Skip to main content

Fifth Skandha · Chapter 9

Chapter 9

Unit 96 of 318Fifth Skandha · Chapter 9Fifth Skandha · Chapter 91 source entries

Fifth Skandha · Chapter 9

Source

व्यास उवाच देवा विष्णुवचः श्रुत्वा सर्वे प्रमुदितास्तदा । ददुश्च भूषणान्याशु वस्त्राणि स्वायुधानि च ॥ १ ॥ क्षीरोदश्चाम्बरे दिव्ये रक्ते सूक्ष्मे तथाजरे । निर्मलञ्च तथा हारं प्रीतस्तस्मै सुमण्डितम् ॥ २ ॥ ददौ चूडामणिं दिव्यं सूर्यकोटिसमप्रभम् । कुण्डले च तथा शुभ्रे कटकानि भुजेषु वै ॥ ३ ॥ केयूरान्कङ्कणान्दिव्यान्नानारत्‍नविराजितान् । ददौ तस्यै विश्वकर्मा प्रसन्नेन्द्रियमानसः ॥ ४ ॥ नूपुरौ सुस्वरौ कान्तौ निर्मलौ रत्‍नभूषितौ । ददौ सूर्यप्रतीकाशौ त्वष्टा तस्यै सुपादयोः ॥ ५ ॥ तथा ग्रैवेयकं रम्यं ददौ तस्यै महार्णवः । अङ्गुलीयकरत्‍नानि तेजोवन्ति च सर्वशः ॥ ६ ॥ अम्लानपङ्कजां मालां गन्धाढ्यां भ्रमरानुगाम् । तथैव वैजयन्तीञ्च वरुणः सम्प्रयच्छत ॥ ७ ॥ हिमवानथ सन्तुष्टो रत्‍नानि विविधानि च । ददौ च वाहनं सिंहं कनकाभं मनोहरम् ॥ ८ ॥ भूषणैर्भूषिता दिव्यैः सा रराज वरा शुभा । सिंहारूढा वरारोहा सर्वलक्षणसंयुता ॥ ९ ॥ विष्णुश्चक्रात्समुत्पाद्य ददावस्यै रथाङ्गकम् । सहस्रारं सुदीप्तञ्च देवारिशिरसां हरम् ॥ १० ॥ स्वत्रिशूलात्समुत्पाद्य शङ्करः शूलमुत्तमम् । ददौ देव्यै सुरारीणां कृन्तनं भयनाशनम् ॥ ११ ॥ वरुणश्च प्रसन्नात्मा ददौ शङ्खं समुज्वलम् । घोषवन्तं स्वशङ्खात्तु समुत्पाद्य सुमङ्गलम् ॥ १२ ॥ हुताशनस्तथा शक्तिं शतघ्नीं सुमनोजवाम् । प्रायच्छत्तु प्रसन्नात्मा तस्यै दैत्यविनाशिनीम् ॥ १३ ॥ इषुधिं बाणपूर्णञ्च चापं चाद्‌भुतदर्शनम् । मारुतो दत्तवांस्तस्यै दुराकर्षं खरस्वरम् ॥ १४ ॥ स्ववज्राद्वज्रमुत्पाद्य ददाविन्द्रोऽतिदारुणम् । घण्टामैरावतात्तूर्णं सुशब्दां चातिसुन्दराम् ॥ १५ ॥ ददौ दण्डं यमः कामं कालदण्डसमुद्‌भवम् । येनान्तं सर्वभूतानामकरोत्काल आगते ॥ १६ ॥ ब्रह्मा कमण्डलुं दिव्यं गङ्गावारिप्रपूरितम् । ददावस्यै मुदा युक्तो वरुणः पाशमेव च ॥ १७ ॥ कालः खड्गं तथा चर्म प्रायच्छत्तु नराधिप । परशुं विश्वकर्मा च तीक्ष्णमस्यै ददावथ ॥ १८ ॥ धनदस्तु सुरापूर्णं पानपात्रं सुवर्णजम् । पङ्कजं वरुणश्चादाद्देव्यै दिव्यं मनोहरम् ॥ १९ ॥ गदां कौमोदकीं त्वष्टा घण्टाशतनिनादिनीम् । अदात्तस्यै प्रसन्नात्मा सुरशत्रुविनाशिनीम् ॥ २० ॥ अस्त्राण्यनेकरूपाणि तथाभेद्यञ्च दंशनम् । ददौ त्वष्टा जगन्मात्रे निजरश्मीन्दिवाकरः ॥ २१ ॥ सायुधां भूषणैर्युक्तां दृष्ट्वा ते विस्मयं गताः । तुष्टुवुस्तां सुरा देवीं त्रैलोक्यमोहिनीं शिवाम् ॥ २२ ॥ देवा ऊचुः नमः शिवायै कल्याण्यै शान्त्यै पुष्ट्यै नमो नमः । भगवत्यै नमो देव्यै रुद्राण्यै सततं नमः ॥ २३ ॥ कालरात्र्यै तथाम्बायै इन्द्राण्यै ते नमो नमः । सिद्ध्यै बुद्ध्यै तथा वृद्ध्यै वैष्णव्यै ते नमो नमः ॥ २४ ॥ पृथिव्यां या स्थिता पृथ्व्या न ज्ञाता पृथिवीञ्च या । अन्तःस्थिता यमयति वन्दे तामीश्वरीं पराम् ॥ २५ ॥ मायायां या स्थिता ज्ञाता मायया न च तामजाम् । अन्तःस्थिता प्रेरयति प्रेरयित्रीं नुमः शिवाम् ॥ २६ ॥ कल्याणं कुरु भो मातस्त्राहि नः शत्रुतापितान् । जहि पापं हयारिं त्वं तेजसा स्वेन मोहितम् ॥ २७ ॥ खलं मायाविनं घोरं स्त्रीवध्यं वरदर्पितम् । दुःखदं सर्वदेवानां नानारूपधरं शतम् ॥ २८ ॥ त्वमेका सर्वदेवानां शरणं भक्तवत्सले । पीडितान्दानवेनाद्य त्राहि देवि नमोऽस्तु ते ॥ २९ ॥ व्यास उवाच एवं स्तुता तदा देवी सुरैः सर्वसुखप्रदा । तानुवाच महादेवी स्मितपूर्वं शुभं वचः ॥ ३० ॥ देव्युवाच भयं त्यजन्तु गीर्वाणा महिषान्मन्दचेतसः । हनिष्यामि रणेऽद्यैव वरदृप्तं विमोहितम् ॥ ३१ ॥ व्यास उवाच इत्युक्त्वा सा सुरान्देवी जहासातीव सुस्वरम् । चित्रमेतच्च संसारे भ्रममोहयुतं जगत् ॥ ३२ ॥ ब्रह्मविष्णुमहेशाद्याः सेन्द्राश्चान्ये सुरास्तथा । कम्पयुक्ता भयत्रस्ता वर्तन्ते महिषात्किल ॥ ३३ ॥ अहो दैवबलं घोरं दुर्जयं सुरसत्तमाः । कालः कर्तास्ति दुःखानां सुखानां प्रभुरीश्वरः ॥ ३४ ॥ सृष्टिपालनसंहारे समर्था अपि ते यदा । मुह्यन्ति क्लेशसन्तप्ता महिषेण प्रपीडिताः ॥ ३५ ॥ इति कृत्वा स्मितं देवी साट्टहासं चकार ह । उच्चैः शब्दं महाघोरं दानवानां भयप्रदम् ॥ ३६ ॥ चकम्पे वसुधा तत्र श्रुत्वा तच्छब्दमद्‌भुतम् । चेलुश्च पर्वताः सर्वे चुक्षोभाब्धिश्च वीर्यवान् ॥ ३७ ॥ मेरुश्चचाल शब्देन दिशः सर्वाः प्रपूरिताः । भयं जग्मुस्तदा श्रुत्वा दानवास्तत्स्वनं महत् ॥ ३८ ॥ जय पाहीति देवास्तामूचुः परमहर्षिताः । महिषोऽपि स्वनं श्रुत्वा चुकोप मदगर्वितः ॥ ३९ ॥ किमेतदिति तान्दैत्यान्पप्रच्छ स्वनशङ्‌कितः । गच्छन्तु त्वरिता दूता ज्ञातुं शब्दसमुद्‌भवम् ॥ ४० ॥ कृतः केनायमत्युग्रः शब्दः कर्णव्यथाकरः । देवो वा दानवो वापि यो भवेत्स्वनकारकः ॥ ४१ ॥ गृहीत्वा तं दुरात्मानं मत्समीपं नयन्त्विह । हनिष्यामि दुराचारं गर्जन्तं स्मयदुर्मदम् ॥ ४२ ॥ क्षीणायुष्यं मन्दमतिं नयामि यमसादनम् । पराजिताः सुराः कामं न गर्जन्ति भयातुराः ॥ ४३ ॥ नासुरा मम वश्यास्ते कस्येदं मूढचेष्टितम् । त्वरिता मामुपायान्तु ज्ञात्वा शब्दस्य कारणम् ॥ ४४ ॥ अहं गत्वा हनिष्यामि तं पापं वितथश्रमम् । व्यास उवाच इत्युक्तास्तेन ते दूता देवीं सर्वाङ्गसुन्दरीम् ॥ ४५ ॥ अष्टादशभुजां दिव्यां सर्वाभरणभूषिताम् । सर्वलक्षणसम्पन्नां वरायुधधरां शुभाम् ॥ ४६ ॥ दधतीं चषकं हस्ते पिबन्तीं च मुहुर्मधु । संवीक्ष्य भयभीतास्ते जग्मुस्त्रस्ताः सुशङ्‌किताः ॥ ४७ ॥ सकाशे महिषस्याशु तमूचुः स्वनकारणम् । दूता ऊचुः देवी दैत्येश्वर प्रौढा दृश्यते काचिदङ्गना ॥ ४८ ॥ सर्वाङ्गभूषणा नारी सर्वरत्‍नोपशोभिता । न मानुषी नासुरी सा दिव्यरूपा मनोहरा ॥ ४९ ॥ सिंहारूढायुधधरा चाष्टादशकरा वरा । सा नादं कुरुते नारी लक्ष्यते मदगर्विता ॥ ५० ॥ सुरापानरता कामं जानीमो न सभर्तृका । अन्तरिक्षस्थिता देवास्तां स्तुवन्ति मुदान्विताः ॥ ५१ ॥ जयेति पाहि नश्चेति जहि शत्रुमिति प्रभो । न जाने का वरारोहा कस्य वा सा परिग्रहः ॥ ५२ ॥ किमर्थमागता चात्र किं चिकीर्षति सुन्दरी । द्रष्टुं नैव समर्थाः स्मस्तत्तेजःपरिधर्षिताः ॥ ५३ ॥ शृङ्गारवीरहासाढ्या रौद्राद्‌भुतरसान्विता । दृष्ट्वैवैवंविधां नारीमसम्भाष्य समागताः ॥ ५४ ॥ वयं त्वदाज्ञया राजन् किं कर्तव्यमतःपरम् । महिष उवाच गच्छ वीर मयादिष्टो मन्त्रिश्रेष्ठ बलान्वितः ॥ ५५ ॥ सामादिभिरुपायैस्त्वं समानय शुभाननाम् । नायाति यदि सा नारी त्रिभिः सामादिभिस्त्विह ॥ ५६ ॥ अहत्वा तां वरारोहां त्वमानय ममान्तिकम् । करोमि पट्टमहिषीं तां मरालभ्रुवं मुदा ॥ ५७ ॥ प्रीतियुक्ता समायाति यदि सा मृगलोचना । रसभङ्गो यथा न स्यात्तथा कुरु ममेप्सितम् ॥ ५८ ॥ श्रवणान्मोहितोऽस्म्यद्य तस्या रूपस्य सम्पदा । व्यास उवाच महिषस्य वचः श्रुत्वा पेशलं मन्त्रिसत्तमः ॥ ५९ ॥ जगाम तरसा कामं गजाश्वरथसंयुतः । गत्वा दूरतरं स्थित्वा तामुवाच मनस्विनीम् ॥ ६० ॥ विनयावनतः श्लक्ष्णं मन्त्री मधुरया गिरा । प्रधान उवाच कासि त्वं मधुरालापे किमत्रागमनं कृतम् ॥ ६१ ॥ पृच्छति त्वां महाभागे मन्मुखेन मम प्रभुः । स जेता सर्वदेवानामवध्यस्तु नरैः किल ॥ ६२ ॥ ब्रह्मणो वरदानेन गर्वितश्चारुलोचने । दैत्येश्वरोऽसौ बलवान्कामरूपधरः सदा ॥ ६३ ॥ श्रुत्वा त्वां समुपायातां चारुवेषां मनोहराम् । द्रष्टुमिच्छति राजा मे महिषो नाम पार्थिवः ॥ ६४ ॥ मानुषं रूपमादाय त्वत्समीपं समेष्यति । यथा रुच्येत चार्वङ्‌गि तथा मन्यामहे वयम् ॥ ६५ ॥ तर्ह्येहि मृगशावाक्षि समीपं तस्य धीमतः । नो चेदिहानयाम्येनं राजानं भक्तितत्परम् ॥ ६६ ॥ तथा करोमि देवेशि यथा ते मनसेप्सितम् । वशगोऽसौ तवात्यर्थं रूपसंश्रवणात्तव ॥ ६७ ॥ करभोरु वदाशु त्वं संविधेयं मया तथा ॥ ६८ ॥

