ kṛṣṇamayaṃ dhātā dadarśa rāsamaṇḍale | sarvaṃ samānaveṣaṃ ca samānāsanasaṃsthitam || 99 || dvibhujaṃ muralīhastaṃ vanamālāvibhūṣitam | mayūrapicchacūḍaṃ ca kaustubhena virājitam || 100 || atīva kamanīyaṃ ca sundaraṃ śāntavigraham | guṇabhūṣaṇarūpeṇa tejasā vayasā tviṣā || 101 || paripūrṇatamaṃ sarvaṃ sarvaiśvaryasamanvitam | kiṃ sevyaṃ sevakaṃ kiṃ vā dṛṣṭvā nirvaktumakṣamaḥ || 102 || kṣaṇaṃ tejaḥ svarūpaṃ ca rūpaṃ tatra sthitaṃ kṣaṇam | nirākāraṃ ca sākāraṃ dadarśa dvividhaṃ kṣaṇam || 103 || ekameva kṣaṇaṃ kṛṣṇaṃ rādhayā rahitaṃ param | pratyekāsanasaṃsthaṃ ca tayā sārdhaṃ ca tatkṣaṇam || 104 || rādhārūpadharaṃ kṛṣṇaṃ kṛṣṇarūpaṃ kalatrakam | kiṃ strīrūpaṃ ca puruṣaṃ vidhātā dhyātumakṣamaḥ || 105 || hṛtpadmasthaṃ ca śrīkṛṣṇaṃ dhyātvā dhyānena cakṣuṣā | cakāra stavanaṃ bhaktyā parihāramanekadhā || 106 || tataḥ svacakṣurunmīlya punaśca tadanujñayā | dadarśa kṛṣṇamekaṃ ca rādhāvakṣaḥsthalasthitam || 107 || svapārṣadaiḥ parivṛtaṃ gopīmaṇḍalamaṇḍitam | punaḥ praṇemustaṃ dṛṣṭvā tuṣṭuvuḥ parameśvaram || 108 || tadabhiprāyamājñāya tānuvāca rameśvaraḥ | sarvātmā sa ca sarvajñaḥ sarveśaḥ sarvabhāvanaḥ || 109 || śrībhagavānuvāca āgaccha kuśalaṃ brahmannāgaccha kamalāpate | ihāgaccha mahādeva śaśvatkuśalamastu vaḥ || 110 || āgatā hi mahābhāgā gaṅgānayanakāraṇāt | gaṅgā ca caraṇāmbhoje bhayena śaraṇaṃ gatā || 111 || rādhemāṃ pātumicchantī dṛṣṭvā matsannidhānataḥ | dāsyāmīmāṃ ca bhavatāṃ yūyaṃ kuruta nirbhayām || 112 || śrīkṛṣṇasya vacaḥ śrutvā sasmitaḥ kamalodbhavaḥ | tuṣṭāva rādhāmārādhyāṃ śrīkṛṣṇaparipūjitām || 113 || vaktraiścaturbhiḥ saṃstūya bhaktinamrātmakandharaḥ | dhātā caturṇāṃ vedānāmuvāca caturānanaḥ || 114 || caturānana uvāca gaṅgā tvadaṅgasambhūtā prabhośca rāsamaṇḍale | yuvayordravarūpā sā mugdhayoḥ śaṅkarasvanāt || 115 || kṛṣṇāṃśā ca tvadaṃśā ca tvatkanyāsadṛśī priyā | tvanmantragrahaṇaṃ kṛtvā karotu tava pūjanam || 116 || bhaviṣyati patistasyā vaikuṇṭheśaścaturbhujaḥ | bhūsthāyāḥ kalayā tasyāḥ patirlavaṇavāridhiḥ || 1 re 7 || golokasthā ca yā gaṅgā sarvatrasthā tathāmbike | tadambikā tvaṃ deveśī sarvadā sā tvadātmajā || 118 || brahmaṇo vacanaṃ śrutvā svīcakāra ca sasmitā | vahirbabhūva sā kṛṣṇapādāṅguṣṭhanakhāgrataḥ || 119 || tatraiva satkṛtā śāntā tasthau teṣāṃ ca madhyataḥ | uvāsa toyādutthāya tadadhiṣṭhātṛdevatā || 120 || tattoyaṃ brahmaṇā kiñcitsthāpitaṃ ca kamaṇḍalau | kiñciddadhāra śirasi candrārdhakṛtaśekharaḥ || 121 || gaṅgāyai rādhikāmantraṃ pradadau kamalodbhavaḥ | tatstotraṃ kavacaṃ pūjāṃ vidhānaṃ dhyānameva ca || 122 || sarvaṃ tatsāmavedoktaṃ puraścaryākramaṃ tathā | gaṅgā