Second Skandha · Chapter 7
Sourceसूत उवाच पञ्चानां द्रौपदी भार्या सा मान्या सा पतिव्रता । पञ्च पुत्रास्तु तस्याः स्युर्भर्तृभ्योऽतीव सुन्दराः ॥ १ ॥ अर्जुनस्य तथा भार्या कृष्णस्य भगिनी शुभा । सुभद्रा या हृता पूर्वं जिष्णुना हरिसम्मते ॥ २ ॥ तस्यां जातो महावीरो निहतोऽसौ रणाजिरे । अभिमन्युर्हतास्तत्र द्रौपद्याश्च सुताः किल ॥ ३ ॥ अभिमन्योर्वरा भार्या वैराटी चातिसुन्दरी । कुलान्ते सुषुवे पुत्रं मृतो बाणाग्निना शिशुः ॥ ४ ॥ जीवितः स तु कृष्णेन भागिनेयसुतः स्वयम् । द्रौणिबाणाग्निनिर्दग्धः प्रतापेनाद्भुतेन च ॥ ५ ॥ परिक्षीणेषु वंशेषु जातो यस्माद्वरः सुतः । तस्मात्परीक्षितो नाम विख्यातः पृथिवीतले ॥ ६ ॥ निहतेषु च पुत्रेषु धृतराष्ट्रोऽतिदुःखितः । तस्थौ पाण्डवराज्ये च भीमवाग्बाणपीडितः ॥ ७ ॥ गान्धारी च तथातिष्ठत् पुत्रशोकातुरा भृशम् । सेवां तयोर्दिवारात्रं चकारार्तो युधिष्ठिरः ॥ ८ ॥ विदुरोऽप्यतिधर्मात्मा प्रज्ञानेत्रमबोधयत् । युधिष्ठिरस्यानुमते भ्रातृपार्श्वे व्यतिष्ठत ॥ ९ ॥ धर्मपुत्रोऽपि धर्मात्मा चकार सेवनं पितुः । पुत्रशोकोद्भवं दुःखं तस्य विस्मारयन्निव ॥ १० ॥ यथा शृणोति वृद्धोऽसौ तथा भीमोऽतिरोषितः । वारबाणेनाहनत्तं तु श्रावयन्संस्थिताञ्जनान् ॥ ११ ॥ मया पुत्रा हताः सर्वे दुष्टस्यान्धस्य ते रणे । दुःशासनस्य रुधिरं पीतं हृद्यं तथा भृशम् ॥ १२ ॥ भुनक्ति पिण्डमन्धोऽयं मया दत्तं गतत्रपः । ध्वांक्षवद्वा श्ववच्चापि वृथा जीवत्यसौ जनः ॥ १३ ॥ एवंविधानि रूक्षाणि श्रावयत्यनुवासरम् । आश्वासयति धर्मात्मा मूर्खोऽयमिति च ब्रुवन् ॥ १४ ॥ अष्टादशैव वर्षाणि स्थित्वा तत्रैव दुःखितः । धृतराष्ट्रो वने यानं प्रार्थयामास धर्मजम् ॥ १५ ॥ अयाचत धर्मपुत्रं धृतराष्ट्रो महीपतिः । पुत्रेभ्योऽहं ददाम्यद्य निर्वापं विधिपूर्वकम् ॥ १६ ॥ वृकोदरेण सर्वेषां कृतमत्रौर्ध्वदैहिकम् । न कृतं मम पुत्राणां पूर्ववैरमनुस्मरन् ॥ १७ ॥ ददासि चेद्धनं मह्यं कृत्वा चैवोर्ध्वदैहिकम् । गमिष्येऽहं वनं तप्तुं तपः स्वर्गफलप्रदम् ॥ १८ ॥ एकान्ते विदुरेणोक्तो राजा धर्मसुतः शुचिः । धनं दातुं मनश्चक्रे धृतराष्ट्राय चार्थिने ॥ १९ ॥ समाहूय निजान्मर्वानुवाच पृथिवीपतिः । धनं दास्ये महाभागाः पित्रे निर्वापकामिने ॥ २० ॥ तच्छ्रुत्वा वचनं भ्रातुर्न्येष्ठस्यामिततेजसः । संग्रहेऽस्य महाबाहुर्मारुतिः कुपितोऽब्रवीत् ॥ २१ ॥ धनं देयं महाभाग दुर्योधनहिताय किम् । अन्धोऽपि सुखमाप्नोति मूर्खत्वं किमतः परम् ॥ २२ ॥ तव दुर्मन्त्रितेनाथ दुःखं प्राप्ता वने वयम् । द्रौपदी च महाभागा समानीता दुरात्मना ॥ २३ ॥ विराटभवने वासः प्रसादात्तव सुव्रत । दासत्वं च कृतं सर्वैर्मत्स्यस्यामितविक्रमैः ॥ २४ ॥ देविता त्वं न चेज्ज्येष्ठः प्रभवेत्संक्षयः कथम् । सूपकारो विराटस्य हत्वाभूवं तु मागधम् ॥ २५ ॥ बृहन्नला कथं जिष्णुर्भवेद्बालस्य नर्तकः । कृत्वा वेषं महाबाहुर्योषाया वासवात्मजः ॥ २६ ॥ गाण्डीवशोभितौ हस्तौ कृतौ कङ्कणशोभितौ । मानुषं च वपुः प्राप्य किं दुःखं स्यादतः परम् ॥ २७ ॥ दृष्ट्वा वेणीं कृतां मूर्ध्नि कज्जलं लोचने तथा । असिं गृहीत्वा तरसा छेद्म्यहं नान्यथा सुखम् ॥ २८ ॥ अपृष्ट्वा च महीपालं निक्षिप्तोऽग्निर्मया गृहे । दग्धुकामश्च पापात्मा निर्दग्धोऽसौ पुरोचनः ॥ २९ ॥ कीचका निहताः सर्वे त्वामपृष्ट्वा जनाधिप । न तथा निहताः सर्वे सभार्या धृतराष्ट्रजाः ॥ ३० ॥ मूर्खत्वं तव राजेन्द्र गन्धर्वेभ्यश्च मोचिताः । दुर्योधनादयः कामं शत्रवो निगडीकृताः ॥ ३१ ॥ दुर्योधनहितायाद्य धनं दातुं त्वमिच्छसि । नाहं ददे महीपाल सर्वथा प्रेरितस्त्वया ॥ ३२ ॥ इत्युक्त्वा निर्गते भीमे त्रिभिः परिवृतो नृपः । ददौ वित्तं सुबहुलं धृतराष्ट्राय धर्मजः ॥ ३३ ॥ कारयामास विधिवत्पुत्राणां चौर्ध्वदैहिकम् । ददौ दानानि विप्रेभ्यो धृतराष्ट्रोऽम्बिकासुतः ॥ ३४ ॥ कृत्वौर्ध्वदैहिकं सर्वं गान्धारीसहितो नृपः । प्रविवेश वनं तूर्णं कुन्त्या च विदुरेण च ॥ ३५ ॥ सञ्जयेन परिज्ञातो निर्गतोऽसौ महामतिः । पुत्रैर्निवार्यमाणापि शूरसेनसुता गता ॥ ३६ ॥ विलपन्भीमसेनोऽपि तथान्ये चापि कौरवाः । गङ्गातीरात्परावृत्य ययुः सर्वे गजाह्वयम् ॥ ३७ ॥ ते गत्वा जाह्नवीतीरे शतयूपाश्रमं शुभम् । कृत्वा तृणैः कुटीं तत्र तपस्तेपुः समाहिताः ॥ ३८ ॥ गतान्यब्दानि षट् तेषां यदा याता हि तापसाः । युधिष्ठिरस्तु विरहादनुजानिदमब्रवीत् ॥ ३९ ॥ स्वप्ने दृष्टा मया कुन्ती दुर्बला वनसंस्थिता । मनो मे जायते द्रष्टुं मातरं पितरौ तथा ॥ ४० ॥ विदुरं च महात्मानं सञ्जयं च महामतिम् । रोचते यदि वः सर्वान् व्रजाम इति मे मतिः ॥ ४१ ॥ ततस्ते भ्रातरः सर्वे सुभद्रा द्रौपदी तथा । वैराटी च महाभागा तथा नागरिको जनः ॥ ४२ ॥ प्राप्ताः सर्वजनैः सार्धं पाण्डवा दर्शनोत्सुकाः । शतयूपाश्रमं प्राप्य ददृशुः सर्व एव ते ॥ ४३ ॥ विदुरो न यदा दृष्टो धर्मस्तं पृष्टवांस्तदा । क्वास्ते स विदुरो धीमांस्तमुवाचाम्बिकासुतः ॥ ४४ ॥ विरक्तश्चरते क्षत्ता निरीहो निष्परिग्रहः । कुतोऽप्येकान्तसंवासी ध्यायतेऽन्तः सनातनम् ॥ ४५ ॥ गङ्गां गच्छन्द्वितीयेऽह्नि वने राजा युधिष्ठिरः । ददर्श विदुरं क्षामं तपसा संशितव्रतम् ॥ ४६ ॥ दृष्ट्वोवाच महीपालो वन्देऽहं त्वां युधिष्ठिरः । तस्थौ श्रुत्वा च विदुरः स्थाणुभूत इवानघः ॥ ४७ ॥ क्षणेन विदुरस्यास्यान्निःसृतं तेज अद्भुतम् । लीनं युधिष्ठिरस्यास्ये धर्मांशत्वात्परस्परम् ॥ ४८ ॥ क्षत्ता जहौ तदा प्राणाञ्छुशोचाति युधिष्ठिरः । दाहार्थं तस्य देहस्य कृतवानुद्यमं नृपः ॥ ४९ ॥ शृण्वतस्तु तदा राज्ञो वागुवाचाशरीरिणी । विरक्तोऽयं न दाहार्हो यथेष्टं गच्छ भूपते ॥ ५० ॥ श्रुत्वा ते भ्रातरः सर्वे सस्नुर्गङ्गाजलेऽमले । गत्वा निवेदयामासुर्धृतराष्ट्राय विस्तरात् ॥ ५१ ॥ स्थितास्तत्राश्रमे सर्वे पाण्डवा नागरैः सह । तत्र सत्यवतीसूनुर्नारदश्च समागतः ॥ ५२ ॥ मुनयोऽन्ये महात्मानश्चागता धर्मनन्दनम् । कुन्ती प्राह तदा व्यासं संस्थितं शुभदर्शनम् ॥ ५३ ॥ कृष्ण कर्णस्तु पुत्रो मे जातमात्रस्तु वीक्षितः । मनो मे तप्यतेऽत्यर्थं दर्शयस्व तपोधन ॥ ५४ ॥ समर्थोऽसि महाभाग कुरु मे वाञ्छितं प्रभो । गान्धार्युवाच दुर्योधनो रणेऽगच्छद्वीक्षितो न मया मुने ॥ ५५ ॥ तं दर्शय मुनिश्रेष्ठ पुत्रं मे त्वं सहानुजम् । सुभद्रोवाच अभिमन्युं महावीरं प्राणादप्यधिकं प्रियम् ॥ ५६ ॥ द्रष्टुकामास्मि सर्वज्ञ दर्शयाद्य तपोधन । सूत उवाच एवंविधानि वाक्यानि श्रुत्वा सत्यवतीसुतः ॥ ५७ ॥ प्राणायामं ततः कृत्वा दध्यौ देवीं सनातनीम् । सन्ध्याकालेऽथ सम्प्राप्ते गङ्गायां मुनिसत्तमः ॥ ५८ ॥ सर्वांस्तांश्च समाहूय युधिष्ठिरपुरोगमान् । तुष्टाव विश्वजननीं स्नात्वा पुण्यसरिज्जले ॥ ५९ ॥ प्रकृतिं पुरुषारामां सगुणां निर्गुणां तथा । देवदेवीं ब्रह्मरूपां मणिद्वीपाधिवासिनीम् ॥ ६० ॥ यदा न वेधा न च विष्णुरीश्वरो न वासवो नैव जलाधिपस्तथा । न वित्तपो नैव यमश्च पावक- स्तदासि देवि त्वमहं नमामि ताम् ॥ ६१ ॥ जलं न वायुर्न धरा न चाम्बरं गुणा न तेषां च न चेन्द्रियाण्यहम् । मनो न बुद्धिर्न च तिग्मगुः शशी तदासि देवि त्वमहं नमामि ताम् ॥ ६२ ॥ इमं जीवलोकं समाधाय चित्ते गुणैर्लिङ्गकोशं च नीत्वा समाधौ । स्थिता कल्पकालं नयस्यात्मतन्त्रा न कोऽप्यस्ति वेत्ता विवेकं गतोऽपि ॥ ६३ ॥ प्रार्थयत्येष मां लोको मृतानां दर्शनं पुनः । नाहं क्षमोऽस्मि मातस्त्वं दर्शयाशु जनान्मृतान् ॥ ६४ ॥ सूत उवाच एवं स्तुता तदा देवी माया श्रीभुवनेश्वरी । स्वर्गादाहूय सर्वान्वै दर्शयामास पार्थिवान् ॥ ६५ ॥ दृष्ट्वा कुन्ती च गान्धारी सुभद्रा च विराटजा । पाण्डवा मुमुदुः सर्वे वीक्ष्य प्रत्यागतान्स्वकान् ॥ ६६ ॥ पुनर्विसर्जितास्तेन व्यासेनामिततेजसा । स्मृत्वा देवीं महामायामिन्द्रजालमिवोद्यतम् ॥ ६७ ॥ तदा पृष्ट्वा ययुः सर्वे पाण्डवा मुनयस्तथा । राजा नागपुरं प्राप्तः कुर्वन् व्यासकथां पथि ॥ ६८ ॥
sūta uvāca pañcānāṃ draupadī bhāryā sā mānyā sā pativratā | pañca putrāstu tasyāḥ syurbhartṛbhyo'tīva sundarāḥ || 1 || arjunasya tathā bhāryā kṛṣṇasya bhaginī śubhā | subhadrā yā hṛtā pūrvaṃ jiṣṇunā harisammate || 2 || tasyāṃ jāto mahāvīro nihato'sau raṇājire | abhimanyurhatāstatra draupadyāśca sutāḥ kila || 3 || abhimanyorvarā bhāryā vairāṭī cātisundarī | kulānte suṣuve putraṃ mṛto bāṇāgninā śiśuḥ || 4 || jīvitaḥ sa tu kṛṣṇena bhāgineyasutaḥ svayam | drauṇibāṇāgninirdagdhaḥ pratāpenādbhutena ca || 5 || parikṣīṇeṣu vaṃśeṣu jāto yasmādvaraḥ sutaḥ | tasmātparīkṣito nāma vikhyātaḥ pṛthivītale || 6 || nihateṣu ca putreṣu dhṛtarāṣṭro'tiduḥkhitaḥ | tasthau pāṇḍavarājye ca bhīmavāgbāṇapīḍitaḥ || 7 || gāndhārī ca tathātiṣṭhat putraśokāturā bhṛśam | sevāṃ tayordivārātraṃ cakārārto yudhiṣṭhiraḥ || 8 || viduro'pyatidharmātmā