vyāsa uvāca devā viṣṇuvacaḥ śrutvā sarve pramuditāstadā | daduśca bhūṣaṇānyāśu vastrāṇi svāyudhāni ca || 1 || kṣīrodaścāmbare divye rakte sūkṣme tathājare | nirmalañca tathā hāraṃ prītastasmai sumaṇḍitam || 2 || dadau cūḍāmaṇiṃ divyaṃ sūryakoṭisamaprabham | kuṇḍale ca tathā śubhre kaṭakāni bhujeṣu vai || 3 || keyūrānkaṅkaṇāndivyānnānārat‍navirājitān | dadau tasyai viśvakarmā prasannendriyamānasaḥ || 4 || nūpurau susvarau kāntau nirmalau rat‍nabhūṣitau | dadau sūryapratīkāśau tvaṣṭā tasyai supādayoḥ || 5 || tathā graiveyakaṃ ramyaṃ dadau tasyai mahārṇavaḥ | aṅgulīyakarat‍nāni tejovanti ca sarvaśaḥ || 6 || amlānapaṅkajāṃ mālāṃ gandhāḍhyāṃ bhramarānugām | tathaiva vaijayantīñca varuṇaḥ samprayacchata || 7 || himavānatha santuṣṭo rat‍nāni vividhāni ca | dadau ca vāhanaṃ siṃhaṃ kanakābhaṃ manoharam || 8 || bhūṣaṇairbhūṣitā divyaiḥ sā rarāja varā śubhā | siṃhārūḍhā varārohā sarvalakṣaṇasaṃyutā || 9 || viṣṇuścakrātsamutpādya dadāvasyai rathāṅgakam | sahasrāraṃ sudīptañca devāriśirasāṃ haram || 10 || svatriśūlātsamutpādya śaṅkaraḥ śūlamuttamam | dadau devyai surārīṇāṃ kṛntanaṃ bhayanāśanam || 11 || varuṇaśca prasannātmā dadau śaṅkhaṃ samujvalam | ghoṣavantaṃ svaśaṅkhāttu samutpādya sumaṅgalam || 12 || hutāśanastathā śaktiṃ śataghnīṃ sumanojavām | prāyacchattu prasannātmā tasyai daityavināśinīm || 13 || iṣudhiṃ bāṇapūrṇañca cāpaṃ cād‌bhutadarśanam | māruto dattavāṃstasyai durākarṣaṃ kharasvaram || 14 || svavajrādvajramutpādya dadāvindro'tidāruṇam | ghaṇṭāmairāvatāttūrṇaṃ suśabdāṃ cātisundarām || 15 || dadau daṇḍaṃ yamaḥ kāmaṃ kāladaṇḍasamud‌bhavam | yenāntaṃ sarvabhūtānāmakarotkāla āgate || 16 || brahmā kamaṇḍaluṃ divyaṃ gaṅgāvāriprapūritam | dadāvasyai mudā yukto varuṇaḥ pāśameva ca || 17 || kālaḥ khaḍgaṃ tathā carma prāyacchattu narādhipa | paraśuṃ viśvakarmā ca tīkṣṇamasyai dadāvatha || 18 || dhanadastu surāpūrṇaṃ pānapātraṃ suvarṇajam | paṅkajaṃ varuṇaścādāddevyai divyaṃ manoharam || 19 || gadāṃ kaumodakīṃ tvaṣṭā ghaṇṭāśataninādinīm | adāttasyai prasannātmā suraśatruvināśinīm || 20 || astrāṇyanekarūpāṇi tathābhedyañca daṃśanam | dadau tvaṣṭā jaganmātre nijaraśmīndivākaraḥ || 21 || sāyudhāṃ bhūṣaṇairyuktāṃ dṛṣṭvā te vismayaṃ gatāḥ | tuṣṭuvustāṃ surā devīṃ trailokyamohinīṃ śivām || 22 || devā ūcuḥ namaḥ śivāyai kalyāṇyai śāntyai puṣṭyai namo namaḥ | bhagavatyai namo devyai rudrāṇyai satataṃ namaḥ || 23 || kālarātryai tathāmbāyai indrāṇyai te namo namaḥ | siddhyai buddhyai tathā vṛddhyai vaiṣṇavyai te namo namaḥ || 24 || pṛthivyāṃ yā sthitā pṛthvyā na jñātā pṛthivīñca yā | antaḥsthitā yamayati vande tāmīśvarīṃ parām || 25 || māyāyāṃ yā sthitā jñātā māyayā na ca tāmajām | antaḥsthitā prerayati prerayitrīṃ numaḥ śivām || 26 || kalyāṇaṃ kuru bho mātastrāhi naḥ śatrutāpitān | jahi pāpaṃ hayāriṃ tvaṃ tejasā svena mohitam || 27 || khalaṃ māyāvinaṃ ghoraṃ strīvadhyaṃ varadarpitam | duḥkhadaṃ sarvadevānāṃ nānārūpadharaṃ śatam || 28 || tvamekā sarvadevānāṃ śaraṇaṃ bhaktavatsale | pīḍitāndānavenādya trāhi devi namo'stu te || 29 || vyāsa uvāca evaṃ stutā tadā devī suraiḥ sarvasukhapradā | tānuvāca mahādevī smitapūrvaṃ śubhaṃ vacaḥ || 30 || devyuvāca bhayaṃ tyajantu gīrvāṇā mahiṣānmandacetasaḥ | haniṣyāmi raṇe'dyaiva varadṛptaṃ vimohitam || 31 || vyāsa uvāca ityuktvā sā surāndevī jahāsātīva susvaram | citrametacca saṃsāre bhramamohayutaṃ jagat || 32 || brahmaviṣṇumaheśādyāḥ sendrāścānye surāstathā | kampayuktā bhayatrastā vartante mahiṣātkila || 33 || aho daivabalaṃ ghoraṃ durjayaṃ surasattamāḥ | kālaḥ kartāsti duḥkhānāṃ sukhānāṃ prabhurīśvaraḥ || 34 || sṛṣṭipālanasaṃhāre samarthā api te yadā | muhyanti kleśasantaptā mahiṣeṇa prapīḍitāḥ || 35 || iti kṛtvā smitaṃ devī sāṭṭahāsaṃ cakāra ha | uccaiḥ śabdaṃ mahāghoraṃ dānavānāṃ bhayapradam || 36 || cakampe vasudhā tatra śrutvā tacchabdamad‌bhutam | celuśca parvatāḥ sarve cukṣobhābdhiśca vīryavān || 37 || meruścacāla śabdena diśaḥ sarvāḥ prapūritāḥ | bhayaṃ jagmustadā śrutvā dānavāstatsvanaṃ mahat || 38 || jaya pāhīti devāstāmūcuḥ paramaharṣitāḥ | mahiṣo'pi svanaṃ śrutvā cukopa madagarvitaḥ || 39 || kimetaditi tāndaityānpapraccha svanaśaṅ‌kitaḥ | gacchantu tvaritā dūtā jñātuṃ śabdasamud‌bhavam || 40 || kṛtaḥ kenāyamatyugraḥ śabdaḥ karṇavyathākaraḥ | devo vā dānavo vāpi yo bhavetsvanakārakaḥ || 41 || gṛhītvā taṃ durātmānaṃ matsamīpaṃ nayantviha | haniṣyāmi durācāraṃ garjantaṃ smayadurmadam || 42 || kṣīṇāyuṣyaṃ mandamatiṃ nayāmi yamasādanam | parājitāḥ surāḥ kāmaṃ na garjanti bhayāturāḥ || 43 || nāsurā mama vaśyāste kasyedaṃ mūḍhaceṣṭitam | tvaritā māmupāyāntu jñātvā śabdasya kāraṇam || 44 || ahaṃ gatvā haniṣyāmi taṃ pāpaṃ vitathaśramam | vyāsa uvāca ityuktāstena te dūtā devīṃ sarvāṅgasundarīm || 45 || aṣṭādaśabhujāṃ divyāṃ sarvābharaṇabhūṣitām | sarvalakṣaṇasampannāṃ varāyudhadharāṃ śubhām || 46 || dadhatīṃ caṣakaṃ haste pibantīṃ ca muhurmadhu | saṃvīkṣya bhayabhītāste jagmustrastāḥ suśaṅ‌kitāḥ || 47 || sakāśe mahiṣasyāśu tamūcuḥ svanakāraṇam | dūtā ūcuḥ devī daityeśvara prauḍhā dṛśyate kācidaṅganā || 48 || sarvāṅgabhūṣaṇā nārī sarvarat‍nopaśobhitā | na mānuṣī nāsurī sā divyarūpā manoharā || 49 || siṃhārūḍhāyudhadharā cāṣṭādaśakarā varā | sā nādaṃ kurute nārī lakṣyate madagarvitā || 50 || surāpānaratā kāmaṃ jānīmo na sabhartṛkā | antarikṣasthitā devāstāṃ stuvanti mudānvitāḥ || 51 || jayeti pāhi naśceti jahi śatrumiti prabho | na jāne kā varārohā kasya vā sā parigrahaḥ || 52 || kimarthamāgatā cātra kiṃ cikīrṣati sundarī | draṣṭuṃ naiva samarthāḥ smastattejaḥparidharṣitāḥ || 53 || śṛṅgāravīrahāsāḍhyā raudrād‌bhutarasānvitā | dṛṣṭvaivaivaṃvidhāṃ nārīmasambhāṣya samāgatāḥ || 54 || vayaṃ tvadājñayā rājan kiṃ kartavyamataḥparam | mahiṣa uvāca gaccha vīra mayādiṣṭo mantriśreṣṭha balānvitaḥ || 55 || sāmādibhirupāyaistvaṃ samānaya śubhānanām | nāyāti yadi sā nārī tribhiḥ sāmādibhistviha || 56 || ahatvā tāṃ varārohāṃ tvamānaya mamāntikam | karomi paṭṭamahiṣīṃ tāṃ marālabhruvaṃ mudā || 57 || prītiyuktā samāyāti yadi sā mṛgalocanā | rasabhaṅgo yathā na syāttathā kuru mamepsitam || 58 || śravaṇānmohito'smyadya tasyā rūpasya sampadā | vyāsa uvāca mahiṣasya vacaḥ śrutvā peśalaṃ mantrisattamaḥ || 59 || jagāma tarasā kāmaṃ gajāśvarathasaṃyutaḥ | gatvā dūrataraṃ sthitvā tāmuvāca manasvinīm || 60 || vinayāvanataḥ ślakṣṇaṃ mantrī madhurayā girā | pradhāna uvāca kāsi tvaṃ madhurālāpe kimatrāgamanaṃ kṛtam || 61 || pṛcchati tvāṃ mahābhāge manmukhena mama prabhuḥ | sa jetā sarvadevānāmavadhyastu naraiḥ kila || 62 || brahmaṇo varadānena garvitaścārulocane | daityeśvaro'sau balavānkāmarūpadharaḥ sadā || 63 || śrutvā tvāṃ samupāyātāṃ cāruveṣāṃ manoharām | draṣṭumicchati rājā me mahiṣo nāma pārthivaḥ || 64 || mānuṣaṃ rūpamādāya tvatsamīpaṃ sameṣyati | yathā rucyeta cārvaṅ‌gi tathā manyāmahe vayam || 65 || tarhyehi mṛgaśāvākṣi samīpaṃ tasya dhīmataḥ | no cedihānayāmyenaṃ rājānaṃ bhaktitatparam || 66 || tathā karomi deveśi yathā te manasepsitam | vaśago'sau tavātyarthaṃ rūpasaṃśravaṇāttava || 67 || karabhoru vadāśu tvaṃ saṃvidheyaṃ mayā tathā || 68 ||

English translation

1-22. Vyasa said On hearing Visnu's words, the Devas became very glad and presented immediately their own weapons, ornaments and clothings. The Ksiroda (Milk) Ocean presented to Her gladly, the well fitted necklace, clear as crystal, and a pair of divine cloths, of a red colour, never becoming old and very fine. Vis'vakarma was very much gratified in his heart and presented a divine jewel to be worn in Her diadem or crest blazing like hundreds of suns; white earrings; bracelets for Her wrist, bracelets for Her upper arm, and other bracelets decked with various gems and jewels and anklets brilliant like gems, of a clear Sun-like lustre, decked with jewels, and tinkling nicely. The architect of the gods, the ocean of intellect, Vis’vakarma gave Her as offerings beautiful ornaments also for the neck, all very beautiful, as well as for the fingers decked with gems and jewels, all shining splendidly. Varuna gave for Her head garland of lotuses, never fading away, of such a sweet fragrance as bees constantly hover round them and the Vaijayanti garland for Her breast. The mountain Himalya gladly offered Her various gems and a beautiful lion, of a golden colour for Her conveyance. Then that beautiful Lady, having all the auspicious signs, wishing welfare to all, and decorated with the divine ornaments began to look grand and splendid, mounted on Her conveyance, the Lion. Visnu then created another thousand spoked discus (Chakram) from His own Chakra, capable to take off the head of any Asura, and offered it to Her. S’ankara created another excellent Tris'ula from his own Trident, terrible and demon-killing, and offered it to the Devi. Varuna created another bright conch from his own conch and offered it gladly to the Devi.

