Skip to main content

Tenth Skandha · Chapter 12

Chapter 12

Unit 279 of 318Tenth Skandha · Chapter 12Tenth Skandha · Chapter 121 source entries

Tenth Skandha · Chapter 12

Source

मुनिरुवाच महिषीगर्भसम्भूतो महाबलपराक्रमः । देवान्सर्वान्पराजित्य महिषोऽभूज्जगत्प्रभुः ॥ १ सर्वेषां लोकपालानामधिकारान्महासुरः । बलानिर्जित्य बुभुजे त्रैलोक्यैश्वर्यमद्‌भुतम् ॥ २ ॥ ततः पराजिताः सर्वे देवाः स्वर्गपरिच्युताः । ब्रह्माणं च पुरस्कृत्य ते जग्मुर्लोकमुत्तमम् ॥ ३ ॥ यत्रोत्तमौ देवदेवौ संस्थितौ शङ्‌कराच्युतौ । वृत्तान्तं कथयामासुर्महिषस्य दुरात्मनः ॥ ४ ॥ देवानां चैव सर्वेषां स्थानानि तरसासुरः । विनिर्जित्य स्वयं भुङ्‌क्ते बलवीर्यमदोद्धतः ॥ ५ ॥ महिषासुरनामासौ दुष्टदैत्योऽमरेश्वरौ । वधोपायश्च तस्याशु चिन्त्यतामसुरार्दनौ ॥ ६ ॥ एवं श्रुत्वा स भगवान्देवानामार्तियुग्वचः । चकार कोपं सुबहुं तथा शङ्‌करपद्मजौ ॥ ७ ॥ एवं कोपयुतस्यास्य हरेरास्यान्महीपते । तेजः प्रादुरभूद्दिव्यं सहस्रार्कसमद्युति ॥ ८ ॥ अथानुक्रमतस्तेजः सर्वेषां त्रिदिवौकसाम् । शरीरादुद्‍भवं प्राप हर्षयद्‌विबुधाधिपान् ॥ ९ ॥ यदभूच्छम्भुजं तेजो मुखमस्योदपद्यत । केशा बभूवुर्याम्येन वैष्णवेन च बाहवः ॥ १० ॥ सौम्येन च स्तनौ जातौ माहेन्द्रेण च मध्यमः । वारुणेन ततो भूप जङ्‌घोरू सम्बभूवतुः ॥ ११ ॥ नितम्बौ तेजसा भूमेः पादौ ब्राह्मेण तेजसा । पादाङ्‌गुल्यो भानवेन वासवेन कराङ्‌गुली ॥ १२ ॥ कौबेरेण तथा नासा दन्ताः सञ्जज्ञिरे तदा । प्राजापत्येनोत्तमेन तेजसा वसुधाधिप ॥ १३ ॥ पावकेन च सञ्जातं लोचनत्रितयं शुभम् । सान्ध्येन तेजसा जाते भृकुट्यौ तेजसां निधी ॥ १४ ॥ कर्णौ वायव्यतो जातौ तेजसो मनुजाधिप । सर्वेषां तेजसा देवी जाता महिषमर्दिनी ॥ १५ ॥ शूलं ददौ शिवो विष्णुश्चक्रं शङ्‌खं च पाशभृत् । हुताशनो ददौ शक्तिं मारुतश्चापसायकौ ॥ १६ ॥ वज्रं महेन्द्रः प्रददौ घण्टां चैरावताद्‌ गजात् । कालदण्डं यमो ब्रह्मा चाक्षमालाकमण्डलू ॥ १७ ॥ दिवाकरो रश्मिमालां रोमकूपेषु सन्ददौ । कालः खड्गं तथा चर्म निर्मलं वसुधाधिप ॥ १८ ॥ समुद्रो निर्मलं हारमजरे चाम्बरे नृप । चूडामणिं कुण्डले च कटकानि तथाङ्‌गदे ॥ १९ ॥ अर्धचन्द्रं निर्मलं च नूपुराणि तथा ददौ । ग्रैवेयकं भूषणं च तस्यै देव्यै मुदान्वितः ॥ २० ॥ विश्वकर्मा चोर्मिकाश्च ददौ तस्यै धरापते । हिमवान्वाहनं सिंहं रत्‍नानि विविधानि च ॥ २१ ॥ पानपात्रं सुरापूर्णं ददौ तस्यै धनाधिपः । शेषश्च भगवान्देवो नागहारं ददौ विभुः ॥ २२ ॥ अन्यैरशेषविबुधैर्मानिता सा जगन्मयी । तां तुष्टुवुर्महादेवीं देवा महिषपीडिताः ॥ २३ ॥ नानास्तोत्रैर्महेशानीं जगदुद्‍भवकारिणीम् । तेषां निशम्य देवेशी स्तोत्रं विबुधपूजिता ॥ २४ ॥ महिषस्य वधार्थाय महानादं चकार ह । तेन नादेन महिषश्चकितोऽभूद्धरापते ॥ २५ ॥ आससाद जगद्धात्रीं सर्वसैन्यसमावृतः । ततः स युयुधे देव्या महिषाख्यो महासुरः ॥ २६ ॥ शस्त्रास्त्रैर्बहुधा क्षिप्तैः पूरयन्नम्बरान्तरम् । चिक्षुरो ग्रामणीः सेनापतिर्दुर्धरदुर्मुखौ ॥ २७ ॥ बाष्कलस्ताम्रकश्चैव बिडालवदनोऽपरः । एतैश्चान्यैरसंख्यातैः संग्रामान्तकसन्निभैः ॥ २८ ॥ योधैः परिवृतो वीरो महिषो दानवोत्तमः । ततः सा कोपताम्राक्षी देवी लोकविमोहिनी ॥ २९ ॥ जघान योधान्समरे देवी महिषमाश्रितान् । ततस्तेषु हतेष्वेव स दैत्यो रोषमूर्च्छितः ॥ ३० ॥ आससाद तदा देवीं तूर्णं मायाविशारदः । रूपान्तराणि सम्भेजे मायया दानवेश्वरः ॥ ३१ ॥ तानि तान्यस्य रूपाणि नाशयामास सा तदा । ततोऽन्ते माहिषं रूपं बिभ्राणममरार्दनम् ॥ ३२ ॥ पाशेन बद्ध्वा सुदृढं छित्त्वा खड्गेन तच्छिरः । पातयामास महिषं देवी देवगणान्तकम् ॥ ३३ ॥ हाहाकृतं ततः शेषं सैन्यं भग्नं दिशो दश । तुष्टुवुर्देवदेवेशीं सर्वे देवाः प्रमोदिताः ॥ ३४ ॥ एवं लक्ष्मीः समुत्पन्ना महिषासुरमर्दिनी । राजञ्छृणु सरस्वत्याः प्रादुर्भावो यथाभवत् ॥ ३५ ॥ एकदा शुम्भनामासीद्दैत्यो मदबलोत्कटः । निशुम्भश्चापि तद्‍भ्राता महाबलपराक्रमः ॥ ३६ ॥ तेन सम्पीडिता देवाः सर्वे भ्रष्टश्रियो नृप । हिमवन्तमथासाद्य देवीं तुष्टुवुरादरात् ॥ ३७ ॥ देवा ऊचुः जय देवेशि भक्तानामार्तिनाशनकोविदे । दानवान्तकरूपे त्वमजरामरणेऽनघे ॥ ३८ ॥ देवेशि भक्तिसुलभे महाबलपराक्रमे । विष्णुशङ्‌करब्रह्मादिस्वरूपेऽनन्तविक्रमे ॥ ३९ ॥ सृष्टिस्थितिकरे नाशकारिके कान्तिदायिनि । महाताण्डवसुप्रीते मोददायिनि माधवि ॥ ४० ॥ प्रसीद देवदेवेशि प्रसीद करुणानिधे । निशुम्भशुम्भसम्भूतभयापाराम्बुवारिधे ॥ ४१ ॥ उद्धरास्मान् प्रपन्नार्तिनाशिके शरणागतान् । एवं संस्तुवतां तेषां त्रिदशानां धरापते ॥ ४२ ॥ प्रसन्ना गिरिजा प्राह ब्रूत स्तवनकारणम् । एतस्मिन्नन्तरे यस्याः कोशरूपात्समुत्थिता ॥ ४३ ॥ कौशिकी सा जगत्पूज्या देवान्प्रीत्येदमब्रवीत्। प्रसन्नाहं सुरश्रेष्ठाः स्तवेनोत्तमरूपिणी ॥ ४४ ॥ व्रियतां वर इत्युक्ते देवाः संवव्रिरे वरम् । शुम्भनामावरो भ्राता निशुम्भस्तस्य विश्रुतः ॥ ४५ ॥ त्रैलोक्यमोजसाक्रान्तं दैत्येन बलशालिना । तद्वधश्चिन्त्यतां देवि दुरात्मा दानवेश्वरः ॥ ४६ ॥ बाधते सततं देवि तिरस्कृत्य निजौजसा । देव्युवाच देवशत्रुं पातयिष्ये निशुम्भं शुम्भमेव च ॥ ४७ ॥ स्वस्थास्तिष्ठत भद्रं वः कण्टकं नाशयामि वः । इत्युक्त्वा देवदेवेशी देवान्सेन्द्रान्दयामयी ॥ ४८ ॥ जगामादर्शनं सद्यो मिषतां त्रिदिवौकसाम् । देवाः समागता हृष्टाः सुवर्णाद्रिगुहां शुभाम् ॥ ४९ ॥ चण्डमुण्डौ पश्यतःस्म भृत्यौ शुम्भनिशुम्भयोः । दृष्ट्वा तां चारुसर्वाङ्‌गीं देवीं लोकविमोहिनीम् ॥ ५० ॥ कथयामासतू राज्ञे भृत्यौ तौ चण्डमुण्डकौ । देव सर्वासुरश्रेष्ठ रत्‍नभोगार्ह मानद ॥ ५१ ॥ अपूर्वा कामिनी दृष्टा चावाभ्यां रिपुमर्दन । तस्याः संभोगयोग्यत्वमस्त्येव तव साम्प्रतम् ॥ ५२ ॥ तां समानय चार्वङ्‌गीं भुङ्क्ष्व सौख्यसमन्वितः । तादृशी नासुरी नारी न गन्धर्वी न दानवी ॥ ५३ ॥ न मानवी नापि देवी यादृशी सा मनोहरा । एवं भृत्यवचः श्रुत्वा शुम्भः परबलार्दनः ॥ ५४ ॥ दूतं सम्मेषयामास सुग्रीवं नाम दानवम् । स दूतस्त्वरितं गत्वा देव्याः सविधमादरात् ॥ ५५ ॥ वृत्तान्तं कथयामास देव्यै शुम्भस्य यद्वचः । देवि शुम्भासुरो नाम त्रैलोक्यविजयी प्रभुः ॥ ५६ ॥ सर्वेषां रत्‍नवस्तूनां भोक्ता मान्यो दिवौकसाम् । तदुक्तं शृणु मे देवि रत्‍नभोक्ताहमव्ययः ॥ ५७ ॥ त्वं चापि रत्‍नभूतासि भज मां चारुलोचने । सर्वेषु यानि रत्‍नानि देवासुरनरेषु च ॥ ५८ ॥ तानि मय्येव सुभगे भज मां कामजै रसैः । देव्युवाच सत्यं वदसि हे दूत दैत्यराजप्रियङ्‌करम् ॥ ५९ ॥ प्रतिज्ञा या मया पूर्वं कृता साप्यनृता कथम् । भवेत्तां शृणु मे दूत या प्रतिज्ञा मया कृता ॥ ६० ॥ यो मे दर्पं विधुनुते यो मे बलमपोहति । यो मे प्रतिबलो भूयात्स एव मम भोगभाक् ॥ ६१ ॥ तत एनां प्रतिज्ञां मे सत्यां कृत्वासुरेश्वरः । गृह्णातु पाणिं तरसा तस्याशक्यं किमत्र हि ॥ ६२ ॥ तस्माद्‌ गच्छ महादूत स्वामिनं ब्रूहि चादृतः । प्रतिज्ञां चापि मे सत्यां विधास्यति बलाधिकः ॥ ६३ ॥ एवं वाक्यं महादेव्याः समाकर्ण्य स दानवः । कथयामास शुम्भाय देव्या वृत्तान्तमादितः ॥ ६४ ॥ तदाप्रियं दूतवाक्यं शुम्भः श्रुत्वा महाबलः । कोपमाहारयामास महान्तं दनुजाधिपः ॥ ६५ ॥ ततो धूम्राक्षनामानं दैत्यं दैत्यपतिः प्रभुः । आदिदेश शृणु वचो धूम्राक्ष मम चादृतः ॥ ६६ ॥ तां दुष्टां केशपाशेषु हत्वाप्यानीयतां मम । समीपमविलम्बेन शीघ्रं गच्छस्व मे पुरः ॥ ६७ ॥ इत्यादेशं समासाद्य दैत्येशो धूम्रलोचनः । षष्ट्यासुराणां सहितः सहस्राणां महाबलः ॥ ६८ ॥ तुहिनाचलमासाद्य देव्याः सविधमेव सः । उच्चैर्देवीं जगादाशु भज दैत्यपतिं शुभे ॥ ६९ ॥ शुम्भं नाम महावीर्यं सर्वभोगानवाप्नुहि । नोचेत्केशान्गृहीत्वा त्वां नेष्ये दैत्यपतिं प्रति ॥ ७० ॥ इत्युक्ता सा ततो देवी दैत्येन त्रिदशारिणा । उवाच दैत्य यद्‌ ब्रूषे तत्सत्यं ते महाबल ॥ ७१ ॥ राजा शुम्भासुरस्त्वं च किं करिष्यसि तद्वद । इत्युक्तो दैत्यपोऽधावत्तूर्णं शस्त्रसमन्वितः ॥ ७२ ॥ भस्मसात्तं चकाराशु हुङ्‌कारेण महेश्वरी । ततः सैन्यं वाहनेन देव्या भग्नं महीपते ॥ ७३ ॥ दिशो दशाभजच्छीघ्रं हाहाभूतमचेतनम् । तद्‌वृत्तान्तं समाश्रुत्य स शुम्भो दैत्यराड् विभुः ॥ ७४ ॥ चुकोप च महाकोपाद्‌ भ्रुकुटीकुटिलाननः । ततः कोपपरीतात्मा दैत्यराजः प्रतापवान् ॥ ७५ ॥ चण्डं मुण्डं रक्तबीजं क्रमतः प्रैषयद्विभुः । ते च गत्वा त्रयो दैत्या विक्रान्ता बहुविक्रमाः ॥ ७६ ॥ देवीं ग्रहीतुमारब्धयत्‍नास्ते ह्यभवन्बलात् । तानापतत एवासौ जगद्धात्री मदोत्कटा ॥ ७७ ॥ शूलं गहीत्वा वेगेन पातयामास भूतले । ससैन्यान्निहताञ्छ्रुत्वा दैत्यांस्त्रीन्दानवेश्वरौ ॥ ७८ ॥ शुम्भश्चैव निशुम्भश्च समाजग्मतुरोजसा । निशुम्भश्चैव शुम्भश्च कृत्वा युद्धं महोत्कटम् ॥ ७९ ॥ देव्याश्च वशगौ जातौ निहतौ च तयासुरौ । इति दैत्यवरं शुम्भं घातयित्वा जगन्मयी ॥ ८० ॥ विबुधैः संस्तुता तद्वत्साक्षाद्वागीश्वरी परा । एवं ते वर्णितो राजन् प्रादुर्भावोऽतिरम्यकः ॥ ८१ ॥ काल्याश्चैव महालक्ष्याः सरस्वत्याः क्रमेण च । परा परेश्वरी देवी जगत्सर्गं करोति च ॥ ८२ ॥ पालनं चैव संहारं सैव देवी दधाति हि । तां समाश्रय देवेशीं जगन्मोहनिवारिणीम् ॥ ८३ ॥ महामायां पूज्यतमां सा कार्यं ते विधास्यति । श्रीनारायण उवाच इति राजा वचः श्रुत्वा मुनेः परमशोभनम् ॥ ८४ ॥ देवीं जगाम शरणं सर्वकामफलप्रदाम् । निराहारो यतात्मा च तन्मनाश्च समाहितः ॥ ८५ ॥ देवीमूर्तिं मृण्मयीं च पूजयामास भक्तितः । पूजनान्ते बलिं तस्यै निजगात्रासृजं ददत् ॥ ८६ ॥ तदा प्रसन्ना देवेशी जगद्योनिः कृपावती । प्रादुर्बभूव पुरतो वरं ब्रूहीति भाषिणी ॥ ८७ ॥ स राजा निजमोहस्य नाशनं ज्ञानमुत्तमम् । राज्यं निष्कण्टकं चैव याचति स्म महेश्वरीम् ॥ ८८ ॥ देव्युवाच राजन्निष्कण्टकं राज्यं ज्ञानं वै मोहनाशनम् । भविष्यति मया दत्तमस्मिन्नेव भवे तव ॥ ८९ ॥ अन्यच्च शृणु भूपाल जन्मान्तरविचेष्टितम् । भानोर्जन्म समासाद्य सावर्णिर्भविता भवान् ॥ ९० ॥ तत्र मन्वन्तरस्यापि पतित्वं बहुविक्रमम् । सन्ततिं बहुलां चापि प्राप्स्यते मद्वराद्‍भवान् ॥ ९१ ॥ एवं दत्त्वा वरं देवी जगामादर्शनं तदा । सोऽपि देव्याः प्रसादेन जातो मन्वन्तराधिपः ॥ ९२ ॥ एवं ते वर्णितं साधो सावर्णेर्जन्म कर्म च । एतत्पठंस्तथा शृण्वन्देव्यनुग्रहमाप्नुयात् ॥ ९३ ॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां दशमस्कन्धे देवीचरित्रसहितं सावर्णिमनुवृतान्तवर्णनं नाम द्वादशोऽध्यायः ॥ १२ ॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां दशमस्कन्धे देवीचरित्रसहितं सावर्णिमनुवृतान्तवर्णनं नाम द्वादशोऽध्यायः ॥ १२ ॥