prajñānetramabodhayat | yudhiṣṭhirasyānumate bhrātṛpārśve vyatiṣṭhata || 9 || dharmaputro'pi dharmātmā cakāra sevanaṃ pituḥ | putraśokodbhavaṃ duḥkhaṃ tasya vismārayanniva || 10 || yathā śṛṇoti vṛddho'sau tathā bhīmo'tiroṣitaḥ | vārabāṇenāhanattaṃ tu śrāvayansaṃsthitāñjanān || 11 || mayā putrā hatāḥ sarve duṣṭasyāndhasya te raṇe | duḥśāsanasya rudhiraṃ pītaṃ hṛdyaṃ tathā bhṛśam || 12 || bhunakti piṇḍamandho'yaṃ mayā dattaṃ gatatrapaḥ | dhvāṃkṣavadvā śvavaccāpi vṛthā jīvatyasau janaḥ || 13 || evaṃvidhāni rūkṣāṇi śrāvayatyanuvāsaram | āśvāsayati dharmātmā mūrkho'yamiti ca bruvan || 14 || aṣṭādaśaiva varṣāṇi sthitvā tatraiva duḥkhitaḥ | dhṛtarāṣṭro vane yānaṃ prārthayāmāsa dharmajam || 15 || ayācata dharmaputraṃ dhṛtarāṣṭro mahīpatiḥ | putrebhyo'haṃ dadāmyadya nirvāpaṃ vidhipūrvakam || 16 || vṛkodareṇa sarveṣāṃ kṛtamatraurdhvadaihikam | na kṛtaṃ mama putrāṇāṃ pūrvavairamanusmaran || 17 || dadāsi ceddhanaṃ mahyaṃ kṛtvā caivordhvadaihikam | gamiṣye'haṃ vanaṃ taptuṃ tapaḥ svargaphalapradam || 18 || ekānte vidureṇokto rājā dharmasutaḥ śuciḥ | dhanaṃ dātuṃ manaścakre dhṛtarāṣṭrāya cārthine || 19 || samāhūya nijānmarvānuvāca pṛthivīpatiḥ | dhanaṃ dāsye mahābhāgāḥ pitre nirvāpakāmine || 20 || tacchrutvā vacanaṃ bhrāturnyeṣṭhasyāmitatejasaḥ | saṃgrahe'sya mahābāhurmārutiḥ kupito'bravīt || 21 || dhanaṃ deyaṃ mahābhāga duryodhanahitāya kim | andho'pi sukhamāpnoti mūrkhatvaṃ kimataḥ param || 22 || tava durmantritenātha duḥkhaṃ prāptā vane vayam | draupadī ca mahābhāgā samānītā durātmanā || 23 || virāṭabhavane vāsaḥ prasādāttava suvrata | dāsatvaṃ ca kṛtaṃ sarvairmatsyasyāmitavikramaiḥ || 24 || devitā tvaṃ na cejjyeṣṭhaḥ prabhavetsaṃkṣayaḥ katham | sūpakāro virāṭasya hatvābhūvaṃ tu māgadham || 25 || bṛhannalā kathaṃ jiṣṇurbhavedbālasya nartakaḥ | kṛtvā veṣaṃ mahābāhuryoṣāyā vāsavātmajaḥ || 26 || gāṇḍīvaśobhitau hastau kṛtau kaṅkaṇaśobhitau | mānuṣaṃ ca vapuḥ prāpya kiṃ duḥkhaṃ syādataḥ param || 27 || dṛṣṭvā veṇīṃ kṛtāṃ mūrdhni kajjalaṃ locane tathā | asiṃ gṛhītvā tarasā chedmyahaṃ nānyathā sukham || 28 || apṛṣṭvā ca mahīpālaṃ nikṣipto'gnirmayā gṛhe | dagdhukāmaśca pāpātmā nirdagdho'sau purocanaḥ || 29 || kīcakā nihatāḥ sarve tvāmapṛṣṭvā janādhipa | na tathā nihatāḥ sarve sabhāryā dhṛtarāṣṭrajāḥ || 30 || mūrkhatvaṃ tava rājendra gandharvebhyaśca mocitāḥ | duryodhanādayaḥ kāmaṃ śatravo nigaḍīkṛtāḥ || 31 || duryodhanahitāyādya dhanaṃ dātuṃ tvamicchasi | nāhaṃ dade mahīpāla sarvathā