Skip to main content

Ninth Skandha · Chapter 19

Chapter 19

Unit 236 of 318Ninth Skandha · Chapter 19Ninth Skandha · Chapter 191 source entries

Ninth Skandha · Chapter 19

Source

नारद उवाच विचित्रमिदमाख्यानं भवता समुदाहृतम् । श्रुतेन येन मे तृप्तिर्न कदापि हि जायते ॥ १ ॥ ततः परं तु यज्जातं तत्त्वं वद महामते । श्रीनारायण उवाच इत्येवमाशिषं दत्त्वा स्वालयं च ययौ विधिः ॥ २ ॥ गान्धर्वेण विवाहेन जगृहे तां च दानवः । स्वर्गे दुन्दुभिवाद्यं च पुष्पवृष्टिर्बभूव ह ॥ ३ ॥ स रेमे रामया सार्धं वासगेहे मनोरमे । मूर्च्छां सा प्राप तुलसी नवसङ्‌गमसङ्‌गता ॥ ४ ॥ निमग्ना निर्जले साध्वी सम्भोगसुखसागरे । चतुःषष्टिकलामानं चतुःषष्टिविधं सुखम् ॥ ५ ॥ कामशास्त्रे यन्निरुक्तं रसिकानां यथेप्सितम् । अङ्‌गप्रत्यङ्‌गसंश्लेषपूर्वकं स्त्रीमनोहरम् ॥ ६ ॥ तत्सर्वं रसशृङ्‌गारं चकार रसिकेश्वरः । अतीव रम्यदेशे च सर्वजन्तुविवर्जिते ॥ ७ ॥ पुष्पचन्दनतल्पे च पुष्पचन्दनवायुना । पुष्पोद्याने नदीतीरे पुष्पचन्दनचर्चिते ॥ ८ ॥ गहीत्वा रसिको रासे पुष्पचन्दनचर्चिताम् । भूषितो भूषणेनैव रत्‍नभूषणभूषिताम् ॥ ९ ॥ सुरते विरतिर्नास्ति तयोः सुरतिविज्ञयोः । जहार मानसं भर्तुर्लोलया लीलया सती ॥ १० ॥ चेतनां रसिकायाश्च जहार रसभाववित् । वक्षसश्चन्दनं राज्ञस्तिलकं विजहार सा ॥ ११ ॥ स च जहार तस्याश्च सिन्दूरं बिन्दुपत्रकम् । तद्वक्षस्युरोजे च नखरेखां ददौ मुदा ॥ १२ ॥ सा ददौ तद्वामपार्श्वे करभूषणलक्षणम् । राजा तदोष्ठपुटके ददौ रदनदंशनम् ॥ १३ ॥ तद्‌गण्डयुगले सा च प्रददौ तच्चतुर्गुणम् । आलिङ्‌गनं चुम्बनं च जङ्‌घादिमर्दनं तथा ॥ १४ ॥ एवं परस्परं क्रीडां चक्रतुस्तौ विजानतौ । सुरते विरते तौ च समुत्थाय परस्परम् ॥ १५ ॥ सुवेषं चक्रतुस्तत्र यद्यन्मनसि वाञ्छितम् । चन्दनैः कुङ्‌कुमारक्तैः सा तस्य तिलकं ददौ ॥ १६ ॥ सर्वाङ्‌गे सुन्दरे रम्ये चकार चानुलेपनम् । सुवासं चैव ताम्बूलं वह्निशुद्धे च वाससी ॥ १७ ॥ पारिजातस्य कुसुमं जरारोगहरं परम् । अमूल्यरत्‍ननिर्माणमङ्‌गुलीयकमुत्तमम् ॥ १८ ॥ सुन्दरं च मणिवरं त्रिषु लोकेषु दुर्लभम् । दासी तवाहमित्येवं समुच्चार्य पुनः पुनः ॥ १९ ॥ ननाम परया भक्त्या स्वामिनं गुणशालिनम् । सस्मिता तन्मुखाम्भोजं लोचनाभ्यां पुनः पुनः ॥ २० ॥ निमेषरहिताभ्यां चाप्यपश्यत्कामसुन्दरम् । स च तां च समाकृष्य चकार वक्षसि प्रियाम् ॥ २१ ॥ सस्मितं वाससाच्छन्नं ददर्श मुखपङ्‌कजम् । चुचुम्ब कठिने गण्डे बिम्बोष्ठौ पुनरेव च ॥ २२ ॥ ददौ तस्यै वस्त्रयुग्मं वरुणादाहृतं च यत् । तदाहृतां रत्‍नमालां त्रिषु लोकेषु दुर्लभाम् ॥ २३ ॥ ददौ मञ्जीरयुग्मं च स्वाहाया आहृतं च यत् । केयूरयुग्मं छायाया रोहिण्याश्चैव कुण्डलम् ॥ २४ ॥ अङ्‌गुलीयकरत्‍नानि रत्याश्च करभूषणम् । शङ्‌खं च रुचिरं चित्रं यद्दत्तं विश्वकर्मणा ॥ २५ ॥ विचित्रपद्मकश्रेणीं शय्यां चापि सुदुर्लभाम् । भूषणानि च दत्त्वा स भूपो हासं चकार ह ॥ २६ ॥ निर्ममे कबरीभारे तस्या माङ्‌गल्यभूषणम् । सुचित्रं पत्रकं गण्डमण्डलेऽस्याः समं तथा ॥ २७ ॥ चन्द्रलेखात्रिभिर्युक्तं चन्दनेन सुगन्धिना । परीतं परितश्चित्रैः सार्धं कुङ्‌कुमबिन्दुभिः ॥ २८ ॥ ज्वलत्प्रदीपाकारं च सिन्दूरतिलकं ददौ । तत्पादपद्मयुगले स्थलपद्मविनिन्दिते ॥ २९ ॥ चित्रालक्तकरागं च नखरेषु ददौ मुदा । स्ववक्षसि मुहुर्न्यस्य सरागं चरणाम्बुजम् ॥ ३० ॥ हे देवि तव दासोऽहमित्युच्चार्य पुनः पुनः । रत्‍नभूषितहस्तेन तां च कृत्वा स्ववक्षसि ॥ ३१ ॥ तपोवनं परित्यज्य राजा स्थानान्तरं ययौ । मलये देवनिलये शैले शैले तपोवने ॥ ३२ ॥ स्थाने स्थानेऽतिरम्ये च पुष्पोद्याने च निर्जने । कन्दरे कन्दरे सिन्धुतीरे चैवातिसुन्दरे ॥ ३३ ॥ पुष्पभद्रानदीतीरे नीरवातमनोहरे । पुलिने पुलिने दिव्ये नद्यां नद्यां नदे नदे ॥ ३४ ॥ मधौ मधुकराणां च मधुरध्वनिनादिते । विस्पन्दने सुरसने नन्दने गन्धमादने ॥ ३५ ॥ देवोद्याने नन्दने च चित्रचन्दनकानने । चम्पकानां केतकीनां माधवीनां च माधवे ॥ ३६ ॥ कुन्दानां मालतीनां च कुमुदाम्भोजकानने । कल्पवृक्षे कल्पवृक्षे पारिजातवने वने ॥ ३७ ॥ निर्जने काञ्चने स्थाने धन्ये काञ्चनपर्वते । काञ्चीवने किञ्जलके कञ्चुके काञ्चनाकरे ॥ ३८ ॥ पुष्पचन्दनतल्पेषु पुंस्कोकिलरुतश्रुते । पुष्पचन्दनसंयुक्तः पुष्पचन्दनवायुना ॥ ३९ ॥ कामुक्या कामुकः कामात्स रेमे रामया सह । न हि तृप्तो दानवेन्द्रस्तृप्तिं नैव जगाम सा ॥ ४० ॥ हविषा कृष्णवर्त्मेव ववृधे मदनस्तयोः । तया सह समागत्य स्वाश्रमं दानवस्ततः ॥ ४१ ॥ रम्यं क्रीडालयं गत्वा विजहार पुनः पुनः । एवं स बुभुजे राज्यं शङ्‌खचूडः प्रतापवान् ॥ ४२ ॥ एकमन्वन्तरं पूर्णं राजराजेश्वरो महान् । देवानामसुराणां च दानवानां च सन्ततम् ॥ ४३ ॥ गन्धर्वाणां किन्नराणां राक्षसानां च शान्तिदः । हृताधिकारा देवाश्च चरन्ति भिक्षुका यथा ॥ ४४ ॥ ते सर्वेऽतिविषण्णाश्च प्रजग्मुर्ब्रह्मणः सभाम् । वृत्तान्तं कथयामासू रुरुदुश्च भृशं मुहुः ॥ ४५ ॥ तदा ब्रह्मा सुरैः सार्धं जगाम शङ्‌करालयम् । सर्वेशं कथयामास विधाता चन्द्रशेखरम् ॥ ४६ ॥ ब्रह्मा शिवश्च तैः सार्धं वैकुण्ठं च जगाम ह । दुर्लभं परमं धाम जरामृत्युहरं परम् ॥ ४७ ॥ सम्प्राप च वरं द्वारमाश्रमाणां हरेरहो । ददर्श द्वारपालांश्च रत्‍नसिंहासनस्थितान् ॥ ४८ ॥ शोभितान्पीतवस्त्रैश्च रत्‍नभूषणभूषितान् । वनमालान्वितान्सर्वान् श्यामसुन्दरविग्रहान् ॥ ४९ ॥ शङ्‌खचक्रगदापद्मधरांश्चैव चतुर्भुजान् । सस्मितान्स्मेरवक्त्रास्यान्पद्मनेत्रान्मनोहरान् ॥ ५० ॥ ब्रह्मा तान्कथयामास वृत्तान्तं गमनार्थकम् । तेऽनुज्ञां च ददुस्तस्मै प्रविवेश तदाज्ञया ॥ ५१ ॥ एवं षोडश द्वाराणि निरीक्ष्य कमलोद्‍भवः । देवैः सार्धं तानतीत्य प्रविवेश हरेः सभाम् ॥ ५२ ॥ देवर्षिभिः परिवृतां पार्षदैश्च चतुर्भुजैः । नारायणस्वरूपैश्च सर्वैः कौस्तुभभूषितैः ॥ ५३ ॥ नवेन्दुमण्डलाकारां चतुरस्रां मनोहराम् । मणीन्द्रहारनिर्माणां हीरासारसुशोभिताम् ॥ ५४ ॥ अमूल्यरत्‍नखचितां रचितां स्वेच्छया हरेः । माणिक्यमालाजालाभां मुक्तापङ्‌क्तिविभूषिताम् ॥ ५५ ॥ मण्डितां मण्डलाकारै रत्‍नदर्पणकोटिभिः । विचित्रैश्चित्ररेखाभिर्नानाचित्रविचित्रिताम् ॥ ५६ ॥ पद्मरागेन्द्ररचितां रुचिरां मणिपङ्‌कजैः । सोपानशतकैर्युक्तां स्यमन्तकविनिर्मितैः ॥ ५७ ॥ पट्टसूत्रग्रन्थियुक्तैश्चारुचन्दनपल्लवैः । इन्द्रनीलस्तम्भवर्यैर्वेष्टितां सुमनोहराम् ॥ ५८ ॥ सद्‌रत्‍नपूर्णकुम्भानां समूहैश्च समन्विताम् । पारिजातप्रसूनानां मालाजालैर्विराजिताम् ॥ ५९ ॥ कस्तूरीकुङ्‌कुमारक्तैः सुगन्धिचन्दनद्रुमैः । सुसंस्कृतां तु सर्वत्र वासितां गन्धवायुना ॥ ६० ॥ विद्याधरीसमूहानां नृत्यजालैर्विराजिताम् । सहस्रयोजनायामां परिपूर्णां च किङ्‌करैः ॥ ६१ ॥ ददर्श श्रीहरिं ब्रह्मा शङ्‌करश्च सुरैः सह । वसन्तं तन्मध्यदेशे यथेन्दुं तारकावृतम् ॥ ६२ ॥ अमूल्यरत्‍ननिर्माणचित्रसिंहासने स्थितम् । किरीटिनं कुण्डलिनं वनमालाविभूषितम् ॥ ६३ ॥ चन्दनोक्षितसर्वाङ्‌गं बिभ्रतं केलिपङ्‌कजम् । पुरतो नृत्यगीतं च पश्यन्तं सस्मितं मुदा ॥ ६४ ॥ शान्तं सरस्वतीकान्तं लक्ष्मीधृतपदाम्बुजम् । लक्ष्म्या प्रदत्तं ताम्बूलं भुक्तवन्तं सुवासितम् ॥ ६५ ॥ गङ्‌गया परया भक्त्या सेवितं श्वेतचामरैः । सर्वैश्च स्तूयमानं च भक्तिनम्रात्मकन्धरैः ॥ ६६ ॥ एवं विशिष्टं तं दृष्ट्वा परिपूर्णतमं प्रभुम् । ब्रह्मादयः सुराः सर्वे प्रणम्य तुष्टुवुस्तदा ॥ ६७ ॥ पुलकाञ्चितसर्वाङ्‌गाः साश्रुनेत्राश्च गद्‌गदाः । भक्ताश्च परया भक्त्या भीता नम्रात्मकन्धराः ॥ ६८ ॥ कृताञ्जलिपुटो भूत्वा विधाता जगतामपि । वृत्तान्तं कथयामास विनयेन हरेः पुरः ॥ ६९ ॥ हरिस्तद्वचनं श्रुत्वा सर्वज्ञः सर्वभाववित् । प्रहस्योवाच ब्रह्माणं रहस्यं च मनोहरम् ॥ ७० ॥ श्रीभगवानुवाच शङ्‌खचूडस्य वृत्तान्तं सर्वं जानामि पद्मज । मद्‍भक्तस्य च गोपस्य महातेजस्विनः पुरा ॥ ७१ ॥ शृणु तत्सर्ववृत्तान्तमितिहासं पुरातनम् । गोलोकस्यैव चरितं पापघ्नं पुण्यकारकम् ॥ ७२ ॥ सुदामा नाम गोपश्च पार्षदप्रवरो मम । स प्राप दानवीं योनिं राधाशापात्सुदारुणात् ॥ ७३ ॥ तत्रैकदाहमगमं स्वालयाद्‌रासमण्डलम् । विरजामपि नीत्वा च मम प्राणाधिका परा ॥ ७४ ॥ सा मां विरजया सार्धं विज्ञाय किङ्‌करीमुखात् । पश्चात्क्रुद्धा साजगाम न ददर्श च तत्र माम् ॥ ७५ ॥ विरजां च नदीरूपां मां ज्ञात्वा च तिरोहितम् । पुनर्जगाम सा दृष्ट्वा स्वालयं सखिभिः सह ॥ ७६ ॥ मां दृष्ट्वा मन्दिरे देवी सुदाम्ना सहितं पुरा । भृशं सा भर्त्सयामास मौनीभूतं च सुस्थिरम् ॥ ७७ ॥ तच्छ्रुत्वासहमानश्च सुदामा तां चुकोप ह । स च तां भर्त्सयामास कोपेन मम सनिधौ ॥ ७८ ॥ तच्छ्रुत्वा कोपयुक्ता सा रक्तपङ्‌कजलोचना । बहिष्कर्तुं चकाराज्ञां संत्रस्तं मम संसदि ॥ ७९ ॥ सखीलक्षं समुत्तस्थौ दुर्वारं तेजसोल्बणम् । बहिश्चकार तं तूर्णं जल्पन्तं च पुनः पुनः ॥ ८० ॥ सा च तत्ताडनं तासां श्रुत्वा रुष्टा शशाप ह । याहि रे दानवीं योनिमित्येवं दारुणं वचः ॥ ८१ ॥ तं गच्छन्तं शपन्तं च रुदन्तं मां प्रणम्य च । वारयामास तुष्टा सा रुदती कृपया पुनः ॥ ८२ ॥ हे वत्स तिष्ठ मा गच्छ क्व यासीति पुनः पुनः । समुच्चार्य च तत्पश्चाज्जगाम सा च विक्लवम् ॥ ८३ ॥ गोप्यश्च रुरुदुः सर्वा गोपाश्चापि सुदुःखिताः । ते सर्वे राधिका चापि तत्पश्चाद्‌ बोधिता मया ॥ ८४ ॥ आयास्यति क्षणार्धेन कृत्वा शापस्य पालनम् । सुदामंस्त्वमिहागच्छेत्युक्त्वा सा च निवारिता ॥ ८५ ॥ गोलोकस्य क्षणार्धेन चैकं मन्वन्तरं भवेत् । पृथिव्यां जगतां धातरित्येव वचनं ध्रुवम् ॥ ८६ ॥ इत्येवं शङ्‌खचूडश्च पुनस्तत्रैव यास्यति । महाबलिष्ठो योगेशः सर्वमायाविशारदः ॥ ८७ ॥ मम शूलं गृहीत्वा च शीघ्रं गच्छत भारतम् । शिवः करोतु संहारं मम शूलेन रक्षसः ॥ ८८ ॥ ममैव कवचं कण्ठे सर्वमङ्‌गलकारकम् । बिभर्ति दानवः शश्वत्संसारे विजयी ततः ॥ ८९ ॥ तस्मिन् ब्रह्मन् स्थिते चैव न कोऽपि हिंसितुं क्षमः । तद्याचनां करिष्यामि विप्ररूपोऽहमेव च ॥ ९० ॥ सतीत्वहानिस्तत्पत्‍न्या यत्र काले भविष्यति । तत्रैव काले तन्मृत्युरिति दत्तो वरस्त्वया ॥ ९१ ॥ तत्पत्‍न्याश्चोदरे वीर्यमर्पयिष्यामि निश्चितम् । तत्क्षणे चैव तन्मृत्युर्भविष्यति न संशयः ॥ ९२ ॥ पश्चात्सा देहमुत्सज्य भविष्यति मम प्रिया । इत्युक्त्वा जगतां नाथो ददौ शूलं हराय च ॥ ९३ ॥ शूलं दत्त्वा ययौ शीघ्रं हरिरभ्यन्तरे मुदा । भारतं च ययुर्देवा ब्रह्यरुद्रपुरोगमाः ॥ ९४ ॥

