Fifth Skandha · Chapter 8
Sourceव्यास उवाच तरसा तेऽथ सम्प्राप्य वैकुण्ठं विष्णुवल्लभम् । ददृशुः सर्वशोभाढ्यं दिव्यसद्मविराजितम् ॥ १ ॥ सरोवापीसरिद्भिश्च संयुतं सुखदं शुभम् । हंससारसचक्राह्वैः कूजद्भिश्च विराजितम् ॥ २ ॥ चम्पकाशोककह्लारमन्दारबकुलावृतैः । मल्लिकातिलकाम्रातयुतैः कुरबकादिभिः ॥ ३ ॥ कोकिलारावसन्नादैः शिखण्डैर्नृत्यरञ्जितैः । भ्रमरारावरम्यैश्च दिव्यैरुपवनैर्युतम्॥ ४ ॥ सुनन्दनन्दनाद्यैश्च पार्षदैर्भक्तितत्परैः । संस्तुवद्भिर्युतं भक्तैरनन्यभववृत्तिभिः ॥ ५ ॥ प्रासादै रत्नखचितैः काञ्चनैश्चित्रमण्डितैः । अभ्रंलिहैर्विराजद्भिः संयुतं शुभसद्मकैः ॥ ६ ॥ गायद्भिर्देवगन्धर्वैर्नृत्यद्भिरप्सरोगणैः । रञ्जितं किन्नरैः शश्वद्रक्तकण्ठेर्मनोहरैः ॥ ७ ॥ मुनिभिश्च तथा शान्तैर्वेदपाठकृतादरैः । स्तुवद्भिः श्रुतिसूक्तैश्च मण्डितं सदनं हरेः ॥ ८ ॥ ते च विष्णुगृहं प्राप्य द्वारपालौ शुभाकृती । वीक्ष्योचुर्जयविजयौ हेमयष्टिधरौ स्थितौ ॥ ९ ॥ गत्वैकोऽप्युभयोर्मध्ये निवेदयतु सङ्गतान् । द्वारस्थान् ब्रह्मरुद्रादीन्विष्णुदर्शनलालसान् ॥ १० ॥ व्यास उवाच विजयस्तद्वचः श्रुत्वा गत्वाथ विष्णुसन्निधौ । सर्वान्समागतान्देवान्प्रणम्योवाच सत्वरः ॥ ११ ॥ विजय उवाच देवदेव महाराज रमाकान्त सुरारिहन् । समागताः सुराः सर्वे द्वारि तिष्ठन्ति वै विभो ॥ १२ ॥ ब्रह्मा रुद्रस्तथेन्द्रश्च वरुणः पावको यमः । स्तुवन्ति वेदवाक्यैस्त्वाममरा दर्शनार्थिनः ॥ १३ ॥ व्यास उवाच तच्छ्रुत्वा वचनं विष्णर्विजयस्य रमापतिः । निर्जगाम गृहात्तूर्णं सुरान्समधिकोत्सवः ॥ १४ ॥ गत्वा वीक्ष्य हरिर्देवान्द्वारस्थाञ्छ्रमकर्शितान् । प्रीतिप्रवणया दृष्ट्या प्रीणयामास दुःखितान् ॥ १५ ॥ प्रणेमुस्ते सुराः सर्वे देवदेवं जनार्दनम् । तुष्टुवुश्च सुरारिघ्नं वाग्भिर्वेदविनिश्चितम् ॥ १६ ॥ देवा ऊचुः देवदेव जगन्नाथ सृष्टिस्थित्यन्तकारक । दयासिन्धो महाराज त्राहि नः शरणागतान् ॥ १७ ॥ विष्णुरुवाच विशन्तु निर्जराः सर्वे कुशलं कथयन्तु वः । आसनेषु किमर्थं वै मिलिताः समुपागताः ॥ १८ ॥ चिन्तातुराः कथं जाता विषण्णा दीनमानसाः । ब्रह्मरुद्रेण सहिताः कार्यं प्रब्रूत सत्वरम् ॥ १९ ॥ देवा ऊचुः महिषेण महाराज पीडिताः पापकर्मणा । असाध्येनातिदुष्टेन वरदृप्तेन पापिना ॥ २० ॥ यज्ञभागानसौ भुंक्ते ब्राह्मणैः प्रतिपादितान् । अमरा गिरिदुर्गेषु भ्रमन्ति च भयातुराः ॥ २१ ॥ वरदानेन धातुः स दुर्जयो मधुसूदन । तस्मात्त्वां शरणं प्राप्ता ज्ञात्वा तत्कार्यगौरवम् ॥ २२ ॥ समर्थोऽसि समुद्धर्तुं दैत्यमायाविशारद । कुरु कृष्ण वधोपायं तस्य दानवमर्दन ॥ २३ ॥ धात्रा तस्मै वरो दत्तो ह्यवध्योऽसि नरैः किल । का स्त्री त्वेवंविधा बाला या हन्यात्तं शठं रणे ॥ २४ ॥ उमा मा वा शची विद्या का समर्थास्य घातने । महिषस्यातिदुष्टस्य वरदानबलादपि ॥ २५ ॥ विचिन्त्य बुद्ध्या यत्सर्वं मरणस्यास्य कारणम् । कुरु कार्यं च देवानां भक्तवत्सल भूधर ॥ २६ ॥ व्यास उवाच श्रुत्वा तद्वचनं विष्णुस्तानुवाच हसन्निव । युद्धं कृतं पुरास्माभिस्तथापि न मृतो ह्यसौ ॥ २७ ॥ अद्य सर्वसुराणां वै तेजोभी रूपसम्पदा । उत्पन्ना चेद्वरारोहा सा हन्यात्तं रणे बलात् ॥ २८ ॥ हयारिं वरदृप्तञ्च मायाशतविशारदम् । हन्तुं योग्या भवेन्नारी शक्त्यंशैर्निर्मिता हि नः ॥ २९ ॥ प्रार्थयन्तु च तेजोंऽशान्स्त्रियोऽस्माकं तथा पुनः । उत्पन्नैस्तैश्च तेजोंऽशैस्तेजोराशिर्भवेद्यथा ॥ ३० ॥ आयुधानि वयं दद्मः सर्वे रुद्रपुरोगमाः । तस्यै सर्वाणि दिव्यानि त्रिशूलादीनि यानि च ॥ ३१ ॥ सर्वायुधधरा नारी सर्वतेजःसमन्विता । हनिष्यति दुरात्मानं तं पापं मदगर्वितम् ॥ ३२ ॥ व्यास उवाच इत्युक्तवति देवेशे ब्रह्मणो वदनात्ततः । स्वयमेवोद्बभौ तेजोराशिश्चातीव दुःसहः ॥ ३३ ॥ रक्तवर्णं शुभाकारं पद्मरागमणिप्रभम् । किञ्चिच्छीतं तथा चोष्णं मरीचिजालमण्डितम् ॥ ३४ ॥ निःसृतं हरिणा दृष्टं हरेण च महात्मना । विस्मितौ तौ महाराज बभूवतुरुरुक्रमौ ॥ ३५ ॥ शङ्करस्य शरीरात्तु निःसृतं महदद्भुतम् । रौप्यवर्णमभूत्तीव्रं दुर्दर्शं दारुणं महत् ॥ ३६ ॥ भयङ्करञ्च दैत्यानां देवानां विस्मयप्रदम् । घोररूपं गिरिप्रख्यं तमोगुणमिवापरम् ॥ ३७ ॥ ततो विष्णुशरीरात्तु तेजोराशिमिवापरम् । नीलं सत्त्वगुणोपेतं प्रादुरास महाद्युति ॥ ३८ ॥ ततश्चेन्द्रशरीरात्तु चित्ररूपं दुरासदम् । आविरासीत्सुसंवृत्तं तेजः सर्वगुणात्मकम् ॥ ३९ ॥ कुबेरयमवह्नीनां शरीरेभ्यः समन्ततः । निश्चक्राम महत्तेजो वरुणस्य तथैव च ॥ ४० ॥ अन्येषां चैव देवानां शरीरेभ्योऽतिभास्वरम् । निर्गतं तन्महातेजोराशिरासीन्महोज्ज्वलः ॥ ४१ ॥ तं दृष्ट्वा विस्मिताः सर्वे देवा विष्णुपुरोगमाः । तेजोराशिं महादिव्यं हिमाचलमिवापरम् ॥ ४२ ॥ पश्यतां तत्र देवानां तेजःपुञ्जसमुद्भवा । बभूवातिवरा नारी सुन्दरी विस्मयप्रदा ॥ ४३ ॥ त्रिगुणा सा महालक्ष्मीः सर्वदेवशरीरजा । अष्टादशभुजा रम्या त्रिवर्णा विश्वमोहिनी ॥ ४४ ॥ श्वेतानना कृष्णनेत्रा संरक्ताधरपल्लवा । ताम्रपाणितला कान्ता दिव्यभूषणभूषिता ॥ ४५ ॥ अष्टादशभुजा देवी सहस्रभुजमण्डिता । सम्भूतासुरनाशाय तेजोराशिसमुद्भवा ॥ ४६ ॥ जनमेजय उवाच कृष्ण देव महाभाग सर्वज्ञ मुनिसत्तम । विस्तरं ब्रूहि तस्यास्त्वं शरीरस्य समुद्भवम् ॥ ४७ ॥ एकीभूतं च सर्वेषां तेजः किं वा पृथक् स्थितम् । अङ्गानि चैव तस्यास्तु सर्वतेजोमयानि वा ॥ ४८ ॥ भिन्नभागविभागेन जातान्यङ्गानि यानि तु । मुखनासाक्षिभेदेन सर्वत्रैकभवानि च ॥ ४९ ॥ ब्रूहि तद्विस्तरं व्यास शरीराङ्गसमुद्भवम् । बभूव यस्य देवस्य तेजसोऽङ्गं यदद्भुतम् ॥ ५० ॥ आयुधाभरणादीनि दत्तानि यैर्यथा यथा । तत्सर्वं श्रोतुकामोऽस्मि त्वन्मुखाम्बुजनिर्गतम् ॥ ५१ ॥ न हि तृप्याम्यहं ब्रह्मन् सुधामयरसं पिबन् । चरितञ्च महालक्ष्यास्त्वन्मुखाम्भोजनिःसृतम् ॥ ५२ ॥ सूत उवाच इति तस्य वचः श्रुत्वा राज्ञः सत्यवतीसुतः । उवाच मधुरं वाक्यं प्रीणयन्निव भूपतिम् ॥ ५३ ॥ व्यास उवाच शृणु राजन्महाभाग विस्तरेण ब्रवीमि ते । यथामति कुरुश्रेष्ठ तस्या देहसमुद्भवम् ॥ ५४ ॥ न ब्रह्मा न हरिः साक्षान्न रुद्रो न च वासवः । याथातथ्येन तद्रूपं वक्तुमीशः कदाचन ॥ ५५ ॥ कथं जानाम्यहं देव्या यद्रूपं यादृशं यतः । वाचारम्भणमात्रं तदुत्पन्नेति ब्रवीमि यत् ॥ ५६ ॥ सा नित्या सर्वदैवास्ते देवकार्यार्थसिद्धये । नानारूपा त्वेकरूपा जायते कार्यगौरवात् ॥ ५७ ॥ यथा नटो रङ्गगतो नानारूपो भवत्यसौ । एकरूपस्वभावोऽपि लोकरञ्जनहेतवे ॥ ५८ ॥ तथैषा देवकार्यार्थमरूपापि स्वलीलया । करोति बहुरूपाणि निर्गुणा सगुणानि च ॥ ५९ ॥ कार्यकर्मानुसारेण नामानि प्रभवन्ति हि । धात्वर्थगुणयुक्तानि गौणानि सुबहून्यपि ॥ ६० ॥ तद्वै बुद्ध्यनुसारेण प्रब्रवीमि नराधिप । यथा तेजःसमुद्भूतं रूपं तस्या मनोहरम् ॥ ६१ ॥ शङ्करस्य च यत्तेजस्तेन तन्मुखपङ्कजम् । श्वेतवर्णं शुभाकारमजायत महत्तरम् ॥ ६२ ॥ केशास्तस्यास्तथा स्निग्धा याम्येन तेजसाभवन् । वक्राग्राश्चातिदीर्घा वै मेघवर्णा मनोहराः ॥ ६३ ॥ नयनत्रितयं तस्या जज्ञे पावकतेजसा । कृष्णं रक्तं तथा श्वेतं वर्णत्रयविभूषितम् ॥ ६४ ॥ वक्रे स्निग्धे कृष्णवर्णे सन्ध्ययोस्तेजसा भ्रुवौ । जाते देव्याः सुतेजस्के कामस्य धनुषीव ते ॥ ६५ ॥ वायोश्च तेजसा शस्तौ श्रवणौ सम्बभूवतुः । नातिदीर्घो नातिह्रस्वौ दोलाविव मनोभुवः ॥ ६६ ॥ तिलपुष्पसमाकारा नासिका सुमनोहरा । सञ्जाता स्निग्धवर्णा वै धनदस्य च तेजसा ॥ ६७ ॥ दन्ताः शिखरिणः श्लक्ष्णाः कुन्दाग्रसदृशाः समाः । सञ्जाताः सुप्रभा राजन् प्राजापत्येन तेजसा ॥ ६८ ॥ अधरश्चातिरक्तोऽस्याः सञ्जातोऽरुणतेजसा । उत्तरोष्ठस्तथा रम्यः कार्तिकेयस्य तेजसा ॥ ६९ ॥ अष्टादशभुजाकारा बाहवो विष्णुतेजसा । वसूनां तेजसाङ्गुल्यो रक्तवर्णास्तथाभवन् ॥ ७० ॥ सौम्येन तेजसा जातं स्तनयोर्युग्ममुत्तमम् । ऐन्द्रेणास्यास्तथा मध्यं जातं त्रिवलिसंयुतम् ॥ ७१ ॥ जङ्घोरू वरुणस्याथ तेजसा सम्बभूवतुः । नितम्बः स तु सञ्जातो विपुलस्तेजसा भुवः ॥ ७२ ॥ एवं नारी शुभाकारा सुरूपा सुस्वरा भृशम् । समुत्पन्ना तथा राजंस्तेजोराशिसमुद्भवा ॥ ७३ ॥ तां दृष्ट्वा सुष्ठुसर्वाङ्गीं सुदतीं चारुलोचनाम् । मुदं प्रापुः सुराः सर्वे महिषेण प्रपीडिताः ॥ ७४ ॥ विष्णुस्त्वाह सुरान्सर्वान्भूषणान्यायुधानि च । प्रयच्छन्तु शुभान्यस्यै देवाः सर्वाणि साम्प्रतम् ॥ ७५ ॥ स्वायुधेभ्यः समुत्पाद्य तेजोयुक्तानि सत्वराः । समर्पयन्तु सर्वेऽद्य देव्यै नानायुधानि वै ॥ ७६ ॥
vyāsa uvāca tarasā te'tha samprāpya vaikuṇṭhaṃ viṣṇuvallabham | dadṛśuḥ sarvaśobhāḍhyaṃ divyasadmavirājitam || 1 || sarovāpīsaridbhiśca saṃyutaṃ sukhadaṃ śubham | haṃsasārasacakrāhvaiḥ kūjadbhiśca virājitam || 2 || campakāśokakahlāramandārabakulāvṛtaiḥ | mallikātilakāmrātayutaiḥ kurabakādibhiḥ || 3 || kokilārāvasannādaiḥ śikhaṇḍairnṛtyarañjitaiḥ | bhramarārāvaramyaiśca divyairupavanairyutam|| 4 || sunandanandanādyaiśca pārṣadairbhaktitatparaiḥ | saṃstuvadbhiryutaṃ bhaktairananyabhavavṛttibhiḥ || 5 || prāsādai ratnakhacitaiḥ kāñcanaiścitramaṇḍitaiḥ | abhraṃlihairvirājadbhiḥ saṃyutaṃ śubhasadmakaiḥ || 6 || gāyadbhirdevagandharvairnṛtyadbhirapsarogaṇaiḥ | rañjitaṃ kinnaraiḥ śaśvadraktakaṇṭhermanoharaiḥ || 7 || munibhiśca tathā śāntairvedapāṭhakṛtādaraiḥ | stuvadbhiḥ śrutisūktaiśca maṇḍitaṃ sadanaṃ hareḥ || 8 || te ca viṣṇugṛhaṃ prāpya dvārapālau śubhākṛtī | vīkṣyocurjayavijayau hemayaṣṭidharau sthitau || 9 || gatvaiko'pyubhayormadhye nivedayatu saṅgatān | dvārasthān brahmarudrādīnviṣṇudarśanalālasān || 10 || vyāsa uvāca vijayastadvacaḥ śrutvā gatvātha viṣṇusannidhau | sarvānsamāgatāndevānpraṇamyovāca satvaraḥ || 11 || vijaya uvāca devadeva mahārāja ramākānta surārihan | samāgatāḥ surāḥ sarve dvāri tiṣṭhanti vai vibho || 12 || brahmā rudrastathendraśca varuṇaḥ pāvako yamaḥ | stuvanti vedavākyaistvāmamarā darśanārthinaḥ || 13 || vyāsa uvāca