muniruvāca mahiṣīgarbhasambhūto mahābalaparākramaḥ | devānsarvānparājitya mahiṣo'bhūjjagatprabhuḥ || 1 sarveṣāṃ lokapālānāmadhikārānmahāsuraḥ | balānirjitya bubhuje trailokyaiśvaryamad‌bhutam || 2 || tataḥ parājitāḥ sarve devāḥ svargaparicyutāḥ | brahmāṇaṃ ca puraskṛtya te jagmurlokamuttamam || 3 || yatrottamau devadevau saṃsthitau śaṅ‌karācyutau | vṛttāntaṃ kathayāmāsurmahiṣasya durātmanaḥ || 4 || devānāṃ caiva sarveṣāṃ sthānāni tarasāsuraḥ | vinirjitya svayaṃ bhuṅ‌kte balavīryamadoddhataḥ || 5 || mahiṣāsuranāmāsau duṣṭadaityo'mareśvarau | vadhopāyaśca tasyāśu cintyatāmasurārdanau || 6 || evaṃ śrutvā sa bhagavāndevānāmārtiyugvacaḥ | cakāra kopaṃ subahuṃ tathā śaṅ‌karapadmajau || 7 || evaṃ kopayutasyāsya harerāsyānmahīpate | tejaḥ prādurabhūddivyaṃ sahasrārkasamadyuti || 8 || athānukramatastejaḥ sarveṣāṃ tridivaukasām | śarīrādud‍bhavaṃ prāpa harṣayad‌vibudhādhipān || 9 || yadabhūcchambhujaṃ tejo mukhamasyodapadyata | keśā babhūvuryāmyena vaiṣṇavena ca bāhavaḥ || 10 || saumyena ca stanau jātau māhendreṇa ca madhyamaḥ | vāruṇena tato bhūpa jaṅ‌ghorū sambabhūvatuḥ || 11 || nitambau tejasā bhūmeḥ pādau brāhmeṇa tejasā | pādāṅ‌gulyo bhānavena vāsavena karāṅ‌gulī || 12 || kaubereṇa tathā nāsā dantāḥ sañjajñire tadā | prājāpatyenottamena tejasā vasudhādhipa || 13 || pāvakena ca sañjātaṃ locanatritayaṃ śubham | sāndhyena tejasā jāte bhṛkuṭyau tejasāṃ nidhī || 14 || karṇau vāyavyato jātau tejaso manujādhipa | sarveṣāṃ tejasā devī jātā mahiṣamardinī || 15 || śūlaṃ dadau śivo viṣṇuścakraṃ śaṅ‌khaṃ ca pāśabhṛt | hutāśano dadau śaktiṃ mārutaścāpasāyakau || 16 || vajraṃ mahendraḥ pradadau ghaṇṭāṃ cairāvatād‌ gajāt | kāladaṇḍaṃ yamo brahmā cākṣamālākamaṇḍalū || 17 || divākaro raśmimālāṃ romakūpeṣu sandadau | kālaḥ khaḍgaṃ tathā carma nirmalaṃ vasudhādhipa || 18 || samudro nirmalaṃ hāramajare cāmbare nṛpa | cūḍāmaṇiṃ kuṇḍale ca kaṭakāni tathāṅ‌gade || 19 || ardhacandraṃ nirmalaṃ ca nūpurāṇi tathā dadau | graiveyakaṃ bhūṣaṇaṃ ca tasyai devyai mudānvitaḥ || 20 || viśvakarmā cormikāśca dadau tasyai dharāpate | himavānvāhanaṃ siṃhaṃ rat‍nāni vividhāni ca || 21 || pānapātraṃ surāpūrṇaṃ dadau tasyai dhanādhipaḥ | śeṣaśca bhagavāndevo nāgahāraṃ dadau vibhuḥ || 22 || anyairaśeṣavibudhairmānitā sā jaganmayī | tāṃ tuṣṭuvurmahādevīṃ devā mahiṣapīḍitāḥ || 23 || nānāstotrairmaheśānīṃ jagadud‍bhavakāriṇīm | teṣāṃ niśamya deveśī stotraṃ vibudhapūjitā || 24 || mahiṣasya vadhārthāya mahānādaṃ cakāra ha | tena nādena mahiṣaścakito'bhūddharāpate || 25 || āsasāda jagaddhātrīṃ sarvasainyasamāvṛtaḥ | tataḥ sa yuyudhe devyā mahiṣākhyo mahāsuraḥ || 26 || śastrāstrairbahudhā kṣiptaiḥ pūrayannambarāntaram | cikṣuro grāmaṇīḥ senāpatirdurdharadurmukhau || 27 || bāṣkalastāmrakaścaiva biḍālavadano'paraḥ | etaiścānyairasaṃkhyātaiḥ saṃgrāmāntakasannibhaiḥ || 28 || yodhaiḥ parivṛto vīro mahiṣo dānavottamaḥ | tataḥ sā kopatāmrākṣī devī lokavimohinī || 29 || jaghāna yodhānsamare devī mahiṣamāśritān | tatasteṣu hateṣveva sa daityo roṣamūrcchitaḥ || 30 || āsasāda tadā devīṃ tūrṇaṃ māyāviśāradaḥ | rūpāntarāṇi sambheje māyayā dānaveśvaraḥ || 31 || tāni tānyasya rūpāṇi nāśayāmāsa sā tadā | tato'nte māhiṣaṃ rūpaṃ bibhrāṇamamarārdanam || 32 || pāśena baddhvā sudṛḍhaṃ chittvā khaḍgena