Skip to main content

Ninth Skandha · Chapter 22

Chapter 22

Unit 239 of 318Ninth Skandha · Chapter 22Ninth Skandha · Chapter 221 source entries

Ninth Skandha · Chapter 22

Source

श्रीनारायण उवाच शिवं प्रणम्य शिरसा दानवेन्द्रः प्रतापवान् । समारुरोह यानं च सहामात्यैः स सत्वरः ॥ १ ॥ शिवः स्वसैन्यं देवांश्च प्रेरयामास सत्वरम् । दानवेन्द्रः ससैन्यश्च युद्धारम्भे बभूव ह ॥ २ ॥ स्वयं महेन्द्रो युयुधे सार्धं च वृषपर्वणा । भास्करो युयुधे विप्रचित्तिना सह सत्वरः ॥ ३ ॥ दम्भेन सह चन्द्रश्च चकार परमं रणम् । कालस्वरेण कालश्च गोकर्णेन हुताशनः ॥ ४ ॥ कुबेरः कालकेयेन विश्वकर्मा मयेन च । भयङ्‌करेण मृत्युश्च संहारेण यमस्तथा ॥ ५ ॥ विकङ्‌कणेन वरुणश्चञ्चलेन समीरणः । बुधश्च घृतपृष्ठेन रक्ताक्षेण शनैश्चरः ॥ ६ ॥ जयन्तो रत्‍नसारेण वसवो वर्चसां गणैः । अश्विनौ च दीप्तिमता धूम्रेण नलकूबरः ॥ ७ ॥ धुरन्धरेण धर्मश्च उषाक्षेण च मङ्‌गलः । शोभाकरेण वै भानुः पिठरेण च मन्मथः ॥ ८ ॥ गोधामुखेन चूर्णेन खड्गेन च ध्वजेन च । काञ्चीमुखेन पिण्डेन धूमेण सह नन्दिना ॥ ९ ॥ विश्वेन च पलाशेनादित्याद्या युयुधुः परे । एकादश च रुद्रा वै एकादशभयङ्‌करैः ॥ १० ॥ महामारी च युयुधे चोग्रचण्डादिभिः सह । नन्दीश्वरादयः सर्वे दानवानां गणैः सह ॥ ११ ॥ युयुधुश्च महायुद्धे प्रलयेऽपि भयङ्‌करे । वटमूले च शम्भुश्च तस्थौ काल्या सुतेन च ॥ १२ ॥ सर्वे च युयुधुः सैन्यसमूहाः सततं मुने । रत्‍नसिंहासने रम्ये कोटिभिर्दानवैः सह ॥ १३ ॥ उवास शङ्‌खचूडश्च रत्‍नभूषणभूषितः । शङ्‌करस्य च ये योधा दानवैश्च पराजिताः ॥ १४ ॥ देवाश्च दुद्रुवुः सर्वे भीताश्च क्षतविग्रहाः । चकार कोपं स्कन्दश्च देवेभ्यश्चाभयं ददौ ॥ १५ ॥ बलं च स्वर्गणानां च वर्धयामास तेजसा । सोऽयमेकश्च युयुधे दानवानां गणैः सह ॥ १६ ॥ अक्षौहिणीनां शतकं समरे च जघान सः । असुरान्पातयामास काली कमललोचना ॥ १७ ॥ पपौ रक्तं दानवानामतिकुद्धा ततः परम् । दशलक्षगजेन्द्राणां शतलक्षं च कोटिशः ॥ १८ ॥ समादायैकहस्तेन मुखे चिक्षेप लीलया । कबन्धानां सहस्रं च ननर्त समरे मुने ॥ १९ ॥ स्कन्दस्य शरजालेन दानवाः क्षतविग्रहाः । भीताश्च दुद्रुवुः सर्वे महारणपराक्रमाः ॥ २० ॥ वृषपर्वा विप्रचित्तिर्दम्भश्चापि विकङ्‌कणः । स्कन्देन सार्धं युयुधुस्ते सर्वे विक्रमेण च ॥ २१ ॥ महामारी च युयुधे न बभूव पराङ्‌मुखी । बभूवुस्ते च संक्षुब्धाः स्कन्दस्य शक्तिपीडिताः ॥ २२ ॥ न दुद्रुवुर्भयात्स्वर्गे पुष्पवृष्टिर्बभूव ह । स्कन्दस्य समरं दृष्ट्वा महारौद्रं समुल्बणम् ॥ २३ ॥ दानवानां क्षयकरं यथा प्राकृतिको लयः । राजा विमानमारुह्य चकार बाणवर्षणम् ॥ २४ ॥ नृपस्य शरवृष्टिश्च घनस्य वर्षणं यथा । महाघोरान्धकारश्च वह्न्युत्थानं बभूव च ॥ २५ ॥ देवाः प्रदुद्रुवुः सर्वेऽप्यन्ये नन्दीश्वरादयः । एक एव कार्तिकेयस्तस्थौ समरमूर्धनि ॥ २६ ॥ पर्वतानां च सर्पाणां शिलानां शाखिनां तथा । नृपश्चकार वृष्टिं च दुर्वारां च भयङ्‌करीम् ॥ २७ ॥ नृपस्य शरवृष्ट्या च प्रहितः शिवनन्दनः । नीहारेण च सान्द्रेण प्रहितो भास्करो यथा ॥ २८ ॥ धनुश्चिच्छेद स्कन्दस्य दुर्वहं च भयङ्‌करः । बभञ्ज च रथं दिव्यं चिच्छेद रथपीठकान् ॥ २९ ॥ मयूरं जर्जरीभूतं दिव्यास्त्रेण चकार सः । शक्तिं चिक्षेप सूर्याभां तस्य वक्षस्य घातिनीम् ॥ ३० ॥ क्षणं मूर्च्छां च सम्प्राप बभूव चेतनः पुनः । गृहीत्वा तद्धनुर्दिव्यं यद्दत्तं विष्णुना पुरा ॥ ३१ ॥ रत्‍नेन्द्रसारनिर्माणयानमारुह्य कार्तिकः । शस्त्रास्त्रं च गृहीत्वा च चकार रणमुल्बणम् ॥ ३२ ॥ सर्पांश्च पर्वतांश्चैव वृक्षांश्च प्रस्तरांस्तथा । सर्वांश्चिच्छेद कोपेन दिव्यास्त्रेण शिवात्मजः ॥ ३३ ॥ वह्निं निर्वापयामास पार्जन्येन प्रतापवान् । रथं धनुश्च चिच्छेद शङ्‌खचूडस्य लीलया ॥ ३४ ॥ सन्नाहं सारथिं चैव किरीटं मुकुटोज्ज्वलम् । चिक्षेप शक्तिं शुक्लाभां दानवेन्द्रस्य वक्षसि ॥ ३५ ॥ मूर्च्छां सम्प्राप्य राजा च चेतनश्च बभूव ह । आरुरोह यानमन्यद्धनुर्जग्राह सत्वरः ॥ ३६ ॥ चकार शरजालं च मायया मायिनां वरः । गुहं चच्छाद समरे शरजालेन नारद ॥ ३७ ॥ जग्राह शक्तिमव्यग्रां शतसूर्यसमप्रभाम् । प्रलयाग्निशिखारूपां विष्णोश्च तेजसाऽऽवृताम् ॥ ३८ ॥ चिक्षेप तां च कोपेन महावेगेन कार्तिके । पपात शक्तिस्तद्‌गात्रे वह्निराशिरिवोज्ज्वला ॥ ३९ ॥ मूर्च्छां सम्प्राप शक्त्या च कार्तिकेयो महाबलः । काली गृहीत्वा तं क्रोडे निनाय शिवसनिधौ ॥ ४० ॥ शिवस्तं चापि ज्ञानेन जीवयामास लीलया । ददौ बलमनन्तं च समुत्तस्थौ प्रतापवान् ॥ ४१ ॥ काली जगाम समरं रक्षितुं कार्तिकस्य या । वीरास्तामनुजग्मुश्च ते च नन्दीश्वरादयः ॥ ४२ ॥ सर्वे देवाश्च गन्धर्वा यक्षराक्षसकिन्नराः । वाद्यभाण्डाश्च बहुशः शतशो मधुवाहकाः ॥ ४३ ॥ सा च गत्वाथ संग्रामं सिंहनादं चकार च । देव्याश्च सिंहनादेन प्रापुर्मूर्च्छां च दानवाः ॥ ४४ ॥ अट्टाट्टहासमशिवं चकार च पुनः पुनः । दृष्ट्वा पपौ च माध्वीकं ननर्त रणमूर्धनि ॥ ४५ ॥ उग्रदंष्ट्रा चोग्रदण्डा कोटवी च पपौ मधु । योगिनीडाकिनीनां च गणाः सुरगणादयः ॥ ४६ ॥ दृष्ट्वा कालीं शङ्‌खचूडः शीघ्रमाजौ समाययौ । दानवाश्च भयं प्रापू राजा तेभ्योऽभयं ददौ ॥ ४७ ॥ काली चिक्षेप वह्निं च प्रलयाग्निशिखोपमम् । राजा निर्वापयामास पार्जन्येन च लीलया ॥ ४८ ॥ चिक्षेप वारुणं सा च तीव्रं च महदद्‍भुतम् । गान्धर्वेण च चिच्छेद दानवेन्द्रश्च लीलया ॥ ४९ ॥ माहेश्वरं प्रचिक्षेप काली वह्निशिखोपमम् । राजा जघान तं शीघ्रं वैष्णवेन च लीलया ॥ ५० ॥ नारायणास्त्रं सा देवी चिक्षेप मन्त्रपूर्वकम् । राजा ननाम तद्‌ दृष्ट्वा चावरुह्य रथादसौ ॥ ५१ ॥ ऊर्ध्वं जगाम तच्चास्त्रं प्रलयाग्निशिखोपमम् । पपात शङ्‌खचूडश्च भक्त्या तं दण्डवद्‌भुवि ॥ ५२ ॥ ब्रह्मास्त्रं सा च चिक्षेप यत्‍नतो मन्त्रपूर्वकम् । ब्रह्मास्त्रेण महाराजो निर्वापं च चकार सः ॥ ५३ ॥ तदा चिक्षेप दिव्यास्त्रं सा देवी मन्त्रपूर्वकम् । राजा दिव्यास्त्रजालेन तन्निर्वाणं चकार च ॥ ५४ ॥ तदा चिक्षेप शक्तिं च यत्‍नतो योजनायताम् । राजा दिव्यास्त्रजालेन शतखण्डां चकार ह ॥ ५५ ॥ जग्राह मन्त्रपूतं च देवी पाशुपतं रुषा । निक्षेपणं निरोद्धुं च वाग्बभूवाशरीरिणी ॥ ५६ ॥ मृत्युः पाशुपते नास्ति नृपस्य च महात्मनः । यावदस्ति च मन्त्रस्य कवचं च हरेरिति ॥ ५७ ॥ यावत्सतीत्वमस्त्येव सत्याश्च नृपयोषितः । तावदस्य जरामृत्युर्नास्तीति ब्रह्मणो वचः ॥ ५८ ॥ इत्याकर्ण्य भद्रकाली न तच्चिक्षेप शस्त्रकम् । शतलक्षं दानवानां जग्रास लीलया क्षुधा ॥ ५९ ॥ ग्रस्तुं जगाम वेगेन शङ्‌खचूडं भयङ्‌करी । दिव्यास्त्रेण सुतीक्ष्णेन वारयामास दानवः ॥ ६० ॥ खड्गं चिक्षेप सा देवी ग्रीष्मसूर्योपमं यथा । दिव्यास्त्रेण दानवेन्द्रः शतखण्डं चकार सः ॥ ६१ ॥ पुनर्ग्रस्तुं महादेवी वेगेन च जगाम तम् । सर्वसिद्धेश्वरः श्रीमान्ववृधे दानवेश्वरः ॥ ६२ ॥ वेगेन मुष्टिना काली कोपयुक्ता भयङ्‌करी । बभञ्ज च रथं तस्य जघान सारथिं सती ॥ ६३ ॥ सा च शूलं प्रचिक्षेप प्रलयाग्निशिखोपमम् । वामहस्तेन जग्राह शङ्‌खचूडः स्वलीलया ॥ ६४ ॥ मुष्ट्या जघान तं देवी महाकोपेन वेगतः । बभ्राम च तया दैत्यः क्षणं मूर्च्छामवाप च ॥ ६५ ॥ क्षणेन चेतनां प्राप्य समुत्तस्थौ प्रतापवान् । न चकार बाहुयुद्धं देव्या सह ननाम ताम् ॥ ६६ ॥ देव्याश्चास्त्रं स चिच्छेद जग्राह च स्वतेजसा । नास्त्रं चिक्षेप तां भक्तो मातृभक्त्या तु वैष्णवः ॥ ६७ ॥ गृहीत्वा दानवं देवी भ्रामयित्वा पुनः पुनः । ऊर्ध्वं च प्रापयामास महावेगेन कोपिता ॥ ६८ ॥ ऊर्ध्वात्पपात वेगेन शङ्‌खचूडः प्रतापवान् । निपत्य च समुत्तस्थौ प्रणम्य भद्रकालिकाम् ॥ ६९ ॥ रत्‍नेन्द्रसारनिर्माणं विमानं सुमनोहरम् । आरुरोह हर्षयुक्तो न विश्रान्तो महारणे ॥ ७० ॥ दानवानां च क्षतजं सा देवी च पपौ क्षुधा । पीत्वा भुक्त्वा भद्रकाली जगाम शङ्करान्तिकम् ॥ ७१ ॥ उवाच रणवृत्तान्तं पौर्वापर्यं यथाक्रमम् । श्रुत्वा जहास शम्भुश्च दानवानां विनाशनम् ॥ ७२ ॥ लक्षं च दानवेन्द्राणामवशिष्टं रणेऽधुना । भुञ्जन्त्या निर्गतं वक्त्रात्तदन्यं भुक्तमीश्वर ॥ ७३ ॥ संग्रामे दानवेन्द्रं च हन्तुं पाशुपतेन वै । अवध्यस्तव राजेति वाग्बभूवाशरीरिणी ॥ ७४ ॥ राजेन्द्रश्च महाज्ञानी महाबलपराक्रमः । न च चिक्षेप मय्यस्त्रं चिच्छेद मम सायकम् ॥ ७५ ॥