nārada uvāca vicitramidamākhyānaṃ bhavatā samudāhṛtam | śrutena yena me tṛptirna kadāpi hi jāyate || 1 || tataḥ paraṃ tu yajjātaṃ tattvaṃ vada mahāmate | śrīnārāyaṇa uvāca ityevamāśiṣaṃ dattvā svālayaṃ ca yayau vidhiḥ || 2 || gāndharveṇa vivāhena jagṛhe tāṃ ca dānavaḥ | svarge dundubhivādyaṃ ca puṣpavṛṣṭirbabhūva ha || 3 || sa reme rāmayā sārdhaṃ vāsagehe manorame | mūrcchāṃ sā prāpa tulasī navasaṅ‌gamasaṅ‌gatā || 4 || nimagnā nirjale sādhvī sambhogasukhasāgare | catuḥṣaṣṭikalāmānaṃ catuḥṣaṣṭividhaṃ sukham || 5 || kāmaśāstre yanniruktaṃ rasikānāṃ yathepsitam | aṅ‌gapratyaṅ‌gasaṃśleṣapūrvakaṃ strīmanoharam || 6 || tatsarvaṃ rasaśṛṅ‌gāraṃ cakāra rasikeśvaraḥ | atīva ramyadeśe ca sarvajantuvivarjite || 7 || puṣpacandanatalpe ca puṣpacandanavāyunā | puṣpodyāne nadītīre puṣpacandanacarcite || 8 || gahītvā rasiko rāse puṣpacandanacarcitām | bhūṣito bhūṣaṇenaiva rat‍nabhūṣaṇabhūṣitām || 9 || surate viratirnāsti tayoḥ surativijñayoḥ | jahāra mānasaṃ bharturlolayā līlayā satī || 10 || cetanāṃ rasikāyāśca jahāra rasabhāvavit | vakṣasaścandanaṃ rājñastilakaṃ vijahāra sā || 11 || sa ca jahāra tasyāśca sindūraṃ bindupatrakam | tadvakṣasyuroje ca nakharekhāṃ dadau mudā || 12 || sā dadau tadvāmapārśve karabhūṣaṇalakṣaṇam | rājā tadoṣṭhapuṭake dadau radanadaṃśanam || 13 || tad‌gaṇḍayugale sā ca pradadau taccaturguṇam | āliṅ‌ganaṃ cumbanaṃ ca jaṅ‌ghādimardanaṃ tathā || 14 || evaṃ parasparaṃ krīḍāṃ cakratustau vijānatau | surate virate tau ca samutthāya parasparam || 15 || suveṣaṃ cakratustatra yadyanmanasi vāñchitam | candanaiḥ kuṅ‌kumāraktaiḥ sā tasya tilakaṃ dadau || 16 || sarvāṅ‌ge sundare ramye cakāra cānulepanam | suvāsaṃ caiva tāmbūlaṃ vahniśuddhe ca vāsasī || 17 || pārijātasya kusumaṃ jarārogaharaṃ param | amūlyarat‍nanirmāṇamaṅ‌gulīyakamuttamam || 18 || sundaraṃ ca maṇivaraṃ triṣu lokeṣu durlabham | dāsī tavāhamityevaṃ samuccārya punaḥ punaḥ || 19 || nanāma parayā bhaktyā svāminaṃ guṇaśālinam | sasmitā tanmukhāmbhojaṃ locanābhyāṃ punaḥ punaḥ || 20 || nimeṣarahitābhyāṃ cāpyapaśyatkāmasundaram | sa ca tāṃ ca samākṛṣya cakāra vakṣasi priyām || 21 || sasmitaṃ vāsasācchannaṃ dadarśa mukhapaṅ‌kajam | cucumba kaṭhine gaṇḍe bimboṣṭhau punareva ca || 22 || dadau tasyai vastrayugmaṃ varuṇādāhṛtaṃ ca yat | tadāhṛtāṃ rat‍namālāṃ triṣu lokeṣu durlabhām || 23 || dadau mañjīrayugmaṃ ca svāhāyā āhṛtaṃ ca yat | keyūrayugmaṃ chāyāyā rohiṇyāścaiva kuṇḍalam || 24 || aṅ‌gulīyakarat‍nāni ratyāśca karabhūṣaṇam | śaṅ‌khaṃ ca ruciraṃ citraṃ yaddattaṃ viśvakarmaṇā || 25 || vicitrapadmakaśreṇīṃ śayyāṃ cāpi sudurlabhām | bhūṣaṇāni ca dattvā sa bhūpo hāsaṃ cakāra ha || 26 || nirmame kabarībhāre tasyā māṅ‌galyabhūṣaṇam | sucitraṃ patrakaṃ gaṇḍamaṇḍale'syāḥ samaṃ tathā || 27 || candralekhātribhiryuktaṃ candanena sugandhinā | parītaṃ paritaścitraiḥ sārdhaṃ kuṅ‌kumabindubhiḥ || 28 || jvalatpradīpākāraṃ ca sindūratilakaṃ dadau | tatpādapadmayugale sthalapadmavinindite || 29 || citrālaktakarāgaṃ ca nakhareṣu dadau mudā | svavakṣasi muhurnyasya sarāgaṃ caraṇāmbujam || 30 || he devi tava dāso'hamityuccārya punaḥ punaḥ | rat‍nabhūṣitahastena tāṃ ca kṛtvā svavakṣasi || 31 || tapovanaṃ parityajya rājā sthānāntaraṃ yayau | malaye