tāmeva sampūjya vaikuṇṭhaṃ prayayau saha || 123 || lakṣmīḥ sarasvatī gaṅgā tulasī viśvapāvanī | etā nārāyaṇasyaiva catasro yoṣito mune || 124 || atha taṃ sasmitaḥ kṛṣṇo brahmāṇaṃ samuvāca saḥ | sarvakālasya vṛttāntaṃ durbodhamavipaścitam || 125 || śrīkṛṣṇa uvāca gṛhāṇa gaṅgāṃ he brahman he viṣṇo he maheśvara | śṛṇu kālasya vṛttāntaṃ matto brahmanniśāmaya || 126 || yūyaṃ ca ye'nye devāśca munayo manavastathā | siddhā yaśasvinaścaiva ye ye'traiva samāgatāḥ || 127 || ete jīvanti goloke kālacakravivarjite | jalāplute sarvaviśvaṃ jātaṃ kalpakṣayo'dhunā || 128 || brahmādyā ye'nyaviśvasthāste vilīnādhunā mayi | vaikuṇṭhaṃ ca vinā sarvaṃ jalamagnaṃ ca padmaja || 129 || gatvā sṛṣṭiṃ kuru punarbrahmalokādikaṃ bhavam | svaṃ brahmāṇḍaṃ viracaya paścād gaṅgā prayāsyati || 130 || evamanyeṣu viśveṣu sṛṣṭau brahmādikaṃ punaḥ | karomyahaṃ punaḥ sṛṣṭiṃ gaccha śīghraṃ suraiḥ saha || 131 || gato bahutaraḥ kālo yuṣmākaṃ ca caturmukhāḥ | gatāḥ katividhāste ca bhaviṣyanti ca vedhasaḥ || 132 || ityuktvā rādhikānātho jagāmāntaḥpure mune | devā gatvā punaḥ sṛṣṭiṃ cakrureva prayatnataḥ || 133 || goloke ca sthitā gaṅgā vaikuṇṭhe śivalokake | brahmaloke sthitānyatra yatra yatra puraḥ sthitā || 134 || tatraiva sā gatā gaṅgā cājñayā paramātmanaḥ | nirgatā viṣṇupādābjāttena viṣṇupadī smṛtā || 135 || ityevaṃ kathitaṃ brahman gaṅgopākhyānamuttamam | sukhadaṃ mokṣadaṃ sāraṃ kiṃ bhūyaḥ śrotumicchasi || 136 ||
English translation
1. Narada said O Lord of the Devas! Kindly say in what Loka did Ganga go after 5000 (five thousand) years of the Kali Yuga?
2-4. Narayana said The Bhagirathi Ganga came down to Bharata under the curse of Bharati; and when the term expired, She went back, by the Will of God, to the region of Vaikuntha. Also at the end of the period of their curses, Bharati and, Laksmi, too, left Bharata and repaired to Narayana. Ganga, Laksmi, and Sarasvati, these three and Tulasi all these four are so very dear to S’ri Hah.
5-6. Narada said How did Ganga appear from the lotus feet of Visnu? Why did Brahma put Her in His Kamandalu? I have heard that Ganga is the wife of S’iva; how then, came She to be the wife of Narayana? Kindly describe all these in detail to me.
7-8. Narayana said O Muni! In ancient times, in the region of Goloka, Ganga assumed the liquid appearance. She was born of the bodies of Radha and Krisna. So She is of the nature of both of them and their parts. Ganga is the presiding deity of water. She is unequalled in Her beauty in this world. She is full of youth and adorned with all ornaments.