preritastvayā || 32 || ityuktvā nirgate bhīme tribhiḥ parivṛto nṛpaḥ | dadau vittaṃ subahulaṃ dhṛtarāṣṭrāya dharmajaḥ || 33 || kārayāmāsa vidhivatputrāṇāṃ caurdhvadaihikam | dadau dānāni viprebhyo dhṛtarāṣṭro'mbikāsutaḥ || 34 || kṛtvaurdhvadaihikaṃ sarvaṃ gāndhārīsahito nṛpaḥ | praviveśa vanaṃ tūrṇaṃ kuntyā ca vidureṇa ca || 35 || sañjayena parijñāto nirgato'sau mahāmatiḥ | putrairnivāryamāṇāpi śūrasenasutā gatā || 36 || vilapanbhīmaseno'pi tathānye cāpi kauravāḥ | gaṅgātīrātparāvṛtya yayuḥ sarve gajāhvayam || 37 || te gatvā jāhnavītīre śatayūpāśramaṃ śubham | kṛtvā tṛṇaiḥ kuṭīṃ tatra tapastepuḥ samāhitāḥ || 38 || gatānyabdāni ṣaṭ teṣāṃ yadā yātā hi tāpasāḥ | yudhiṣṭhirastu virahādanujānidamabravīt || 39 || svapne dṛṣṭā mayā kuntī durbalā vanasaṃsthitā | mano me jāyate draṣṭuṃ mātaraṃ pitarau tathā || 40 || viduraṃ ca mahātmānaṃ sañjayaṃ ca mahāmatim | rocate yadi vaḥ sarvān vrajāma iti me matiḥ || 41 || tataste bhrātaraḥ sarve subhadrā draupadī tathā | vairāṭī ca mahābhāgā tathā nāgariko janaḥ || 42 || prāptāḥ sarvajanaiḥ sārdhaṃ pāṇḍavā darśanotsukāḥ | śatayūpāśramaṃ prāpya dadṛśuḥ sarva eva te || 43 || viduro na yadā dṛṣṭo dharmastaṃ pṛṣṭavāṃstadā | kvāste sa viduro dhīmāṃstamuvācāmbikāsutaḥ || 44 || viraktaścarate kṣattā nirīho niṣparigrahaḥ | kuto'pyekāntasaṃvāsī dhyāyate'ntaḥ sanātanam || 45 || gaṅgāṃ gacchandvitīye'hni vane rājā yudhiṣṭhiraḥ | dadarśa viduraṃ kṣāmaṃ tapasā saṃśitavratam || 46 || dṛṣṭvovāca mahīpālo vande'haṃ tvāṃ yudhiṣṭhiraḥ | tasthau śrutvā ca viduraḥ sthāṇubhūta ivānaghaḥ || 47 || kṣaṇena vidurasyāsyānniḥsṛtaṃ teja adbhutam | līnaṃ yudhiṣṭhirasyāsye dharmāṃśatvātparasparam || 48 || kṣattā jahau tadā prāṇāñchuśocāti yudhiṣṭhiraḥ | dāhārthaṃ tasya dehasya kṛtavānudyamaṃ nṛpaḥ || 49 || śṛṇvatastu tadā rājño vāguvācāśarīriṇī | virakto'yaṃ na dāhārho yatheṣṭaṃ gaccha bhūpate || 50 || śrutvā te bhrātaraḥ sarve sasnurgaṅgājale'male | gatvā nivedayāmāsurdhṛtarāṣṭrāya vistarāt || 51 || sthitāstatrāśrame sarve pāṇḍavā nāgaraiḥ saha | tatra satyavatīsūnurnāradaśca samāgataḥ || 52 || munayo'nye mahātmānaścāgatā dharmanandanam | kuntī prāha tadā vyāsaṃ saṃsthitaṃ śubhadarśanam || 53 || kṛṣṇa karṇastu putro me jātamātrastu vīkṣitaḥ | mano me tapyate'tyarthaṃ darśayasva tapodhana || 54 || samartho'si mahābhāga kuru me vāñchitaṃ prabho | gāndhāryuvāca duryodhano raṇe'gacchadvīkṣito na mayā mune || 55 || taṃ darśaya muniśreṣṭha putraṃ me tvaṃ sahānujam | subhadrovāca