Ninth Skandha · Chapter 33
Sourceधर्मराज उवाच हरिसेवारतः शुद्धो योगसिद्धो व्रती सति । तपस्वी ब्रह्मचारी च न याति नरकं ध्रुवम् ॥ १ ॥ कटुवाचा बान्धवांश्च बललेपेन यो नरः । दग्धान्करोति बलवान् वह्निकुण्डं प्रयाति सः ॥ २ ॥ स्वगात्रलोममानाब्दं तत्र स्थित्वा हुताशने । पशुयोनिमवाप्नोति रौद्रदग्धां त्रिजन्मनि ॥ ३ ॥ ब्राह्मणं तृषितं तप्तं क्षुधितं गृहमागतम् । न भोजयति यो मूढस्तप्तकुण्डं प्रयाति सः ॥ ४ ॥ तत्र तल्लोममानं च वर्षं स्थित्वा च दुःखदे । तप्तस्थले वह्नितल्पे पक्षी च सप्तजन्मसु ॥ ५ ॥ रविवारे च संक्रान्त्याममायां श्राद्धवासरे । वस्त्राणां क्षारसंयोगं करोति केवलं नरः ॥ ६ ॥ स याति क्षारकुण्डं च सूत्रमानाब्दमेव च । स व्रजेद्रजकीं योनिं सप्तजन्मसु भारते ॥ ७ ॥ मूलप्रकृतिनिन्दां यः कुरुते मानवाधमः । वेदनिन्दां शास्त्रनिन्दां पुराणानां तथैव च ॥ ८ ॥ ब्रह्मविष्णुशिवादीनां तथा निन्दापरो जनः । गौरीवाण्यादिदेवीनां तथा निन्दापरो जनः ॥ ९ ॥ ते सर्वे निरये यान्ति तस्मिन्कुण्डे भयानके । नातः परतरं कुण्डं दुःखदं तु भविष्यति ॥ १० ॥ तत्र स्थित्वानेककल्पं सर्पयोनिं व्रजेत्पुनः । देवीनिन्दापराधस्य प्रायश्चित्तं न विद्यते ॥ ११ ॥ स्वदत्तां परदत्तां वा वृत्तिं च सुरविप्रयोः । षष्टिवर्षसहस्राणि विट्कुण्डं च प्रयाति सः ॥ १२ ॥ तावन्त्येव च वर्षाणि विड्भोजी तत्र तिष्ठति । षष्टिवर्षसहस्राणि विट्कृमिश्च पुनर्भुवि ॥ १३ ॥ परकीयतडागे च तडागं यः करोति च । उत्सजेद्दैवदोषेण मूत्रकुण्डं प्रयाति सः ॥ १४ ॥ तद्रेणुमानवर्षं च तद्भोजी तत्र तिष्ठति । पुनः पूर्णशताब्दं च स वृषो भारते भवेत् ॥ १५ ॥ एकाकी मिष्टमश्नाति श्लेष्मकुण्डं प्रयाति च । पूर्णमब्दशतं चैव तद्भोजी तत्र तिष्ठति ॥ १६ ॥ ततः पूर्णशताब्दं च स प्रेतो भारते भवेत् । श्लेष्ममूत्रपरं चैव पूयं भुङ्क्ते ततः शुचिः ॥ १७ ॥ पितरं मातरं चैव गुरुं भार्यां सुतं सुताम् । यो न पुष्णात्यनाथं च गरकुण्डं प्रयाति सः ॥ १८ ॥ पूर्णमब्दशतं चैव तद्भोजी तत्र तिष्ठति । ततो व्रजेद्भूतयोनिं शतवर्षं ततः शुचिः ॥ १९ ॥ दृष्ट्वातिथिं वक्रचक्षुः करोति यो हि मानवः । पितृदेवास्तस्य जलं न गृह्णन्ति च पापिनः ॥ २० ॥ यानि कानि च पापानि ब्रह्महत्यादिकानि च । इहैव लभते चान्ते दूषिकाकुण्डमाव्रजेत् ॥ २१ ॥ पूर्णमब्दशतं चैव तद्भोजी तत्र तिष्ठति । ततो व्रजेद्भूतयोनिं शतवर्षं ततः शुचिः ॥ २२ ॥ दत्त्वा द्रव्यं च विप्राय चान्यस्मै दीयते यदि । स तिष्ठति वसाकुण्डे तद्भोजी शतवत्सरम् ॥ २३ ॥ कृकलासो भवेत्सोऽपि भारते सप्तजन्मसु । ततो भवेन्महारौद्रो दरिद्रोऽल्पायुरेव च ॥ २४ ॥ पुमांसं कामिनी वापि कामिनीं वा पुमानथ । यः शुक्रं पाययत्येव शुक्रकुण्डं प्रयाति सः ॥ २५ ॥ पूर्णमब्दशतं चैव तद्भोजी तत्र तिष्ठति । कृमियोनिं शताब्दं च व्रजेद्भूत्वा ततः शुचिः ॥ २६ ॥ सन्ताड्य च गुरुं विप्रं रक्तपातं च कारयेत् । स च तिष्ठत्यसृक्कुण्डे तद्भोजी शतवत्सरम् ॥ २७ ॥ ततो लभेद्व्याघ्रजन्म सप्तजन्मसु भारते । ततः शुद्धिमवाप्नोति मानवश्च क्रमेण ह ॥ २८ ॥ योऽश्रु तत्याज गायन्तं भक्तं दृष्ट्वा सगद्गदम् । श्रीकृष्णगुणसङ्गीते हसत्येव हि यो नरः ॥ २९ ॥ स वसेदश्रुकुण्डे च तद्भोजी शतवर्षकम् । ततो भवेच्च चाण्डालस्त्रिजन्मनि ततः शुचिः ॥ ३० ॥ करोति शठता तद्वन्नित्यं सुहृदि यो नरः । कुण्डं गात्रमलानां च स प्रयाति शताब्दकम् ॥ ३१ ॥ ततः स गार्दभीं योनिमवाप्नोति त्रिजन्मनि । त्रिजन्मनि च शार्गालीं ततः शुद्धो भवेद् ध्रुवम् ॥ ३२ ॥ बधिरं यो हसत्येव निन्दत्येवाभिमानतः । स वसेत्कर्णविट्कुण्डे तद्भोजी शतवत्सरम् ॥ ३३ ॥ ततो भवेत्स बधिरो दरिद्रः सप्तजन्मसु । सप्तजन्मन्यङ्गहीनस्ततः शुद्धिं लभेद् ध्रुवम् ॥ ३४ ॥ लोभात्स्वभरणार्थाय जीविनं हन्ति यो नरः । मज्जाकुण्डे वसेत्सोऽपि तद्भोजी लक्षवत्सरम् ॥ ३५ ॥ ततो भवेच्च शशको मीनश्च सप्तजन्मसु । त्रिजन्मनि वराहश्च कुक्कुटः सप्तजन्मसु ॥ ३६ ॥ एणादयश्च कर्मभ्यस्ततः शुद्धिं लभेद् ध्रुवम् । स्वकन्यापालनं कृत्वा विक्रीणाति च यो नरः ॥ ३७ ॥ अर्थलोभान्महामूढो मांसकुण्डं प्रयाति सः । कन्यालोमप्रमाणाब्दं तद्भोजी तत्र तिष्ठति ॥ ३८ ॥ तस्य दण्डप्रहारं च कुर्वन्ति यमकिङ्कराः । मांसभारं मूर्ध्नि कृत्वा रक्तभारं लिहेत्क्षुधा ॥ ३९ ॥ ततो हि भारते पापी कन्याविट्कृमिगो भवेत् । षष्टिवर्षसहस्राणि व्याधश्च सप्तजन्मसु ॥ ४० ॥ त्रिजन्मनि वराहश्च कुक्कुटः सप्तजन्मसु । मण्डूको हि जलौकाश्च सप्तजन्मसु भारते ॥ ४१ ॥ सप्तजन्मसु काकश्च ततः शुद्धिं लभेद् ध्रुवम् । व्रतानामुपवासानां श्राद्धादीनां च सङ्गमे ॥ ४२ ॥ करोति यः क्षौरकर्म सोऽशुचिः सर्वकर्मसु । स च तिष्ठति कुण्डे च नखादीनाञ्च सुन्दरि ॥ ४३ ॥ तद्दैवदिनमानाब्दं तद्भोजी दण्डताडितः । सकेशं पार्थिवं लिङ्गं यो वार्चयति भारते ॥ ४४ ॥ स तिष्ठति केशकुण्डे मृद्रेणुमानवर्षकम् । तदन्ते यावनीं योनिं प्रयाति हरकोपतः ॥ ४५ ॥ शताब्दाच्छुद्धिमाप्नोति राक्षसः स भवेद् ध्रुवम् । पितॄणां यो विष्णुपदे पिण्डं नैव ददाति च ॥ ४६ ॥ स च तिष्ठत्यस्थिकुण्डे स्वलोमाब्दं महोल्बणे । ततः सुयोनिं सम्प्राप्य कुखञ्जः सप्तजन्मसु ॥ ४७ ॥ भवेन्महादरिद्रश्च ततः शुद्धो हि देहतः । यः सेवते महामूढो गुर्विणीं च स्वकामिनीम् ॥ ४८ ॥ प्रतप्ते ताम्रकुण्डे च शतवर्षं स तिष्ठति । अवीरान्नं च यो भुङ्क्ते ऋतुस्नातान्नमेव च ॥ ४९ ॥ लोहकुण्डे शताब्दं च स च तिष्ठति तप्तके । स व्रजेद्रजकीं योनिं काकानां सप्तजन्मसु ॥ ५० ॥ महाव्रणी दरिद्रश्च ततः शुद्धी भवेन्नरः । यो हि चर्माक्तहस्तेन देवद्रव्यमुपस्मृशेत् ॥ ५१ ॥ शतवर्षप्रमाणं च चर्मकुण्डे स तिष्ठति । यः शूद्रेणाभ्यनुज्ञातो भुङ्क्ते शूद्रान्नमेव च ॥ ५२ ॥ स च तप्तसुराकुण्डे शताब्दं तिष्ठति द्विजः । ततो भवेच्छूद्रयाजी ब्राह्मणः सप्तजन्मसु ॥ ५३ ॥ शूद्रश्राद्धान्नभोजी च ततः शुद्धो भवेद्ध ्रुवम् । वाग्दुष्टः कटुको वाचा ताडयेत्स्वामिनं सदा ॥ ५४ ॥ तीक्ष्णकण्टककुण्डे स तद्भोजी तत्र तिष्ठति । ताडितो यमदूतेन दण्डेन च चतुर्गुणम् ॥ ५५ ॥ ततः उच्चैःश्रवाः सप्तजन्मस्वेव ततः शुचि । विषेण जीवनं हन्ति निर्दयो यो हि मानवः ॥ ५६ ॥ विषकुण्डे च तद्भोजी सहस्राब्दं च तिष्ठति । ततो भवेन्नृघाती च व्रणी च शतजन्मसु ॥ ५७ ॥ सप्तजन्मसु कुष्ठी च ततः शुद्धो भवेद् धुवम् । दण्डेन ताडयेद् गां हि वृषञ्च वृषवाहकः ॥ ५८ ॥ भृत्यद्वारा स्वतन्त्रो वा पुण्यक्षेत्रे च भारते । प्रतप्ते तैलकुण्डेऽग्नौ तिष्ठति स्म चतुर्युगम् ॥ ५९ ॥ गवां लोमप्रमाणाब्दं वृषो भवति तत्परम् । कुन्तेन हन्ति यो जीवं वह्निलोहेन हेलया ॥ ६० ॥ कुन्तकुण्डे वसेत्सोऽपि वर्षाणामयुतं सति । ततः सुयोनिं सम्प्राप्य चोदरे व्याधिसंयुतः ॥ ६१ ॥ जन्मनैकेन क्लेशेन ततः शुद्धो भवेन्नरः । यो भुङ्क्ते च वृथा मांसं मांसलोभी द्विजाधमः ॥ ६२ ॥ हरेरनैवेद्यभोजी कृमिकुण्डं प्रयाति सः । स्वलोममानवर्षं च तद्भोजी तत्र तिष्ठति ॥ ६३ ॥ ततो भवेन्म्लेच्छजातिस्त्रिजन्मनि ततो द्विजः । ब्राह्मणः शूद्रयाजी च शूद्रश्राद्धान्नभोजकः ॥ ६४ ॥ शूद्राणां शवदाही च पूयकुण्डे वसेद् ध्रुवम् । यावल्लोमप्रमाणाब्दं यमदण्डेन सुव्रते ॥ ६५ ॥ ताडितो यमदूतेन तद्भोजी तत्र तिष्ठति । ततो भारतमागत्य स शूद्रः सप्तजन्मसु ॥ ६६ ॥ महारोगी दरिद्रश्च बधिरो मूक एव च । कृष्णं पद्मं च के यस्य तं सर्पं हन्ति यो नरः ॥ ६७ ॥ स्वलोममानवर्षं च सर्पकुण्डं प्रयाति सः । सर्पेण भक्षितः सोऽथ यमदूतेन ताडितः ॥ ६८ ॥ वसेच्च सर्पविड्भोजी ततः सर्पो भवेद् ध्रुवम् । ततो भवेन्मानवश्च स्वल्पायुर्दद्रुसंयुतः ॥ ६९ ॥ महाक्लेशेन तन्मृत्युः सर्पेण भक्षिताद् ध्रुवम् । विधिप्रदत्तजीव्यांश्च क्षुद्रजन्तूंश्च हन्ति यः ॥ ७० ॥ स दंशमशयोः कुण्डे जन्तुमानाब्दमेव च । दिवानिशं भक्षितस्तैरनाहारश्च शब्दवान् ॥ ७१ ॥ हस्तपादादिबद्धश्च यमदूतेन ताडितः । ततो भवेत्क्षुद्रजन्तुर्जातिश्च यावनी भवेत् ॥ ७२ ॥ ततो भवेन्मानवश्च सोऽङ्गहीनस्ततः शुचिः । यो मूढो मधुमश्नाति हत्वा च मधुमक्षिकाः ॥ ७३ ॥ स एव गारले कुण्डे जीवमानाब्दकं वसेत् । भक्षितो गरलैर्दग्धो यमदूतेन ताडितः ॥ ७४ ॥ ततो हि मक्षिकाजातिस्ततः शुद्धो भवेन्नरः । दण्डं करोत्यदण्ड्ये च विप्रे दण्डं करोति च ॥ ७५ ॥ स कुण्डं वज्रदंष्ट्राणां कीटानां याति सत्वरम् । स तल्लोमप्रमाणाब्दं तत्र तिष्ठत्यहर्निशम् ॥ ७६ ॥ शब्दकृद्भक्षितस्तैस्तु यमदूतेन ताडितः । करोति रोदनं भद्रे हाहाकारं क्षणे क्षणे ॥ ७७ ॥ पुनः सूकरयोनौ च जायते सप्तजन्मसु । त्रिजन्मनि काकयोनौ ततः शुद्धो भवेन्नरः ॥ ७८ ॥ अर्थलोभेन यो मूढः प्रजादण्डं करोति सः । वृश्चिकानां च कुण्डं च तल्लोमाब्दं वसेद् ध्रुवम् ॥ ७९ ॥ ततो वृश्चिकजातिश्च सप्तजन्मसु भारते । ततो नरश्चाङ्गहीनो व्याधिशुद्धो भवेद् ध्रुवम् ॥ ८० ॥ ब्राह्मणः शस्त्रधारी यो ह्यन्येषां धावको भवेत् । सन्ध्याहीनश्च यो विप्रो हरिभक्तिविहीनकः ॥ ८१ ॥ स तिष्ठति स्वलोमाब्दं कुण्डेषु च शरादिषु । विद्धः शरादिभिः शश्वत्ततः शुद्धो भवेन्नरः ॥ ८२ ॥ कारागारे सान्धकारे प्रणिहन्ति प्रजाश्च यः । प्रमत्तः स्वस्य दोषेण गोलकुण्डं प्रयाति सः ॥ ८३ ॥ स पङ्कतप्ततोयाक्तं सान्धकारं भयङ्करम् । तीक्ष्णदंष्ट्रैश्च कीटैश्च संयुक्तं गोलकुण्डकम् ॥ ८४ ॥ कीटैर्विद्धो वसेत्तत्र प्रजालोमाब्दमेव च । ततो भवेत्प्रजाभृत्यस्ततः शुद्धो भवेत्क्रमात् ॥ ८५ ॥ सरोवरादुत्थितांश्च नक्रादीन्हन्ति यो नरः । नक्रकण्टकमानाब्दं नक्रकुण्डं प्रयाति सः ॥ ८६ ॥ ततो नक्रादिजातीयो भवेन्नक्रादिषु ध्रुवम् । ततः सद्यो विशुद्धो हि दण्डेनैव पुनः पुनः ॥ ८७ ॥ वक्षः श्रोणीस्तनास्यञ्च यः पश्यति परस्त्रियाः । कामेन कामुको यो हि पुण्यक्षेत्रे च भारते ॥ ८८ ॥ स वसेत्काककुण्डे च काकैः संचूर्णलोचनः । ततः स्वलोममानाब्दं भवेद्दग्धस्त्रिजन्मनि ॥ ८९ ॥ स्वर्णस्तेयी च यो मूढो भारते सुरविप्रयोः । स च मन्थानकुण्डे वै स्वलोमाब्दं वसेद् ध्रुवम् ॥ ९० ॥ ताडितो यमदूतेन मन्थानैश्छन्नलोचनः । तद्विड्भोजी च तत्रैव ततश्चान्धस्त्रिजन्मनि ॥ ९१ ॥ सप्तजन्म दरिद्रश्च महाक्रूरश्च पातकी । भारते स्वर्णकारश्च स च स्वर्णवणिक् ततः ॥ ९२ ॥ यो भारते ताम्रचौरो लोहचौरश्च सुन्दरि । स च स्वलोममानाब्दं बीजकुण्डं प्रयाति सः ॥ ९३ ॥ तत्रैव बीजविड्भोजी बीजैश्च छन्नलोचनः । ताडितो यमदूतेन ततः शुद्धो भवेन्नरः ॥ ९४ ॥ भारते देवचौरश्च देवद्रव्यापहारकः । स दुस्तरे वज्रकुण्डे स्वलोमाब्दं वसेद् ध्रुवम् ॥ ९५ ॥ देहदग्धोऽपि तद्वज्रैरनाहारश्च शब्दकृत् । ताडितो यमदूतैश्च ततः शुद्धो भवेन्नरः ॥ ९६ ॥ रौप्यगव्यांशुकानां च यश्चौरः सुरविप्रयोः । तप्तपाषाणकुण्डेच स्वलोमाब्दं वसेद् ध्रुवम् ॥ ९७ ॥ त्रिजन्मनि च कंसोऽपि श्वेतरूपस्त्रिजन्मनि । जन्मैकं श्वेतचिह्नश्च ततोऽन्ये श्वेतपक्षिणः ॥ ९८ ॥ ततो रक्तविकारी च शूली वै मानवो भवेत् । सप्तजन्मसु चाल्पायुस्ततः शुद्धो भवेन्नरः ॥ ९९ ॥ रैतं कांस्यमयं पात्रं यो हरेद्देवविप्रयोः । तीक्ष्णपाषाणकुण्डे च स्वलोमाब्दं वसेन्नरः ॥ १०० ॥ स भवेदश्वजातिश्च भारते सप्तजन्मसु । ततोऽधिकाङ्गजातिश्च पादरोगी ततः शुचिः ॥ १०१ ॥ पुंश्चल्यन्नं च यो भद्रे पुंश्चलीजीव्यजीविनः । स्वलोममानवर्षं च लालाकुण्डे वसेद् ध्रुवम् ॥ १०२ ॥ ताडितो यमदूतेन तद्भोजी तत्र दुःखितः । ततश्चक्षुःशूलरोगी ततः शुद्धः क्रमेण सः ॥ १०३ ॥ म्लेच्छसेवी मसीजीवी यो विप्रो भारते भुवि । वसेत्स्वलोममानाब्दं मसीकुण्डे स दुःखभाक् ॥ १०४ ॥ ताडितो यमदूतेन तद्भोजी तत्र तिष्ठति । ततस्त्रिजन्मनि भवेत्कृष्णवर्णः पशुः सति ॥ १०५ ॥ त्रिजन्मनि भवेच्छागः कृष्णवर्णस्त्रिजन्मनि । ततः स तालवृक्षश्च ततः शुद्धो भवेन्नरः ॥ १०६ ॥ धान्यादिसस्यं ताम्बूलं यो हरेत्सुरविप्रयोः । आसनं च तथा तल्पं चूर्णकुण्डे प्रयाति सः ॥ १०७ ॥ शताब्दं तत्र निवसेद्यमदूतेन ताडितः । ततो भवेन्मेषजातिः कुक्कुटश्च त्रिजन्मनि ॥ १०८ ॥ ततो भवेद्वानरश्च कासव्याधियुतो भुवि । वंशहीनो दरिद्रश्च स्वल्पायुश्च ततः शुचिः ॥ १०९ ॥ करोति चक्रं विप्राणां हृत्वा द्रव्यं च यो जनः । स वसेच्चक्रकुण्डे च शताब्दं दण्डताडितः ॥ ११० ॥ ततो भवेन्मानवश्च तैलकारस्त्रिजन्मनि । व्याधियुक्तो भवेद्रोगी वंशहीनस्ततः शुचिः ॥ १११ ॥ गोधनेषु च विप्रेषु करोति वक्रतां पुमान् । प्रयाति वक्रकुण्डं स तिष्ठेद्युगशतं सति ॥ ११२ ॥ ततो भवेत्स वक्राङ्गो हीनाङ्गः सप्तजन्मनि । दरिद्रो वंशहीनश्च भार्याहीनस्ततः शुचिः ॥ ११३ ॥ ततो भवेद् गृध्रजन्मा त्रिजन्मनि च सूकरः । त्रिजन्मनि बिडालश्च मयूरश्च त्रिजन्मनि ॥ ११४ ॥ निषिद्धं कूर्ममांसं च ब्राह्मणो यो हि भक्षति । कूर्मकुण्डे वसेत्सोऽपि शताब्दं कूर्मभक्षितः ॥ ११५ ॥ ततो भवेत्कूर्मजन्मा त्रिजन्मनि च सूकरः । त्रिजन्मनि बिडालश्च मयूरश्च ततः शुचिः ॥ ११६ ॥ घृतं तैलादिकं चैव यो हरेत्सुरविप्रयोः । स याति ज्वालाकुण्डं च भस्मकुण्डं च पातकी ॥ ११७ ॥ तत्र स्थित्वा शताब्दं च स भवेत्तैलपाचितः । सप्तजन्मनि मत्स्यश्च मूषकश्च ततः शुचिः ॥ ११८ ॥ सुगन्धितैलं धात्रीं वा गन्धद्रव्यान्यदेव वा । भारते पुण्यवर्षे च यो हरेत्सुरविप्रयोः ॥ ११९ ॥ स वसेद्दग्धकुण्डे च भवेद्दग्धो दिवानिशम् । स्वलोममानवर्षं च ततो दुर्गन्धिको भवेत् ॥ १२० ॥ दुर्गन्धिकः सप्तजन्म मृगनाभिस्त्रिजन्मनि । सप्तजन्मसु मन्थानस्ततो हि मानवो भवेत् ॥ १२१ ॥ बलेनैव छलेनैव हिंसारूपेण वा सति । बलिष्ठश्च हरेद्भूमिं भारते परपैतृकीम् ॥ १२२ ॥ स वसेत्तप्तसूचिं च भवेत्तापी दिवानिशम् । तप्ततैले यथा जीवो दग्धो भवति सन्ततम् ॥ १२३ ॥ भस्मसान्न भवत्येव भोगे देही न नश्यति । सप्तमन्वन्तरं पापी सन्तप्तस्तत्र तिष्ठति ॥ १२४ ॥ शब्दं करोत्यनाहारो यमदूतेन ताडितः । षष्टिवर्षसहस्राणि विट्कृमिश्च भवेत्ततः ॥ १२५ ॥ ततो भवेद्भूमिहीनो दरिद्रश्च ततः शुचिः । ततः स्वयोनिं सम्प्राप्य शुभं कर्माचरेत्पुनः ॥ १२६ ॥
dharmarāja uvāca harisevārataḥ śuddho yogasiddho vratī sati | tapasvī brahmacārī ca na yāti narakaṃ dhruvam || 1 || kaṭuvācā bāndhavāṃśca balalepena yo naraḥ | dagdhānkaroti balavān vahnikuṇḍaṃ prayāti saḥ || 2 || svagātralomamānābdaṃ tatra sthitvā hutāśane | paśuyonimavāpnoti raudradagdhāṃ trijanmani || 3 || brāhmaṇaṃ tṛṣitaṃ taptaṃ kṣudhitaṃ gṛhamāgatam | na bhojayati yo mūḍhastaptakuṇḍaṃ prayāti saḥ || 4 || tatra tallomamānaṃ ca varṣaṃ sthitvā ca duḥkhade | taptasthale vahnitalpe pakṣī ca saptajanmasu || 5 || ravivāre ca saṃkrāntyāmamāyāṃ śrāddhavāsare | vastrāṇāṃ kṣārasaṃyogaṃ karoti kevalaṃ naraḥ || 6 || sa yāti kṣārakuṇḍaṃ ca sūtramānābdameva ca | sa vrajedrajakīṃ yoniṃ saptajanmasu bhārate || 7 || mūlaprakṛtinindāṃ yaḥ kurute mānavādhamaḥ | vedanindāṃ śāstranindāṃ purāṇānāṃ tathaiva ca || 8 || brahmaviṣṇuśivādīnāṃ tathā nindāparo janaḥ | gaurīvāṇyādidevīnāṃ tathā nindāparo janaḥ || 9 || te sarve niraye yānti tasminkuṇḍe bhayānake | nātaḥ parataraṃ kuṇḍaṃ duḥkhadaṃ tu bhaviṣyati || 10 || tatra sthitvānekakalpaṃ sarpayoniṃ vrajetpunaḥ | devīnindāparādhasya prāyaścittaṃ na vidyate || 11 || svadattāṃ paradattāṃ vā vṛttiṃ ca suraviprayoḥ | ṣaṣṭivarṣasahasrāṇi viṭkuṇḍaṃ ca prayāti saḥ || 12 || tāvantyeva ca varṣāṇi viḍbhojī tatra tiṣṭhati | ṣaṣṭivarṣasahasrāṇi viṭkṛmiśca punarbhuvi || 13 || parakīyataḍāge ca taḍāgaṃ yaḥ karoti ca | utsajeddaivadoṣeṇa mūtrakuṇḍaṃ prayāti saḥ || 14 || tadreṇumānavarṣaṃ ca tadbhojī tatra tiṣṭhati | punaḥ pūrṇaśatābdaṃ ca sa vṛṣo bhārate bhavet || 15 || ekākī miṣṭamaśnāti śleṣmakuṇḍaṃ prayāti ca | pūrṇamabdaśataṃ caiva tadbhojī tatra tiṣṭhati || 16 || tataḥ pūrṇaśatābdaṃ ca sa preto bhārate bhavet | śleṣmamūtraparaṃ caiva pūyaṃ bhuṅkte tataḥ śuciḥ || 17 || pitaraṃ mātaraṃ caiva guruṃ bhāryāṃ sutaṃ sutām | yo na puṣṇātyanāthaṃ ca garakuṇḍaṃ prayāti saḥ || 18 || pūrṇamabdaśataṃ caiva tadbhojī tatra tiṣṭhati | tato vrajedbhūtayoniṃ śatavarṣaṃ tataḥ śuciḥ || 19 || dṛṣṭvātithiṃ vakracakṣuḥ karoti yo hi mānavaḥ | pitṛdevāstasya jalaṃ na gṛhṇanti ca pāpinaḥ || 20 || yāni kāni ca pāpāni brahmahatyādikāni ca | ihaiva labhate cānte dūṣikākuṇḍamāvrajet || 21 || pūrṇamabdaśataṃ caiva tadbhojī tatra tiṣṭhati | tato vrajedbhūtayoniṃ śatavarṣaṃ tataḥ śuciḥ || 22 || dattvā dravyaṃ ca viprāya cānyasmai dīyate yadi | sa tiṣṭhati vasākuṇḍe tadbhojī śatavatsaram || 23 || kṛkalāso bhavetso'pi bhārate saptajanmasu | tato bhavenmahāraudro daridro'lpāyureva ca || 24 || pumāṃsaṃ kāminī vāpi kāminīṃ vā pumānatha | yaḥ śukraṃ pāyayatyeva śukrakuṇḍaṃ prayāti saḥ || 25 || pūrṇamabdaśataṃ caiva tadbhojī tatra tiṣṭhati | kṛmiyoniṃ śatābdaṃ ca vrajedbhūtvā tataḥ śuciḥ || 26 || santāḍya ca guruṃ vipraṃ raktapātaṃ ca kārayet | sa ca tiṣṭhatyasṛkkuṇḍe tadbhojī śatavatsaram || 27 || tato labhedvyāghrajanma saptajanmasu bhārate | tataḥ śuddhimavāpnoti mānavaśca krameṇa ha || 28 || yo'śru tatyāja gāyantaṃ bhaktaṃ dṛṣṭvā sagadgadam | śrīkṛṣṇaguṇasaṅgīte hasatyeva hi yo naraḥ || 29 || sa vasedaśrukuṇḍe ca tadbhojī śatavarṣakam | tato bhavecca cāṇḍālastrijanmani tataḥ śuciḥ || 30 || karoti śaṭhatā tadvannityaṃ suhṛdi yo naraḥ | kuṇḍaṃ gātramalānāṃ ca sa prayāti śatābdakam || 31 || tataḥ sa gārdabhīṃ yonimavāpnoti trijanmani | trijanmani ca śārgālīṃ tataḥ śuddho bhaved dhruvam || 32 || badhiraṃ yo hasatyeva nindatyevābhimānataḥ | sa vasetkarṇaviṭkuṇḍe tadbhojī śatavatsaram || 33 || tato bhavetsa badhiro daridraḥ saptajanmasu | saptajanmanyaṅgahīnastataḥ śuddhiṃ labhed dhruvam || 34 || lobhātsvabharaṇārthāya jīvinaṃ hanti yo naraḥ | majjākuṇḍe vasetso'pi tadbhojī lakṣavatsaram || 35 || tato bhavecca śaśako mīnaśca saptajanmasu | trijanmani varāhaśca kukkuṭaḥ saptajanmasu || 36 || eṇādayaśca karmabhyastataḥ śuddhiṃ labhed dhruvam | svakanyāpālanaṃ kṛtvā vikrīṇāti ca yo naraḥ || 37 || arthalobhānmahāmūḍho māṃsakuṇḍaṃ prayāti saḥ | kanyālomapramāṇābdaṃ tadbhojī tatra tiṣṭhati || 38 || tasya daṇḍaprahāraṃ ca kurvanti yamakiṅkarāḥ | māṃsabhāraṃ mūrdhni kṛtvā raktabhāraṃ lihetkṣudhā || 39 || tato hi bhārate pāpī kanyāviṭkṛmigo bhavet | ṣaṣṭivarṣasahasrāṇi vyādhaśca saptajanmasu || 40 || trijanmani varāhaśca kukkuṭaḥ saptajanmasu | maṇḍūko hi jalaukāśca saptajanmasu bhārate || 41 || saptajanmasu kākaśca tataḥ śuddhiṃ labhed dhruvam | vratānāmupavāsānāṃ śrāddhādīnāṃ ca saṅgame || 42 || karoti yaḥ kṣaurakarma so'śuciḥ sarvakarmasu | sa ca tiṣṭhati kuṇḍe ca nakhādīnāñca sundari || 43 || taddaivadinamānābdaṃ tadbhojī daṇḍatāḍitaḥ | sakeśaṃ pārthivaṃ liṅgaṃ yo vārcayati bhārate || 44 || sa tiṣṭhati keśakuṇḍe mṛdreṇumānavarṣakam | tadante yāvanīṃ yoniṃ prayāti harakopataḥ || 45 || śatābdācchuddhimāpnoti rākṣasaḥ sa bhaved dhruvam | pitṝṇāṃ yo viṣṇupade piṇḍaṃ naiva dadāti ca || 46 || sa ca tiṣṭhatyasthikuṇḍe svalomābdaṃ maholbaṇe | tataḥ suyoniṃ samprāpya kukhañjaḥ saptajanmasu || 47 || bhavenmahādaridraśca tataḥ śuddho hi dehataḥ | yaḥ sevate mahāmūḍho gurviṇīṃ ca svakāminīm || 48 || pratapte tāmrakuṇḍe ca śatavarṣaṃ sa tiṣṭhati | avīrānnaṃ ca yo bhuṅkte ṛtusnātānnameva ca || 49 || lohakuṇḍe śatābdaṃ ca sa ca tiṣṭhati taptake | sa vrajedrajakīṃ yoniṃ kākānāṃ saptajanmasu || 50 || mahāvraṇī daridraśca tataḥ śuddhī bhavennaraḥ | yo hi carmāktahastena devadravyamupasmṛśet || 51 || śatavarṣapramāṇaṃ ca carmakuṇḍe sa tiṣṭhati | yaḥ śūdreṇābhyanujñāto bhuṅkte śūdrānnameva ca || 52 || sa ca taptasurākuṇḍe śatābdaṃ tiṣṭhati dvijaḥ | tato bhavecchūdrayājī brāhmaṇaḥ saptajanmasu || 53 || śūdraśrāddhānnabhojī ca tataḥ śuddho bhaveddha ruvam | vāgduṣṭaḥ kaṭuko vācā tāḍayetsvāminaṃ sadā || 54 || tīkṣṇakaṇṭakakuṇḍe sa tadbhojī tatra tiṣṭhati | tāḍito yamadūtena daṇḍena ca caturguṇam || 55 || tataḥ uccaiḥśravāḥ saptajanmasveva tataḥ śuci | viṣeṇa jīvanaṃ hanti nirdayo yo hi mānavaḥ || 56 || viṣakuṇḍe ca tadbhojī sahasrābdaṃ ca tiṣṭhati | tato bhavennṛghātī ca vraṇī ca śatajanmasu || 57 || saptajanmasu kuṣṭhī ca tataḥ śuddho bhaved dhuvam | daṇḍena tāḍayed gāṃ hi vṛṣañca vṛṣavāhakaḥ || 58 || bhṛtyadvārā svatantro vā puṇyakṣetre ca bhārate | pratapte tailakuṇḍe'gnau tiṣṭhati sma caturyugam || 59 || gavāṃ lomapramāṇābdaṃ vṛṣo bhavati tatparam | kuntena hanti yo jīvaṃ vahnilohena helayā || 60 || kuntakuṇḍe vasetso'pi varṣāṇāmayutaṃ sati | tataḥ suyoniṃ samprāpya codare vyādhisaṃyutaḥ || 61 || janmanaikena kleśena tataḥ śuddho bhavennaraḥ | yo bhuṅkte ca vṛthā māṃsaṃ māṃsalobhī dvijādhamaḥ || 62 || hareranaivedyabhojī kṛmikuṇḍaṃ prayāti saḥ | svalomamānavarṣaṃ ca tadbhojī tatra tiṣṭhati || 63 || tato bhavenmlecchajātistrijanmani tato dvijaḥ | brāhmaṇaḥ śūdrayājī ca śūdraśrāddhānnabhojakaḥ || 64 || śūdrāṇāṃ śavadāhī ca pūyakuṇḍe vased dhruvam | yāvallomapramāṇābdaṃ yamadaṇḍena suvrate || 65 || tāḍito yamadūtena tadbhojī tatra tiṣṭhati | tato bhāratamāgatya