Fire offered Her a weapon named S'ataghni which kills violently the demons, as if that is another god of death. Maruta (wind), the chief of the gods, offered Her a wonderful bow and arrow case filled with arrows. The bow can be drawn with great difficulty and emits a very harsh sound. Indra created another dreadful thunderbolt from his

own thunderbolt and gave it at once to the Devi; as well the beautiful sonorous bell that used to hang from the elephant Airavata. Yama, the God of Death, created another beautiful staff from his own sceptre which takes away when time comes, the life of all beings. Brahma gladly gave Her a divine Kamandalu, filled with the Ganges water; and Varuna offered Her a weapon called Pas'a. O King! Time gave Her an axe and a shield and VisVakarma gave Her a sharp Paras'u. Kuvera, the Lord of wealth, gave her a golden drinking cup, filled with wine; and Varuna offered Her a divine beautiful lotus. VisVakarma became very glad and gave Her the Kaumodaki gada, capable to kill the enemy of the gods and whence hundreds of bells are hanging, an impenetrable armour and various other weapons. The Sun gave to the Divine Mother his own rays. The Devas, seeing Her adorned with ornaments and weapons, began to praise and chant hymns to that most Auspicious Goddess, the Great Enchantress of the three worlds.

23-29. The Deva said “Salutation to S'iva, Salutation to the Most Auspicious; Thou art peace and nourishment; we salute again and again to Thee. Salutation to Thee, the Bhagavati Devi; Thou art the Goddess Rudrani (the terrible), we always salute again and again to Thee. Thou art the Kalaratri (the night of destruction at the end of the world); Thou art the Indrani. Thou art the Mother, we salute again and again to Thee; Thou art the success. Thou art the intelligence. Thou art the growth. Thou art the Vaisnavi; salutation again and again to Thee. Thou art within the earth; yet the earth does know know Thee. Thou art again the inmost of the earth and controllest the things within this earth; we offer our salutations to that Supreme Cause, the Highest Goddess. Thou art within this Maya (the unborn) yet the Maya does not know Thee. Thou residest again within the innermost of the Maya and directest that Unborn One, the Maya, we salute again and again to that Supreme Cause, the Great Directress, the S'iva (the most auspicious). O Mother! Do what is good to us; we are oppressed by our enemy, dost then protect us; by Thy own

power dost Thou overpower and kill that Mahisa. That demon is vulnerable by woman only, he is deceitful, cunning, dreadful, and swollen with pride on his having got the blessing; he assumes many forms and torments the Devas. O One, devoted to the Bhaktas! Thou art the only refuge of all the gods; O Thou art the supreme goddess, we are very much harassed and oppressed by the Danava; therefore dost Thou now protect us; we bow down to Thee.”

30. Vyasa said When the Devas had praised thus, the Highest Goddess, the Giver of all happiness, then smilingly said in the following auspicious terms

31. “O Devas! Today in the battle ground I will overpower that wicked Mahisa, of cruel disposition and take away his life.”

32-40. Vyasa said Speaking thus in a melodious voice, the Supreme One smiled and again said “This world is all full of error and delusion. Really, it is very wonderful that Brahma, Visnu, Indra and other gods are all shuddering out of fear from Mahisa Danava. The power of Destiny is exceedingly great and terrible; its influence cannot be overcome even by the best of the Devas. O king! The Time is the Lord of happiness and pain; Time is, therefore, the God. The wonder is this that even those who can create, preserve and destroy this world, they are being overpowered and tormented by Mahisa. The Devi, thinking thus, smiled; then laughed and laughed very hoarsely; it seemed that a roar of laughter then arose. And the Danavas were struck with terror at that very dreadful sound. The earth trembled at that extraordinary sound; the mountains began to move and the vast oceans that remained calm began to be agitated with billows. The uproar filled all the quarters and the mountain Meru trembled. Then the Danavas, hearing the tumultuous uproar, were all filled with tremendous fear. The Devas became very glad and said

thus “O Devi! Let victory be Yours; save us.” The intoxicated Mahisa, too, hearing those words, became very angry. Mahisa, struck with terror at those words, asked the Daityas “O Messengers! Go and ascertain how has originated this sound.