śrīnārāyaṇa uvāca śivaṃ praṇamya śirasā dānavendraḥ pratāpavān | samāruroha yānaṃ ca sahāmātyaiḥ sa satvaraḥ || 1 || śivaḥ svasainyaṃ devāṃśca prerayāmāsa satvaram | dānavendraḥ sasainyaśca yuddhārambhe babhūva ha || 2 || svayaṃ mahendro yuyudhe sārdhaṃ ca vṛṣaparvaṇā | bhāskaro yuyudhe vipracittinā saha satvaraḥ || 3 || dambhena saha candraśca cakāra paramaṃ raṇam | kālasvareṇa kālaśca gokarṇena hutāśanaḥ || 4 || kuberaḥ kālakeyena viśvakarmā mayena ca | bhayaṅ‌kareṇa mṛtyuśca saṃhāreṇa yamastathā || 5 || vikaṅ‌kaṇena varuṇaścañcalena samīraṇaḥ | budhaśca ghṛtapṛṣṭhena raktākṣeṇa śanaiścaraḥ || 6 || jayanto rat‍nasāreṇa vasavo varcasāṃ gaṇaiḥ | aśvinau ca dīptimatā dhūmreṇa nalakūbaraḥ || 7 || dhurandhareṇa dharmaśca uṣākṣeṇa ca maṅ‌galaḥ | śobhākareṇa vai bhānuḥ piṭhareṇa ca manmathaḥ || 8 || godhāmukhena cūrṇena khaḍgena ca dhvajena ca | kāñcīmukhena piṇḍena dhūmeṇa saha nandinā || 9 || viśvena ca palāśenādityādyā yuyudhuḥ pare | ekādaśa ca rudrā vai ekādaśabhayaṅ‌karaiḥ || 10 || mahāmārī ca yuyudhe cogracaṇḍādibhiḥ saha | nandīśvarādayaḥ sarve dānavānāṃ gaṇaiḥ saha || 11 || yuyudhuśca mahāyuddhe pralaye'pi bhayaṅ‌kare | vaṭamūle ca śambhuśca tasthau kālyā sutena ca || 12 || sarve ca yuyudhuḥ sainyasamūhāḥ satataṃ mune | rat‍nasiṃhāsane ramye koṭibhirdānavaiḥ saha || 13 || uvāsa śaṅ‌khacūḍaśca rat‍nabhūṣaṇabhūṣitaḥ | śaṅ‌karasya ca ye yodhā dānavaiśca parājitāḥ || 14 || devāśca dudruvuḥ sarve bhītāśca kṣatavigrahāḥ | cakāra kopaṃ skandaśca devebhyaścābhayaṃ dadau || 15 || balaṃ ca svargaṇānāṃ ca vardhayāmāsa tejasā | so'yamekaśca yuyudhe dānavānāṃ gaṇaiḥ saha || 16 || akṣauhiṇīnāṃ śatakaṃ samare ca jaghāna saḥ | asurānpātayāmāsa kālī kamalalocanā || 17 || papau raktaṃ dānavānāmatikuddhā tataḥ param | daśalakṣagajendrāṇāṃ śatalakṣaṃ ca koṭiśaḥ || 18 || samādāyaikahastena mukhe cikṣepa līlayā | kabandhānāṃ sahasraṃ ca nanarta samare mune || 19 || skandasya śarajālena dānavāḥ kṣatavigrahāḥ | bhītāśca dudruvuḥ sarve mahāraṇaparākramāḥ || 20 || vṛṣaparvā vipracittirdambhaścāpi vikaṅ‌kaṇaḥ | skandena sārdhaṃ yuyudhuste sarve vikrameṇa ca || 21 || mahāmārī ca yuyudhe na babhūva parāṅ‌mukhī | babhūvuste ca saṃkṣubdhāḥ skandasya śaktipīḍitāḥ || 22 || na dudruvurbhayātsvarge puṣpavṛṣṭirbabhūva ha | skandasya samaraṃ dṛṣṭvā mahāraudraṃ samulbaṇam || 23 || dānavānāṃ kṣayakaraṃ yathā prākṛtiko layaḥ | rājā vimānamāruhya cakāra bāṇavarṣaṇam || 24 || nṛpasya śaravṛṣṭiśca ghanasya varṣaṇaṃ yathā | mahāghorāndhakāraśca vahnyutthānaṃ babhūva ca || 25 || devāḥ pradudruvuḥ sarve'pyanye nandīśvarādayaḥ | eka eva kārtikeyastasthau samaramūrdhani || 26 || parvatānāṃ ca sarpāṇāṃ śilānāṃ śākhināṃ tathā | nṛpaścakāra vṛṣṭiṃ ca durvārāṃ ca bhayaṅ‌karīm || 27 || nṛpasya śaravṛṣṭyā ca prahitaḥ śivanandanaḥ | nīhāreṇa ca sāndreṇa prahito bhāskaro yathā || 28 || dhanuściccheda skandasya durvahaṃ ca bhayaṅ‌karaḥ | babhañja ca rathaṃ divyaṃ ciccheda rathapīṭhakān || 29 || mayūraṃ jarjarībhūtaṃ divyāstreṇa cakāra saḥ | śaktiṃ cikṣepa sūryābhāṃ tasya vakṣasya ghātinīm || 30 || kṣaṇaṃ mūrcchāṃ ca samprāpa babhūva cetanaḥ punaḥ | gṛhītvā taddhanurdivyaṃ yaddattaṃ viṣṇunā purā || 31 || rat‍nendrasāranirmāṇayānamāruhya kārtikaḥ | śastrāstraṃ ca gṛhītvā ca cakāra raṇamulbaṇam || 32 || sarpāṃśca parvatāṃścaiva vṛkṣāṃśca prastarāṃstathā | sarvāṃściccheda kopena divyāstreṇa śivātmajaḥ || 33 || vahniṃ nirvāpayāmāsa pārjanyena pratāpavān | rathaṃ dhanuśca ciccheda śaṅ‌khacūḍasya līlayā || 34 || sannāhaṃ sārathiṃ caiva kirīṭaṃ mukuṭojjvalam | cikṣepa śaktiṃ śuklābhāṃ dānavendrasya vakṣasi || 35 || mūrcchāṃ samprāpya rājā ca cetanaśca babhūva ha | āruroha yānamanyaddhanurjagrāha satvaraḥ || 36 || cakāra śarajālaṃ ca māyayā māyināṃ varaḥ | guhaṃ cacchāda samare śarajālena nārada || 37 || jagrāha śaktimavyagrāṃ śatasūryasamaprabhām | pralayāgniśikhārūpāṃ viṣṇośca tejasā''vṛtām || 38 || cikṣepa tāṃ ca kopena mahāvegena kārtike | papāta śaktistad‌gātre vahnirāśirivojjvalā || 39 || mūrcchāṃ samprāpa śaktyā ca kārtikeyo mahābalaḥ | kālī gṛhītvā taṃ kroḍe nināya śivasanidhau || 40 || śivastaṃ cāpi jñānena jīvayāmāsa līlayā | dadau balamanantaṃ ca samuttasthau pratāpavān || 41 || kālī jagāma samaraṃ rakṣituṃ kārtikasya yā | vīrāstāmanujagmuśca te ca nandīśvarādayaḥ || 42 || sarve devāśca gandharvā yakṣarākṣasakinnarāḥ | vādyabhāṇḍāśca bahuśaḥ śataśo madhuvāhakāḥ || 43 || sā ca gatvātha saṃgrāmaṃ siṃhanādaṃ cakāra ca | devyāśca siṃhanādena prāpurmūrcchāṃ ca dānavāḥ || 44 || aṭṭāṭṭahāsamaśivaṃ cakāra ca punaḥ punaḥ | dṛṣṭvā papau ca mādhvīkaṃ nanarta raṇamūrdhani || 45 || ugradaṃṣṭrā cogradaṇḍā koṭavī ca papau madhu | yoginīḍākinīnāṃ ca gaṇāḥ suragaṇādayaḥ || 46 || dṛṣṭvā kālīṃ śaṅ‌khacūḍaḥ śīghramājau samāyayau | dānavāśca bhayaṃ prāpū rājā tebhyo'bhayaṃ dadau || 47 || kālī cikṣepa vahniṃ ca pralayāgniśikhopamam | rājā nirvāpayāmāsa pārjanyena ca līlayā || 48 || cikṣepa vāruṇaṃ sā ca tīvraṃ ca mahadad‍bhutam | gāndharveṇa ca ciccheda dānavendraśca līlayā || 49 || māheśvaraṃ pracikṣepa kālī vahniśikhopamam | rājā jaghāna taṃ śīghraṃ vaiṣṇavena ca līlayā || 50 || nārāyaṇāstraṃ sā devī cikṣepa mantrapūrvakam | rājā nanāma tad‌ dṛṣṭvā cāvaruhya rathādasau || 51 || ūrdhvaṃ jagāma taccāstraṃ pralayāgniśikhopamam | papāta śaṅ‌khacūḍaśca bhaktyā taṃ daṇḍavad‌bhuvi || 52 || brahmāstraṃ sā ca cikṣepa yat‍nato mantrapūrvakam | brahmāstreṇa mahārājo nirvāpaṃ ca cakāra saḥ || 53 || tadā cikṣepa divyāstraṃ sā devī mantrapūrvakam | rājā divyāstrajālena tannirvāṇaṃ cakāra ca || 54 || tadā cikṣepa śaktiṃ ca yat‍nato yojanāyatām | rājā divyāstrajālena śatakhaṇḍāṃ cakāra ha || 55 || jagrāha mantrapūtaṃ ca devī pāśupataṃ ruṣā | nikṣepaṇaṃ niroddhuṃ ca vāgbabhūvāśarīriṇī || 56 || mṛtyuḥ pāśupate nāsti nṛpasya ca mahātmanaḥ | yāvadasti ca mantrasya kavacaṃ ca hareriti || 57 || yāvatsatītvamastyeva satyāśca nṛpayoṣitaḥ | tāvadasya jarāmṛtyurnāstīti brahmaṇo vacaḥ || 58 || ityākarṇya bhadrakālī na taccikṣepa śastrakam | śatalakṣaṃ dānavānāṃ jagrāsa līlayā kṣudhā || 59 || grastuṃ jagāma vegena śaṅ‌khacūḍaṃ bhayaṅ‌karī | divyāstreṇa sutīkṣṇena vārayāmāsa dānavaḥ || 60 || khaḍgaṃ cikṣepa sā devī grīṣmasūryopamaṃ yathā | divyāstreṇa dānavendraḥ śatakhaṇḍaṃ cakāra saḥ || 61 || punargrastuṃ mahādevī vegena ca jagāma tam | sarvasiddheśvaraḥ śrīmānvavṛdhe dānaveśvaraḥ || 62 || vegena muṣṭinā kālī kopayuktā bhayaṅ‌karī | babhañja ca rathaṃ tasya jaghāna sārathiṃ satī || 63 || sā ca śūlaṃ pracikṣepa pralayāgniśikhopamam | vāmahastena jagrāha śaṅ‌khacūḍaḥ svalīlayā || 64 || muṣṭyā jaghāna taṃ devī mahākopena vegataḥ | babhrāma ca tayā daityaḥ kṣaṇaṃ mūrcchāmavāpa ca || 65 || kṣaṇena cetanāṃ prāpya samuttasthau pratāpavān | na cakāra bāhuyuddhaṃ devyā saha nanāma tām || 66 || devyāścāstraṃ sa ciccheda jagrāha ca svatejasā | nāstraṃ cikṣepa tāṃ bhakto mātṛbhaktyā tu vaiṣṇavaḥ || 67 || gṛhītvā dānavaṃ devī bhrāmayitvā punaḥ punaḥ | ūrdhvaṃ ca prāpayāmāsa mahāvegena kopitā || 68 || ūrdhvātpapāta vegena śaṅ‌khacūḍaḥ pratāpavān | nipatya ca samuttasthau praṇamya bhadrakālikām || 69 || rat‍nendrasāranirmāṇaṃ vimānaṃ sumanoharam | āruroha harṣayukto na viśrānto mahāraṇe || 70 || dānavānāṃ ca kṣatajaṃ sā devī ca papau kṣudhā | pītvā bhuktvā bhadrakālī jagāma śaṅkarāntikam || 71 || uvāca raṇavṛttāntaṃ paurvāparyaṃ yathākramam | śrutvā jahāsa śambhuśca dānavānāṃ vināśanam || 72 || lakṣaṃ ca dānavendrāṇāmavaśiṣṭaṃ raṇe'dhunā | bhuñjantyā nirgataṃ vaktrāttadanyaṃ bhuktamīśvara || 73 || saṃgrāme dānavendraṃ ca hantuṃ pāśupatena vai | avadhyastava rājeti vāgbabhūvāśarīriṇī || 74 || rājendraśca mahājñānī mahābalaparākramaḥ | na ca cikṣepa mayyastraṃ ciccheda mama sāyakam || 75 ||

