Skip to main content

Twelfth Skandha · Chapter 11

Chapter 11

Unit 315 of 318Twelfth Skandha · Chapter 11Twelfth Skandha · Chapter 111 source entries

Twelfth Skandha · Chapter 11

Source

पद्मरागादिमणिविनिर्मितप्राकारवर्णनम् व्यास उवाच पुष्परागमयादग्रे कुङ्‌कुमारुणविग्रहः । पद्मरागमयः सालो मध्ये भूश्चैव तादृशी ॥ १ ॥ दशयोजनवान्दैर्घ्ये गोपुरद्वारसंयुतः । तन्मणिस्तम्भसंयुक्ता मण्डपाः शतशो नृप ॥ २ ॥ मध्ये भुवि समासीनाश्चतुःषष्टिमिताः कलाः । नानायुधधरा वीरा रत्‍नभूषणभूषिताः ॥ ३ ॥ प्रत्येकलोकस्तासां तु तत्तल्लोकस्य नायकाः । समन्तात्पद्मरागस्य परिवार्य स्थिताः सदा ॥ ४ ॥ स्वस्वलोकजनैर्जुष्टाः स्वस्ववाहनहेतिभिः । तासां नामानि वक्ष्यामि शृणु त्वं जनमेजय ॥ ५ ॥ पिङ्‌गलाक्षी विशालाक्षी समृद्धिर्वृद्धिरेव च । श्रद्धा स्वाहा स्वधाभिख्या माया संज्ञा वसुन्धरा ॥ ६ ॥ त्रिलोकधात्री सावित्री गायत्री त्रिदशेश्वरी । सुरूपा बहुरूपा च स्कन्दमाताच्युतप्रिया ॥ ७ ॥ विमला चामला तद्वदरुणी पुनरारुणी । प्रकृतिर्विकृतिः सृष्टिः स्थितिः संहृतिरेव च ॥ ८ ॥ सन्ध्या माता सती हंसी मर्दिका वज्रिका परा । देवमाता भगवती देवकी कमलासना ॥ ९ ॥ त्रिमुखी सप्तमुख्यन्या सुरासुरविमर्दिनी । लम्बोष्ठी चोर्ध्वकेशी च बहुशीर्षा वृकोदरी ॥ १० ॥ रथरेखाह्वया पश्चाच्छशिरेखा तथापरा । गगनवेगा पवनवेगा वेगा चैव ततः परम् ॥ ११ ॥ अग्रे भुवनपाला स्यात्तत्पश्चान्मदनातुरा । अनङ्‌गानङ्‌गमथना तथैवानङ्‌गमेखला ॥ १२ ॥ अनङ्‌गकुसुमा पश्चाद्विश्वरूपा सुरादिका । क्षयङ्‌करी भवेच्छक्तिरक्षोभ्या च ततः परम् ॥ १३ ॥ सत्यवादिन्यथ प्रोक्ता बहुरूपा शुचितव्रता । उदाराख्या च वागीशी चतुःषष्टिमिताः स्मृताः ॥ १४ ॥ ज्वलज्जिह्नाननाः सर्वा वमन्त्यो वह्निमुल्बणम् । जलं पिबामः सकलं संहरामो विभावसुम् ॥ १५ ॥ पवनं स्तम्भयामोऽद्य भक्षयामोऽखिलं जगत् । इति वाचं संगिरन्ते क्रोधसंरक्तलोचनाः ॥ १६ ॥ चापबाणधराः सर्वा युद्धायैवोत्सुकाः सदा । दंष्ट्राकटकटारावैर्बधिरीकृतदिङ्‌मुखाः ॥ १७ ॥ पिङ्‌गोर्ध्वकेश्यः सम्प्रोक्ताश्चापबाणकराः सदा । शताक्षौहिणिका सेनाप्येकैकस्याः प्रकीर्तिता ॥ १८ ॥ एकैकशक्तेः सामर्थ्यं लक्षब्रह्माण्डनाशने । शताक्षौहिणिका सेना तादृशी नृपसत्तम ॥ १९ ॥ किं न कुर्याज्जगत्यस्मिन्नशक्यं वक्तुमेव तत् । सर्वापि युद्धसामग्री तस्मिन्साले स्थिता मुने ॥ २० ॥ रथानां गणना नास्ति हयानां करिणां तथा । शस्त्राणां गणना तद्वद्‌गणानां गणना तथा ॥ २१ ॥ पद्मरागमयादग्रे गोमेदमणिनिर्मितः । दशयोजनदैर्घ्येण प्राकारो वर्तते महान् ॥ २२ ॥ भास्वज्जपाप्रसूनाभो मध्यभूस्तस्य तादृशी । गोमेदकल्पितान्येव तद्वासिसदनानि च ॥ २३ ॥ पक्षिणः स्तम्भवर्याश्च वृक्षा वाप्यः सरांसि च । गोमेदकल्पिता एव कुङ्‌कुमारुणविग्रहाः ॥ २४ ॥ तन्मध्यस्था महादेव्यो द्वात्रिंशच्छक्तयः स्मृताः । नानाशस्त्रप्रहरणा गोमेदमणिभूषिताः ॥ २५ ॥ प्रत्येकलोकवासिन्यः परिवार्य समन्ततः । गोमेदसाले सन्नद्धाः पिशाचवदना नृप ॥ २६ ॥ स्वर्लोकवासिभिर्नित्यं पूजिताश्चक्रबाहवः । क्रोधरक्तेक्षणा भिन्धि पचच्छिन्धि दहेति च ॥ २७ ॥ वदन्ति सततं वाचं युद्धोत्सुकहृदन्तराः । एकैकस्या महाशक्तेर्दशाक्षौहिणिका मता ॥ २८ ॥ सेना तत्राप्येकशक्तिर्लक्षब्रह्माण्डनाशिनी । तादृशीनां महासेना वर्णनीया कथं नृप ॥ २९ ॥ रथानां नैव गणना वाहनानां तथैव च । सर्वयुद्धसमारम्भस्तत्र देव्या विराजते ॥ ३० ॥ तासां नामानि वक्ष्यामि पापनाशकराणि च । विद्याह्रीपुष्टयः प्रज्ञा सिनीवाली कुहूस्तथा ॥ ३१ ॥ रुद्रा वीर्या प्रभा नन्दा पोषिणी ऋद्धिदा शुभा । कालरात्रिर्महारात्रिर्भद्रकाली कपर्दिनी ॥ ३२ ॥ विकृतिर्दण्डिमुण्डिन्यौ सेन्दुखण्डा शिखण्डिनी । निशुम्भशुम्भमथिनी महिषासुरमर्दिनी ॥ ३३ ॥ इन्द्राणी चैव रुद्राणी शङ्‌करार्धशरीरिणी । नारी नारायणी चैव त्रिशूलिन्यपि पालिनी ॥ ३४ ॥ अम्बिका ह्लादिनी पश्चादित्येवं शक्तयः स्मृताः । यद्येताः कुपिता देव्यस्तदा ब्रह्माण्डनाशनम् ॥ ३५ ॥ पराजयो न चैतासां कदाचित्क्वचिदस्ति हि । गोमेदकमयादग्रे सद्वज्रमणिनिर्मितः ॥ ३६ ॥ दशयोजनतुङ्‌गोऽसौ गोपुरद्वारसंयुतः । कपाटशृङ्‌खलाबद्धो नववृक्षसमुज्ज्वलः ॥ ३७ ॥ सालस्तन्मध्यभूम्यादि सर्वं हीरमयं स्मृतम् । गृहाणि वीथयो रथ्या महामार्गाङ्‌गणानि च ॥ ३८ ॥ वृक्षालवालतरवः सारङ्‌गा अपि तादृशाः । दीर्घिकाश्रेणयो वाप्यस्तडागाः कूपसंयुताः ॥ ३९ ॥ तत्र श्रीभुवनेश्वर्या वसन्ति परिचारिकाः । एकैका लक्षदासीभिः सेविता मदगर्विताः ॥ ४० ॥ तालवृन्तधराः काश्चिच्चषकाढ्यकराम्बुजाः । काश्चित्ताम्बूलपात्राणि धारयन्त्योऽतिगर्विताः ॥ ४१ ॥ काश्चित्तच्छत्रधारिण्यश्चामराणां विधारिकाः । नानावस्त्रधराः काश्चित्काश्चित्पुष्पकराम्बुजाः ॥ ४२ ॥ नानादर्शकराः काश्चित्काश्चित्कुङ्‌कुमलेपनम् । धारयन्त्यः कज्जलं च सिन्दूरचषकं पराः ॥ ४३ ॥ काश्चिच्चित्रकनिर्मात्र्यः पादसंवाहने रताः । काश्चित्तु भूषाकारिण्यो नानाभूषाधराः पराः ॥ ४४ ॥ पुष्पभूषणनिर्मात्र्यः पुष्पशृङ्‌गारकारिकाः । नानाविलासचतुरा बह्व्य एवंविधाः पराः ॥ ४५ ॥ निबद्धपरिधानीया युवत्यः सकला अपि । देवीकृपालेशवशात्तुच्छीकृतजगत्त्रयाः ॥ ४६ ॥ एता दूत्यः स्मृता देव्यः शृङ्‌गारमदगर्विताः । तासां नामानि वक्ष्यामि शृणु मे नृपसत्तम ॥ ४७ ॥ अनङ्‌गरूपा प्रथमाप्यनङ्‌गमदना परा । तृतीया तु ततः प्रोक्ता सुन्दरी मदनातुरा ॥ ४८ ॥ ततो भुवनवेगा स्यात्तथा भुवनपालिका । स्यात्सर्वशिशिरानङ्‌गवदनानङ्‌गमेखला ॥ ४९ ॥ विद्युद्दामसमानाङ्‌ग्यः क्वणत्काञ्चीगुणान्विताः । रणन्मञ्जीरचरणा बहिरन्तरितस्ततः ॥ ५० ॥ धावमानास्तु शोभन्ते सर्वा विद्युल्लतोपमाः । कुशलाः सर्वकार्येषु वेत्रहस्ताः समन्ततः ॥ ५१ ॥ अष्टदिक्षु तथैतासां प्राकाराद्‌बहिरेव च । सदनानि विराजन्ते नानावाहनहेतिभिः ॥ ५२ ॥ वज्रसालादग्रभागे सालो वैदूर्यनिर्मितः । दशयोजनतुङ्‌गोऽसौ गोपुरद्वारभूषितः ॥ ५३ ॥ वैदूर्यभूमिः सर्वापि गृहाणि विविधानि च । वीथ्यो रथ्या महामार्गाः सर्वे वैदूर्यनिर्मिताः ॥ ५४ ॥ वापीकूपतडागाश्च स्रवन्तीनां तटानि च । बालुका चैव सर्वापि वैदूर्यमणिनिर्मिता ॥ ५५ ॥ तत्राष्टदिक्षु परितो ब्राह्म्यादीनां च मण्डलम् । निजैर्गणैः परिवृतं भ्राजते नृपसत्तम ॥ ५६ ॥ प्रतिब्रह्माण्डमातॄणां ताः समष्टय ईरिताः । ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी तथा ॥ ५७ ॥ वाराही च तथेन्द्राणी चामुण्डा सप्त मातरः । अष्टमी तु महालक्ष्मीर्नाम्ना प्रोक्तास्तु मातरः ॥ ५८ ॥ ब्रह्मरुद्रादिदेवानां समाकारास्तु ताः स्मृताः । जगत्कल्याणकारिण्यः स्वस्वसेनासमावृताः ॥ ५९ ॥ तत्सालस्य चतुर्द्वार्षु वाहनानि महेशितुः । सज्जानि नृपते सन्ति सालङ्‌काराणि नित्यशः ॥ ६० ॥ दन्तिनः कोटिशो वाहाः कोटिशः शिबिकास्तथा । हंसाः सिंहाश्च गरुडा मयूरा वृषभास्तथा ॥ ६१ ॥ तैर्युक्ताः स्यन्दनास्तद्वत्कोटिशो नृपनन्दन । पार्ष्णिग्राहसमायुक्ता ध्वजैराकाशचुम्बिनः ॥ ६२ ॥ कोटिशस्तु विमानानि नानाचिह्नान्वितानि च । नानावादित्रयुक्तानि महाध्वजयुतानि च ॥ ६३ ॥ वैदूर्यमणिसालस्याप्यग्रे सालः परः स्मृतः । दशयोजनतुङ्‌गोऽसाविन्द्रनीलाश्मनिर्मितः ॥ ६४ ॥ तन्मध्यभूस्तथा वीथ्यो महामार्गा गृहाणि च । वापीकूपतडागाश्च सर्वे तन्मणिनिर्मिताः ॥ ६५ ॥ तत्र पद्मं तु सम्प्रोक्तं बहुयोजनविस्तृतम् । षोडशारं दीप्यमानं सुदर्शनमिवापरम् ॥ ६६ ॥ तत्र षोडशशक्तीनां स्थानानि विविधानि च । सर्वोपस्करयुक्तानि समृद्धानि वसन्ति हि ॥ ६७ ॥ तासां नामानि वक्ष्यामि शृणु मे नृपसत्तम । कराली विकराली च तथोमा च सरस्वती ॥ ६८ ॥ श्रीदुर्गोषा तथा लक्ष्मीः श्रुतिश्चैव स्मृतिर्धृतिः । श्रद्धा मेधा मतिः कान्तिरार्या षोडश शक्तयः ॥ ६९ ॥ नीलजीमूतसंकाशाः करवालकराम्बुजाः । समाः खेटकधारिण्यो युद्धोपक्रान्तमानसाः ॥ ७० ॥ सेनान्यः सकला एताः श्रीदेव्या जगदीशितुः । प्रतिब्रह्माण्डसंस्थानां शक्तीनां नायिकाः स्मृताः ॥ ७१ ॥ ब्रह्माण्डक्षोभकारिण्यो देवीशक्त्युपबृंहिताः । नानारथसमारूढा नानाशक्तिभिरन्विताः ॥ ७२ ॥ एतत्पराक्रमं वक्तुं सहस्रास्योऽपि न क्षमः । इन्द्रनीलमहासालादग्रे तु बहुविस्तृतः ॥ ७३ ॥ मुक्ताप्राकार उदितो दशयोजनदैर्घ्यवान् । मध्यभूः पूर्ववत्प्रोक्ता तन्मध्येऽष्टदलाम्बुजम् ॥ ७४ ॥ मुक्तामणिगणाकीर्णं विस्तृतं तु सकेसरम् । तत्र देवीसमाकारा देव्यायुधधराः सदा ॥ ७५ ॥ सम्प्रोक्ता अष्टमन्त्रिण्यो जगद्वार्ताप्रबोधिकाः । देवीसमानभोगास्ता इङ्‌गितज्ञास्तु पण्डिताः ॥ ७६ ॥ कुशलाः सर्वकार्येषु स्वामिकार्यपरायणाः । देव्यभिप्रायबोध्यस्ताश्चतुरा अतिसुन्दराः ॥ ७७ ॥ नानाशक्तिसमायुक्ताः प्रतिब्रह्माण्डवर्तिनाम् । प्राणिनां ताः समाचारं ज्ञानशक्त्या विदन्ति च ॥ ७८ ॥ तासां नामानि वक्ष्यामि मत्तः शृणु नृपोत्तम । अनङ्‌गकुसुमा प्रोक्ताप्यनङ्‌गकुसुमातुरा ॥ ७९ ॥ अनङ्‌गमदना तद्वदनङ्‌गमदनातुरा । भुवनपाला गगनवेगा चैव ततः परम् ॥ ८० ॥ शशिरेखा च गगनरेखा चैव ततः परम् । पाशाङ्‌कुशवराभीतिधरा अरुणविग्रहाः ॥ ८१ ॥ विश्वसम्बन्धिनीं वार्तां बोधयन्ति प्रतिक्षणम् । मुक्तासालादग्रभागे महामारकतोऽपरः ॥ ८२ ॥ सालोत्तमः समुद्दिष्टो दशयोजनदैर्घ्यवान् । नानासौभाग्यसंयुक्तो नानाभोगसमन्वितः ॥ ८३ ॥ मध्यभूस्तादृशी प्रोक्ता सदनानि तथैव च । षट्कोणमत्र विस्तीर्णं कोणस्था देवताः शृणु ॥ ८४ ॥ पूर्वकोणे चतुर्वक्त्रो गायत्रीसहितो विधिः । कुण्डिकाक्षगुणाभीतिदण्डायुधधरः परः ॥ ८५ ॥ तदायुधधरा देवी गायत्री परदेवता । वेदाः सर्वे मूर्तिमन्तः शास्त्राणि विविधानि च ॥ ८६ ॥ स्मृतयश्च पुराणानि मूर्तिमन्ति वसन्ति हि । ये ब्रह्मविग्रहाः सन्ति गायत्रीविग्रहाश्च ये ॥ ८७ ॥ व्याहृतीनां विग्रहाश्च ते नित्यं तत्र सन्ति हि । रक्षःकोणे शङ्‌खचक्रगदाम्बुजकराम्बुजा ॥ ८८ ॥ सावित्री वर्तते तत्र महाविष्णुश्च तादृशः । ये विष्णुविग्रहाः सन्ति मत्स्यकूर्मादयोऽखिलाः ॥ ८९ ॥ सावित्रीविग्रहा ये च ते सर्वे तत्र सन्ति हि । वायुकोणे परश्वक्षमालाभयवरान्वितः ॥ ९० ॥ महारुद्रो वर्ततेऽत्र सरस्वत्यपि तादृशी । ये ये तु रुद्रभेदाः स्युर्दक्षिणास्यादयो नृप ॥ ९१ ॥ गौरीभेदाश्च ये सर्वे ते तत्र निवसन्ति हि । चतुःषष्ट्यागमा ये च ये चान्येऽप्यागमाः स्मृताः ॥ ९२ ॥ ते सर्वे मूर्तिमन्तश्च तत्रैव निवसन्ति हि । अग्निकोणे रत्‍नकुम्भं तथा मणिकरण्डकम् ॥ ९३ ॥ दधानो निजहस्ताभ्यां कुबेरो धनदायकः । नानावीथीसमायुक्तो महालक्ष्मीसमन्वितः ॥ ९४ ॥ देव्या निधिपतिस्त्वास्ते स्वगुणैः परिवेष्टितः । वारुणे तु महाकोणे मदनो रतिसंयुतः ॥ ९५ ॥ पाशाङ्‌कुशधनुर्बाणधरो नित्यं विराजते । शृङ्‌गारा मूर्तिमन्तस्तु तत्र सन्निहिताः सदा ॥ ९६ ॥ ईशानकोणे विघ्नेशो नित्यं पुष्टिसमन्वितः । पाशाङ्‌कुशधरो वीरो विघ्नहर्ता विराजते ॥ ९७ ॥ विभूतयो गणेशस्य या याः सन्ति नृपोत्तम । ताः सर्वा निवसन्त्यत्र महैश्वर्यसमन्विताः ॥ ९८ ॥ प्रतिब्रह्माण्डसंस्थानां ब्रह्मादीनां समष्टयः । एते ब्रह्मादयः प्रोक्ताः सेवन्ते जगदीश्वरीम् ॥ ९९ ॥ महामारकतस्याग्रे शतयोजनदैर्घ्यवान् । प्रवालसालोऽस्त्यपरः कुङ्‌कुमारुणविग्रहः ॥ १०० ॥ मध्यभूस्तादृशी प्रोक्ता सदनानि च पूर्ववत् । तन्मध्ये पञ्चभूतानां स्वामिन्यः पञ्च सन्ति च ॥ १०१ ॥ हृल्लेखा गगना रक्ता चतुर्थी तु करालिका । महोच्छुष्मा पञ्चमी च पञ्चभूतसमप्रभाः ॥ १०२ ॥ पाशाङ्‌कुशवराभीतिधारिण्योऽमितभूषणाः । देवीसमानवेषाढ्या नवयौवनगर्विताः ॥ १०३ ॥ प्रवालसालादग्रे तु नवरत्‍नविनिर्मितः । बहुयोजनविस्तीर्णो महासालोऽस्ति भूमिप ॥ १०४ ॥ तत्र चाम्नायदेवीनां सदनानि बहून्यपि । नवरत्‍नमयान्येव तडागाश्च सरांसि च ॥ १०५ ॥ श्रीदेव्या येऽवताराः स्युस्ते तत्र निवसन्ति हि । महाविद्या महाभेदाः सन्ति तत्रैव भूमिप ॥ १०६ ॥ निजावरणदेवीभिर्निजभूषणवाहनैः । सर्वदेव्यो विराजन्ते कोटिसूर्यसमप्रभाः ॥ १०७ ॥ सप्तकोटिमहामन्त्रदेवताः सन्ति तत्र हि । नवरत्‍नमयादग्रे चिन्तामणिगृहं महत् ॥ १०८ ॥ तत्रत्यं वस्तुमात्रं तु चिन्तामणिविनिर्मितम् । सूर्योद्‌गारोपलैस्तद्वच्चन्द्रोद्‌गारोपलैस्तथा ॥ १०९ ॥ विद्युत्प्रभोपलैः स्तम्भाः कल्पितास्तु सहस्रशः । येषां प्रभाभिरन्तःस्थं वस्तु किञ्चिन्न दृश्यते ॥ ११० ॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां सहितायां द्वादशस्कन्धे पद्मरागादिमणिविनिर्मितप्राकारवर्णनं नामैकादशोऽध्यायः ॥ ११ ॥