abhimanyuṃ mahāvīraṃ prāṇādapyadhikaṃ priyam || 56 || draṣṭukāmāsmi sarvajña darśayādya tapodhana | sūta uvāca evaṃvidhāni vākyāni śrutvā satyavatīsutaḥ || 57 || prāṇāyāmaṃ tataḥ kṛtvā dadhyau devīṃ sanātanīm | sandhyākāle'tha samprāpte gaṅgāyāṃ munisattamaḥ || 58 || sarvāṃstāṃśca samāhūya yudhiṣṭhirapurogamān | tuṣṭāva viśvajananīṃ snātvā puṇyasarijjale || 59 || prakṛtiṃ puruṣārāmāṃ saguṇāṃ nirguṇāṃ tathā | devadevīṃ brahmarūpāṃ maṇidvīpādhivāsinīm || 60 || yadā na vedhā na ca viṣṇurīśvaro na vāsavo naiva jalādhipastathā | na vittapo naiva yamaśca pāvaka- stadāsi devi tvamahaṃ namāmi tām || 61 || jalaṃ na vāyurna dharā na cāmbaraṃ guṇā na teṣāṃ ca na cendriyāṇyaham | mano na buddhirna ca tigmaguḥ śaśī tadāsi devi tvamahaṃ namāmi tām || 62 || imaṃ jīvalokaṃ samādhāya citte guṇairliṅgakośaṃ ca nītvā samādhau | sthitā kalpakālaṃ nayasyātmatantrā na ko'pyasti vettā vivekaṃ gato'pi || 63 || prārthayatyeṣa māṃ loko mṛtānāṃ darśanaṃ punaḥ | nāhaṃ kṣamo'smi mātastvaṃ darśayāśu janānmṛtān || 64 || sūta uvāca evaṃ stutā tadā devī māyā śrībhuvaneśvarī | svargādāhūya sarvānvai darśayāmāsa pārthivān || 65 || dṛṣṭvā kuntī ca gāndhārī subhadrā ca virāṭajā | pāṇḍavā mumuduḥ sarve vīkṣya pratyāgatānsvakān || 66 || punarvisarjitāstena vyāsenāmitatejasā | smṛtvā devīṃ mahāmāyāmindrajālamivodyatam || 67 || tadā pṛṣṭvā yayuḥ sarve pāṇḍavā munayastathā | rājā nāgapuraṃ prāptaḥ kurvan vyāsakathāṃ pathi || 68 ||
English translation
Suta said The chaste Draupadi was the common wife of all the five very beautiful sons of Kunti; and she bore five sons, one to every husband. Arjuna had one wife more; she was Subhadra, the sister of S’ri Krisna. By the order of S’ri Krisna, Arjuna stole her away (took her by force). The great hero Abhimanyu was born of Subhadra. This Abhimanyu and the five sons of Draupadi were killed in battle. Abhimanyu's wife Uttara was the charming daughter of the king Virat. She gave birth to one dead child, after all the boys, the descendants of the family were extinct. The above child died out of the arrows of AsVatthama. The extraordinarily powerful S’ri Krisna Himself made alive again this his sister's dead grandson. As this son was born after the family had become extinct, he became known in the world by the name of Pariksit. When the sons were all destroyed, Dhritarastra became very sorry, and, tormented by the arrow-like words of Bhima, remained in the kingdom of the Pandavas.
Gandhari, too, exceedingly distressed on the bereavement of the sons, remained there also. Yudhisthira, day and night, served Dhritarastra and Gandhari. The greatly religious Vidura always used to console, by the advice of Yudhisthira, his brother Dhritarastra, who possessed the eye of wisdom and he remained by his brother's side. Dharma's son Yudhisthira used to serve his uncle Dhritarastra in such a way as he might forget the pain of the death of his sons. But Bhima used to pierce his heart by his arrow-like words that he pronounced so loud as to reach the ears of the old king Dhritarastra. Bhima used to-say “In the battle field I killed all the sons, of the wicked blind king (Dhritarastra) and it was I that sucked well and drunk, full to the brim, the blood of the heart of Duhs'asana. Now this blind king eats shamelessly like a crow and a dog, the mass of food (Pinda) given by me, and thus is bearing uselessly the burden of life. Daily Bhima used to tell, thus, harsh words to him; whereas the religious Yudhisthira used to console him, saying “Bhima is a quite illiterate brute” and so forth. The king Dhritarastra remained there
with a grieved heart for eighteen years; the one day he proposed to the Dharma's son Yudhisthira about his intention to dwell in forest thus “To-day I wish to perform Tarpanas in the names my sons. True it is, that Bhima performed the funeral obsequies of them all; but, having in view of the former enmity, he did not do anything for my sons. If you give me some money, I will, then, perform the funeral obsequies of my sons and then retire to the forest to perform tapasya that I can go to Heaven.” Vidura also asked Yudhisthira privately pay to Dhritarashtra the sum that he wanted; Yudhisthira also intended to pay the required money. Then Yudhisthira, the lord of the world call his younger brothers and addressed them as follows “O highly fortunate ones! Our revered uncle is desirous to perform the funeral obsequies of his sons; so we will have to give him some money for the purpose.” Hearing these words of his elder brother of indomitable valour, Havana's son, the mighty armed Bhima became very angry and spoke out follows “O highly lucky one! Is it that we will have to give wealth for the spiritual benefit of Duryodhana and others? What a great stupidity can there be than the fact that such a malevolent blind king is deriving so great happiness at your hands? O Arya! It is by your bad counsel that we suffered endless troubles in the forest and the extremely good Draupadi was brought before the public in the hall by Duhs'asana. O one of good vows! It is for your satisfaction alone that we, though we were very mighty, had to remain in the house of Matsya Raj Virat as servants. Had you not been our elder brother and not been addicted to the gambling, would it have been possible I, who killed Jarasandha, would have been a cook to Virat Raj! Never we had been put to so great a trouble!
Never would the mighty armed Arjuna, the Vasava's son, have acted the part of an actress (a dancer), dressing himself in a female garb, under the name Vrihannala. Alas! What more painful could there be by assuming a human birth that the hands of Arjuna, that wielded always the Gandiva bow, would have worn bracelets befitting a woman? I would have been happy then had I, seeing the braid of hair on Arjuna's head and the collyrium in his eyes, cut off the head of Dhritarastra!
O Lord of the earth! Without asking you, I set fire on the house, named Jatugriha (a lac-house, as built by Duryodhana in order to burn up the Pandavas) and therefore the vicious Virochana, who wanted to burn us, was himself burnt up. Again, O Lord of men! similarly, without asking you, I slew Kichaka; this is now the one thing I regret that I could not have killed in the same way the sons of Dhritarastra before the public hall. O king of kings! It was simply your stupidity that you liberated Duryodhana and other sons, the great enemies of the Gandarbhas, when they had been imprisoned by them. Again to-day you are willing to give wealth for the spiritual benefit of those Duryodhana and others! But, O Lord of the earth, I would never give wealth, even if you request me specially to do this.
Thus saying, Bhima went away. Dharma's son Yudhisthira then consulted with the other three brothers and gave abundance of wealth to Dhritarastra. With this sum, the Ambika's son Dhritarastra duly performed the Sradh ceremony of his sons and gave away lots of things to the Brahmanas. The king Dhritarastra, thus performing all the funeral obsequies, became ready to go early to the forest with Gandhari, Kunti and Vidura. By the help of Sanjaya, the highly intelligent Dhritarastra became informed of the roads of the forest, and then went out of the house. Surasena's daughter Kunti, though stopped by her sons, followed them. Bhima and other Kauravas went along with them weeping up to the banks of the Ganges and thence returned to Hastinapura.