tacchiraḥ | pātayāmāsa mahiṣaṃ devī devagaṇāntakam || 33 || hāhākṛtaṃ tataḥ śeṣaṃ sainyaṃ bhagnaṃ diśo daśa | tuṣṭuvurdevadeveśīṃ sarve devāḥ pramoditāḥ || 34 || evaṃ lakṣmīḥ samutpannā mahiṣāsuramardinī | rājañchṛṇu sarasvatyāḥ prādurbhāvo yathābhavat || 35 || ekadā śumbhanāmāsīddaityo madabalotkaṭaḥ | niśumbhaścāpi tad‍bhrātā mahābalaparākramaḥ || 36 || tena sampīḍitā devāḥ sarve bhraṣṭaśriyo nṛpa | himavantamathāsādya devīṃ tuṣṭuvurādarāt || 37 || devā ūcuḥ jaya deveśi bhaktānāmārtināśanakovide | dānavāntakarūpe tvamajarāmaraṇe'naghe || 38 || deveśi bhaktisulabhe mahābalaparākrame | viṣṇuśaṅ‌karabrahmādisvarūpe'nantavikrame || 39 || sṛṣṭisthitikare nāśakārike kāntidāyini | mahātāṇḍavasuprīte modadāyini mādhavi || 40 || prasīda devadeveśi prasīda karuṇānidhe | niśumbhaśumbhasambhūtabhayāpārāmbuvāridhe || 41 || uddharāsmān prapannārtināśike śaraṇāgatān | evaṃ saṃstuvatāṃ teṣāṃ tridaśānāṃ dharāpate || 42 || prasannā girijā prāha brūta stavanakāraṇam | etasminnantare yasyāḥ kośarūpātsamutthitā || 43 || kauśikī sā jagatpūjyā devānprītyedamabravīt| prasannāhaṃ suraśreṣṭhāḥ stavenottamarūpiṇī || 44 || vriyatāṃ vara ityukte devāḥ saṃvavrire varam | śumbhanāmāvaro bhrātā niśumbhastasya viśrutaḥ || 45 || trailokyamojasākrāntaṃ daityena balaśālinā | tadvadhaścintyatāṃ devi durātmā dānaveśvaraḥ || 46 || bādhate satataṃ devi tiraskṛtya nijaujasā | devyuvāca devaśatruṃ pātayiṣye niśumbhaṃ śumbhameva ca || 47 || svasthāstiṣṭhata bhadraṃ vaḥ kaṇṭakaṃ nāśayāmi vaḥ | ityuktvā devadeveśī devānsendrāndayāmayī || 48 || jagāmādarśanaṃ sadyo miṣatāṃ tridivaukasām | devāḥ samāgatā hṛṣṭāḥ suvarṇādriguhāṃ śubhām || 49 || caṇḍamuṇḍau paśyataḥsma bhṛtyau śumbhaniśumbhayoḥ | dṛṣṭvā tāṃ cārusarvāṅ‌gīṃ devīṃ lokavimohinīm || 50 || kathayāmāsatū rājñe bhṛtyau tau caṇḍamuṇḍakau | deva sarvāsuraśreṣṭha rat‍nabhogārha mānada || 51 || apūrvā kāminī dṛṣṭā cāvābhyāṃ ripumardana | tasyāḥ saṃbhogayogyatvamastyeva tava sāmpratam || 52 || tāṃ samānaya cārvaṅ‌gīṃ bhuṅkṣva saukhyasamanvitaḥ | tādṛśī nāsurī nārī na gandharvī na dānavī || 53 || na mānavī nāpi devī yādṛśī sā manoharā | evaṃ bhṛtyavacaḥ śrutvā śumbhaḥ parabalārdanaḥ || 54 || dūtaṃ sammeṣayāmāsa sugrīvaṃ nāma dānavam | sa dūtastvaritaṃ gatvā devyāḥ savidhamādarāt || 55 || vṛttāntaṃ kathayāmāsa devyai śumbhasya yadvacaḥ | devi śumbhāsuro nāma trailokyavijayī prabhuḥ || 56 || sarveṣāṃ rat‍navastūnāṃ bhoktā mānyo divaukasām | taduktaṃ śṛṇu me devi rat‍nabhoktāhamavyayaḥ || 57 || tvaṃ cāpi rat‍nabhūtāsi bhaja māṃ cārulocane | sarveṣu yāni rat‍nāni devāsuranareṣu ca || 58 || tāni mayyeva subhage bhaja māṃ kāmajai rasaiḥ | devyuvāca satyaṃ vadasi he dūta daityarājapriyaṅ‌karam || 59 || pratijñā yā mayā pūrvaṃ kṛtā sāpyanṛtā katham | bhavettāṃ śṛṇu me dūta yā pratijñā mayā kṛtā || 60 || yo me darpaṃ vidhunute yo me balamapohati | yo me pratibalo bhūyātsa eva mama bhogabhāk || 61 || tata enāṃ pratijñāṃ me satyāṃ kṛtvāsureśvaraḥ | gṛhṇātu pāṇiṃ tarasā tasyāśakyaṃ kimatra hi || 62 || tasmād‌ gaccha mahādūta svāminaṃ brūhi cādṛtaḥ | pratijñāṃ cāpi me satyāṃ vidhāsyati balādhikaḥ || 63 || evaṃ vākyaṃ mahādevyāḥ samākarṇya sa dānavaḥ | kathayāmāsa śumbhāya devyā vṛttāntamāditaḥ || 64 || tadāpriyaṃ dūtavākyaṃ śumbhaḥ śrutvā