41-48. Who has made this harsh sound? Bring that devil who has made this hoarse noise, be he a Deva, Danava, or anyone else unto me and I will kill that roaring villain, who, it seems, has been puffed with egoism and vanity. The Devas are not making this noise, for they are vanquished and terror-stricken; The Asuras are not doing so, for they are my subjects; then, who is the stupid fellow that has done so? Surely he is of very little understanding; his days are numbered; and I will carry him to the home of Death. Go you, ascertain the cause of sound and come back to me; then I will go there and destroy that wretch who made this noise to no purpose.” Vyasa said No sooner the messengers heard these words of Mahisa, than they at once went to the Devi and saw that Her body and the several parts thereof were all very beautiful; She had eighteen hands. She was decorated completely with various ornaments all over Her body, all the auspicious signs were being seen in Her body and that She was holding excellent divine weapons. That auspicious Goddess beautiful, was holding in Her hands, the cup and drinking wine again and again. Beholding Her this form, they were afraid and fled at once to the Mahisa and informed him the cause of that sound.

49-54. The Daityas said “O Lord! We have seen one grown up woman; whose whereabouts we are quite ignorant. The Devi is decorated with jewels and ornaments all over Her body; She is not human nor Asuri but Her form is extraordinary and beautiful. That noble Lady is mounted on a lion, holding weapons on all Her eighteen hands and is roaring loudly; She is drinking wine; so it seems that She is puffed up with liquor. It is quite certain that She

has no husband. The Devas are gladly chanting praises from the celestial space that Let Victory be to Her side and that She save the Devas, O Lord! We don't know at all who is that handsome woman? or whose wife is she; why has she come there? and what is Her motive? Sentiments of love, heroism, laughter, terror and wonder are all fully shining in Her; therefore we are very much overpowered by the halo emitted from Her; and we could not even see Her well.

Note Rasas means sentiments. The rasas are usually eight. Sringara, Hasya, Karuna, Raudra, Vira, Bhayanakah, Bibhatsadbhu tasangau, Chetyastau, Natyan, Rasah smritah but sometimes Santarasah, is added thus making the total number nine; sometimes a tenth, Vatsalyarasa is also added.

55. O King! In compliance with your order, we have come back to you no sooner we had seen the Lady, without even addressing Her in any way. Now order us what we are to do.”

56-58. Mahisa said “O Best of ministers! O Hero! Under my command, go there with all the forces and use the means, conciliation, etc., and bring that woman, having a beautiful face (like the Moon), to me. If that Lady do not come even when the three policies, Sama (conciliation), Dana (making gifts), and Bheda (sowing dissensions in an enemy's party and thus winning him over to one's side, one of the four Upayas or means of success against an enemy) are adopted by you, then apply the last resort Danda, (or war) in such a way that Her life be not destroyed and bring that beautiful woman to me. I will gladly make Her, of black curling hairs, my queen-consort. In case that deer-eyed one comes gladly, then do my desires without causing any unpleasant feeling; (a cessation of sentiment). I am enchanted on hearing about Her beauties and wealth.”

59-67. Vyasa said The prime minister, on hearing the words of Mahisa, took with him elephants, horses, and chariots and hurriedly went to the desired place. On coming near to the Devi, the minister began to address Her in sweet words from a sufficient distance in a very humble and courteous way. O Sweet speaking! Who art Thou? What has caused Thee to come here? O Highly fortunate! My master has asked through me these questions. My master cannot be killed by all the Devas and men; he has conquered all the Lokas (worlds).

O Beautiful-eyed! On account of getting his boon from Brahma, the Lord of the Daityas has become very powerful and consequently being very proud, assumes different forms at will. He, our King- Emperor Mahisa, the lord of the earth, hearing about Thy beauty and dress, has expressed a desire to see Thee. O Beautiful one!

Whether he will appear before Thee in a human form? He will do whatever Thou likest. O Deer-eyed One! Be pleased now to go to that intelligent King. In case Thou dost not go, we will bring the King, Thy devotee, to Thee. O Lord of the Devas! Our King has heard of Thy beauty and grandeur and has become very much submissive to Thee. We will therefore do exactly what Thou desirest. Therefore, Thou having thighs thick and round like those of a young of an elephant! Be pleased to express what Thou likest and we will do quickly as Thou desirest.

Here ends the Ninth Chapter of the Fifth Book on the worship offered by the gods to the Devi and the weapons offered by them in the Maha Puranam, S'ri Mad Devi Bhagavatam, of 18,000 verses by Maharsi Veda Vyasa.

Complete chapter-aligned witnesses. Sanskrit Wikisource page 24408, revision 74841 (2016-07-21T14:55:14Z). English is Swami Vijñanananda’s complete 1921–23 public-domain translation, controlled against the archival OCR and its chapter page at https://sacred-texts.com/hin/db/bk05ch09.htm. Historic spelling and transliteration are lightly normalized; no verse-by-verse alignment is asserted.