The ascetics went to the auspicious S’atayupa hermitage on the banks of the Ganges and building a hut practised tapasya with their hearts concentrated. Thus six years elapsed when Yudhisthira, troubled by their bereavements, said to his younger brothers “ I dreamt that our mother Kunti got very lean and thin. Now my mind wants bitterly to see mother, uncle, aunt, the high souled Vidura and the highly intelligent Sanjaya. If you approve, I want to go to there.” Then the five brothers, Pandu's sons, became desirous to see Kunti, and taking with them Draupadi, Subhadra, Uttara, and other persons went to the Satayupa hermitage and saw the persons there; but not
seeing Vidura, Yudhisthira asked “Where is Vidura?” Hearing this Dhritarastra said “Vidura has taken up Vairagyam (dispassion) and has gone alone to a solitary place and is meditating in his heart the eternal Brahma.” Next day while the king Yudhisthira was walking along the banks of the Ganges, he saw in the forest Vidura, engaged in his vow and become lean and thin by his tapasya; he then exclaimed “I am the king Yudhisthira; I am saluting you.” The holy Vidura heard and remained motionless like a log of wood.
Within an instant a wonderful halo came out of Vidura's face and entered the mouth of Yudhisthira, both of them being Dharma's parts. Vidura then died; Yudhisthira expressed great sorrow. When the Vidura's body was going to be set on fire, a celestial voice was heard:--“0 king! He was very wise; so he ought not to be burnt; you can go away as you like.” Hearing this, Yudhisthira bathed in the pure Ganges and returned to the As'rama and informed everything in detail to Dhritarastra. While the Pandavas were staying in the hermitage with the other inhabitants of the city, Vedavyasa, Narada, and other high-souled Munis came there to Yudhisthira. Kunti then spoke to the auspicious Vyasa “O Krisna! I saw my son Kama, only just when he was born; my mind is being very much tormented for him; so, O great ascetic! Show him once to me. O highly fortunate One! You alone can do this; so O Lord! Satisfy my heart’s desire.” Gandhari said “O Muni! I did not see while Duryodhan went to battle; so, O Muni! Show me Duryodhana with his younger brothers.” Subhadra said “O Omniscient one! I want very much to see the great hero Abhimanyu, dearer to me than my life even; O great ascetic! Show him once to me.” (33-57.)
Suta said Satyavati's son Vyasa Deva, hearing their words, held Pranayama (deep breathing exercise) and meditated on the eternal Devi, the force of Brahma. When the evening time came, the Muni invited Yudhisthira and all others to the banks of the Ganges. He then bathed in the Ganges and began to chant hymns in praise of the Devi Brahmamayi Prakriti, resting on the Purusa, the Dweller in the Mani DvTpa, with attributes, at the same time transcending them, thus “O Devi! When Brahma was not, Visnu was not, Mahes'vara
was not, nor when existing Indra, Varuna, Kuvera, Yama, and Agni, Thou alone existed then; my salutation to Thee.
When there existed not water, Vayu, ether, earth and their Gunas, taste, smell, etc., when there were no senses, mind, Buddhi, Ahamkara; when there existed no Sun, Moon nor anything. Thou alone existed then; so, O Devi! I bow down again and again to Thee. O Mother! Thou boldest all these visible Jiva lokas in the cosmic Hiranyagarbha; again Thou bringest this Hiranyagarbha, the sum- total of Linga Sariras (the subtle bodies), with the Gunas Sattva, Rajas and Tamas to a state of equilibrium named Samyavastha and remainest quite independent and apart for a Kalpa period. At that time even those that are possessed of the power of great discrimination and dispassion cannot fathom Thy nature. O Mother! These persons are praying to me to see their dead ones; but I am quite incapable to do that. So kindly shew them their departed ones early.” While Vyasa praised thus the Devi, the Devi Mahamaya, the Lady of the Universe, of the nature of Universal Consciousness called all the departed ones from the Heavens and showed them to their relatives. Then Kunti, Gandhari, Subhadra, Uttara, and the Pandavas became very glad to see their relatives come to them again. Vyasa, of indomitable valour, again remembering Mahamaya, bade good bye to the departed ones; it seemed then, a great magic had occurred. The Pandavas and the Munis bade good bye to each other and went to their respective places. The king Yudhisthira talked on the way about Vyasa and ultimately came to Hastina. (58-68.)
Thus ends the seventh chapter of the Second Skandha on shewing the departed ones in the Mahapuranam S’ri Mad Devi Bhagavatam of 18,000 verses.
Complete chapter-aligned witnesses. Sanskrit Wikisource page 24721, revision 75574 (2016-08-03T10:54:18Z). English is Swami Vijñanananda’s complete 1921–23 public-domain translation, controlled against the archival OCR and its chapter page at https://sacred-texts.com/hin/db/bk02ch07.htm. Historic spelling and transliteration are lightly normalized; no verse-by-verse alignment is asserted.