padmarāgādimaṇivinirmitaprākāravarṇanam vyāsa uvāca puṣparāgamayādagre kuṅ‌kumāruṇavigrahaḥ | padmarāgamayaḥ sālo madhye bhūścaiva tādṛśī || 1 || daśayojanavāndairghye gopuradvārasaṃyutaḥ | tanmaṇistambhasaṃyuktā maṇḍapāḥ śataśo nṛpa || 2 || madhye bhuvi samāsīnāścatuḥṣaṣṭimitāḥ kalāḥ | nānāyudhadharā vīrā rat‍nabhūṣaṇabhūṣitāḥ || 3 || pratyekalokastāsāṃ tu tattallokasya nāyakāḥ | samantātpadmarāgasya parivārya sthitāḥ sadā || 4 || svasvalokajanairjuṣṭāḥ svasvavāhanahetibhiḥ | tāsāṃ nāmāni vakṣyāmi śṛṇu tvaṃ janamejaya || 5 || piṅ‌galākṣī viśālākṣī samṛddhirvṛddhireva ca | śraddhā svāhā svadhābhikhyā māyā saṃjñā vasundharā || 6 || trilokadhātrī sāvitrī gāyatrī tridaśeśvarī | surūpā bahurūpā ca skandamātācyutapriyā || 7 || vimalā cāmalā tadvadaruṇī punarāruṇī | prakṛtirvikṛtiḥ sṛṣṭiḥ sthitiḥ saṃhṛtireva ca || 8 || sandhyā mātā satī haṃsī mardikā vajrikā parā | devamātā bhagavatī devakī kamalāsanā || 9 || trimukhī saptamukhyanyā surāsuravimardinī | lamboṣṭhī cordhvakeśī ca bahuśīrṣā vṛkodarī || 10 || ratharekhāhvayā paścācchaśirekhā tathāparā | gaganavegā pavanavegā vegā caiva tataḥ param || 11 || agre bhuvanapālā syāttatpaścānmadanāturā | anaṅ‌gānaṅ‌gamathanā tathaivānaṅ‌gamekhalā || 12 || anaṅ‌gakusumā paścādviśvarūpā surādikā | kṣayaṅ‌karī bhavecchaktirakṣobhyā ca tataḥ param || 13 || satyavādinyatha proktā bahurūpā śucitavratā | udārākhyā ca vāgīśī catuḥṣaṣṭimitāḥ smṛtāḥ || 14 || jvalajjihnānanāḥ sarvā vamantyo vahnimulbaṇam | jalaṃ pibāmaḥ sakalaṃ saṃharāmo vibhāvasum || 15 || pavanaṃ stambhayāmo'dya bhakṣayāmo'khilaṃ jagat | iti vācaṃ saṃgirante krodhasaṃraktalocanāḥ || 16 || cāpabāṇadharāḥ sarvā yuddhāyaivotsukāḥ sadā | daṃṣṭrākaṭakaṭārāvairbadhirīkṛtadiṅ‌mukhāḥ || 17 || piṅ‌gordhvakeśyaḥ samproktāścāpabāṇakarāḥ sadā | śatākṣauhiṇikā senāpyekaikasyāḥ prakīrtitā || 18 || ekaikaśakteḥ sāmarthyaṃ lakṣabrahmāṇḍanāśane | śatākṣauhiṇikā senā tādṛśī nṛpasattama || 19 || kiṃ na kuryājjagatyasminnaśakyaṃ vaktumeva tat | sarvāpi yuddhasāmagrī tasminsāle sthitā mune || 20 || rathānāṃ gaṇanā nāsti hayānāṃ kariṇāṃ tathā | śastrāṇāṃ gaṇanā tadvad‌gaṇānāṃ gaṇanā tathā || 21 || padmarāgamayādagre gomedamaṇinirmitaḥ | daśayojanadairghyeṇa prākāro vartate mahān || 22 || bhāsvajjapāprasūnābho madhyabhūstasya tādṛśī | gomedakalpitānyeva tadvāsisadanāni ca || 23 || pakṣiṇaḥ stambhavaryāśca vṛkṣā vāpyaḥ sarāṃsi ca | gomedakalpitā eva kuṅ‌kumāruṇavigrahāḥ || 24 || tanmadhyasthā mahādevyo dvātriṃśacchaktayaḥ smṛtāḥ | nānāśastrapraharaṇā gomedamaṇibhūṣitāḥ || 25 || pratyekalokavāsinyaḥ parivārya samantataḥ | gomedasāle sannaddhāḥ piśācavadanā nṛpa || 26 || svarlokavāsibhirnityaṃ pūjitāścakrabāhavaḥ | krodharaktekṣaṇā bhindhi pacacchindhi daheti ca || 27 || vadanti satataṃ vācaṃ yuddhotsukahṛdantarāḥ | ekaikasyā mahāśakterdaśākṣauhiṇikā matā || 28 || senā tatrāpyekaśaktirlakṣabrahmāṇḍanāśinī | tādṛśīnāṃ mahāsenā varṇanīyā kathaṃ nṛpa || 29 || rathānāṃ naiva gaṇanā vāhanānāṃ tathaiva ca | sarvayuddhasamārambhastatra devyā virājate || 30 || tāsāṃ nāmāni vakṣyāmi pāpanāśakarāṇi ca | vidyāhrīpuṣṭayaḥ prajñā sinīvālī kuhūstathā || 31 || rudrā vīryā prabhā nandā poṣiṇī ṛddhidā śubhā | kālarātrirmahārātrirbhadrakālī kapardinī || 32 || vikṛtirdaṇḍimuṇḍinyau sendukhaṇḍā śikhaṇḍinī | niśumbhaśumbhamathinī mahiṣāsuramardinī || 33 || indrāṇī caiva rudrāṇī śaṅ‌karārdhaśarīriṇī | nārī nārāyaṇī caiva triśūlinyapi pālinī || 34 || ambikā hlādinī paścādityevaṃ śaktayaḥ smṛtāḥ | yadyetāḥ kupitā devyastadā brahmāṇḍanāśanam || 35 || parājayo na caitāsāṃ kadācitkvacidasti hi | gomedakamayādagre sadvajramaṇinirmitaḥ || 36 || daśayojanatuṅ‌go'sau gopuradvārasaṃyutaḥ | kapāṭaśṛṅ‌khalābaddho navavṛkṣasamujjvalaḥ || 37 || sālastanmadhyabhūmyādi sarvaṃ hīramayaṃ smṛtam | gṛhāṇi vīthayo rathyā mahāmārgāṅ‌gaṇāni ca || 38 || vṛkṣālavālataravaḥ sāraṅ‌gā api tādṛśāḥ | dīrghikāśreṇayo vāpyastaḍāgāḥ kūpasaṃyutāḥ || 39 || tatra śrībhuvaneśvaryā vasanti paricārikāḥ | ekaikā lakṣadāsībhiḥ sevitā madagarvitāḥ || 40 || tālavṛntadharāḥ kāściccaṣakāḍhyakarāmbujāḥ | kāścittāmbūlapātrāṇi dhārayantyo'tigarvitāḥ || 41 || kāścittacchatradhāriṇyaścāmarāṇāṃ vidhārikāḥ | nānāvastradharāḥ kāścitkāścitpuṣpakarāmbujāḥ || 42 || nānādarśakarāḥ kāścitkāścitkuṅ‌kumalepanam | dhārayantyaḥ kajjalaṃ ca sindūracaṣakaṃ parāḥ || 43 || kāściccitrakanirmātryaḥ pādasaṃvāhane ratāḥ | kāścittu bhūṣākāriṇyo nānābhūṣādharāḥ parāḥ || 44 || puṣpabhūṣaṇanirmātryaḥ puṣpaśṛṅ‌gārakārikāḥ | nānāvilāsacaturā bahvya evaṃvidhāḥ parāḥ || 45 || nibaddhaparidhānīyā yuvatyaḥ sakalā api | devīkṛpāleśavaśāttucchīkṛtajagattrayāḥ || 46 || etā dūtyaḥ smṛtā devyaḥ śṛṅ‌gāramadagarvitāḥ | tāsāṃ nāmāni vakṣyāmi śṛṇu me nṛpasattama || 47 || anaṅ‌garūpā prathamāpyanaṅ‌gamadanā parā | tṛtīyā tu tataḥ proktā sundarī madanāturā || 48 || tato bhuvanavegā syāttathā bhuvanapālikā | syātsarvaśiśirānaṅ‌gavadanānaṅ‌gamekhalā || 49 || vidyuddāmasamānāṅ‌gyaḥ kvaṇatkāñcīguṇānvitāḥ | raṇanmañjīracaraṇā bahirantaritastataḥ || 50 || dhāvamānāstu śobhante sarvā vidyullatopamāḥ | kuśalāḥ sarvakāryeṣu vetrahastāḥ samantataḥ || 51 || aṣṭadikṣu tathaitāsāṃ prākārād‌bahireva ca | sadanāni virājante nānāvāhanahetibhiḥ || 52 || vajrasālādagrabhāge sālo vaidūryanirmitaḥ | daśayojanatuṅ‌go'sau gopuradvārabhūṣitaḥ || 53 || vaidūryabhūmiḥ sarvāpi gṛhāṇi vividhāni ca | vīthyo rathyā mahāmārgāḥ sarve vaidūryanirmitāḥ || 54 || vāpīkūpataḍāgāśca sravantīnāṃ taṭāni ca | bālukā caiva sarvāpi vaidūryamaṇinirmitā || 55 || tatrāṣṭadikṣu parito brāhmyādīnāṃ ca maṇḍalam | nijairgaṇaiḥ parivṛtaṃ bhrājate nṛpasattama || 56 || pratibrahmāṇḍamātṝṇāṃ tāḥ samaṣṭaya īritāḥ | brāhmī māheśvarī caiva kaumārī vaiṣṇavī tathā || 57 || vārāhī ca tathendrāṇī cāmuṇḍā sapta mātaraḥ | aṣṭamī tu mahālakṣmīrnāmnā proktāstu mātaraḥ || 58 || brahmarudrādidevānāṃ samākārāstu tāḥ smṛtāḥ | jagatkalyāṇakāriṇyaḥ svasvasenāsamāvṛtāḥ || 59 || tatsālasya caturdvārṣu vāhanāni maheśituḥ | sajjāni nṛpate santi sālaṅ‌kārāṇi nityaśaḥ || 60 || dantinaḥ koṭiśo vāhāḥ koṭiśaḥ śibikāstathā | haṃsāḥ siṃhāśca garuḍā mayūrā vṛṣabhāstathā || 61 || tairyuktāḥ syandanāstadvatkoṭiśo nṛpanandana | pārṣṇigrāhasamāyuktā dhvajairākāśacumbinaḥ || 62 || koṭiśastu vimānāni nānācihnānvitāni ca | nānāvāditrayuktāni mahādhvajayutāni ca || 63 || vaidūryamaṇisālasyāpyagre sālaḥ paraḥ smṛtaḥ | daśayojanatuṅ‌go'sāvindranīlāśmanirmitaḥ || 64 || tanmadhyabhūstathā vīthyo mahāmārgā gṛhāṇi ca | vāpīkūpataḍāgāśca sarve tanmaṇinirmitāḥ || 65 || tatra padmaṃ tu samproktaṃ bahuyojanavistṛtam | ṣoḍaśāraṃ dīpyamānaṃ sudarśanamivāparam || 66 || tatra ṣoḍaśaśaktīnāṃ sthānāni vividhāni ca | sarvopaskarayuktāni samṛddhāni vasanti hi || 67 || tāsāṃ nāmāni vakṣyāmi śṛṇu me nṛpasattama | karālī vikarālī ca tathomā ca sarasvatī || 68 || śrīdurgoṣā tathā lakṣmīḥ śrutiścaiva smṛtirdhṛtiḥ | śraddhā medhā matiḥ kāntirāryā ṣoḍaśa śaktayaḥ || 69 || nīlajīmūtasaṃkāśāḥ karavālakarāmbujāḥ | samāḥ kheṭakadhāriṇyo yuddhopakrāntamānasāḥ || 70 || senānyaḥ sakalā etāḥ śrīdevyā jagadīśituḥ | pratibrahmāṇḍasaṃsthānāṃ śaktīnāṃ nāyikāḥ smṛtāḥ || 71 || brahmāṇḍakṣobhakāriṇyo devīśaktyupabṛṃhitāḥ | nānārathasamārūḍhā nānāśaktibhiranvitāḥ || 72 || etatparākramaṃ vaktuṃ sahasrāsyo'pi na kṣamaḥ | indranīlamahāsālādagre tu bahuvistṛtaḥ || 73 || muktāprākāra udito daśayojanadairghyavān | madhyabhūḥ pūrvavatproktā tanmadhye'ṣṭadalāmbujam || 74 || muktāmaṇigaṇākīrṇaṃ vistṛtaṃ tu