mahābalaḥ | kopamāhārayāmāsa mahāntaṃ danujādhipaḥ || 65 || tato dhūmrākṣanāmānaṃ daityaṃ daityapatiḥ prabhuḥ | ādideśa śṛṇu vaco dhūmrākṣa mama cādṛtaḥ || 66 || tāṃ duṣṭāṃ keśapāśeṣu hatvāpyānīyatāṃ mama | samīpamavilambena śīghraṃ gacchasva me puraḥ || 67 || ityādeśaṃ samāsādya daityeśo dhūmralocanaḥ | ṣaṣṭyāsurāṇāṃ sahitaḥ sahasrāṇāṃ mahābalaḥ || 68 || tuhinācalamāsādya devyāḥ savidhameva saḥ | uccairdevīṃ jagādāśu bhaja daityapatiṃ śubhe || 69 || śumbhaṃ nāma mahāvīryaṃ sarvabhogānavāpnuhi | nocetkeśāngṛhītvā tvāṃ neṣye daityapatiṃ prati || 70 || ityuktā sā tato devī daityena tridaśāriṇā | uvāca daitya yad‌ brūṣe tatsatyaṃ te mahābala || 71 || rājā śumbhāsurastvaṃ ca kiṃ kariṣyasi tadvada | ityukto daityapo'dhāvattūrṇaṃ śastrasamanvitaḥ || 72 || bhasmasāttaṃ cakārāśu huṅ‌kāreṇa maheśvarī | tataḥ sainyaṃ vāhanena devyā bhagnaṃ mahīpate || 73 || diśo daśābhajacchīghraṃ hāhābhūtamacetanam | tad‌vṛttāntaṃ samāśrutya sa śumbho daityarāḍ vibhuḥ || 74 || cukopa ca mahākopād‌ bhrukuṭīkuṭilānanaḥ | tataḥ kopaparītātmā daityarājaḥ pratāpavān || 75 || caṇḍaṃ muṇḍaṃ raktabījaṃ kramataḥ praiṣayadvibhuḥ | te ca gatvā trayo daityā vikrāntā bahuvikramāḥ || 76 || devīṃ grahītumārabdhayat‍nāste hyabhavanbalāt | tānāpatata evāsau jagaddhātrī madotkaṭā || 77 || śūlaṃ gahītvā vegena pātayāmāsa bhūtale | sasainyānnihatāñchrutvā daityāṃstrīndānaveśvarau || 78 || śumbhaścaiva niśumbhaśca samājagmaturojasā | niśumbhaścaiva śumbhaśca kṛtvā yuddhaṃ mahotkaṭam || 79 || devyāśca vaśagau jātau nihatau ca tayāsurau | iti daityavaraṃ śumbhaṃ ghātayitvā jaganmayī || 80 || vibudhaiḥ saṃstutā tadvatsākṣādvāgīśvarī parā | evaṃ te varṇito rājan prādurbhāvo'tiramyakaḥ || 81 || kālyāścaiva mahālakṣyāḥ sarasvatyāḥ krameṇa ca | parā pareśvarī devī jagatsargaṃ karoti ca || 82 || pālanaṃ caiva saṃhāraṃ saiva devī dadhāti hi | tāṃ samāśraya deveśīṃ jaganmohanivāriṇīm || 83 || mahāmāyāṃ pūjyatamāṃ sā kāryaṃ te vidhāsyati | śrīnārāyaṇa uvāca iti rājā vacaḥ śrutvā muneḥ paramaśobhanam || 84 || devīṃ jagāma śaraṇaṃ sarvakāmaphalapradām | nirāhāro yatātmā ca tanmanāśca samāhitaḥ || 85 || devīmūrtiṃ mṛṇmayīṃ ca pūjayāmāsa bhaktitaḥ | pūjanānte baliṃ tasyai nijagātrāsṛjaṃ dadat || 86 || tadā prasannā deveśī jagadyoniḥ kṛpāvatī | prādurbabhūva purato varaṃ brūhīti bhāṣiṇī || 87 || sa rājā nijamohasya nāśanaṃ jñānamuttamam | rājyaṃ niṣkaṇṭakaṃ caiva yācati sma maheśvarīm || 88 || devyuvāca rājanniṣkaṇṭakaṃ rājyaṃ jñānaṃ vai mohanāśanam | bhaviṣyati mayā dattamasminneva bhave tava || 89 || anyacca śṛṇu bhūpāla janmāntaraviceṣṭitam | bhānorjanma samāsādya sāvarṇirbhavitā bhavān || 90 || tatra manvantarasyāpi patitvaṃ bahuvikramam | santatiṃ bahulāṃ cāpi prāpsyate madvarād‍bhavān || 91 || evaṃ dattvā varaṃ devī jagāmādarśanaṃ tadā | so'pi devyāḥ prasādena jāto manvantarādhipaḥ || 92 || evaṃ te varṇitaṃ sādho sāvarṇerjanma karma ca | etatpaṭhaṃstathā śṛṇvandevyanugrahamāpnuyāt || 93 || iti śrīmaddevībhāgavate mahāpurāṇe'ṣṭādaśasāhasryāṃ saṃhitāyāṃ daśamaskandhe devīcaritrasahitaṃ sāvarṇimanuvṛtāntavarṇanaṃ nāma dvādaśo'dhyāyaḥ || 12 || iti śrīmaddevībhāgavate mahāpurāṇe'ṣṭādaśasāhasryāṃ saṃhitāyāṃ daśamaskandhe devīcaritrasahitaṃ sāvarṇimanuvṛtāntavarṇanaṃ nāma dvādaśo'dhyāyaḥ || 12 ||