tacchrutvā vacanaṃ viṣṇarvijayasya ramāpatiḥ | nirjagāma gṛhāttūrṇaṃ surānsamadhikotsavaḥ || 14 || gatvā vīkṣya harirdevāndvārasthāñchramakarśitān | prītipravaṇayā dṛṣṭyā prīṇayāmāsa duḥkhitān || 15 || praṇemuste surāḥ sarve devadevaṃ janārdanam | tuṣṭuvuśca surārighnaṃ vāgbhirvedaviniścitam || 16 || devā ūcuḥ devadeva jagannātha sṛṣṭisthityantakāraka | dayāsindho mahārāja trāhi naḥ śaraṇāgatān || 17 || viṣṇuruvāca viśantu nirjarāḥ sarve kuśalaṃ kathayantu vaḥ | āsaneṣu kimarthaṃ vai militāḥ samupāgatāḥ || 18 || cintāturāḥ kathaṃ jātā viṣaṇṇā dīnamānasāḥ | brahmarudreṇa sahitāḥ kāryaṃ prabrūta satvaram || 19 || devā ūcuḥ mahiṣeṇa mahārāja pīḍitāḥ pāpakarmaṇā | asādhyenātiduṣṭena varadṛptena pāpinā || 20 || yajñabhāgānasau bhuṃkte brāhmaṇaiḥ pratipāditān | amarā giridurgeṣu bhramanti ca bhayāturāḥ || 21 || varadānena dhātuḥ sa durjayo madhusūdana | tasmāttvāṃ śaraṇaṃ prāptā jñātvā tatkāryagauravam || 22 || samartho'si samuddhartuṃ daityamāyāviśārada | kuru kṛṣṇa vadhopāyaṃ tasya dānavamardana || 23 || dhātrā tasmai varo datto hyavadhyo'si naraiḥ kila | kā strī tvevaṃvidhā bālā yā hanyāttaṃ śaṭhaṃ raṇe || 24 || umā mā vā śacī vidyā kā samarthāsya ghātane | mahiṣasyātiduṣṭasya varadānabalādapi || 25 || vicintya buddhyā yatsarvaṃ maraṇasyāsya kāraṇam | kuru kāryaṃ ca devānāṃ bhaktavatsala bhūdhara || 26 || vyāsa uvāca śrutvā tadvacanaṃ viṣṇustānuvāca hasanniva | yuddhaṃ kṛtaṃ purāsmābhistathāpi na mṛto hyasau || 27 || adya sarvasurāṇāṃ vai tejobhī rūpasampadā | utpannā cedvarārohā sā hanyāttaṃ raṇe balāt || 28 || hayāriṃ varadṛptañca māyāśataviśāradam | hantuṃ yogyā bhavennārī śaktyaṃśairnirmitā hi naḥ || 29 || prārthayantu ca tejoṃ'śānstriyo'smākaṃ tathā punaḥ | utpannaistaiśca tejoṃ'śaistejorāśirbhavedyathā || 30 || āyudhāni vayaṃ dadmaḥ sarve rudrapurogamāḥ | tasyai sarvāṇi divyāni triśūlādīni yāni ca || 31 || sarvāyudhadharā nārī sarvatejaḥsamanvitā | haniṣyati durātmānaṃ taṃ pāpaṃ madagarvitam || 32 || vyāsa uvāca ityuktavati deveśe brahmaṇo vadanāttataḥ | svayamevodbabhau tejorāśiścātīva duḥsahaḥ || 33 || raktavarṇaṃ śubhākāraṃ padmarāgamaṇiprabham | kiñcicchītaṃ tathā coṣṇaṃ marīcijālamaṇḍitam || 34 || niḥsṛtaṃ hariṇā dṛṣṭaṃ hareṇa ca mahātmanā | vismitau tau mahārāja babhūvatururukramau || 35 || śaṅkarasya śarīrāttu niḥsṛtaṃ mahadadbhutam | raupyavarṇamabhūttīvraṃ durdarśaṃ dāruṇaṃ mahat || 36 || bhayaṅkarañca daityānāṃ devānāṃ vismayapradam | ghorarūpaṃ giriprakhyaṃ tamoguṇamivāparam || 37 || tato viṣṇuśarīrāttu tejorāśimivāparam | nīlaṃ sattvaguṇopetaṃ prādurāsa mahādyuti || 38 || tataścendraśarīrāttu citrarūpaṃ durāsadam | āvirāsītsusaṃvṛttaṃ tejaḥ sarvaguṇātmakam || 39 || kuberayamavahnīnāṃ śarīrebhyaḥ samantataḥ | niścakrāma mahattejo varuṇasya tathaiva ca || 40 || anyeṣāṃ caiva devānāṃ śarīrebhyo'tibhāsvaram | nirgataṃ tanmahātejorāśirāsīnmahojjvalaḥ || 41 || taṃ dṛṣṭvā vismitāḥ sarve devā viṣṇupurogamāḥ | tejorāśiṃ mahādivyaṃ himācalamivāparam || 42 || paśyatāṃ tatra devānāṃ tejaḥpuñjasamudbhavā | babhūvātivarā nārī sundarī vismayapradā || 43 || triguṇā sā mahālakṣmīḥ sarvadevaśarīrajā | aṣṭādaśabhujā ramyā trivarṇā viśvamohinī || 44 || śvetānanā kṛṣṇanetrā saṃraktādharapallavā | tāmrapāṇitalā kāntā divyabhūṣaṇabhūṣitā || 45 || aṣṭādaśabhujā devī sahasrabhujamaṇḍitā | sambhūtāsuranāśāya tejorāśisamudbhavā || 46 || janamejaya uvāca kṛṣṇa deva mahābhāga sarvajña munisattama | vistaraṃ brūhi tasyāstvaṃ śarīrasya samudbhavam || 47 || ekībhūtaṃ ca sarveṣāṃ tejaḥ kiṃ vā pṛthak sthitam | aṅgāni caiva tasyāstu sarvatejomayāni vā || 48 || bhinnabhāgavibhāgena jātānyaṅgāni yāni tu | mukhanāsākṣibhedena sarvatraikabhavāni ca || 49 || brūhi tadvistaraṃ vyāsa śarīrāṅgasamudbhavam | babhūva yasya devasya tejaso'ṅgaṃ yadadbhutam || 50 || āyudhābharaṇādīni dattāni yairyathā yathā | tatsarvaṃ śrotukāmo'smi tvanmukhāmbujanirgatam || 51 || na hi tṛpyāmyahaṃ brahman sudhāmayarasaṃ piban | caritañca mahālakṣyāstvanmukhāmbhojaniḥsṛtam || 52 || sūta uvāca iti tasya vacaḥ śrutvā rājñaḥ satyavatīsutaḥ | uvāca madhuraṃ vākyaṃ prīṇayanniva bhūpatim || 53 || vyāsa uvāca śṛṇu rājanmahābhāga vistareṇa bravīmi te | yathāmati kuruśreṣṭha tasyā dehasamudbhavam || 54 || na brahmā na hariḥ sākṣānna rudro na ca vāsavaḥ | yāthātathyena tadrūpaṃ vaktumīśaḥ kadācana || 55 || kathaṃ jānāmyahaṃ devyā yadrūpaṃ yādṛśaṃ yataḥ | vācārambhaṇamātraṃ tadutpanneti bravīmi yat || 56 || sā nityā sarvadaivāste devakāryārthasiddhaye | nānārūpā tvekarūpā jāyate kāryagauravāt || 57 || yathā naṭo raṅgagato nānārūpo bhavatyasau | ekarūpasvabhāvo'pi lokarañjanahetave || 58 || tathaiṣā devakāryārthamarūpāpi svalīlayā | karoti bahurūpāṇi nirguṇā saguṇāni ca || 59 || kāryakarmānusāreṇa nāmāni prabhavanti hi | dhātvarthaguṇayuktāni gauṇāni subahūnyapi || 60 || tadvai buddhyanusāreṇa prabravīmi narādhipa | yathā tejaḥsamudbhūtaṃ rūpaṃ tasyā manoharam || 61 || śaṅkarasya ca yattejastena tanmukhapaṅkajam | śvetavarṇaṃ śubhākāramajāyata mahattaram || 62 || keśāstasyāstathā snigdhā yāmyena tejasābhavan | vakrāgrāścātidīrghā vai meghavarṇā manoharāḥ || 63 || nayanatritayaṃ tasyā jajñe pāvakatejasā | kṛṣṇaṃ raktaṃ tathā śvetaṃ varṇatrayavibhūṣitam || 64 || vakre snigdhe kṛṣṇavarṇe sandhyayostejasā bhruvau | jāte devyāḥ sutejaske kāmasya dhanuṣīva te || 65 || vāyośca tejasā śastau śravaṇau sambabhūvatuḥ | nātidīrgho nātihrasvau dolāviva manobhuvaḥ || 66 || tilapuṣpasamākārā nāsikā sumanoharā | sañjātā snigdhavarṇā vai dhanadasya ca tejasā || 67 || dantāḥ śikhariṇaḥ ślakṣṇāḥ kundāgrasadṛśāḥ samāḥ | sañjātāḥ suprabhā rājan prājāpatyena tejasā || 68 || adharaścātirakto'syāḥ sañjāto'ruṇatejasā | uttaroṣṭhastathā ramyaḥ kārtikeyasya tejasā || 69 || aṣṭādaśabhujākārā bāhavo viṣṇutejasā | vasūnāṃ tejasāṅgulyo raktavarṇāstathābhavan || 70 || saumyena tejasā jātaṃ stanayoryugmamuttamam | aindreṇāsyāstathā madhyaṃ jātaṃ trivalisaṃyutam || 71 || jaṅghorū varuṇasyātha tejasā sambabhūvatuḥ | nitambaḥ sa tu sañjāto vipulastejasā bhuvaḥ || 72 || evaṃ nārī śubhākārā surūpā susvarā bhṛśam | samutpannā tathā rājaṃstejorāśisamudbhavā || 73 || tāṃ dṛṣṭvā suṣṭhusarvāṅgīṃ sudatīṃ cārulocanām | mudaṃ prāpuḥ surāḥ sarve mahiṣeṇa prapīḍitāḥ || 74 || viṣṇustvāha surānsarvānbhūṣaṇānyāyudhāni ca | prayacchantu śubhānyasyai devāḥ sarvāṇi sāmpratam || 75 || svāyudhebhyaḥ samutpādya tejoyuktāni satvarāḥ | samarpayantu sarve'dya devyai nānāyudhāni vai || 76 ||
English translation
1-4. Vyasa said Soon the Devas reached Vaikuntha, protected by Visnu; they at once began to look at the exquisite indescribable beauty of the place. At intervals they saw nice lovely divine houses, shining and appearing very splendid; pools and lakes were seen in front of them beautified with Kalhara lotus flowers. They began to see, at other places, rivers flowing; swans, cranes, Chakravakas and other aquatic birds were swimming there easily and warbling lovely sounds. At other places again, beautiful gardens came to their sight adorned exquisitely by Champaka, As'oka Mandara, Bakula, Amrataka, Tilaka, Kuruvaka and Mallika and various other flower trees, the cuckoos were seen there cooing melodiously, bees humming gently and peacocks dancing beautifully.
5-6. In the centre was situated the golden palace of Hari, towering to heavens, the rooms and quadrangles were all charming; at places, they were bedecked with gems and jewels and adorned with various paintings. There was the Divine Seat in the centre, composed wholly of gems and jewels; and Visnu was occupying this place. There were Visnu's Parisadas or attendants, Sunanda, Nandana, and others; they were so much devoted to their master that their hearts never become attached to any other thing; so they were devotedly singing His praises and chanting His hymns with undivided attention.
7-10. There were dancing the Apsaras (celestial nymphs) and the Devas, Gandarbhas, and Kinnaras were singing in melodious tunes. Those who love the chanting of the Vedas, such calm-tempered Munis were reciting the Vedic Suktas and thus highly extolled Him. The two lovely gate-keepers Jaya and Vijaya were waiting at the
entrance gate with golden sticks in their hands; the Devas conning nigh the city of Visnu caught sight of them and said “Any of you may go and inform Visnu that Brahma, Rudra, and the whole host of gods are waiting at His door to see Him.”