devanilaye śaile śaile tapovane || 32 || sthāne sthāne'tiramye ca puṣpodyāne ca nirjane | kandare kandare sindhutīre caivātisundare || 33 || puṣpabhadrānadītīre nīravātamanohare | puline puline divye nadyāṃ nadyāṃ nade nade || 34 || madhau madhukarāṇāṃ ca madhuradhvaninādite | vispandane surasane nandane gandhamādane || 35 || devodyāne nandane ca citracandanakānane | campakānāṃ ketakīnāṃ mādhavīnāṃ ca mādhave || 36 || kundānāṃ mālatīnāṃ ca kumudāmbhojakānane | kalpavṛkṣe kalpavṛkṣe pārijātavane vane || 37 || nirjane kāñcane sthāne dhanye kāñcanaparvate | kāñcīvane kiñjalake kañcuke kāñcanākare || 38 || puṣpacandanatalpeṣu puṃskokilarutaśrute | puṣpacandanasaṃyuktaḥ puṣpacandanavāyunā || 39 || kāmukyā kāmukaḥ kāmātsa reme rāmayā saha | na hi tṛpto dānavendrastṛptiṃ naiva jagāma sā || 40 || haviṣā kṛṣṇavartmeva vavṛdhe madanastayoḥ | tayā saha samāgatya svāśramaṃ dānavastataḥ || 41 || ramyaṃ krīḍālayaṃ gatvā vijahāra punaḥ punaḥ | evaṃ sa bubhuje rājyaṃ śaṅ‌khacūḍaḥ pratāpavān || 42 || ekamanvantaraṃ pūrṇaṃ rājarājeśvaro mahān | devānāmasurāṇāṃ ca dānavānāṃ ca santatam || 43 || gandharvāṇāṃ kinnarāṇāṃ rākṣasānāṃ ca śāntidaḥ | hṛtādhikārā devāśca caranti bhikṣukā yathā || 44 || te sarve'tiviṣaṇṇāśca prajagmurbrahmaṇaḥ sabhām | vṛttāntaṃ kathayāmāsū ruruduśca bhṛśaṃ muhuḥ || 45 || tadā brahmā suraiḥ sārdhaṃ jagāma śaṅ‌karālayam | sarveśaṃ kathayāmāsa vidhātā candraśekharam || 46 || brahmā śivaśca taiḥ sārdhaṃ vaikuṇṭhaṃ ca jagāma ha | durlabhaṃ paramaṃ dhāma jarāmṛtyuharaṃ param || 47 || samprāpa ca varaṃ dvāramāśramāṇāṃ hareraho | dadarśa dvārapālāṃśca rat‍nasiṃhāsanasthitān || 48 || śobhitānpītavastraiśca rat‍nabhūṣaṇabhūṣitān | vanamālānvitānsarvān śyāmasundaravigrahān || 49 || śaṅ‌khacakragadāpadmadharāṃścaiva caturbhujān | sasmitānsmeravaktrāsyānpadmanetrānmanoharān || 50 || brahmā tānkathayāmāsa vṛttāntaṃ gamanārthakam | te'nujñāṃ ca dadustasmai praviveśa tadājñayā || 51 || evaṃ ṣoḍaśa dvārāṇi nirīkṣya kamalod‍bhavaḥ | devaiḥ sārdhaṃ tānatītya praviveśa hareḥ sabhām || 52 || devarṣibhiḥ parivṛtāṃ pārṣadaiśca caturbhujaiḥ | nārāyaṇasvarūpaiśca sarvaiḥ kaustubhabhūṣitaiḥ || 53 || navendumaṇḍalākārāṃ caturasrāṃ manoharām | maṇīndrahāranirmāṇāṃ hīrāsārasuśobhitām || 54 || amūlyarat‍nakhacitāṃ racitāṃ svecchayā hareḥ | māṇikyamālājālābhāṃ muktāpaṅ‌ktivibhūṣitām || 55 || maṇḍitāṃ maṇḍalākārai rat‍nadarpaṇakoṭibhiḥ | vicitraiścitrarekhābhirnānācitravicitritām || 56 || padmarāgendraracitāṃ rucirāṃ maṇipaṅ‌kajaiḥ | sopānaśatakairyuktāṃ syamantakavinirmitaiḥ || 57 || paṭṭasūtragranthiyuktaiścārucandanapallavaiḥ | indranīlastambhavaryairveṣṭitāṃ sumanoharām || 58 || sad‌rat‍napūrṇakumbhānāṃ samūhaiśca samanvitām | pārijātaprasūnānāṃ mālājālairvirājitām || 59 || kastūrīkuṅ‌kumāraktaiḥ sugandhicandanadrumaiḥ | susaṃskṛtāṃ tu sarvatra vāsitāṃ gandhavāyunā || 60 || vidyādharīsamūhānāṃ nṛtyajālairvirājitām | sahasrayojanāyāmāṃ paripūrṇāṃ ca kiṅ‌karaiḥ || 61 || dadarśa śrīhariṃ brahmā śaṅ‌karaśca suraiḥ saha | vasantaṃ tanmadhyadeśe yathenduṃ tārakāvṛtam || 62 || amūlyarat‍nanirmāṇacitrasiṃhāsane sthitam | kirīṭinaṃ kuṇḍalinaṃ vanamālāvibhūṣitam || 63 || candanokṣitasarvāṅ‌gaṃ bibhrataṃ kelipaṅ‌kajam | purato nṛtyagītaṃ ca paśyantaṃ sasmitaṃ mudā || 64 || śāntaṃ sarasvatīkāntaṃ lakṣmīdhṛtapadāmbujam | lakṣmyā pradattaṃ tāmbūlaṃ bhuktavantaṃ suvāsitam || 65 || gaṅ‌gayā parayā bhaktyā sevitaṃ śvetacāmaraiḥ | sarvaiśca stūyamānaṃ ca bhaktinamrātmakandharaiḥ || 66 || evaṃ viśiṣṭaṃ taṃ dṛṣṭvā paripūrṇatamaṃ prabhum | brahmādayaḥ surāḥ sarve praṇamya tuṣṭuvustadā || 67 || pulakāñcitasarvāṅ‌gāḥ sāśrunetrāśca gad‌gadāḥ | bhaktāśca parayā bhaktyā bhītā namrātmakandharāḥ || 68 || kṛtāñjalipuṭo bhūtvā vidhātā jagatāmapi | vṛttāntaṃ kathayāmāsa vinayena hareḥ puraḥ || 69 || haristadvacanaṃ śrutvā sarvajñaḥ sarvabhāvavit | prahasyovāca brahmāṇaṃ rahasyaṃ ca manoharam || 70 || śrībhagavānuvāca śaṅ‌khacūḍasya vṛttāntaṃ sarvaṃ jānāmi padmaja | mad‍bhaktasya ca gopasya mahātejasvinaḥ purā || 71 || śṛṇu tatsarvavṛttāntamitihāsaṃ purātanam | golokasyaiva caritaṃ pāpaghnaṃ puṇyakārakam || 72 || sudāmā nāma gopaśca pārṣadapravaro mama | sa prāpa dānavīṃ yoniṃ rādhāśāpātsudāruṇāt || 73 || tatraikadāhamagamaṃ svālayād‌rāsamaṇḍalam | virajāmapi nītvā ca mama prāṇādhikā parā || 74 || sā māṃ virajayā sārdhaṃ vijñāya kiṅ‌karīmukhāt | paścātkruddhā sājagāma na dadarśa ca tatra mām || 75 || virajāṃ ca nadīrūpāṃ māṃ jñātvā ca tirohitam | punarjagāma sā dṛṣṭvā svālayaṃ sakhibhiḥ saha || 76 || māṃ dṛṣṭvā mandire devī sudāmnā sahitaṃ purā | bhṛśaṃ sā bhartsayāmāsa maunībhūtaṃ ca susthiram || 77 || tacchrutvāsahamānaśca sudāmā tāṃ cukopa ha | sa ca tāṃ bhartsayāmāsa kopena mama sanidhau || 78 || tacchrutvā kopayuktā sā raktapaṅ‌kajalocanā | bahiṣkartuṃ cakārājñāṃ saṃtrastaṃ mama saṃsadi || 79 || sakhīlakṣaṃ samuttasthau durvāraṃ tejasolbaṇam | bahiścakāra taṃ tūrṇaṃ jalpantaṃ ca punaḥ punaḥ || 80 || sā ca tattāḍanaṃ tāsāṃ śrutvā ruṣṭā śaśāpa ha | yāhi re dānavīṃ yonimityevaṃ dāruṇaṃ vacaḥ || 81 || taṃ gacchantaṃ śapantaṃ ca rudantaṃ māṃ praṇamya ca | vārayāmāsa tuṣṭā sā rudatī kṛpayā punaḥ || 82 || he vatsa tiṣṭha mā gaccha kva yāsīti punaḥ punaḥ | samuccārya ca tatpaścājjagāma sā ca viklavam || 83 || gopyaśca ruruduḥ sarvā gopāścāpi suduḥkhitāḥ | te sarve rādhikā cāpi tatpaścād‌ bodhitā mayā || 84 || āyāsyati kṣaṇārdhena kṛtvā śāpasya pālanam | sudāmaṃstvamihāgacchetyuktvā sā ca nivāritā || 85 || golokasya kṣaṇārdhena caikaṃ manvantaraṃ bhavet | pṛthivyāṃ jagatāṃ dhātarityeva vacanaṃ dhruvam || 86 || ityevaṃ śaṅ‌khacūḍaśca punastatraiva yāsyati | mahābaliṣṭho yogeśaḥ sarvamāyāviśāradaḥ || 87 || mama śūlaṃ gṛhītvā ca śīghraṃ gacchata bhāratam | śivaḥ karotu saṃhāraṃ mama śūlena rakṣasaḥ || 88 || mamaiva kavacaṃ kaṇṭhe sarvamaṅ‌galakārakam | bibharti dānavaḥ śaśvatsaṃsāre vijayī tataḥ || 89 || tasmin brahman sthite caiva na ko'pi hiṃsituṃ kṣamaḥ | tadyācanāṃ kariṣyāmi viprarūpo'hameva ca || 90 || satītvahānistatpat‍nyā yatra kāle bhaviṣyati | tatraiva kāle tanmṛtyuriti datto varastvayā || 91 || tatpat‍nyāścodare vīryamarpayiṣyāmi niścitam | tatkṣaṇe caiva tanmṛtyurbhaviṣyati na saṃśayaḥ || 92 || paścātsā dehamutsajya bhaviṣyati mama priyā | ityuktvā jagatāṃ nātho dadau śūlaṃ harāya ca || 93 || śūlaṃ dattvā yayau śīghraṃ harirabhyantare mudā | bhārataṃ ca yayurdevā brahyarudrapurogamāḥ || 94 ||