sakesaram | tatra devīsamākārā devyāyudhadharāḥ sadā || 75 || samproktā aṣṭamantriṇyo jagadvārtāprabodhikāḥ | devīsamānabhogāstā iṅ‌gitajñāstu paṇḍitāḥ || 76 || kuśalāḥ sarvakāryeṣu svāmikāryaparāyaṇāḥ | devyabhiprāyabodhyastāścaturā atisundarāḥ || 77 || nānāśaktisamāyuktāḥ pratibrahmāṇḍavartinām | prāṇināṃ tāḥ samācāraṃ jñānaśaktyā vidanti ca || 78 || tāsāṃ nāmāni vakṣyāmi mattaḥ śṛṇu nṛpottama | anaṅ‌gakusumā proktāpyanaṅ‌gakusumāturā || 79 || anaṅ‌gamadanā tadvadanaṅ‌gamadanāturā | bhuvanapālā gaganavegā caiva tataḥ param || 80 || śaśirekhā ca gaganarekhā caiva tataḥ param | pāśāṅ‌kuśavarābhītidharā aruṇavigrahāḥ || 81 || viśvasambandhinīṃ vārtāṃ bodhayanti pratikṣaṇam | muktāsālādagrabhāge mahāmārakato'paraḥ || 82 || sālottamaḥ samuddiṣṭo daśayojanadairghyavān | nānāsaubhāgyasaṃyukto nānābhogasamanvitaḥ || 83 || madhyabhūstādṛśī proktā sadanāni tathaiva ca | ṣaṭkoṇamatra vistīrṇaṃ koṇasthā devatāḥ śṛṇu || 84 || pūrvakoṇe caturvaktro gāyatrīsahito vidhiḥ | kuṇḍikākṣaguṇābhītidaṇḍāyudhadharaḥ paraḥ || 85 || tadāyudhadharā devī gāyatrī paradevatā | vedāḥ sarve mūrtimantaḥ śāstrāṇi vividhāni ca || 86 || smṛtayaśca purāṇāni mūrtimanti vasanti hi | ye brahmavigrahāḥ santi gāyatrīvigrahāśca ye || 87 || vyāhṛtīnāṃ vigrahāśca te nityaṃ tatra santi hi | rakṣaḥkoṇe śaṅ‌khacakragadāmbujakarāmbujā || 88 || sāvitrī vartate tatra mahāviṣṇuśca tādṛśaḥ | ye viṣṇuvigrahāḥ santi matsyakūrmādayo'khilāḥ || 89 || sāvitrīvigrahā ye ca te sarve tatra santi hi | vāyukoṇe paraśvakṣamālābhayavarānvitaḥ || 90 || mahārudro vartate'tra sarasvatyapi tādṛśī | ye ye tu rudrabhedāḥ syurdakṣiṇāsyādayo nṛpa || 91 || gaurībhedāśca ye sarve te tatra nivasanti hi | catuḥṣaṣṭyāgamā ye ca ye cānye'pyāgamāḥ smṛtāḥ || 92 || te sarve mūrtimantaśca tatraiva nivasanti hi | agnikoṇe rat‍nakumbhaṃ tathā maṇikaraṇḍakam || 93 || dadhāno nijahastābhyāṃ kubero dhanadāyakaḥ | nānāvīthīsamāyukto mahālakṣmīsamanvitaḥ || 94 || devyā nidhipatistvāste svaguṇaiḥ pariveṣṭitaḥ | vāruṇe tu mahākoṇe madano ratisaṃyutaḥ || 95 || pāśāṅ‌kuśadhanurbāṇadharo nityaṃ virājate | śṛṅ‌gārā mūrtimantastu tatra sannihitāḥ sadā || 96 || īśānakoṇe vighneśo nityaṃ puṣṭisamanvitaḥ | pāśāṅ‌kuśadharo vīro vighnahartā virājate || 97 || vibhūtayo gaṇeśasya yā yāḥ santi nṛpottama | tāḥ sarvā nivasantyatra mahaiśvaryasamanvitāḥ || 98 || pratibrahmāṇḍasaṃsthānāṃ brahmādīnāṃ samaṣṭayaḥ | ete brahmādayaḥ proktāḥ sevante jagadīśvarīm || 99 || mahāmārakatasyāgre śatayojanadairghyavān | pravālasālo'styaparaḥ kuṅ‌kumāruṇavigrahaḥ || 100 || madhyabhūstādṛśī proktā sadanāni ca pūrvavat | tanmadhye pañcabhūtānāṃ svāminyaḥ pañca santi ca || 101 || hṛllekhā gaganā raktā caturthī tu karālikā | mahocchuṣmā pañcamī ca pañcabhūtasamaprabhāḥ || 102 || pāśāṅ‌kuśavarābhītidhāriṇyo'mitabhūṣaṇāḥ | devīsamānaveṣāḍhyā navayauvanagarvitāḥ || 103 || pravālasālādagre tu navarat‍navinirmitaḥ | bahuyojanavistīrṇo mahāsālo'sti bhūmipa || 104 || tatra cāmnāyadevīnāṃ sadanāni bahūnyapi | navarat‍namayānyeva taḍāgāśca sarāṃsi ca || 105 || śrīdevyā ye'vatārāḥ syuste tatra nivasanti hi | mahāvidyā mahābhedāḥ santi tatraiva bhūmipa || 106 || nijāvaraṇadevībhirnijabhūṣaṇavāhanaiḥ | sarvadevyo virājante koṭisūryasamaprabhāḥ || 107 || saptakoṭimahāmantradevatāḥ santi tatra hi | navarat‍namayādagre cintāmaṇigṛhaṃ mahat || 108 || tatratyaṃ vastumātraṃ tu cintāmaṇivinirmitam | sūryod‌gāropalaistadvaccandrod‌gāropalaistathā || 109 || vidyutprabhopalaiḥ stambhāḥ kalpitāstu sahasraśaḥ | yeṣāṃ prabhābhirantaḥsthaṃ vastu kiñcinna dṛśyate || 110 || iti śrīmaddevībhāgavate mahāpurāṇe'ṣṭādaśasāhasryāṃ sahitāyāṃ dvādaśaskandhe padmarāgādimaṇivinirmitaprākāravarṇanaṃ nāmaikādaśo'dhyāyaḥ || 11 ||