sa śūdraḥ saptajanmasu || 66 || mahārogī daridraśca badhiro mūka eva ca | kṛṣṇaṃ padmaṃ ca ke yasya taṃ sarpaṃ hanti yo naraḥ || 67 || svalomamānavarṣaṃ ca sarpakuṇḍaṃ prayāti saḥ | sarpeṇa bhakṣitaḥ so'tha yamadūtena tāḍitaḥ || 68 || vasecca sarpaviḍbhojī tataḥ sarpo bhaved dhruvam | tato bhavenmānavaśca svalpāyurdadrusaṃyutaḥ || 69 || mahākleśena tanmṛtyuḥ sarpeṇa bhakṣitād dhruvam | vidhipradattajīvyāṃśca kṣudrajantūṃśca hanti yaḥ || 70 || sa daṃśamaśayoḥ kuṇḍe jantumānābdameva ca | divāniśaṃ bhakṣitastairanāhāraśca śabdavān || 71 || hastapādādibaddhaśca yamadūtena tāḍitaḥ | tato bhavetkṣudrajanturjātiśca yāvanī bhavet || 72 || tato bhavenmānavaśca so'ṅgahīnastataḥ śuciḥ | yo mūḍho madhumaśnāti hatvā ca madhumakṣikāḥ || 73 || sa eva gārale kuṇḍe jīvamānābdakaṃ vaset | bhakṣito garalairdagdho yamadūtena tāḍitaḥ || 74 || tato hi makṣikājātistataḥ śuddho bhavennaraḥ | daṇḍaṃ karotyadaṇḍye ca vipre daṇḍaṃ karoti ca || 75 || sa kuṇḍaṃ vajradaṃṣṭrāṇāṃ kīṭānāṃ yāti satvaram | sa tallomapramāṇābdaṃ tatra tiṣṭhatyaharniśam || 76 || śabdakṛdbhakṣitastaistu yamadūtena tāḍitaḥ | karoti rodanaṃ bhadre hāhākāraṃ kṣaṇe kṣaṇe || 77 || punaḥ sūkarayonau ca jāyate saptajanmasu | trijanmani kākayonau tataḥ śuddho bhavennaraḥ || 78 || arthalobhena yo mūḍhaḥ prajādaṇḍaṃ karoti saḥ | vṛścikānāṃ ca kuṇḍaṃ ca tallomābdaṃ vased dhruvam || 79 || tato vṛścikajātiśca saptajanmasu bhārate | tato naraścāṅgahīno vyādhiśuddho bhaved dhruvam || 80 || brāhmaṇaḥ śastradhārī yo hyanyeṣāṃ dhāvako bhavet | sandhyāhīnaśca yo vipro haribhaktivihīnakaḥ || 81 || sa tiṣṭhati svalomābdaṃ kuṇḍeṣu ca śarādiṣu | viddhaḥ śarādibhiḥ śaśvattataḥ śuddho bhavennaraḥ || 82 || kārāgāre sāndhakāre praṇihanti prajāśca yaḥ | pramattaḥ svasya doṣeṇa golakuṇḍaṃ prayāti saḥ || 83 || sa paṅkataptatoyāktaṃ sāndhakāraṃ bhayaṅkaram | tīkṣṇadaṃṣṭraiśca kīṭaiśca saṃyuktaṃ golakuṇḍakam || 84 || kīṭairviddho vasettatra prajālomābdameva ca | tato bhavetprajābhṛtyastataḥ śuddho bhavetkramāt || 85 || sarovarādutthitāṃśca nakrādīnhanti yo naraḥ | nakrakaṇṭakamānābdaṃ nakrakuṇḍaṃ prayāti saḥ || 86 || tato nakrādijātīyo bhavennakrādiṣu dhruvam | tataḥ sadyo viśuddho hi daṇḍenaiva punaḥ punaḥ || 87 || vakṣaḥ śroṇīstanāsyañca yaḥ paśyati parastriyāḥ | kāmena kāmuko yo hi puṇyakṣetre ca bhārate || 88 || sa vasetkākakuṇḍe ca kākaiḥ saṃcūrṇalocanaḥ | tataḥ svalomamānābdaṃ bhaveddagdhastrijanmani || 89 || svarṇasteyī ca yo mūḍho bhārate suraviprayoḥ | sa ca manthānakuṇḍe vai svalomābdaṃ vased dhruvam || 90 || tāḍito yamadūtena manthānaiśchannalocanaḥ | tadviḍbhojī ca tatraiva tataścāndhastrijanmani || 91 || saptajanma daridraśca mahākrūraśca pātakī | bhārate svarṇakāraśca sa ca svarṇavaṇik tataḥ || 92 || yo bhārate tāmracauro lohacauraśca sundari | sa ca svalomamānābdaṃ bījakuṇḍaṃ prayāti saḥ || 93 || tatraiva bījaviḍbhojī bījaiśca channalocanaḥ | tāḍito yamadūtena tataḥ śuddho bhavennaraḥ || 94 || bhārate devacauraśca devadravyāpahārakaḥ | sa dustare vajrakuṇḍe svalomābdaṃ vased dhruvam || 95 || dehadagdho'pi tadvajrairanāhāraśca śabdakṛt | tāḍito yamadūtaiśca tataḥ śuddho bhavennaraḥ || 96 || raupyagavyāṃśukānāṃ ca yaścauraḥ suraviprayoḥ | taptapāṣāṇakuṇḍeca svalomābdaṃ vased dhruvam || 97 || trijanmani ca kaṃso'pi śvetarūpastrijanmani | janmaikaṃ śvetacihnaśca tato'nye śvetapakṣiṇaḥ || 98 || tato raktavikārī ca śūlī vai mānavo bhavet | saptajanmasu cālpāyustataḥ śuddho bhavennaraḥ || 99 || raitaṃ kāṃsyamayaṃ pātraṃ yo hareddevaviprayoḥ | tīkṣṇapāṣāṇakuṇḍe ca svalomābdaṃ vasennaraḥ || 100 || sa bhavedaśvajātiśca bhārate saptajanmasu | tato'dhikāṅgajātiśca pādarogī tataḥ śuciḥ || 101 || puṃścalyannaṃ ca yo bhadre puṃścalījīvyajīvinaḥ | svalomamānavarṣaṃ ca lālākuṇḍe vased dhruvam || 102 || tāḍito yamadūtena tadbhojī tatra duḥkhitaḥ | tataścakṣuḥśūlarogī tataḥ śuddhaḥ krameṇa saḥ || 103 || mlecchasevī masījīvī yo vipro bhārate bhuvi | vasetsvalomamānābdaṃ masīkuṇḍe sa duḥkhabhāk || 104 || tāḍito yamadūtena tadbhojī tatra tiṣṭhati | tatastrijanmani bhavetkṛṣṇavarṇaḥ paśuḥ sati || 105 || trijanmani bhavecchāgaḥ kṛṣṇavarṇastrijanmani | tataḥ sa tālavṛkṣaśca tataḥ śuddho bhavennaraḥ || 106 || dhānyādisasyaṃ tāmbūlaṃ yo haretsuraviprayoḥ | āsanaṃ ca tathā talpaṃ cūrṇakuṇḍe prayāti saḥ || 107 || śatābdaṃ tatra nivasedyamadūtena tāḍitaḥ | tato bhavenmeṣajātiḥ kukkuṭaśca trijanmani || 108 || tato bhavedvānaraśca kāsavyādhiyuto bhuvi | vaṃśahīno daridraśca svalpāyuśca tataḥ śuciḥ || 109 || karoti cakraṃ viprāṇāṃ hṛtvā dravyaṃ ca yo janaḥ | sa vaseccakrakuṇḍe ca śatābdaṃ daṇḍatāḍitaḥ || 110 || tato bhavenmānavaśca tailakārastrijanmani | vyādhiyukto bhavedrogī vaṃśahīnastataḥ śuciḥ || 111 || godhaneṣu ca vipreṣu karoti vakratāṃ pumān | prayāti vakrakuṇḍaṃ sa tiṣṭhedyugaśataṃ sati || 112 || tato bhavetsa vakrāṅgo hīnāṅgaḥ saptajanmani | daridro vaṃśahīnaśca bhāryāhīnastataḥ śuciḥ || 113 || tato bhaved gṛdhrajanmā trijanmani ca sūkaraḥ | trijanmani biḍālaśca mayūraśca trijanmani || 114 || niṣiddhaṃ kūrmamāṃsaṃ ca brāhmaṇo yo hi bhakṣati | kūrmakuṇḍe vasetso'pi śatābdaṃ kūrmabhakṣitaḥ || 115 || tato bhavetkūrmajanmā trijanmani ca sūkaraḥ | trijanmani biḍālaśca mayūraśca tataḥ śuciḥ || 116 || ghṛtaṃ tailādikaṃ caiva yo haretsuraviprayoḥ | sa yāti jvālākuṇḍaṃ ca bhasmakuṇḍaṃ ca pātakī || 117 || tatra sthitvā śatābdaṃ ca sa bhavettailapācitaḥ | saptajanmani matsyaśca mūṣakaśca tataḥ śuciḥ || 118 || sugandhitailaṃ dhātrīṃ vā gandhadravyānyadeva vā | bhārate puṇyavarṣe ca yo haretsuraviprayoḥ || 119 || sa vaseddagdhakuṇḍe ca bhaveddagdho divāniśam | svalomamānavarṣaṃ ca tato durgandhiko bhavet || 120 || durgandhikaḥ saptajanma mṛganābhistrijanmani | saptajanmasu manthānastato hi mānavo bhavet || 121 || balenaiva chalenaiva hiṃsārūpeṇa vā sati | baliṣṭhaśca haredbhūmiṃ bhārate parapaitṛkīm || 122 || sa vasettaptasūciṃ ca bhavettāpī divāniśam | taptataile yathā jīvo dagdho bhavati santatam || 123 || bhasmasānna bhavatyeva bhoge dehī na naśyati | saptamanvantaraṃ pāpī santaptastatra tiṣṭhati || 124 || śabdaṃ karotyanāhāro yamadūtena tāḍitaḥ | ṣaṣṭivarṣasahasrāṇi viṭkṛmiśca bhavettataḥ || 125 || tato bhavedbhūmihīno daridraśca tataḥ śuciḥ | tataḥ svayoniṃ samprāpya śubhaṃ karmācaretpunaḥ || 126 ||
English translation
1-19. Dharmarajan said Those that are in Hari’s service, pure, the Siddhas in Yoga (those that have attained success in Yoga), the performers of Vratas (vows), the chaste, the ascetics, the Brahmacharis never go to hells. There is no doubt in this. Those persons that are proud of their strong positions and who use very harsh burning words to their friends, they go to Vahni Kunda and live there for as many years as there are hairs on his body; next they attain animal births for three births and get themselves scorched under the strong heat of the Sun. He goes to the Tapta Kunda hell who does not entertain any Brahman guest with any eatables who comes to his house hungry and thirsty. He lives there for as many years as there are hairs on his body and he has to sleep on a bed of fire, very tormenting. Then he will have to be born for seven births as birds. If anybody washes any clothing with any salt on Sunday, or on the day of Samkranti (when the Sun enters another sign), or on any new-moon day or on any S’raddha day (when funeral ceremonies are performed), he will have to go to the Ksara Kunda hell where he remains for as many years as there are threads in that clothing and finally he becomes born for seven births as a veritable washerman. The wretch that abuses Mula Prakriti, the Vedas, the S’astras, Puranas, Brahma, Visnu, S’iva and the other Devas, Gauri, Laksmi, Sarasvati and the other Devis, goes to the hell named Bhayanaka Narakakunda. There is no other hell more tormenting than this. The sinners live here for many Kalpas and ultimately become serpents. There is no sin greater than the abuse of the Devi. There is no expiation for it. So one ought never to abuse the Devi. If one discontinues the allowances given by oneself or other persons to the Devas or Brahmanas, one goes to Vistha Kunda and has to eat the faeces there for sixty thousand years and finally to be born in
Bharata as worms in faeces the same number of years. If any person without the owner’s permission digs another’s tank dried of water, or makes water in the water of any tank, he goes to Mutra Kunda and drinks urine for as many years as there are the particles in that tank. Then he becomes born in this Bharata its an ox for one hundred years. If any person eats good things himself without giving any portion thereof to the member of his family, he goes to S’lesma Kunda where he eats phlegm, for full one hundred years. Then he becomes born as Preta (disembodied spirits) in this Bharata for hundred years and drinks phlegm, urine and pus; then he becomes pure. He who does not support his father, mother, spiritual teacher, wife, sons, daughters and the helpless persons, goes to Gara Kunda where he eats poison for full one hundred years. Finally he becomes born and wanders as Bhutas (disembodied spirits). Then he becomes pure.
20-50. He who becomes angry and shrinks his eyes at the sight of a guest who has come to his house offends the Devas or Pitris, who do not accept the water offered to them by that villain. On the contrary, he earns all the sins of Brahmahatya (murder of a Brahmin and so forth) and finally goes to Dusikakunda where he remains for one hundred years and eats polluted things. Then wandering as Bhutas for one hundred years he becomes purified. If anybody makes a gift of any article to a Brahmin and then again gives that article to a different man, he goes to Vasa Kunda where he eats marrows for one hundred years. Then he has to roam about in India for seven births as a Krikalasa (lizard) and finally he becomes born as a very poor man with a very short life. If any woman or any man makes another of a different sex eat semen, out of passion, he goes to S’ukra Kunda where he drinks semen for one hundred years. Then he crawls about as worms for one hundred years. And then he gets purified. If anybody beats a Brahmana who is a family preceptor and causes his blood to come out, he will have to go to Rakta Kunda where he has to drink blood for one hundred
years. Finally he has to roam about for seven births in India as tigers; then he becomes pure by degrees. If anybody mocks and laughs at any devotee of Krisna who sings with rapt consciousness and sheds tears of joy, he will have to go to As’ru Kunda where he drinks tears for one hundred years. Then he has to roam as Chandala for three births and then he becomes pure. He who always cheats his friends, lives for one hundred years in Gatramala Kunda. Then roaming about for three births as an ass and for three births as a fox concurrently, he becomes purified. Out of vanity, if anybody jests at a deaf person, he goes to Karnamalakunda where he eats for one hundred years the wax of the ear. Next he comes to the earth as a deaf and very poor man for seven births, when at last he gets purified. If anybody commits murder out of greed to support his family, he goes to the hell Majjakunda where he eats marrow for one lakh years. Next he becomes a fish for seven births, for seven births he becomes a mosquito, for three births he becomes a boar, for seven births he becomes a cock, deer and other animals concurrently; at last he gets purified. If any stupid person sells the daughter whom he has supported, out of greed for money, he goes to Mansakunda and lives there for as many years as there are hairs on her body. The Yama’s servants beat him with their clubs. His head becomes overloaded with the burden of the flesh; and, out of hunger, he licks the blood coming out of his head. Next that sinner comes to Bharata and for sixty years becomes a worm in any daughter’s faeces, for seven births he becomes a hunter; for three births, a boar; for seven births, cock; for seven births, frog; for seven births, leech; and for seven births, crow; when he gets purified. One who shaves on the day of observing vows, fasting and funeral ceremony day, becomes impure and unfit to do any action, and, in the end, he goes to the Nakha Kunda where he receives blows of clubs and eats nails for one hundred Deva years. If anybody worships, out of carelessness, the earthen S’iva phallic symbol with any hairs on it, he goes to the hell Kes’a Kunda where he remains for as many years as there are particles in that hair; then he gets to the yoni (womb) a Yavanani (a MIechcha woman) out of Hara’s wrath. After one hundred years he becomes freed from that and then
he becomes a Raksasa; there is no doubt in this. He who does not offer Pindas to the Visnupada in honour of his Piths at Gaya goes to the hell Asthikunda where he remains for as many years as there are dirts on his body. Then he becomes a man; but for seven births he becomes lame and poor. Then he gets purified. The stupid man who commits outrage and violence on his pregnant wife, resides for one hundred years in the hot Tamra Kunda (where coppers are in a molten condition). He who takes the food of a childless widow and the same of any woman that has just bathed after menstruation goes for one hundred years to the hot Lauha Kunda (where iron is in a molten condition). For seven births he becomes then a crow and for seven births he becomes born of a washerwoman, full of sores and boils, and poor. Then he gets purified.
51-61. If one touches the things of the Devas after touching skins or impure hides, one remains in the Charma Kunda for full one hundred years. If any Brahmin eats a S’udra’s food, requested by him, he lives for one hundred years in the hot Sura Kunda. Then for seven births he performs, the funeral rites for a S’udra; at last he becomes pure. If any foul-mouthed person uses always harsh and filthy language to his master, he will have to go to Tiksna Kantaka Kunda where he eats thorns. Besides, the Yama’s servants give severe beatings to him with their clubs. For seven births he will have to become horses when he gets purified. If any man ministers poison to another and so takes away his life, he will have to remain for endless years in Visakunda, where he will have to eat poison. Then he will have to pass for one hundred years as a murderer Bhilla, full of sores and boils, and for seven births he will have to be a leper when at last he gets purified. Being born in this holy land Bharatavarsa, if any man strikes a cow with a rod or any driver does so whether by himself or by his servant, he will have to dwell certainly in the hot Lauha Kunda for four yugas. He will have to pass as many years as a cow as there are hairs on that cow when ultimately he gets purified. If anybody strikes any other body with a red-hot iron dart
(Kunta weapon), he will have to dwell in the Kunta Kunda for ayuta years. Then he will have to remain for one birth in a good womb, with a diseased constitution, when ultimately he will be purified.