9-43. Her face was like the autumnal mid-day lotus and sweet smile was always reigning on Her lips; Her form was very beautiful; Her colour was as bright as melted gold and She looked brilliant like the Autumnal Moon. Eyes and mind get cool and become pleasant at Her beauty and radiance; She was of purely Suddha Sattva; Her loins were bulky and hard and She was covered with excellent
clothings all over Her body. Her breasts were plump and prominent; they were raised, hard, and nicely round. Her eyes very fascinating, always casting sidelong glances. Her braids of hair situated a little oblique and the garland of Malati flowers over it made Her look extremely handsome. The saudalpaste dot and the vermillion dot were seen on Her forehead. On Her cheeks the leaves of musk were drawn and Her lips were red like Bandhuka flowers and they looked enchanting. Her rows of teeth looked like rows of ripe pomegranates; the ends of Her cloth not inflammable by fire, worn in front in a knot round the waist. She sat by the side of Krisna, full of amorous desires, and abashed. She covered Her face with the end of Her cloth and was seeing, with a steadfast gaze the face of the Lord and She was drinking the nectar of His face with great gladness. Her lotus face bloomed and became gladdened at the expectation of a first amorous embrace. She fainted on seeing the Form of Her Lord and a thrill of joy passed all over Her body. In the meanwhile Radhika came up there. Radha was attended by thirty kotis of Gopis. She looked brilliant like tens of millions of Moons. Seeing Ganga by the side of S’ri Krisna, Her face and eyes became reddened with anger like a red lotus. Her colour was yellow like champaka and Her gait was like a maddened elephant. She was adorned with various invaluable ornaments made of jewels. Her pair of clothings were tied round Her waist. They were decked with invaluable jewels and not inflammable by fire (fire-proof). The Arghya offered by S’ri Krisna was on Her lotus-feet of the colour of a flowering shrub. Hibiscus mutabilis, and She was going slowly step by step. The Risis began to fan Her with white Chamaras no sooner She, descending from the excellent aeroplane decked with jewels, began to walk. Below the point where the parting of the hairs on the head is done, there was the dot of Sindura on Her forehead. It looked brilliant like a bright lamp flame. On both sides of this Sindurabindu, the dot of musk and the dot of Sandal-paste were seen. When She began to quiver with anger. Her braid, with Parijata garland round it began to tremble also. Her lips adorned with beautiful colours, began to quiver also. She took Her seat angrily on a jewel throne by the side of S’ri Krisna. Her attendants took their seats in their allotted positions. Seeing
Radha, S’n Krisna got up at once from His seat with reverence and addressed Her, smiling and began to converse with Her in sweet words. The Gopis, very much afraid and with their heads bent low, began to chant hymns to Her with devotion. S’ri Krisna also began to praise Her with stotras. At this moment Ganga Devi got up and praised Her with various hymns and asked Her welfare with fear and with humble words. Out of fear. Her throat, lips and palate were parched up. She took refuge humbly at S’ri Krisna's feet. S’ri Krisna then, took Ganga Devi on His breast when She became calm and quiet. At this interval SuresVari Ganga looked at Radha, seated on a throne, lovely and sweet, as if She was burning with Brahma Fire. Since the beginning of creation. She is the Sole Lady of innumerable Brahmas and She is Eternal. At the first sight. She looked young as if of twelve years old. Nowhere in any Universe can be seen a lady so beautiful and so qualified. She was peaceful, calm and quiet, lovely, infinite and having no beginning nor end. She was auspicious, well endowed with all auspicious signs, prosperous, and having the good fortune of having a best husband. She was the foremost jewel amongst the ladies and appeared as if all the beauties were concentrated in Her. Radha is the (left) half of S’ri Krisna's body; whether in age or in strength or in beauty she was in every way perfectly equal to S’ri Krisna. Laksmi and the Lord of Laksmi both worship Radha. The excellent brilliance of Sri Krisna was overpowered by the beauty of Radha. Taking Her seat on the throne She began to chew betels offered by Her attendants (Sakhis). She is the Mother of all the worlds; but no one is Her mother. She is fortunate, respected and proud. She is the Ruling Lady of S’ri Krisna's Life and Soul and ever dearer to Him than His Prana (vital breath). O Devarsi! Ganga, the Governess of the Devas, looked at Her over and over again with a steadfast gaze; but Her eyes and mind were not at all satiated. At this moment, Radha addressed smilingly to S’ri Krisna, the Lord of the world, humbly and in sweet words. O My Lord! Who is that Lady sitting by Thy side, looking askance, eager and with a smiling countenance. She is enchanted with Thy beauteous form and fainting away. Her whole body is excited with rapturous joy. Hiding Her face with cloth She is
frequently looking at Thee. Thou also dost look on Her smilingly and with desires. What are all these? Even during My presence in this Goloka, all these bad practices are being rampant.