English translation

1-30. Vyasa said O King Janamejaya! Next to this Pusparaga mani enclosure wall comes the tenth enclosure wall, made of Padmaraga mani, red like the red Kunkuma and the Rising Sun. It is ten yojanas high. All its ground, entrance gates and temples and arbours are all made of Padmaraga mani. Within this reside the sixty four Kalas or Sub-S’aktis adorned with various ornaments and holding weapons in their hands. Each of them has a separate Loka (region) allotted and within this Loka he has get his own formidable weapons, Vahanas, families and their leaders or Governors. O King! Now hear the names of the sixty four Kalas. They are Pingalaksi, Vis’alaksT, Samriddhi, Vriddhi, S’raddha, Svaha, Svadha, Maya, Sahgha, Vasundhara, Trilokadhatri, Savitri, Gayatri, Tridas’esVsri, Surupa, Bahurupa, Skandamata, Achyutapriya, Vimala, Amala, Aruni, Aruni, Prakriti, Vikriti, S’risti, Sthiti, Samrhiti, Sandhya, Mata, Sati, Hamsi, Mardika, Vajrika, Para, Devamata, Bhagavati, Devaki, Kamalasana, Trimukhi, Saptamukhi, Surasura vimardini, Lambosthi, Urdhakes’i, Bahusirsa, Vrikodari Ratharekhahvaya, S’as’ireka, Gaganavega, Pavanavega, Bhuvanapala, Madanatura, Ananga, Anangamathana, Anangamekhala, Anangakusuma, Visvarupa, Suradika, Ksayamkari, Aksyobhya, Satyavadini, Bahurupa, S’uchivrata, Udara and Vagis’T. These are the sixty four Kalas. All of them have got luminous faces and long lolling tongues. Fire is always coming out from the faces of all of them. The eyes of all of them are red with anger. They are uttering We will drink all the water and thus dry up the oceans; we will annihilate fire, we will stop the flow of air and control it. Today we will devour the whole universe and so forth. All of them have got bows and arrows in their hands; all are eager to fight. The four quarters are being reverberated with the clashing of their teeth. The hairs on their heads are all tawny and

they stand upwards. Each of them has one hundred Aksauhini forces under them. O King! What more to say than this that each of them has got power to destroy one lakh Brahmandas; and their one hundred Aksauhini forces also can do the same. There is nothing that is not impracticable with them. What they cannot do cannot be conceived by mind nor can be uttered in speech. All the war materials exist within their enclosures. Chariots, horses, elephants, weapons, and forces all are unlimited. All the war materials are ready at all times and in abundance. Next comes the eleventh enclosure wall built of Gomedamani. It is ten Yojanas high. Its colour is like the newly blown Java flower. All the ground, trees, tanks, houses, pillars, birds and all other things are all red and built of Gomedamani. Here dwell the thirty-two Maha S’aktis adorned with various ornament made of Gomedamani and furnished with various weapons. They are always eager to fight. Their eyes are always red with anger; their bees are like Pis’achas and their hands are like chakras (discs). “Pierce him,” “Beat him,” “Cut him,” “Tear him asunder,” “Burn him down,” are the words constantly uttered by them. The inhabitants of the place always worship them. Each of them has ten Aksauhini forces. These are inordinately powerful. It is impossible to describe that. It seems that each S’akti can easily destroy one lakh Brahmandas.

Innumerable chariots, elephants, hordes, etc., and other vahanas are here. Verily all the war materials of the Devi Bhagavati are seen in this Gomedamani enclosure.

31-51. Now I am mentioning the auspicious, sin destroying names of these S’aktis:-- Vidya, Hri, Pusti, Prajha, Sini vali, Kuhu, Rudra, Virya, Prabha, Nanda, Posani, Riddhida, S’ubha, Kalaratri,

Maharatri, Bhadra Kali, Kaparddini, Vikriti, Dandi, Mundini, Sendukhanda, S’ikhandini, Nis’umbha s’umbha mathani,

Mahisasura marddini, Indrani, Rudrani, S’ankarardha saririni, Nari,

Nirayani Tris’ulini, Palini, Ambika, and Hladini. (See the Daksina Murti Samhita and other Tantras.)

Never there is any chance that they will be defeated anywhere. Hence if all those S’aktis get angry at any time, this Brahmanda ceases to exist. Next to this Gomeda enclosure comes the enclosure made of diamonds. It is ten yojanas high; on all sides there are the entrance gates; the doors are hinged there with nice mechanisms. Nice new diamond trees exist here. All the roads, royal roads, trees, and the spaces for watering their roots, tanks, wells, reservoirs, Saranga and other musical instruments are all made of diamonds. Here dwells S’ri BhuvanesVari Devi with Her attendants. O King! Each of them has a lakh attendants. All of them are proud of their beauty. Some of them are holding fans in their hands; some are holding cups for drinking water; some, betelnuts; some are holding umbrellas; some chowries; some are holding various clothings; some flowers; some, looking glasses; some, saffrons; some collyrium, whereas some others are holding Sindura (red lead). Some are ready to do the painting works; some are anxious to champoo the feet; some are eager to make Her wear ornaments; some are anxious to put garlands of flowers on Her neck. All of them are skilled in various arts of enjoyments and they are all young. To gain the Grace of the Devi, they consider the whole universe as trifling. Now I shall mention to you the names of the attendants of the Devi, proud of their possessing lots of amorous gestures and postures. Listen. They are Anangarupa, Anangamadana, Madanatura, Bhuvanavega, Bhuvanapalika, Sarvas’is’ira, Anangavedana, Anangamekhala, these are the Eight Sakhis. Each of them is as fair as Vidyullata. Each is adorned with various ornaments and skilled in all actions. When they walk to and fro with canes and rods in their hands in the service of the Devi, they look as if the lightning flashes glimmer on all sides.

52-71 On the outer portion of the enclosure wall, on the eight sides are situated the dwelling houses of these eight Sakhis and they are always full of various vahanas and weapons. Next to this enclosure of diamond comes the thirteenth enclosure wall made of Vaidurya mani. Its height is ten yojanas. There are entrance gates and doorways on the four sides. The court inside, the houses, the big roads, wells, tanks, ponds, rivers and even the sands are all made of Vaidurya mani. On the eight sides reside the eight Matrikas Brahmi, etc., with their hosts. These Matrikas represent the sum-total of the individual Matrikas in every Brahmanda. Now hear their names (1) Brahmi, (2) MahesVari, (3) Kaumari, (4) Vaisnavi, (5) Varahi, (6) Indrani, (7) Chamunda, and (8) Maha Laksmi. Their forms are like those of Brahma and Rudra and others. They are always engaged in doing good to the Universe and reside here with their own Vahanas and weapons.

At the four gates, the various Vahanas of Bhagavati remain always fully equipped. Somewhere there are Kotis and Kotis of elephants. At some places there are Kotis and Kotis of horses; at others there are camps, houses, at others there are swans, lions; at others there are Garudas; at other places there are peacocks, bulls and various other beings all fully equipped and arranged in due order. Similarly the above mentioned animals are yoked to Kotis and Kotis of chariots; there are coachmen (syces); at some places flags are fluttering high on them so as to reach the heavens and thus they are adding beauty. At other places the aerial cars are arranged in rows, countless, with various sounding instruments in them, with flags soaring high in the Heavens and endowed with various ensigns and emblems. O King! Next to this Vaidurya enclosure, comes the fourteenth enclosure wall built of Indranilamani; its height is ten Yojanas. The court inside, houses, roads, wells, tanks and reservoirs, etc., all are built of Indranilamani. There is here a lotus consisting of sixteen petals extending to many Yojanas in width and shining like a second Sudars’ana Chakra. On these sixteen petals

reside the sixteen S’aktis of Bhagavati, with their hosts. Now I am mentioning the names of these. HearKarali, Vikarali, Lima, Sarasvati, S’ri, Durga, Usa, Laksmi, S’ruti, Smriti, Dhriti, S’raddha, Medha, Mati, Kanti, and Arya. These are the 16 S’aktis. They all are dark blue, of the colour of the fresh rain-cloud; they wield in their hands axes and shields. It seems they are ever eager to fight. O King! These S’aktis are the Rulers of all the separate S’aktis of the other Brahmandas. These are the forces of S’ri Devi.