English translation

1-75. S’n Narayana spoke Then the King of the Danavas, very powerful, bowed down to Mahadeva and ascended on the chariot with his ministers. Mahadeva gave orders to His army to be ready at once. So S’ankhachuda did. Terrible fight then ensued between Mahendra and Vrisaparva, Bhaskara and Viprachitti, Nis’akara and Dambha, between Kala and KalesVara, between Fire and Gokarna, Kuvera and Kalakeya, between VisVakarma and Maya, between Mrityu and Bhayamkar, between Yama and Samhara, between Varuna and Vikamka, between Budha and Dhritapristha, between S’ani and Raktaksa, Jayanta and Ratnasara, between the Vasus and Varchasas, between the two AsVin Kumaras and Diptiman, between Nalakubara and Dhumra, between Dharma and Dhurandhara, between Mangala and Usaksa, Bhanu and S’ovakara, between Kandarpa and Pithara, between the eleven Adityas and Godhamukha, Churna and Khadgadhvaja, Kahchimukha and Pinda, Dhumra and Nandi, between VisVa and Palas’a, between the eleven Rudras and the eleven Bhayamkaras, between Ugrachanda and the other Mahamaris and NandisVara and the other Danavas. The battlefield, then, assumed a grim aspect, as if the time of Dissolution had come. Bhagavan Mahadeva sat under the Vata (peepul) tree with Kartikeya and Bhadrakali. S’ankhachuda, decked with his jewel ornaments, sat on the jewel throne, surrounded by kotis and kotis of Danavas. The S’ankara’s army got defeated at the hands of the Danavas. The Devas, with cuts and wounds on their bodies, fled from the battlefield, terrified. Kartikeya gave words “Don't fear” to the Devas and excited them. Only Skanda resisted the Danava forces.

In one moment he slew one hundred Aksauhini Danava forces. The lotus eyed Kali also engaged in killing the Asuras. She became very angry and no sooner did She slay the Asura forces, than She began to drink their blood. She easily slew with Her one hand and at every time put into Her mouth ten lakhs, and hundred lakhs and Kotis and

Kotis of elephants. Thousands and thousands of headless bodies (Kavandhas) came to be witnessed in the field. The bodies of the Danavas were all cut and wounded by the arrows of Kartikeya. They were all terrified and fled away. Only Vrisaparva, Viprachitti,

Dambha, and Vikamkanah remained fighting with Skanda with an heroic valour. Mahamari, too, did not shew his back and he fought out vigorously. By and by they all became very much confused and distressed; but they did not turn their backs. Seeing this terrible fight of Skanda, the Devas began to shower flowers. The killing of the Danavas looked like a Prakritik Dissolution. S’ankhachuda, then, began to shoot arrows from his chariot.

The shooting of arrows by the king seemed as if rains were being poured in by the clouds. Everything became pitch dark. Fires only were seen emitting their golden tongues. The Devas, NandisVara and others, fled away, terrified. Only Kartikeya remained in the battlefield. Then S’ankhachuda began to throw terribly showers and showers of mountains, snakes, stones, and trees. So much so, that Kartikeya was covered by them as the Sun becomes obscured by fog. The Demon King cut off the weighty quiver and the pedestal of Skanda and broke His chariot. By the divine weapons of the Danava, the peacock (the vehicle) of Kartikeya became exhausted. Kartikeya threw one S’akti (weapon) on the breast of the Danava; but before it fell, the Danava cut off that, lustrous like the Sun and, in return, darted his S’akti. By that stroke, Kartikeya became stunned for a moment; but he immediately regained his consciousness. He then took up the quiver that Bhagavan Visnu gave him before and many other weapons; and ascending on another chariot, built of jewels, began to fight out violently and valiantly. Getting angry, he resisted all those showers of snakes, mountains and trees by his divine weapons. He resisted fire by his watery (Paryannya) weapon. Then He cut off easily S’ankhachuda’s chariot, bow, armour, charioteer, and his bright crown and he threw on his breast one blazing S’akti of white colour. The Danavendra fell unconscious; but, at the next

moment, he regained his consciousness quickly, mounted on another chariot and took a fresh quiver. The Danava was the foremost in his magic powers. He, by his power of Maya, made a shower of arrows so much so that Kartikeya became completely covered by that multitude of arrows. Then the Danava took one invincible S’akti, lustrous like one hundred Suns. It seemed that flames of fire were licking high as if the Dissolution Time had come aright. Inflamed by anger, the Danava threw that S’akti on Kartikeya. It seemed, then, that a burning mass of fire fell on him. The powerful Kartikeya became senseless. Bhadrakali immediately took Him on Her lap and carried him before S’iva. S’iva easily restored him to his life by his knowledge-power and gave him the indomitable strength. He then got up in full vigour. Bhadrakali went to the field to see the Kartikeya’s forces. Nandis’vara and other heroes, the Devas, Gandharbas, Yaksas, Raksasas and Kinnaras followed Her. Hundreds of war drums were sounded and hundreds of persons carried Madhu (wine). Going to the battle-ground. She gave a war- cry. The Danava forces got fainted by that cry. Bhadrakali shouted aloud inauspicious peals after peals of laughter. Then She drank Madhu and danced in the battlefield. Ugra Damstra, Ugrachanda, Kotavi, the Yoginis, Dakinis, and the Devas all drank Madhu (wine). Seeing Kali in the battlefield, S’ankhachuda came up again and imparted the spirit of Fearlessness to the Daityas, trembling with fear. Bhadrakali projected, then, the Fire weapon, flaming like the Great Dissolution Fire; but the king quickly put out that by the Watery weapon. Kali then projected the very violent and wonderful Varunastra. The Danava cut off that easily with Gandharbastra. Kali then threw the flame-like Mahes’varastra. The king made it futile by the Vaisnavastra. Then the Devi purifying the Narayanastra with the mantra, threw it on the king. At this the king instantly alighted from his chariot and bowed down to it. The Narayanastra rose high up like the Dissolution Fire. S’ankhachuda fell prostrate on the ground with devotion. The Devi threw, then, the Brahmastra, purifying it with Mantra. But it was rendered futile by the Danava’s Brahmastra. The Devi again shot the divine weapons purifying them with mantras; but they also were nullified by the divine weapons of the Danava. Then

BhadrakalT threw one S’akti extending to one Yojana. The Daitya cut it to pieces by his divine weapon. The Devi, then, being very much enraged, became ready to throw Pas’upata Astra, when the Incorporeal Voice was heard from the Heavens, prohibiting Her, and saying, “O Devi! The high-souled Danava would not be killed by the Pas’upata weapon. For Brahma granted him this boon that until the Visnu’s Kavacha will remain on his neck and until his wife’s chastity be not violated, old age and death will not be able to touch him.” Hearing this Celestial Voice, the Devi at once desisted. But She, out of hunger, devoured hundreds and lakhs of Danavas. The terrible Devi Kali, then, went with great speed to devour S’ankhachuda but the Danava resisted Her by his sharp divine weapons. The Devi then threw on him a powerful axe, lustrous like a summer Sun; but the Danava cut it to pieces by his divine weapon. The Devi seeing this, became very angry and proceeded to devour him; but the Danava King, the Lord of all Siddhis, expanded his body. At this. Kali became violently angry and assuming a terrific appearance, went quickly and with the blow of one fist, broke his chariot and dropped down the charioteer. Then she hurled on the Asura one S’ula weapon, blazing like a Pralaya Fire. S’ankhachuda easily held that by his left hand. The Devi became angry and struck the Danava with Her fist; the Daitya’s head reeled, and, rolling, he fell unconscious for a moment. Next moment regaining his consciousness he got up. But he did not fight hand to hand with the Devi. Rather he bowed down to Her. The weapons that the Devi threw afterwards were partly cut down by the Danava and partly taken up by him and absorbed in him and thus rendered futile. Then BhadrakalT caught bold of the Danava and whirling him round and round threw him aloft. Then the powerful S’ankhachuda fell down on the ground from high with great force; he immediately

got up and bowed down to Her. He then gladly ascended on his beautiful chariot, built of excellent jewels. He did not feel any fatigue with the war and went on fighting. Then the DevT BhadrakalT, feeling hungry began to drink the blood of the Danavas and ate the fat and flesh. She came before Mahadeva and described to Him the whole

history of the warfare from beginning to end. Hearing the killing of the Danavas, Mahadeva began to laugh. She went on saying, “The Danavas that get out of my mouth while I was chewing them, are the only ones that are living. This number will be about one lakh. And when I took up the Pas’upata weapon to kill the Danava, the Incorporeal Celestial Voice spoke He is invulnerable by you. But the very powerful Danava did no more fling any weapon on Me. He simply cut to pieces those that I threw on him.”

Here ends the Twenty-Second Chapter in the Ninth Book on the fight between the Devas and S’ankhachuda in the Mahapuranam S’ri Mad Devi Bhagavatam of 18,000 verses by Maharsi Veda Vyasa.

Complete chapter-aligned witnesses. Sanskrit Wikisource page 24510, revision 75094 (2016-07-25T03:22:49Z). English is Swami Vijñanananda’s complete 1921–23 public-domain translation, controlled against the archival OCR and its chapter page at https://sacred-texts.com/hin/db/bk09ch22.htm. Historic spelling and transliteration are lightly normalized; no verse-by-verse alignment is asserted.