44-51. It is Thou that art doing all these bad things often and often! We are female sex; what shall we do? We are naturally, of a very pleasing temper, simple. I bore and forgave all these out of our love. O Licentious One! Take Thy Beloved and go away quickly from this Goloka. Otherwise these things will not bid fair to Thee. Firstly, one day I saw Thee, united with Viraja Gopi, in Chandana (Sandal wood) forest. What to do? At the request of the S'akhis, I did forgive Thee. Then, hearing My footsteps Thou didst fly away. Viraja, out of shame, quitted Her body and assumed the form of a river. That is million Yojanas wide an four times as long. Even to this day that Viraja is existing, testifying to Thy Glory (near Puri, Jagannatha)! When I went back to My home Thou didst go to Viraja again and cried aloud “O Viraje! O Viraje!” Hearing Your cry, Viraja, the Siddha Yogini arose from the waters, out of Her Yogic power, and when She showed Thee Her divine appearance decked with ornaments. Thou didst draw Her to Thy side and cast Thy seed in Her. It is owing to the casting of that seed in the womb of Viraja that the seven oceans have come into existence!
52-107. Secondly, one day I saw Thee in actual intercourse with the Gopi named S'obha! Hearing My footsteps. Thou fled'st away that day also.
Out of shame S'obha quitted Her body and departed to the sphere of Moon (Chandra Mandal). The cooling effect of the Moon is due to this S'obha. When S’obha was thus distressed. Thou didst divide Her and put some parts to gems and jewels, part to gold, partly to excellent pearls and gems, partly on the face of women, partly to the
bodies of Kings, partly to the leaves of trees, partly to flowers, partly to ripe fruits, partly to corns, partly to palaces and temples, partly to purified materials, partly to young and tender shoots and foliage, and partly to milk. Thirdly, I saw Thee united with Prabha GopT in Brindaban. Thou fled'st away, hearing My footsteps. Out of shame, Prabha quitted Her body and departed to the Solar atmosphere. This Prabha (lustre) is fierce luminosity of the Solar atmosphere. Out of the pangs of separation Thou criedest and didst divide Prabha and didst put some parts in Fire, partly amidst the Yaksas, partly into lions, among men, partly amongst the Devas, partly in Vaisnavas, partly in serpents, partly in Brahmanas, partly in Munis, partly in ascetics, and partly in fortunate and prosperous ladies. Thou hadst to weep then after Thou hadst thus divided Prabha, for Her separation and and fourthly I saw Thee in love union with the GopT S'anti in Rasa Mandalam. On the coming of the spring season, one day Thou with garlands of flowers on Thy neck and with Thy body besmeared with sandal paste and decked with ornaments, wast sleeping on a bed of flowers with S’anti GopT, decked with gems, in a temple made of gems and pearls and illumined by a lamp of jewels and Thou wast chewing the betel, given by Thy beloved. Hearing My sound Thou fled'st away. S’anti GopT, too, out of fear and shame quitted Her body and disappeared in Thee. Therefore S’anti is reckoned as one of the noblest qualities. Out of the pain of separation. Thou didst divide the body of S’anti and distributed partly to forests, partly to Brahma, partly to Me, partly to S'uddha Sattva LaksmT, partly to Thy Mantra worshippers, partly to My Mantra worshippers, partly to the ascetics, partly to Dharma, and partly to the religious persons. Fifthly, dost Thou remember that one day anointing all over Thy body fully with the sandal paste and good scent and with garlands on Thy neck, well dressed, decked with jewels. Thou wast sleeping with Ksama (forgiveness) GopT in ease and happiness, on a nice bedding interspersed with flowers and well scented. Thou wert so much over-powered by sleep after fresh intercourse that when I went and disturbed, then Thou two didst get up from the sweet sleep. I took away Thy yellow robes, the beautiful MuralT (flute), garlands made of forest flowers, Kaustubha gems, and
invaluable earrings of pearls and gems. I gave it back to Thee at the earnest request of the S'akhis. Thy body turned black with sin and dire shame, Ksama then quitted Her body out of shame and went down to the earth. Therefore Ksama turned out to be the repository of best qualities. Out of affection to Her, Thou didst divide Her body and distributed them partly to Visnu, partly to the Vaisnavas, partly to Dharma, partly to the religious persons, partly to weak persons, partly to ascetics, partly to the Devas, and partly to the Pundits (literary persons). O Lord! Thus I have described Thy qualities as far as I know. What more dost thou want to hear? Thou hast many more qualities! But I am not aware of them. Having thus spoken, the red- lotus eyed Radha began to rebuke Ganga sitting by the side of S’ri Krisna with Her head bent low out of shame. At this time Ganga, who was a Siddha Yogini came to know all the mysteries, and instantly disappeared from the assembly in Her own water form.