English translation

1. Narada said “O Bhagavan! Wonderful is the story that has been now recited by you. My ears are not satisfied. So tell me what happened afterwards.”

2-94. Narayana said O Narada! The Creator Brahma, blessing them, departed to His own abode. The Danava married Tulasi under the Gandharba method. The celestial drums sounded and the flowers were showered. In the beautiful lovely house the Danavendra, remained in perfect enjoyment. Tulasi, too, being busy with fresh intercourses, became almost mad after them. The chaste Tulasi and S’ankhachuda both became deeply immersed in the ocean of bliss in their sexual union and began to enjoy sixty-four sorts of amorous sports. In the S’astras on love affairs, all the connections of limbs with limbs that are described, as the lover and the loved desire, they both enjoyed those with perfect freedom and pleasure. The place was solitary; to add to it, the scenery was grand and lovely; so nothing remained untasted of the several tastes of amorous pleasures. On the banks of the river, in flower-gardens, they slept on the flower beds smeared with sandal-paste, and enjoyed the amorous pleasures. Both were adorned with jewel ornaments; both were skilled in amorous practices; so no one desisted. The chaste Tulasi out of her nimbleness due to young age, easily stole into the heart of her husband. S’ankhachuda, too, a great expert in knowing other’s amorous sentiments, attracted the heart of Tulasi. Tulasi obliterated the sandal marks from the breast of the King and the sign of tilak from his nose. The King also wiped away the dot of Sindur and Alaka (vermillion) marks from Tulasi’s forehead and put marks of nails on her round plump breasts. Tulasi also hurt

the King’s left side by her bracelets. Then the King bit the lips of Tulasi. Thus each one embraced the other, kissed each other and each one began to champoo the thighs, legs, etc. When both of them thus spent their time in amorous sports, they got up and began to dress themselves as they desired. Tulasi smeared S’ankhachuda’s nose with red sandal-paste mixed with kumkum (saffron), smeared his body with sweet-scented sandal-paste, offered sweet-scented betels in his mouth, made him put on celestial garments (fireproof; brought from Fire) put unto his neck the wonderful garland of Parijata flowers, destructive of disease and old age, invaluable jewel rings on his hand and offering him excellent gems, rare in the three worlds, said “O Lord! I am your maidservant” and uttering this repeatedly bowed down to the feet of her husband with devotion. She then got up and with smiling countenance began to look on his face with a steadfast gaze. The king S’ankhachuda then attracted his dear Tulasi to his breast and took off the veil fully from her face and began to look on that, next moment he kissed on her cheek and lips and gave her a pair of garments brought from the Varuna’s house, a necklace of jewels, hard to get in the three worlds, the tinklets of Svaha, the wife of Agni, the Keyura (armlets) of the Sun’s wife Chhaya, the two earrings of Rohini, the wife of the Moon, the finger rings of Rati, the wife of Kamadeva, and the wonderfully beautiful conch, given by Vis’va Karma, excellent bedding studded with pearls and jewels and various ornaments; and when he gave her all these things, he smiled. The king then put garlands on Tulasi’s braid of hair, nicely variegated Alakas on her cheek, three crescent lines of sweet- scented sandal paste within the Alakas, dots of saffron all around that, the brilliant Sindura mark looking like a flame, and red Alta on the feet and toes; he then placed those feet on his breast and utterred repeatedly “I am your servant” and then held her on his breast. They then left the hermitage, in that state and began to travel in various places. In the Malaya mountain, in mountains after mountains, in solitary flower gardens, in the mountain caves, in beautiful sea-beaches, on the banks of the Puspabhadra river, cool with watery breeze, in various rivers and riversides, in Vispandana

forest echoed with sweet songs of the birds of the vernal season. They then went from Vispandana forest to the Surasana forest, from the Surasana, forest to the Nandana forest, from the Nandana forest to the nice Chandana forests, from Chandana forest to Champaka, Ketaki; Madhavi Kunda, Malati, and Kumuda and lotus forests; thence they went to the forest of desire gratifying trees (Kalpavriksa forest,) and Parijata trees. They then went to the solitary place Kanchan, thence to the Kanchi (forest) they then went to the Kihjalaka forest, thence to the Kanchanakar (the gold mine), thence to Kanchuka and various other forests echoed with the sweet sounds of cuckoos. There, on beds strewn with flowers and scented with sandal paste they both enjoyed each other to their hearts content and with great pleasure. But none of them, whether S’ankhachuda or Tulasi, got quenched with their thirst. Rather their passions were inflamed like the fire on which clarified butter is poured (in sacrifices). The King of the Danavas, then, brought Tulasi to his own kingdom and, there, in his own beautiful garden house, he incessantly enjoyed her. Thus the powerful king of the Danavas passed away one Manvantara in the enjoyment of his kingdom. He spread his sway over the Devatas, Asuras, Danavas, Gandharbas, Kinnaras, and Raksasas. The Devas, dispossessed of their realms, wandered everywhere like beggars. At last they united in a body and went to the Brahma’s assembly and there they began to cry and then related the whole history how the Danava S’ankhachuda oppressed them. Hearing all this, Brahma took them to S’ankara and informed Him of the whole history of the case. When Mahadeva heard all this. He took them all to the highest place, Vaikuntha devoid of old age and death. Going towards the first entrance of Narayana’s abode, they saw the gate-keepers watching the gate, taking their seats on jewel thrones. They all looked brilliant, clothed with the yellow garments, adorned with jewel ornaments, garlanded with forest flowers, all of S’yama Sundara (dark blue, very beautiful) bodies. They were four¬ armed, holding on their hands, conch, mace, discus and lotus; sweet smile was on their faces and eyes beautiful like lotus leaves. On Brahma asking them for entrance to the assembly, they nodded their assent. He, then, accompanied by the Devas, passed one by one.