11. Vyasa said O king! Hearing their words, Vijaya went away at once to Visnu; and, saluting Him, informed Him of the arrival of the Devas.
12-13. Vijaya said O Lord! Thou destroyest the enemies of the gods; hence Thou art the most worshipped of them. O Lord of Rama! The whole hosts of gods have come and are waiting at Thy door, O Bibhu!
Brahma, Rudra, Indra, Varuna, Fire and Yama and other gods, anxious to see Thee, are all praising Thee by proper hymns.
14-32. Vyasa said Hearing Vijaya's words, Visnu, the Lord of Rama became very anxious and soon went out of his room to see the Devas. Hari came up to them and seeing the Devas waiting at the doors very morose and tired, cheered them up by casting a favourable glance full affection and love. The gods bowed down and praised hymns to Jagannatha the Deva of the Devas, the enemy of the Daityas and revealed in the Vedas. O Deva of the Devas! Thou art the Creator, Preserver and the Destroyer of the worlds; Thou art the ocean of mercy and the sole refuge of this Universe; O Lord! We have come to Thee as our Great Refuge; therefore dost Thou save us from the present difficulty. Thus praised by the gods, Visnu said:- - O Immortals! Take your respective seats and speak how are you all? Why have you all in a body come here? Why are you so much depressed and worn out with cares? Why do you look so melancholy? Say soon for what purpose you with Brahma and Rudra have come here. The Devas said “O Lord! The Asura Mahisa is
very cruel and wicked; always addicted to vicious acts; now that most sinful Danava has become very much puffed up with pride and is tormenting us always. What more shall we say than this, he is appropriating to himself the share of the Yajhas performed by the Brahmins; we are therefore, terror-stricken and are wandering in mountains and fastnesses. O Destroyer of Madhu! He has become unconquerable due to his being granted the boon; considering, therefore, the gravity of our situation we have taken refuge unto Thee. O Krisna! Thou art acquainted with all the tricks and Maya of the Daityas; therefore Thou art capable to kill them. Therefore Thou alone art able to deliver us from the present difficulty; be pleased, therefore; to Devise means for that purpose. The Creator Brahma has granted him this boon that the demon could not killed by any man; therefore we are asking you where can we get a female who will be able to kill that hypocrite in battle. Mahisa has turned out very wicked on the strength of that boon; say, therefore, who amongst Lima, Laksmi, S'achi, or Vidya or any other woman will be able to kill him. Therefore, O Gracious One to faithful worshippers and attendants! Thou art the Preserver of this world; now Devise specially the cause of his death and carry out the purpose of the gods.” Vyasa said O king! Visnu on hearing their words, spoke smiling “We fought before; but this Asura could not at that time be killed. Hence if some beautiful female Deity be now created out of the collective energy and form of the S'aktis of each of the Devas, then that Lady would be able easily to destroy that Demon by sheer force. The Lady Deity then sprung from the collective energy of ours, would at once be able to destroy that Mahisa, elated on his getting the power, though he is skilled in hundreds of Mayas (magics). Therefore ask ye now all, with your wives respectively, boons from that portion which resides in you all in the form of Fiery Energy, that the collected energy thus manifested may assume the form of a Lady. We will then offer unto Her, all the Divine weapons, the trident, etc., that belong to us. That Deity, then, full of energy and with all the weapons in Her hands would kill that wicked Demon, vicious and swelled with vanity.”
33-46. Vyasa said On Visnu, the Lord of the Devas, saying thus, came out spontaneously, at once, of the face of Brahma, the brilliant fiery energy, very difficult to conceive. That energy looked red like gems and pearls, hot, at the same time, a little cool, having a beautiful form, and encircled by a halo of light. O King! The high- souled Hari and Hara, of mighty valor, were astonished to see this Fire, emitted from Brahma. Next came out of the body of S'ankara, His fiery spirit, quite in abundance and very wonderful to behold; it was silvery white, terrible, unbearable, and incapable of being seen even with difficulty. It extended like a mountain and looked horrible as if the incarnation of the Tamo Guna like another Tamo Guna (S'iva is the incarnation of Tamo Guna that destroys everything). It was very surprising to the Devas and very fearful to the Daityas.
Next a dazzling light of blue colour emanated from the body of Visnu. The light that came out of the body of Indra was hardly bearable, of a beautiful variegated colour, and comprised in itself the three qualities. Thus masses of lights came out respectively from Kuvera, Yama, Fire and Varuna. The other Devas, too, gave their shares of fiery lights, very lustrous and splendid. Then these all united into a great Mass of Fire and Light. Like another Himalayan mountain shone full their lustrous Divine light; Visnu and the other Devas were all extremely surprised to see this. While the Devas were thus looking steadfastly on that Fire, an exquisitely handsome Lady was born out of it, causing excitement and wonder to all. This Lady was Maha Laksmi; composed of the three qualities of the three colours, beautiful, and fascinating to the universe. Her face was white, eyes were black, her lips were red and the palms of her hands were copper-red. She was adorned with divine ornaments. The Goddess was now manifest with eighteen hands, though She had a thousand hands (in Her unmanifested state). Now She became manifest out of the mass of fire, for the destruction of the Asuras.