English translation

1-6. The Muni said O King! The powerful Asura Mahisa, born of a she-buffalo, defeated all the Devas and became the Lord of the whole universe. That indomitable Danava seized forcibly all the rights of the Devas and began to enjoy the pleasures of the kingdom over the three worlds. The Devas, thus defeated, were expelled from their abodes in Heavens. They took Brahma as their Leader and went to the excellent regions where Maha Deva and Visnu resided and informed them of all that had been done by that vicious Asura Mahisa. They said “O Deva of the Devas! The insolent Mahisasura has become unbearable and he has taken possessions of the rights and properties of the whole host of the Devas and he is now enjoying them. Both of you are quite capable to destroy the Asura. So why do you not devise means to annihilate him in no time!”

7-10. Hearing these pitiful words of the Devas, Bhagavan Visnu became quite indignant. S’ankara, Brahma and the other Devas all were inflamed with anger. O King! From the face of the angry Hah, then emanated an Unusual Fire, brilliant like thousand Suns. Then by and by emanated fires also from the bodies of all the Devas who were filled then with joy. From the mass of fire thus emanated there came out a beautiful Female Figure. The face of this figure was formed out of the fire that emanated from the body of Maha Deva. Her hairs were formed out of the fire of Yama and Her arms were formed out of the fire that emanated from Visnu.

11-21. O King! From the fire of the Moon came out two breasts; from the fire of Indra came out Her middle portion; from the fire of Varuna, appeared Her loins and thighs; from the fire of Earth, Her hips were formed; from the fire of Brahma, Her feet were formed; from the fire

of the Sun, Her toes were formed; from the fire of the Vasus, Her fingers were formed; from Kuvera's fire, Her nose came out; from the excellent tejas of Prajapati, teeth; from the fire of Agni, Her three eyes; from the fire of the twilights. Her eye-brows and from the fire of Vayu, Her ears appeared.

O Lord of men! Thus Bhagavati Mahisamardini was born of the Tejas (fiery substances) of the Devas. Next S’iva gave Her the S’ula (weapon spear); Visnu gave Sudars'ana (Chakra); Varuna gave the conchshell; Fire gave S'akti (weapon); Vayu gave Her bows and arrows; Indra gave Her thunder bolt and the bell of the elephant Airavata; Yama gave Her the Destruction Staff (Kala Danda); Brama gave Her the Rudraksa, rosary and Kamandalu; the Sun gave Her, in every pore the wonderful rays; the Time (Kala) gave Her sharp axe and shield; the oceans gave Her the beautiful necklace and new clothes (two in number); VisVakarma gladly gave Her the crown, ear¬ rings, kataka, Angada, Chandrardha, tinklets; and the Himalayas gave Her the Lion as Her Vehicle and various gems and jewels.

22-30. Kuvera, the Lord of wealth gave Her the cup filled with the drink; Bhagavan Ananta Deva gave Her a necklace of snakes (Naghara). Thus the World Mother, the Devi, became honoured by all the Devas. The Devas, very much oppressed by Mahisasura, then, chanted various hymns of praise to the World Mother MahesVari Maha Devi.

Hearing their Stotras, the Deves'i, worshipped by the Devas, shouted aloud the War-Cry. O King! Mahisasura, startled at that War- Cry, came to Bhagavati with all his army corps. Then that great Asura Mahisa hurled various weapons in the air and overcast the sky with them and began to fight with great skill. The several generals Chiksura, Durdhara, Durmukha, Vaskala, Tamraka, Vidalaksa and

various other innumerable generals as if Death incarnate, accompanied Mahisa, the chief Danava. A fierce fight then ensued. Then the Devi Who enchants all the beings, became red-eyed with anger and began to kill the generals of the against party. When the generals were killed one by one Mahisasura, skilled in the science of magic, came up quickly to the front of the Devi.

31-40. The Lord of the Danavas, then, by his magic power, began to assume various forms. Bhagavati, too, began to destroy his those forms. Then the Daitya, the crusher of the Devas, assumed the form of a buffalo and began to fight. The Devi then fastened the animal, the Asura, the Death of the Devas, tightly and cut off his head by Her axe. The remainder of his forces, then, fled away in terror and disorder with a loud cry. The Devas became very glad and began to chant hymns to the Devi. O King! Thus the Laksmi Devi appeared to kill Mahisasura. Now I will describe how Sarasvati appeared. Listen. Once on a time the two very powerful Daityas S’umbha and Nis'umbha were born. They attacked the Devas, oppressed them and seized their houses and rights. The Devas became dispossessed of their kingdoms and went to the Himalayas and offered stotras to the Devi with the greatest devotion “O Deves’i!

O Thou, skilled in removing the difficulties of the Bhaktas! Victory to Thee! O Thou, the Sinless One! Old age and death cannot touch Thee. O Thou! Death incarnate to the Danavas! O Deves’i! O Thou, of mighty valour and prowess! O Thou, the embodiment of Brahma, Visnu and Mahes'a! Unbounded is Thy might; Thou canst be easily reached by the power of devotion. O Thou, the Creator, Preserver and Destroyer! O MadhavT! O Thou, the Giver of Bliss! Thou dancest with great joy at the time of the dissolution of all the things (Pralaya).

41-50. O Thou, full of mercy! O Deva Deves’T! Be gracious unto us. O Thou, the Remover of the sufferings of the refugees! We now come unto Thy protection. The terror of S’umbha and Nis'umbha is

like an endless ocean unto us. Save, save us from their fast clutches. O Devi! save us O King! verily.” When the Devas praised thus, the daughter of the Himalayas, Bhagavati became pleased and asked “What is the matter?” In the meanwhile, there emitted from the physical sheath of the Devi another Devi Kaus'iki who gladly spoke to the Devas “O Suras! I am pleased with Thy Stotra. Now ask the boon that you desire.” The Devas then asked for the following boon “O Devi! The two famous Daityas S’umbha and Nis'umbha have attacked forcibly the three worlds. The wicked Lord of the Danavas, S’umbha, has overcome us by the power of his arm and is now tormenting us without any break. Kindly devise some means to kill him.” The Devi said “O Devas! Be patient. I will kill these two Daityas, S’umbha and Nis'umbha and thus remove the thorn on your way. At an early date I will do good to you.” Thus saying to Indra and the other Devas the merciful Devi disappeared at once before their eyes. The Deva with their hearts delighted went to the beautiful Sumeru Mountain and dwelt there in the caves thereof.