The Siddha Yogini Radha came to know also, by Her Yogic power, the secrets of Ganga and became ready to drink the whole water in one sip. Ganga, knowing this intention of Radha, by Her Yogic power, took refuge of Krisna and entered into His feet. Then Radha began to look out for Ganga everywhere First She searched in Goloka, then Vaikuntha, then Brahma-loka; then She searched all the Lokas one by one but no where did She find Ganga. All the places in Goloka became void of of water; all turned out dried mud and all the aquatic animals died and fell to the ground. And Brahma, Visnu, S’iva, Ananta, Dharma, Indra, Moon, Sun, Manus, Munis, Siddhas, ascetics all became very thirsty and their throats became parched. They then went to Goloka, and bowed down with devotion to S’ri Krisna, Who was the Lord of all, beyond Prakriti, the Supreme, worthy to be worshipped, the Bestower of boons, the Best, and the Cause of boons; Who is the Lord of Gopas and Gopis; Who is formless, without any desire, unattached, without refuge, attributeless, without any enthusiasm, changeless, and unstained; Who is All Will and who assumes forms to show favour to His
devotees; Who is Sattva, the Lord of truth, the Witness and eternal Purusa and Who is the Highest, the Supreme Lord, the Best and Excellent, the Highest Self and the Supreme God. They began to hymn Him. All were filled with intense feelings with devotion; tears of love were flowing from their eyes and the bodies of all were filled with ecstasy, the hairs standing in ends. He was Para Brahma; His Substance was made of Transcendental Light, Who is the Cause of all Causes, who was seated in a wonderful throne, built of invaluable gems and jewels, who was being fanned by the Gopas with white chowries, who was seeing and hearing with great delight, and smiling countenance, the dancing and singing of the Gopis, who was chewing the scented betel offered by Radha and who was residing in. the heart of His dearest S’ri Radha, who was the Perfect, all pervading, and the Lord of the Rasa Circle. The Manus, Munis, and the ascetics all bowed down to S’ri Krisna, no sooner they beheld Him. Joy and wonder at once caught hold of their hearts. They then looked at one another and gave over to Brahma the task of communicating their feelings. The four faced Brahma, with Visnu on His right and Varna Deva on His left, gradually came in front of S’ri Krisna. Wherever He cast His glance in the Rasa Mandalam, He saw S’ri Krisna, full of the Highest Bliss, of the nature of the Highest Bliss, sitting. All have turned out Krisnas; their seats were all uniform; all were two armed and with flutes in their hands; on every one's neck is the forest garland; peacock's tail was on the top of everyone's crest and Kaustubha jewels were on all their breasts. The Forms of all of them were very beautiful; very lovely and very peaceful. No difference at all between them whether in form, or in qualities, or in ornaments, or in radiance, in age, in lustre, in no respect no one was inferior to another. No one was imperfect; no one was deficient in lordliness. It was indeed very difficult to make out who was the master and who was the servant. Sometimes He is seen in His Teja form as the Great Light, and there is nothing else; sometimes there is that Clear Divine Form; sometimes He comes Formless; sometimes with form; and again sometimes both with and without form. Sometimes there is no Radha; there is only Krisna;
And sometimes again in every seat there is the Yugal Murti Radha
and Krisna combined. Sometimes Radha assumes the form of Krisna. So the Creator Brahma could not make out whether S’ri Krisna was a female or a male. At last He meditated on S’ri Krisna in his heart-lotus and began to chant hymns to Him with devotion and prayed for forgiveness for his misdoings. When S’ri Krisna got pleased, the Creator, opening His eyes, saw S’ri Krisna on the breast of S’ri Radha. There were His attendants on all the sides and the Gopis all around. Seeing this, Brahma, Visnu, and MahesVara bowed down to Him and sang His praises.