sixteen gates and at last came before Narayana. On reaching there, He saw that the assembly was completely filled with Devarsis, and four-armed Narayanlike Parisadas (attendants), decked with Kaustubba jewels. The sight of the Sabha (assembly) makes one think that the Moon has just arisen, shedding effulgent rays all round. By the will of S’ri Hah, excellent diamonds, invaluable gems and necklaces of gems and jewels were placed at various places. At other places rows of pearls were shedding their splendour and brilliance like the garlands of gems and jewels. At others, the mirrors were placed in a circle; and at various other places, the endless wonderful artistic picture lines were drawn. Again at other places the jewels called Padmaragas were artistically arranged as if the lotuses were there spreading their lustrous beauty all around. At many other places rows of steps were made of wonderful Syamantak jewels. All around the assembly, there were the excellent pillars, built of Indranilam jewels. Over those pillars, sandal leaves strung on strings from to pillar to pillar, were suspended. Golden jars, all brimful with water were located at various places. All around, the garlands of Parijata flowers were seen. The hall was decorated with sweet scented sandal trees, red like saffron and musk. Sweet scents were being emitted all round. The Vidyadharis were dancing at places.

The assembly hall measured one thousand Yojanas. Countless servants were engaged all over on various works. Brahma, S’ankara, and the other Gods saw there S’ri Hari seated in the centre on an invaluable jewel throne, as a Moon looks surrounded by stars. There were the crown on His head, the ear-rings on His ears; garlands made of wild flowers were on his neck and His body was smeared all over with sandal paste and He was holding Kelipadma (a sort of lotus) in His hand. He was seeing, with a smiling countenance, the dancing and music before Him. He was full of peace, the Lord of Sarasvati. Laksmi was holding gently His lotus feet and He was chewing the sweet scented betel offered by Her. Ganga also was fanning Him devotedly with a white Chamara and the others were singing hymns to Him with their heads bent low with devotion.

Brahma and the other Gods all bowed down to Him; their bodies were all filled with Pulaka (excessive joy causing hair stand on end); tears flowed from their eyes and their voices were choked out of emotion. The creator Brahma, then, with clasped hands informed Him, with head bowed down, of the whole history of S’ankhachuda. Hearing this, the omniscient Hah, knowing the minds of all, smiled and spoke to Brahma all the interesting secrets O Lotus born! I know all about S’ankhachuda.

He was in his previous birth My great devotee, an energetic Gopa. Now I speak to you the ancient history of Goloka; hear. This story about Goloka is sin destroying and highly meritorious.

S’ankhachuda, in his previous birth was the Gopa Sudama, My chief Parisad (attendant). He has now become a Danava on account of the dire curse pronounced by S’ri Radha. One day when I went from My abode, accompanied by Viraja Gopi, to the Rasa Mandala, My beloved Radha, hearing this news from a maid servant, came up at once with Her whole host of Sakhis wrathful, to the Rasa Mandalam (ball dance in Goloka) and, not being able to see Me, saw Viraja turned into a river. She thought that I had disappeared. So She went back to Her own abode with Her Sakhis. But when I returned to the house with Sudama, Radha rebuked Me very much. I remained silent. But Sudama could not bear and he rebuked Radha in My presence, a thing quite intolerable to Her dignity! On hearing this rebuke, Radha’s eyes became red with anger and She immediately ordered Her Sakhis to drive him away. Sudama began to tremble with fear. Immediately on Her command lakhs and lakhs of Sakhis got up immediately and drove that hot irresistible Sudama away. Sudama repeated his chafings and roarings. On hearing these. She cursed him “You better be born in the womb of a Danavi.” Hearing the terrible curse, Sudama bowed down to Me and went away crying; then Radha, who was all-mercy, became melted with mercy. And She prevented him repeatedly, not to go away. Radha wept and told him, “O Child! Wait. Where are you going? No more you will have to go; return.” Thus saying She became very distressed. The Gopas and Gopis also began to weep. I then explained to them, “In

about half a moment Sudama will come back, fulfilling the conditions of the curse. O Sudama! Come here when the curse expires.”

Then he appeased Radha also. “Know that one moment (Ksan) in Goloka is equal to one Manvantara on earth. The Yogi S’ankhachuda, expert in Maya and very powerful will soon return from the earth. Take this My weapon S’ula and go early to Bharata. S’iva will slay the Danava by this S’ulastra. The Danava holds always on his neck My auspicious Kavacha and will therefore become the conqueror of the universe. No one will he able to kill him as long as be holds the above Kavacha. So, first of all, I will go to him in the form of a Brahmana and ask from him the Kavacha. O Creator! Thou also didst give him the boon that his death would occur when the chastity of of his wife would be destroyed. I will go and hold intercourse with his wife. Then his death will occur without fail. His wife after her death will come and become My dearest wife. Thus saying, Narayana gave over to Mahadeva the S’ulastra. Then He went gladly to His inner compartments. On the other hand, Brahma and Rudra and the other Devas incarnated themselves in Bharata.

Here ends the Nineteenth Chapter on the going of the Devas to Vaikuntha after Tulasi’s marriage with S’ankhachuda in the Mahapuranam S’ri Mad Devi Bhagavatam of 18,000 verses by Maharsi Veda Vyasa.

Complete chapter-aligned witnesses. Sanskrit Wikisource page 24507, revision 75091 (2016-07-25T03:17:22Z). English is Swami Vijñanananda’s complete 1921–23 public-domain translation, controlled against the archival OCR and its chapter page at https://sacred-texts.com/hin/db/bk09ch19.htm. Historic spelling and transliteration are lightly normalized; no verse-by-verse alignment is asserted.