72-90. Being strengthened by the Devi’s strength, these are always surrounded by various chariots and forces, various other S’aktis follow them. If they like, they can cause great agitation in the whole universe. Had I thousand faces, I would not have been able to describe what an amount of strength they wield. Now I describe the fifteenth enclosure wall. Listen. Next to this Indranilamani enclosure, comes the enclosure made of pearls (mukta), very wide and ten Yojanas high. The court inside, its space, trees, all are built of pearls. Within this enclosure there is a lotus with eight petals, all of pearls. On these petals reside the eight S’aktis, the advisers and ministers of the Devi. Their appearances, weapons, dresses, enjoyments, everything is like those of S’ri Devi. Their duty is to inform the Devi of what is going on in the Brahmandas. They are skilled in all sciences and arts and clever in all actions. They are very clever, skillful and clever in knowing beforehand the desires and intentions of S’ri Devi and they perform those things accordingly. Each one of them has many other S’aktis who also live here. By their Jhana S’akti they know all the news concerning the Jivas in every Brahmanda. Now I mention the names of those eight Sakhis. Listen. Anangakusuma, Anangakusuma-tura, Anangamadana, Ananga madanatura, Bhuvanapala, Gaganavega, S’as’irekha, and Gaganarekha. These are the eight Sakhis. They look red like the Rising Sun; and in their four hands they hold noose, goad, and signs of granting boons and “no fear.” At every instant they inform S’ri Devi of all the events of the Brahmanda. Next to this comes the sixteenth

enclosure wall made of emerald (marakata); it is ten Yojanas high; the court inside, its space, and houses and everything are built of emeralds (marakata mani). Here exist all the good objects of enjoyments. This is hexagonal, of the Yantra shape. And at every corner reside the Devas. On the eastern corner resides the four¬ faced Brahma; he lives with Gayatri Devi; he holds Kamandalu, rosary, signs indicating “no fear” and Danda (rod). The Devi Gayatri is also decorated with these. Here all the Vedas, Smritis, the Puranas, and various weapons exist incarnate in their respective forms. All the Avataras of Brahma, Gayatri, and Vyahritis that exist in this Brahmanda, all live here. On the south-west corner Maha Visnu lives with Savitri; He holds conch shell, disc, club, and lotus. Savitri has got also all these. The Avataras of Visnu that exist in every Brahmanda Matsya, Kurma, etc., and all the Avataras of Savitri that exist in every universe, all dwell in this place. On the north western corner exists Maha Rudra with Sarasvati. Both of them hold in their hands Paras’u, rosary, signs granting boons and “no fear.”

91-110. All the Avataras of Rudra and Parvati (Gauri, etc.) facing south that exist in all the Brahmandas, dwell here. All the chief Agamas, sixty four in number and all the other Tantras reside here, incarnate in their due forms. On the south-eastern corner, the Lord of wealth, Kuvera, of Bhagavati, surrounded by roads and shops resides here with Maha Laksmi and his hosts holding the jar of jewels (Mani Karandika). On the western corner exists always Madana with Rati, holding noose, goad, bow and arrow. All his amorous attendants reside here, incarnate in their forms. On the north-eastern corner resides always the great hero Ganes’a, the Remover of obstacles, holding noose and goad and with his Pusti Devi. O King! All the Vibhutis (manifestations) of Ganes’a that exist in all the universes reside here. What more to say than this, that Brahma and the other Devas and Devis here represent the sum-total of all the Brahmas and the Devas and the DevTs that exist in all the Brahmandas. These all worship S’ri Bhagavati, remaining in their

own spheres respectively. O King! Next come the seventeenth enclosure wall made of Prabala. It is red like saffron and it is one hundred Yojanas high. As before, the court inside, the ground and the houses all are made of Prabala. The goddesses of the five elements, Hrillekha, Gagana, Rakta, Karalika, and Mahochchhusma reside here. The colours and lustres of the bodies of the goddessses resemble those of the elements over which they preside respectively. All of them are proud of their youth and hold in their four hands noose, goad and signs granting boons and “no fear.” They are dressed like S’ri Devi and reside here always. Next to this comes the eighteenth enclosure wall built of Navaratna (the nine jewels). It is many yojanas wide. This enclosure wall is superior to all others and it is higher also. On the four sides there exist innumerable houses, tanks, reservoirs, all built of Navaratna; these belong to the DevTs, the presiding Deities of Amnayas (that which is to be studied or learnt by heart; the Vedas). The ten Maha Vidyas, Kali, Tara, etc., of S’ri Devi and the Mahabhedas, that is, their all the Avataras all dwell here with their respective Avaranas, Vahanas and ornaments. All the Avataras of S’ri Devi for the killing of the Daityas and for showing favour to the devotees live here. They are Pas’amkus’esVari, BhuvanesVari, Bhairavi, Kapala BhuvanesVari, Amkus’a BhuvanesVari, Pramada bhuvanesVari, S’ri Krodha BhuvanesVari, TriputasVarudha, Nityaklinna, Annapurna, Tvarita, and the other avataras of BhuvanesVari, and Kali, Tara and the other Mahavidyas are known as Mahavidyas. They live here with their Avarana Devatas, Vahanas, and ornaments respectively. (Note The Avarana Deities are the attendant Deities.) Here live also the seven Kotis of DevTs presiding over the Maha Mantras, all brilliant and fair like the Koti Suns. O King! Next to this enclosure wall comes the chief and crowning palace of S’rT DevT, built of Chintamani gems. All the articles within this are built of Chintamani gems. Within this palace are seen hundreds and thousands of pillars. Some of these pillars are built of Suryakantamani, some are built of Chandrakanta mani, and some are built of Vidyutkanta mani. O King! The lustre and brilliance of these pillars is so strong that no articles within this

palace are visible to the eye. (Note The face of the Goddess Kali is so bright that it appears like a shadow, i.e., black.)

Here ends the Eleventh Chapter on the description of the enclosure walls built of Padmaraga mani, etc., of the Mani Dvipa in the Mahapuranam S’ri Mad Devi Bhagavatam of 18,000 verses by Maharsi Veda Vyasa.

Complete chapter-aligned witnesses. Sanskrit Wikisource page 31986, revision 365434 (2023-01-18T02:57:13Z). English is Swami Vijñanananda’s complete 1921–23 public-domain translation, controlled against the archival OCR and its chapter page at https://sacred-texts.com/hin/db/bk12ch11.htm. Historic spelling and transliteration are lightly normalized; no verse-by-verse alignment is asserted.