47-52. Janamejaya said O Best of the Munis! O Krisna! You are highly fortunate and you are all-knowing. Kindly describe, in detail the birth of Her body. O Deva! Please say whether the energies of all the gods united into one or remained separate? Whether Her body and Her limbs were all luminous. Was it that Her face, nose, eyes, etc., and all other parts of Her body were created out of the different fires respectively or whether was it that those limbs were fashioned when the different fires blended into one huge mass? Describe, in detail, the origin of the body and the several limbs thereof; also inform me the limbs that were produced out of the corresponding Deva's fiery part; as well tell me the several ornaments and several weapons given by the several Devas respectively. I am very desirous to hear all these from your lotus-like mouth. O Brahman! Hearing from your lotus-like mouth the life and doings of Maha Laksmi, the sweet juice as they are, I am as yet not satiated (and am desirous to hear more).
53. Suta said Veda Vyasa, the son of Satyavati, hearing his words addressed him in the following sweet words
54. “O Best of Kuras! Very fortunate you are. I will describe in detail, to the best of my understanding, the origin of Her body.
55. Even Brahma, Visnu, Mahes'a and Indra are never competent enough to describe Her form properly.
56. As I already told you that She sprung at the instant the word was spoken, how then can I ascertain the form or likeness of the Devi.
57. She is constant, She is always existent; though She is one, yet She assumes different forms for the fulfilment of the Deva's ends, whenever their positions become serious.
58-59. Though the actor is one, yet for the entertainment of the spectators, he assumes different forms in the stage, so the Nirguna Devi, though formless, assumes in Her pastime, many different forms of Sattvic, Rajasic or Tamasic qualities, to fulfill the Deva's purposes.
60. There are various names given to Her, according as the works done by Her vary immensely in their natures, just as the meanings of one root vary, some being principal and some secondary, according to the meanings and objects they convey.
61. O King! I will now describe to you as far as my knowledge goes, the Excellent Form that came out of that mass of Celestial Light.
62. Her grand beautiful white lotus-like face was created out of the fiery energy of S'ankara.
63. Her glossy black beautiful hairs of the head, overhanging to the knees, were formed out of the light of Yama; these all came to a fine pointed end.
64. Her three eyes came out of the energy of Fire; the pupils of those eyes were of a black colour; the middle parts were of a white colour and the ends were red.
65. The two eyebrows of the Devi were black and came out of the spirit of Sandhya (twilights); they were nicely curved and were looking spirited, like the bow of the Cupid and they were shedding, as it were, cooling rays.
66. From the light of Vayu (air). Her two ears were created; they were not very long, nor very short, beautiful like the swinging seat (rocking chair) of the God of Love.
67. Her nose was fashioned out of the fire of Kuvera, the Lord of wealth; it looked like the til flower, glassy and exquisitely charming.
68. O King! Her pointed rows of glossy and brilliant teeth, looking like gems, came out of the energy of Daksa; they looked like the Kunda flowers.
69. Her lower lip was deep red and it came out of the fire of Aruna (the charioteer of the Sun); Her beautiful upper lip came out of the energy of Kartika.
70. Her eighteen hands came out of the Tejas of Visnu and Her red fingers came out of the Tejas of the Vasus.
71. Her breasts came out of the energy of Soma and Her middle (navel) with three folds was created out of the spirit of Indra.
72. Her thighs and legs were from Varuna and Her spacious loins came out from Earth.
73-74. O King! Thus from the various Tejas, contributed by the Devas, that Heavenly Lady came out. Her body and the several parts thereof were beautiful; Her form was incomparably graceful and the voice was exquisitely sonorous and lovely. The Devas, oppressed by Mahisasura, became overpowered with joy seeing this well decorated Devi, having beautiful eyes and teeth, and charming in all respects.”
75. Visnu then addressed all the Devas to give all their auspicious ornaments and weapons. He said “O Devas! Better give, all you the various arms and weapons, endowed with strength, created out of your own weapons and give them all today to the Devi.”
Here ends the Eighth Chapter of the Fifth Skandha on the description of the origin and the form of the Devi in S'rimad Devi Bhagavatam, the Maha Puranam, of 18,000 verses by Maharsi Veda Vyasa.
Complete chapter-aligned witnesses. Sanskrit Wikisource page 24407, revision 74840 (2016-07-21T14:53:06Z). English is Swami Vijñanananda’s complete 1921–23 public-domain translation, controlled against the archival OCR and its chapter page at https://sacred-texts.com/hin/db/bk05ch08.htm. Historic spelling and transliteration are lightly normalized; no verse-by-verse alignment is asserted.