108-113. S’ri Krisna, the Lord of Laksmi, the Omnipresent, Cause of all, the Lord of all, and the Internal Ruler of all, knew their intentions and, addressing them, separately said “O Brahman! Is it all well with you? O Lord of Kamala! Come here. O Mahadeva! Come here; let all be well to you. You all have come to me for Ganga. Ganga has taken refuge under My feet out of fear for Radha. Seeing Ganga by My side, Radha wanted to drink Her up. However I will give over Ganga to the hands of you all; but you will have to pray to Radha, so that Ganga becomes fearless of Her.” The lotus born Brahma smiled at S’ri Krisna's words and began to sing hymns to Radha, Who is fit to be worshipped by all. The Creator Brahma, the Compiler of the Four Vedas, the Four-faced One praised Radha with His Four heads, bent low and addressed Her thus
114-125. Brahma said “O Radhe! Ganga, appeared from Thee and the Lord S’ri Krisna. Both of you were transformed before into the liquid forms in the Rasa Mandalam, on hearing the music of S'ankara. And That Lquid Form is Ganga. So She is born of Thee and S’ri Krisna. Hence She is like Thy daughter and to be loved as such. She will be initiated in Thy Mantra and She will worship Thee The four armed Lord of Vaikuntha will be Her husband. And when She will appear in parts on earth, the Salt Ocean will be Her husband. O Mother! The Ganga that dwells in Goloka, is dwelling
everywhere. O Governess of the Devas! Thou art Her mother; and She is always Thy Self born daughter.” Hearing thus, the words of Brahma, Radha gave Her assent towards the protection of Ganga. And then Ganga appeared from the toe-tip of S’ri Krisna. The liquid Ganga, then, assumed Her own form and, getting up from water, was received with great honour by the Devas. Bhagavan Brahma took a little of that Ganges water in His Kamandalu and Bhagavan Mahadeva kept some of it in His own head.
The lotus born Brahma, then, initiated Ganga into the Radha Mantra and gave Her instructions, Radha Stotra (hymn of Radha) according to the Sama Veda, Radha Kavacha (protection mantras), Radha Dhyan (meditation on Radha), method of worship of Radha, and Radha's purascharana. Ganga worshipped Radha according to those instructions and went to Vaikuntha. O Muni! Laksmi, Sarasvati, Ganga, and the world purifying Tulasi, these four became the wives of Narayana. Krisna, then, smiled and explained to Brahma the history of Time, hardly to be comprehended by others. He then spoke “O Brahma! O Visnu! O MahesVara! Now you better take Ganga and I will now tell you what a change has been effected by this time. Hear.
126-136. You, the three Devas, the other Devas, Munis, Manus, Siddhas, and other Mahatmas that are present here, are living now. For this region of Goloka is not affected by Kala (Time). Now the Kalpa is going to expire. So in the other regions than Goloka and Vaikuntha, the Brahmas, etc., that were existing in all other Universes, have all now dissolved in My Body. O Lotus-born! Save Goloka and Vaikuntha, all are now under water, the pre-state of earth. Better go and create your own Brahmandas and Ganga will go to that newly created Brahmanda. I will also create other worlds and the Brahmas thereof. Now you all better go with the Devas and do your own works respectively. You have waited here for a long
interval. As many Brahmas that have fallen all appear again.” Thus saying S’ri Krisna, the Lord of Radha went to His Inner Chamber.
The Devas also instantly retired from that spot and engaged themselves earnestly in the creation work. Ganga remained as before till then in the region of Goloka, Vaikuntha, S’ivaloka, Brahma- loka, and in other places, by the command of S’ri Krisna. She is named Visnupadi, because She appeared from the feet of Visnu. Thus I have described to you this pleasant, essential story of Ganga, leading to liberation. What more do you now want to hear? Say.
Here ends the Thirteenth Chapter on the anecdote of Ganga in the Ninth Book in the Mahapuranam S’ri Mad Devi Bhagavatam of 18,000 verses by Maharsi Veda Vyasa.
Complete chapter-aligned witnesses. Sanskrit Wikisource page 24496, revision 75068 (2016-07-24T06:08:15Z). English is Swami Vijñanananda’s complete 1921–23 public-domain translation, controlled against the archival OCR and its chapter page at https://sacred-texts.com/hin/db/bk09ch13.htm. Historic spelling and transliteration are lightly normalized; no verse-by-verse alignment is asserted.