Here the servants of S’umbha and Nis'umbha Chanda and Munda, while they were making their circuits, saw the exquisitely beautiful Devi, the Enchantress of the world, and came back to S’umbha their King and said

51-60. “O Destroyer of enemies! O Giver of honour! O Greal King! You are the Lord of all the Daityas and are fit to enjoy all the gems and jewels. To-day we have seen an extraordinary beautiful woman jewel. She is fit to be enjoyed by you. So now you would better bring that perfectly beautiful woman and enjoy. No such enchanting women can be seen amongst the Asura women Naga Kanyas Gandharbha women, DanavTs or men.” Hearing thus the words of the servant, S’umbha, the tormentor of the foes, sent a Daitya named Sugriva as a messenger to Her. The messenger went to the Devi as early as possible and spoke to Her all that S’umbha had told

him. “O Devi! The Asura S’umbha is now the conqueror of the three worlds and respected by the Devas. O Devi I

He is now enjoying all that is best, the gems and jewels; O Devi! I am his messenger sent here to convey to you his message as follows O Devi! I am the sole enjoyer of all the jewels. O Beautiful¬ eyed! You are a gem; so you would worship me. O Fair One! All the gems and jewels that are in the Deva loka, in the Daitya loka, or amongst the regions of men, are under my control. So you would lovingly worship me.” The Devi said “O Messenger! True that you are speaking for your King; but I made a promise before, how can I act against it? O Messenger! Hear what I promised.

61-70. Whoever in the three worlds will conquer Me by sheer force and thus crush My vanity, whoever will be as strong as Myself, He can enjoy Me. So the King of Daityas can prove My promise true and by sheer force can marry Me. What is there with him that he cannot do? So, Messenger! Go back to your master and tell him all this so that the powerful S’umbha may fulfil My promise.” Hearing thus the words of the Great Devi, the messenger went back to S’umbba and informed him everything regarding the Devi's sayings. The very powerful Lord of the Daityas, S’umbha became very angry at the unpleasant words of the messenger and commanded the Daitya named Dhumraksa “O Dhumraksa! Listen to my words with great attention. Go and catch hold of that wicked woman by her hairs and bring her to me. Go quickly; do not delay.” Thus commanded, the very powerful and the best of the Daityas, Dhumraksa, went at once to the Devi with sixty thousand Daityas and cried aloud to Her

“O Auspicious One! You would better worship quickly our Lord S’umbha, who is very powerful and mighty; you will then acquire all

sorts of pleasures; else I will hold you by your hairs and take you to the Lord of the Daityas.”

71-80. Thus addressd by Dhumraksa Daitya, the enemy of the Devas, the Devi said “O Powerful One! O Daitya! What you have spoken is perfectly right, but tell me first what you or your king S’umbha can do to Me?” When the Devi said thus, the Daitya Dhumralochana rushed on Her at once with arms and weapons.

With one loud noise, MahesVari burnt him immediately to ashes. O King! The other forces were partly crushed by the Lion, the vehicle of the Devi and partly fled away in disorder to all the quarters; some became senseless out of fear. S’umbba, the Lord of the Daityas, became very angry to hear this. His face assumed a terrible form with eyebrows contracted. Then he became impatient with anger and sent in order Chanda, Munda and Raktabija.

The three powerful Daityas went to the battle and tried their might to capture the Devi. The Devi Jagaddhatri, of violent prowess, seeing that these three Daityas were coming to Her, killed them by Her trident and laid them prostrate on the ground. Hearing their death with all their army, S’umbha and Nis'umbha came in their own persons arrogantly to the battlefield. S’umbha and Nis'umbha fought for a time with the Devi a terrible fight and became tired, when the Devi killed them outright. When the Bhagavati, Who is all this world, killed S’umbba and Nis'umbha, the Devas began to praise Bhagavati the Supreme Deity of Vak (Word) incarnate.

81-93. O King! Thus I have spoken to you in due order the manner in which the beautiful Kali, Maha Laksmi and Sarasvati incarnated themselves on the earth. That Supreme Deity, the Devi Parames'vari thus creates, preserves, and destroys the Universe. You better take refuge of that highly adored Devi, that causes the distinction and the

delusion of this Universe. Then only you will attain success. Narayana said The king Suratha, hearing these beautiful words of the Muni, took refuge of the Devi, that yields all desired objects. He built an earthen image of the Devi and, with concentrated attention, thought wholly of the Devi and began to worship Her with devotion. When the worship was over, he offered sacrifices of the blood of his body to the Devi. Then the World-Mother, the Deity of the Devas, became pleased and appeared before him and asked him Accept the boon that you desire. When the Devi said thus, the king asked from the MahesVari that excellent knowledge whereby the ignorance is destroyed and as well the kingdom free from any dangers or difficulties. The Devi said “O King! By My boon, you will get your foeless kingdom in this very birth as well as the Jhanam that removes ignorance. O King! I will tell you also what you will be in the next birth. Hear. In your next birth, you will be the son of the Sun and be famous as Savarni Manu. By My boon you will be the Lord of the Manvantara, become very powerful and you will get good many sons.” Thus granting him this boon, the Devi disappeared. By the Grace of the Devi, Suratha became the Lord of the Manvantara. O Sadhu! Thus I have described to you the birth and deeds of Savarni. He who hears or reads this anecdote with devotion, will be a favourite of the Devi.

Here ends the Twelfth Chapter of the Tenth Book on the anecdote of Savarni Manu in the Mahapuranam S’ri Mad Devi Bhagavatam of 18,000 verses by Maharsi Veda Vyasa.

Complete chapter-aligned witnesses. Sanskrit Wikisource page 31960, revision 201134 (2019-05-07T23:17:50Z). English is Swami Vijñanananda’s complete 1921–23 public-domain translation, controlled against the archival OCR and its chapter page at https://sacred-texts.com/hin/db/bk10ch12.htm. Historic spelling and transliteration are lightly normalized; no verse-by-verse alignment is asserted.