62-85. If any Brahmin villain eats, out of greed, any flesh (not sacrificed before the goddess) or anything not offered to Hari, he will have to remain in the Krimi Kunda where he eats those things for as many years as there are hairs on his body. Then he will have to pass for three births as MIechchas when ultimately he becomes born in a Brahmin family. If any Brahmin performs the S’radh of a S’udra, eats the food pertaining to a S’radh of a S’udra or burns the dead body of a S’udra, he will have to dwell certainly in Puya Kunda, where, being beaten by the rod of Yama, he eats the pus, etc., for as many years as there are hairs on his body. Then he becomes reborn in this Bharata as one greatly diseased, poor, deaf and dumb and ultimately he will have to roam for seven births as a S’udra. He who kills a black serpent on whose hood there is the lotus mark, lives in Sarpa Kunda for as many years as there are hairs on his body and he is bitten by serpents there and beaten by the servants of Yama and eats the excrescences of snakes and finally becomes born as a serpent. Then he becomes a man shortlived and having the cuticaneous disease and ringworm. And his death also comes out of snake-bite. He who kills mosquitoes and other small fanged-animals, that earn their substance rightly and pass so their lives, goes to Dams’a mas’a Kunda where he is eaten by mosquitoes and other fanged-creatures and lives there without food and crying, weeping, for as many years as the numbers of lives destroyed. Besides the Yama’s servants tie his hands and feet and beat him. Then he becomes born as flies when ultimately he becomes purified. He who beats and chastises any man not fit to be chastised and beaten and as well as a Brahmana, goes to Vajra Damstra Kunda, full of worms, and lives there day and night for as many years as there are the number of hairs on the chastised person. When he is bitten by the worms and beaten by Yama’s servants, he cries sometimes, weeps
sometimes, and becomes very miserable. Next he is reborn as a crow for seven births when ultimately he gets purified. If any foolish king punishes and gives trouble to his subjects out of greed of money, he goes to Vrischika Kunda where he lives for as many years as there are hairs on the bodies of his subjects. There is no doubt in this. Finally he becomes born in this Bharata as a scorpion; then a man diseased and defective in limbs, when ultimately he becomes freed of his sins. If any Brahmin carries or raises weapons, washes the clothes of others who do not perform Sandhyas and abandons his devotion to Hah, he lives in Saradi Kunda for as many years as there are hairs on his body; he is, then, pierced by arrows. Finally he becomes purified. If any king maddened by his own folly and fault, shuts his subjects in a dark cell and kills them, then he will have to go to a dreadful dark hell filled with worms having fanged teeth and covered with dirt. This hell is named Gola Kunda. He lives there bitten by insects for as many years as there are hairs on the bodies of his subjects. Finally he becomes a slave of those subjects, when he gets purified.
86-103. If anybody kills the sharks and crocodiles, etc., that rise out of the water spontaneously, he will have to remain, then, in Nakra Kunda for as many years as there are thorns or edged points on those animals. Then he will have to be born as crocodiles, etc., for some time, when he will be purified. If any man, overpowered with lust, sees another’s wife’s uncovered breast, loins, and face, he will have to remain in Kaka Kunda for as many years as there are hairs in his own body. Here the crows take out his eyes. Finally for three births he gets himself burned by Fire when he becomes pure. He who steals in India the gold of the Devas and the Brahmanas, dwells certainly in Manthana Kunda for as many years as there are hairs on his body. My servants give him good beatings, and cudgellings; his eyes are covered by Manthana Danda insects (or animals) and he eats their dirty faeces. Then he is reborn as a man but for three births he becomes blind and for seven births he becomes very poor.
cruel, and a sinful goldsmith and then he is born a Svarnavanik (Sonar bene). O Fair One! He who steals in India copper or iron, silver or gold, dwells in Vija Kunda for as many years as there are hairs on his body. There the Vijas (a kind of insect) cover his eyes and he eats the excrescences of those insects. My messengers torment him. Finally he gets purified. If anybody steals in India any Devata or the articles of a Devata, he dwells in Vajra Kunda for as many years as there are hairs on his body. There his body gets burnt up. My messengers torment him and he a cries and weeps and remains without any food. Then he gets purified. If anybody steals the metal gold or silver, cows, or garments of any Deva or a Brahmana, certainly he dwells in hot Pasana Kunda for as many years as there are hairs on his body. Next for three births he becomes a tortoise and all sorts of white birds. Finally for three births he becomes a leper and for one birth be becomes a man with white marks on his body. Next for seven births he becomes diseased with a severe colic pain and bad blood and lives short. Then he gets purified. If anybody steals brass or Kamsya properties of any Deva or a Brahmana, he will have to remain in the sharp Pasana Kunda for as many years as there are hairs on his body. Next he becomes born in Bharata for seven births as horses; and ultimately his both the testicles get enlarged and he gets diseases in his legs when he gets purified. If anybody verily eats the food of an adulterate woman or lives on her alms, he will have to go to the Lala Kunda for as many years as there are hairs on his body. My messengers torment him there and he eats the saliva and thus lives miserably. Then he gets eye diseases and colic; when ultimately he gets purified.
104-126. If any Brahmana lives on writing only or on the service of MIechchas, he lives in Masi Kunda very painfully, eating ink, tormented by My messengers for as many years as there are hairs on his body. Then he becomes a black animal for three births and for another three births he becomes a black goat. Then he becomes a Tal tree when he gets purified. If anybody steals a Deva’s or a
Brahmana’s grains, or any other good materials, betel, Asan (seat) or bedding, he lives in Churna Kunda for one hundred years, tormented by My Dutas (messengers). Next for three births he gets himself born as a goat, cock, and monkey. Finally he becomes born as a man with the heart disease, without any issue, poor, and short lived. When, at last, he gets purified. If anybody steals any Brahmin’s property and thereby does chakra puja (the famous chakra circle worship in Tantra), or prepares a potter’s wheel or any other wheels, he will have to go to Chakra Kunda and remain there for one hundred years, tormented by My messengers. Then he will be born for three births as an oilman suffering from very severe diseases when he will ultimately be poor, without any issue and diseased. Finally he gets purified. If anybody casts a sinful eye on any Brahmana or on cows, he will have to remain in Vakra Kunda for one hundred Yugas. Next for three births he becomes a cat, for three births he becomes a vulture; for three births he becomes a boar; for three births he becomes a peacock; for seven births he becomes a man deformed and defective in limbs, his wife being dead, without any issue. Finally he becomes purified. If any person born in a Brahmin family eats the flesh of a tortoise that is prohibited, he lives in Kurma Kunda, for one hundred years, eaten by tortoises. Then he becomes for three births a tortoise; for three births, a boar; for three births a cat; for three births, a peacock; till at last he gets purified. If anybody steals clarified butter or oil of any Devas or a Brahmana he will have to go to Jvala Kunda or Bhasma Kunda. That sinner remains in oil for one hundred years and gets soaked through and through. Then for seven births he becomes a fish and a mouse when he gets purified. If anybody, born here in this holy land Bharata steals sweet scented oil of a Deva or of a Brahmana, the powdered myrobalan or any other scent, he goes to Dagdha Kunda where he lives, burnt day and night for as many years as there are hairs on his body. For seven births he becomes born emitting a nasty smell, for three births he becomes musk (mriga-nabhi); for seven births, as a Manthana insect. Then he becomes born as a man. If, out of envy, a powerful man appropriates to his purpose another’s ancestral property by cheating, by using force, he goes to the hot Suchi
Kunda, being tormented there like a Jiva dropped in the midst of a very hot oil tank, full of boiling oil. His body is, then, being burnt up severely as the result of his own Karma; the wonder being that his body never gets completely destroyed nor reduced to ashes. For seven manvantaras he lives there without any food. My messengers give him good beatings and cudgellings and chastise him; he cries aloud. Next he gets himself born as worms of faeces for sixty thousand years. When he becomes born as a pauper without owning any land. Thus that villain, getting a fresh lease of human birth, begins again to do fresh good acts.
Here ends the Thirty-third Chapter of the Ninth Book on the description of the destinies of different sinners in different hells in S’ri Mad Devi Bhagavatam of 18,000 verses by Maharsi Veda Vyasa.
Complete chapter-aligned witnesses. Sanskrit Wikisource page 24528, revision 75174 (2016-07-27T13:46:43Z). English is Swami Vijñanananda’s complete 1921–23 public-domain translation, controlled against the archival OCR and its chapter page at https://sacred-texts.com/hin/db/bk09ch33.htm. Historic spelling and transliteration are lightly normalized; no verse-by-verse alignment is asserted.