Tenth Skandha · Chapter 13
Sourceश्रीनारायण उवाच अथातः श्रूयतां शेषमनूनां चित्रमुद्भवम् । यस्य स्मरणमात्रेण देवीभक्तिः प्रजायते ॥ १ ॥ आसन्वैवस्वतमनोः पुत्राः षड् विमलोदयाः । करूषश्च पृषध्रश्च नाभागो दिष्ट एव च ॥ २ ॥ शर्यातिश्च त्रिशङ्कुश्च सर्व एव महाबलाः । ततः षडेव ते गत्वा कालिन्द्यास्तीरमुत्तमम् ॥ ३ ॥ निराहारा जितश्वासाः पूजां चक्रुस्ततः स्थिताः । देव्या महीमयीं मूर्तिं विनिर्माय पृथक्पृथक् ॥ ४ ॥ विविधैरुपचारैस्तां पूजयामासुरादृताः । ततश्च सर्व एवैते तपःसारा महाबलाः ॥ ५ ॥ जीर्णपर्णाशना वायुभक्षणास्तोयजीवनाः । धूम्रपाना रश्मिपानाः क्रमशश्च बहुश्रमाः ॥ ६ ॥ ततस्तेषामादरेणाराधनं कुर्वतां सदा । विमला मतिरुत्पन्ना सर्वमोहविनाशिनी ॥ ७ ॥ बभूवुर्मनुपुत्रास्ते देवीपादैकचिन्तनाः । मत्या विमलया तेषामात्मन्येवाखिलं जगत् ॥ ८ ॥ दर्शनं सञ्जगामाशु तदद्भुतमिवाभवत् । एवं द्वादशवर्षान्ते तपसा जगदीश्वरी ॥ ९ ॥ प्रादुर्बभूव देवेशी सहस्रार्कसमद्युतिः । तां दृष्ट्वा विमलात्मानो राजपुत्राः षडेव ते ॥ १० ॥ तुष्टुवुर्भक्तिनम्रान्तःकरणा भावसंयुताः । राजपुत्रा ऊचुः महेश्वरि जयेशानि परमे करुणालये ॥ ११ ॥ वाग्भवाराधनप्रीते वाग्भवप्रतिपादिते । क्लींकारविग्रहे देवि क्लींकारप्रीतिदायिनि ॥ १२ ॥ कामराजमनोमोददायिनीश्वरतोषिणि । महामाये मोदपरे महासाम्राज्यदायिनि ॥ १३ ॥ विष्ण्वर्कहरशक्रादिस्वरूपे भोगवर्धिनि । एवं स्तुता भगवती राजपुत्रैर्महात्मभिः ॥ १४ ॥ प्रसादसुमुखी देवी प्रोवाच वचनं शुभम् । देव्युवाच राजपुत्रा महात्मानो भवन्तस्तपसा युताः ॥ १५ ॥ निष्कल्मषाः शुद्धधियो जाता वै मदुपासनात् । वरं मनोगतं सर्वं याचध्वमविलम्बितम् ॥ १६ ॥ प्रसन्नाहं प्रदास्यामि युष्माकं मनसि स्थितम् । राजपुत्रा ऊचुः देवि निष्कण्टकं राज्यं सन्ततिश्चिरजीविनी ॥ १७ ॥ भोगा अव्याहता कामं यशस्तेजो मतिश्च ह । अकुण्ठितत्वं सर्वेषामेष एव वरो हितः ॥ १८ ॥ देव्युवाच एवमस्तु च सर्वेषां भवतां यन्मनोगतम् । अथान्यदपि मे वाक्यं भूयतामादरादिदम् ॥ १९ ॥ भवन्तः सर्व एवैते मन्वन्तरपतीश्वराः । सन्तत्या दीर्घया भोगैरनेकैरपि सङ्गमः ॥ २० ॥ अखण्डितबलैश्वर्यं यशस्तेजोविभूतयः । भवितारो मत्प्रसादाद्राजपुत्राः क्रमेण तु ॥ २१ ॥ श्रीनारायण उवाच एवं तेभ्यो वरान्दत्त्वा भ्रामरी जगदम्बिका । अन्तर्धानं जगामाशु भक्त्या तैः संस्तुता सती ॥ २२ ॥ ते राजपुत्राः सर्वेऽपि तस्मिञ्जन्मन्यनुत्तमम् । राज्यं महीगतान्भोगान्बुभुजुश्च महौजसः ॥ २३ ॥ सन्ततिं चाखण्डितां ते समुत्पाद्य महीतले । वंशं संस्थाप्य सर्वेऽपि मनूनां पतयोऽभवन् ॥ २४ ॥ भवान्तरे क्रमेणैव सावर्णिपदभागिनः । प्रथमो दक्षसावर्णिर्नवमो मनुरीरितः ॥ २५ ॥ अव्याहतबलो देव्याः प्रसादादभवद्विभुः । द्वितीयो मेरुसावर्णिर्दशमो मनुरेव च ॥ २६ ॥ बभूव मन्वन्तरपो महादेवीप्रसादतः । तृतीयो मनुराख्यातः सूर्यसावर्णिनामकः ॥ २७ ॥ एकादशो महोत्साहस्तपसा स्वेन भावितः । चतुर्थश्चन्द्रसावर्णिर्द्वादशो मनुराड् विभुः ॥ २८ ॥ देवीसमाराधनेन जातो मन्वन्तरेश्वरः । पञ्चमो रुद्रसावर्णिस्त्रयोदशमनुः स्मृतः ॥ २९ ॥ महाबलो महासत्त्वो बभूव जगदीश्वरः । षष्ठश्च विष्णुसावर्णिश्चतुर्दशमनुः कृती ॥ ३० ॥ बभूव देवीवरतो जगतां प्रथितः प्रभुः । चतुर्दशैते मनवो महातेजोबलैर्युताः ॥ ३१ ॥ देव्याराधनतः पूज्या वन्द्या लोकेषु नित्यशः । महाप्रतापिनः सर्वे भ्रामर्यास्तु प्रसादतः ॥ ३२ ॥ नारद उवाच केयं सा भ्रामरी देवी कथं जाता किमात्मिका । तदाख्यानं वद प्राज्ञ विचित्रं शोकनाशकम् ॥ ३३ ॥ न तृप्तिमधिगच्छामि पिबन्देवीकथामृतम् । अमृतं पिबतां मृत्युर्नास्य श्रवणतो यतः ॥ ३४ ॥ श्रीनारायण उवाच शृणु नारद वक्ष्यामि जगन्मातुर्विचेष्टितम् । अचिन्त्याव्यक्तरूपाया विचित्रं मोक्षदायकम् ॥ ३५ ॥ यद्यच्चरित्रं श्रीदेव्यास्तत्सर्वं लोकहेतवे । निर्व्याजया करुणया पुत्रे मातुर्यथा तथा ॥ ३६ ॥ पूर्वं दैत्यो महानासीदरुणाख्यो महाबलः । पाताले दैत्यसंस्थाने देवद्वेषी महाखलः ॥ ३७ ॥ स देवाञ्जेतुकामश्च चकार परमं तपः । पद्मसम्भवमुद्दिश्य स नस्त्राता भविष्यति ॥ ३८ ॥ गत्वा हिमवतः पार्श्वे गङ्गाजलसुशीतले । पक्वपर्णाशनो योगी सन्निरुध्य मरुद्गणम् ॥ ३९ ॥ गायत्रीजपसंसक्तः सकामस्तमसा युतः । दशवर्षसहस्राणि ततो वारिकणाशनः ॥ ४० ॥ दशवर्षसहस्राणि ततः पवनभोजनः । दशवर्षसहस्राणि निराहारोऽभवत्ततः ॥ ४१ ॥ एवं तपस्यतस्तस्य शरीरादुत्थितोऽनलः । ददाह जगतीं सर्वां तदद्भुतमिवाभवत् ॥ ४२ ॥ किमिदं किमिदं चेति देवाः सर्वे चकम्पिरे । सन्त्रस्ताः सकला लोका ब्रह्माणं शरणं ययुः ॥ ४३ ॥ विज्ञापितं देववरैः श्रुत्वा तत्र चतुर्मुखः । गायत्रीसहितो हंससमारूढो ययौ मुदा ॥ ४४ ॥ प्राणमात्रावशिष्टं तं धमनीशतसङ्कुलम् । शुष्कोदरं क्षामगात्रं ध्यानमीलितलोचनम् ॥ ४५ ॥ ददर्श तेजसा दीप्तं द्वितीयमिव पावकम् । वरं वरय भद्रं ते वत्स यन्मनसि स्थितम् ॥ ४६ ॥ श्रुतिमात्रेण सन्तोषकारकं वाक्यमूचिवान् । श्रुत्वा ब्रह्ममुखाद्वाणीं सुधाधारामिवारुणः ॥ ४७ ॥ उन्मीलिताक्षः पुरतो ददर्श जलजोद्भवम् । गायत्रीसहितं देवं चतुर्वेदसमन्वितम् ॥ ४८ ॥ अक्षस्रक्कुण्डिकाहस्तं जपन्तं ब्रह्म शाश्वतम् । दृष्ट्वोत्थाय ननामाथ स्तुत्वा च विविधैः स्तवैः ॥ ४९ ॥ वरं वव्रे स्वबुद्धिस्थं मा भवेन्मृत्युरित्यपि । श्रुत्वारुणवचो ब्रह्मा बोधयामास सादरम् ॥ ५० ॥ ब्रह्मविष्णुमहेशाद्या मृत्युना कवलीकृताः । तदान्येषां तु का वार्ता मरणे दानवोत्तम ॥ ५१ ॥ वरं योग्यं ततो ब्रूहि दातुं यः शक्यते मया । नात्राग्रहं प्रकुर्वन्ति बुद्धिमन्तो जनाः क्वचित् ॥ ५२ ॥ इति ब्रह्मवचः श्रुत्वा पुनः प्रोवाच सादरम् । न युद्धे न च शस्त्रास्त्रान्न पुंभ्यो नापि योषितः ॥ ५३ ॥ द्विपाद्भ्यो वा चतुष्पाद्भ्यो नोभयाकारतस्तथा । भवेन्मे मृत्युरित्येवं देव देहि वरं प्रभो ॥ ५४ ॥ बलं च विपुलं देहि येन देवजयो भवेत् । इति तस्य वचः श्रुत्वा तथास्त्विति वचोऽब्रवीत् ॥ ५५ ॥ दत्त्वा वरं जगामाशु पद्मजः स्वं निकेतनम् । ततोऽरुणाख्यो दैत्यस्तु पातालात्स्वाश्रयस्थितान् ॥ ५६ ॥ दैत्यानाकारयामास ब्रह्मणो वरदर्पितः । आगत्य तेऽसुराः सर्वे दैत्येशं तं प्रचक्रिरे ॥ ५७ ॥ दूतं च प्रेषयामासुर्युद्धार्थममरावतीम् । दूतवाक्यं तदा श्रुत्वा देवराड् भयकम्पितः ॥ ५८ ॥ देवैः सार्धं जगामाशु ब्रह्मणः सदनं प्रति । ब्रह्मविष्णू पुरस्कृत्य जग्मुस्ते शङ्करालयम् ॥ ५९ ॥ विचारं चक्रिरे तत्र वधार्थं ते सुरद्रुहाम् । एतस्मिन्समये तत्र दैत्यसेनासमावृतः ॥ ६० ॥ अरुणाख्यो दैत्यराजो जगामाशु त्रिविष्टपम् । सूर्येन्दुयमवह्नीनामधिकारान्पृथक्पृथक् ॥ ६१ ॥ स्वयं चकार तपसा नानारूपधरो मुने । स्वस्वस्थानच्युताः सर्वे जग्मुः कैलासमण्डलम् ॥ ६२ ॥ शशंसुः शङ्करं देवाः स्वस्वदुःखं पृथक्पृथक् । महान् विचारस्तत्रासीत्किं कर्तव्यमतः परम् ॥ ६३ ॥ न युद्धेन च शस्त्रास्त्रैर्न पुंभ्यो नापि योषितः । द्विपाद्भ्यो वा चतुष्पाद्भ्यो नोभयाकारतोऽपि वा ॥ ६४ ॥ मृत्युर्भवेदिति ब्रह्मा प्रोवाच वचनं यतः । इति चिन्तातुराः सर्वे कर्तुं किञ्चिन्न च क्षमाः ॥ ६५ ॥ एतस्मिन्समये तत्र वागभूदशरीरिणी । भजध्वं भुवनेशानीं सा वः कार्यं विधास्यति ॥ ६६ ॥ गायत्रीजपसंसक्तो दैत्यराड् यदि तां त्यजेत् । मृत्युयोग्यस्तदा भूयादित्युच्चैस्तोषकारिणी ॥ ६७ ॥ श्रुत्वा दैवीं तथा वाणीं मन्त्रयामासुरादृताः । बृहस्पतिं समाहूय वचनं प्राह देवराट् ॥ ६८ ॥ गुरो गच्छ सुराणां तु कार्यार्थमसुरं प्रति । यथा भवेच्च गायत्रीत्यागस्तस्य तथा कुरु ॥ ६९ ॥ अस्माभिः परमेशानी सेव्यते ध्यानयोगतः । प्रसन्ना सा भगवती साहाय्यं ते करिष्यति ॥ ७० ॥ इत्यादिश्य गुरुं सर्वे जग्मुर्जाम्बूनदेश्वरीम् । सास्मान्दैत्यभयत्रस्तान् पालयिष्यति शोभना ॥ ७१ ॥ तत्र गत्वा तपश्चर्यां चक्रुः सर्वे सुनिष्ठिताः । मायाबीजजपासक्ता देवीमखपरायणाः ॥ ७२ ॥ बृहस्पतिस्तदा शीघ्रं जगामासुरसन्निधौ । आगतं मुनिवर्यं तं पप्रच्छाथ स दैत्यराट् ॥ ७३ ॥ मुने कुत्रागमः कस्मात्किमर्थमिति मे वद । नाहं युष्मत्पक्षपाती प्रत्युतारातिरेव च ॥ ७४ ॥ इति तस्य वचः श्रुत्वा प्रोवाच मुनिनायकः । अस्मत्सेव्या च या देवी सा त्वया पूज्यतेऽनिशम् ॥ ७५ ॥ तस्मादस्मत्पक्षपाती न भवेस्त्वं कथं वद । इति तस्य वचः श्रुत्वा मोहितो देवमायया ॥ ७६ ॥ तत्याज परमं मन्त्रमभिमानेन सत्तम । गायत्रीत्यागतो दैत्यो निस्तेजस्को बभूव ह ॥ ७७ ॥ कृतकार्यो गुरुस्तस्मात्स्थानान्निर्गतवान्पुनः । ततो वृत्तान्तमखिलं कथयामास वज्रिणे ॥ ७८ ॥ संतुष्टास्ते सुराः सर्वे भेजिरे परमेश्वरीम् । एवं बहुगते काले कस्मिंश्चित्समये मुने ॥ ७९ ॥ प्रादुरासीज्जगन्माता जगन्मङ्गलकारिणी । कोटिसूर्यप्रतीकाशा कोटिकन्दर्पसुन्दरी ॥ ८० ॥ चित्रानुलेपना देवी चित्रवासोयुगान्विता । विचित्रमाल्याभरणा चित्रभ्रमरमुष्टिका ॥ ८१ ॥ वराभयकरा शान्ता करुणामृतसागरा । नानाभ्रमरसंयुक्तपुष्पमालाविराजिता ॥ ८२ ॥ भ्रामरीभिर्विचित्राभिरसंख्याभिः समावृता । भ्रमरैर्गायमानैश्च ह्रींकारमनुमन्वहम् ॥ ८३ ॥ समन्ततः परिवृता कोटिकोटिभिरम्बिका । सर्वशृङ्गारवेषाढ्या सर्ववेदप्रशंसिता ॥ ८४ ॥ सर्वात्मिका सर्वमयी सर्वमङ्गलरूपिणी । सर्वज्ञा सर्वजननी सर्वा सर्वेश्वरी शिवा ॥ ८५ ॥ दृष्ट्वा तां तरलात्मानो देवा ब्रह्मपुरोगमाः । तुष्टुवुर्हृष्टमनसो विष्टरश्रवसां शिवाम् ॥ ८६ ॥ देवा ऊचुः नमो देवि महाविद्ये सृष्टिस्थित्यन्तकारिणि । नमः कमलपत्राक्षि सर्वाधारे नमोऽस्तु ते ॥ ८७ ॥ सविश्वतैजसप्राज्ञविराट्सूत्रात्मिके नमः । नमो व्याकृतरूपायै कूटस्थायै नमो नमः ॥ ८८ ॥ दुर्गे सर्गादिरहिते दुष्टसंरोधनार्गले । निरर्गलप्रेमगम्ये भर्गे देवि नमोऽस्तु ते ॥ ८९ ॥ नमः श्रीकालिके मातर्नमो नीलसरस्वति । उग्रतारे महोग्रे ते नित्यमेव नमो नमः ॥ ९० ॥ नमः पीताम्बरे देवि नमस्त्रिपुरसुन्दरि । नमो भैरवि मातङ्गि धूमावति नमो नमः ॥ ९१ ॥ छिन्नमस्ते नमस्तेऽस्तु क्षीरसागरकन्यके । नमः शाकम्भरि शिवे नमस्ते रक्तदन्तिके ॥ ९२ ॥ निशुम्भशुम्भदलनि रक्तबीजविनाशिनि । धूम्रलोचननिर्णाशे वृत्रासुरनिबर्हिणि ॥ ९३ ॥ चण्डमुण्डप्रमथिनि दानवान्तकरे शिवे । नमस्ते विजये गङ्गे शारदे विकचानने ॥ ९४ ॥ पृथ्वीरूपे दयारूपे तेजोरूपे नमो नमः । प्राणरूपे महारूपे भूतरूपे नमोऽस्तु ते ॥ ९५ ॥ विश्वमूर्ते दयामूर्ते धर्ममूर्ते नमो नमः । देवमूर्ते ज्योतिमूर्ते ज्ञानमूर्ते नमोऽस्तु ते ॥ ९६ ॥ गायत्रि वरदे देवि सावित्रि च सरस्वति । नमः स्वाहे स्वधे मातर्दक्षिणे ते नमो नमः ॥ ९७ ॥ नेति नेतीति वाक्यैर्या बोध्यते सकलागमैः । सर्वप्रत्यक्स्वरूपां तां भजामः परदेवताम् ॥ ९८ ॥ भ्रमरैर्वेष्टिता यस्माद् भ्रामरी या ततः स्मृता । तस्यै देव्यै नमो नित्यं नित्यमेव नमो नमः ॥ ९९ ॥ नमस्ते पार्श्वयोः पृष्ठे नमस्ते पुरतोऽम्बिके । नम ऊर्ध्वं नमश्चाधः सर्वत्रैव नमो नमः ॥ १०० ॥ कृपां कुरु महादेवि मणिद्वीपाधिवासिनि । अनन्तकोटिब्रह्माण्डनायिके जगदम्बिके ॥ १०१ ॥ जय देवि जगन्मातर्जय देवि परात्परे । जय श्रीभुवनेशानि जय सर्वोत्तमोत्तमे ॥ १०२ ॥ कल्याणगुणरत्नानामाकरे भुवनेश्वरि । प्रसीद परमेशानि प्रसीद जगतोरणे ॥ १०३ ॥ श्रीनारायण उवाच इति देववचः श्रुत्वा प्रगल्भं मधुरं वचः । उवाच जगदम्बा सा मत्तकोकिलभाषिणी ॥ १०४ ॥ देव्युवाच प्रसन्नाहं सदा देवा वरदेशशिखामणिः । ब्रुवन्तु विबुधाः सर्वे यदेव स्याच्चिकीर्षितम् ॥ १०५ ॥ देवीवाक्यं सुराः श्रुत्वा प्रोचुर्दुःखस्य कारणम् । दुष्टदैत्यस्य चरितं जगद्बाधाकरं परम् ॥ १०६ ॥ देवब्राह्मणवेदानां हेलनं नाशनं तथा । स्थानभ्रंशं सुराणां च कथयामासुरादृताः ॥ १०७ ॥ ब्रह्मणो वरदानं च यथावत्ते समूचिरे । श्रुत्वा देवमुखाद्वाणीं महाभगवती तदा ॥ १०८ ॥ प्रेरयामास हस्तस्थान्भ्रमरान्भ्रामरी तदा । पार्श्वस्थानग्नभागस्थान्नानारूपधरांस्तथा ॥ १०९ ॥ जनयामास बहुशो यैर्व्याप्तं भुवनत्रयम् । मटचीयूथवत्तेषां समुदायस्तु निर्गतः ॥ ११० ॥ तदान्तरिक्षं तैर्व्याप्तमन्धकारः क्षितावभूत् । दिवि पर्वतशृङ्गेषु द्रुमेषु विपिनेष्वपि ॥ १११ ॥ भ्रमरा एव सञ्जातास्तदद्भुतमिवाभवत् । ते सर्वे दैत्यवक्षांसि दारयामासुरुद्गताः ॥ ११२ ॥ नरं मधुहरं यद्वन्मक्षिकाः कोपसंयुताः । उपायो न च शस्त्राणां तथास्त्राणां तदाभवत् ॥ ११३ ॥ न युद्धं न च सम्भाषा केवलं मरणं खलु । यस्मिन्यस्मिन्स्थले ये ये स्थिता दैत्या यथा यथा ॥ ११४ ॥ तत्रैव च तथा सर्वे मरणं प्रापुरुत्स्मयाः । परस्परं समाचारो न कस्याप्यभवत्तदा ॥ ११५ ॥ क्षणमात्रेण ते सर्वे विनष्टा दैत्यपुङ्गवाः । कृत्वेत्थं भ्रमराः कार्यं देवीनिकटमाययुः ॥ ११६ ॥ आश्चर्यमेतदाश्चर्यमिति लोकाः समूचिरे । किं चित्रं जगदम्बाया यस्या मायेयमीदृशी ॥ ११७ ॥ ततो देवगणाः सर्वे ब्रह्मविष्णुपुरोगमाः । निमग्ना हर्षजलधौ पूजयामासुरम्बिकाम् ॥ ११८ ॥ नानोपचारैर्विविधैर्नानोपायनपाणयः । जयशब्दं प्रकुर्वाणा मुमुचुः सुमनांसि च ॥ ११९ ॥ दिवि दुन्दुभयो नेदुर्ननृतुश्चाप्सरोगणाः । पेठुर्वेदान्मुनिश्रेष्ठा गन्धर्वाद्या जगुस्तथा ॥ १२० ॥ मृदङ्गमुरजावीणाढक्काडमरुनिःस्वनैः । घण्टाशङ्खनिनादैश्च व्याप्तमासीज्जगत्त्रयम् ॥ १२१ ॥ नानास्तोत्रैस्तदा स्तुत्वा मूर्ध्न्याधायाज्जलींस्तथा । जय मातर्जयेशानीत्येवं सर्वे समूचिरे ॥ १२२ ॥ ततस्तुष्टा महादेवी वरान्दत्त्वा पृथक्पृथक् । स्वस्मिंश्च विपुलां भक्तिं प्रार्थिता तैर्ददौ च ताम् ॥ १२३ ॥ पश्यतामेव देवानामन्तर्धानं गता ततः । इति ते सर्वमाख्यातं भ्रामर्याश्चरितं महत् ॥ १२४ ॥ पठतां शृण्वतां चैव सर्वपापप्रणाशनम् । श्रुतमाश्चर्यजनकं संसारार्णवतारकम् ॥ १२५ ॥ एवं मनूनां सर्वेषां चरितं पापनाशनम् । देवीमाहात्म्यसंयुक्तं पठञ्शृण्वञ्शुभप्रदम् ॥ १२६ ॥ यश्चैतत्पठते नित्यं शृणुयाद्योऽनिशं नरः । सर्वपापविनिर्मुक्तो देवीसायुज्यमाप्नुयात् ॥ १२७ ॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां दशमस्कन्धे भ्रामरीचरित्रवर्णनं नाम त्रयोदशोऽध्यायः ॥ १३ ॥
śrīnārāyaṇa uvāca athātaḥ śrūyatāṃ śeṣamanūnāṃ citramudbhavam | yasya smaraṇamātreṇa devībhaktiḥ prajāyate || 1 || āsanvaivasvatamanoḥ putrāḥ ṣaḍ vimalodayāḥ | karūṣaśca pṛṣadhraśca nābhāgo diṣṭa eva ca || 2 || śaryātiśca triśaṅkuśca sarva eva mahābalāḥ | tataḥ ṣaḍeva te gatvā kālindyāstīramuttamam || 3 || nirāhārā jitaśvāsāḥ pūjāṃ cakrustataḥ sthitāḥ | devyā mahīmayīṃ mūrtiṃ vinirmāya pṛthakpṛthak || 4 || vividhairupacāraistāṃ pūjayāmāsurādṛtāḥ | tataśca sarva evaite tapaḥsārā mahābalāḥ || 5 || jīrṇaparṇāśanā vāyubhakṣaṇāstoyajīvanāḥ | dhūmrapānā raśmipānāḥ kramaśaśca bahuśramāḥ || 6 || tatasteṣāmādareṇārādhanaṃ kurvatāṃ sadā | vimalā matirutpannā sarvamohavināśinī || 7 || babhūvurmanuputrāste devīpādaikacintanāḥ | matyā vimalayā teṣāmātmanyevākhilaṃ jagat || 8 || darśanaṃ sañjagāmāśu tadadbhutamivābhavat | evaṃ dvādaśavarṣānte tapasā jagadīśvarī || 9 || prādurbabhūva deveśī sahasrārkasamadyutiḥ | tāṃ dṛṣṭvā vimalātmāno rājaputrāḥ ṣaḍeva te || 10 || tuṣṭuvurbhaktinamrāntaḥkaraṇā bhāvasaṃyutāḥ | rājaputrā ūcuḥ maheśvari jayeśāni parame karuṇālaye || 11 || vāgbhavārādhanaprīte vāgbhavapratipādite | klīṃkāravigrahe devi klīṃkāraprītidāyini || 12 || kāmarājamanomodadāyinīśvaratoṣiṇi | mahāmāye modapare mahāsāmrājyadāyini || 13 || viṣṇvarkaharaśakrādisvarūpe bhogavardhini | evaṃ stutā bhagavatī rājaputrairmahātmabhiḥ || 14 || prasādasumukhī devī provāca vacanaṃ śubham | devyuvāca rājaputrā mahātmāno bhavantastapasā yutāḥ || 15 || niṣkalmaṣāḥ śuddhadhiyo jātā vai madupāsanāt | varaṃ manogataṃ sarvaṃ yācadhvamavilambitam || 16 || prasannāhaṃ pradāsyāmi yuṣmākaṃ manasi sthitam | rājaputrā ūcuḥ devi niṣkaṇṭakaṃ rājyaṃ santatiścirajīvinī || 17 || bhogā avyāhatā kāmaṃ yaśastejo matiśca ha | akuṇṭhitatvaṃ sarveṣāmeṣa eva varo hitaḥ || 18 || devyuvāca evamastu ca sarveṣāṃ bhavatāṃ yanmanogatam | athānyadapi me vākyaṃ bhūyatāmādarādidam || 19 || bhavantaḥ sarva evaite manvantarapatīśvarāḥ | santatyā dīrghayā bhogairanekairapi saṅgamaḥ || 20 || akhaṇḍitabalaiśvaryaṃ yaśastejovibhūtayaḥ | bhavitāro matprasādādrājaputrāḥ krameṇa tu || 21 || śrīnārāyaṇa uvāca evaṃ tebhyo varāndattvā bhrāmarī jagadambikā | antardhānaṃ jagāmāśu bhaktyā taiḥ saṃstutā satī || 22 || te rājaputrāḥ sarve'pi tasmiñjanmanyanuttamam | rājyaṃ mahīgatānbhogānbubhujuśca mahaujasaḥ || 23 || santatiṃ cākhaṇḍitāṃ te samutpādya mahītale | vaṃśaṃ saṃsthāpya sarve'pi manūnāṃ patayo'bhavan || 24 || bhavāntare krameṇaiva sāvarṇipadabhāginaḥ | prathamo dakṣasāvarṇirnavamo manurīritaḥ || 25 || avyāhatabalo devyāḥ prasādādabhavadvibhuḥ | dvitīyo merusāvarṇirdaśamo manureva ca || 26 || babhūva manvantarapo mahādevīprasādataḥ | tṛtīyo manurākhyātaḥ sūryasāvarṇināmakaḥ || 27 || ekādaśo mahotsāhastapasā svena bhāvitaḥ | caturthaścandrasāvarṇirdvādaśo manurāḍ vibhuḥ || 28 || devīsamārādhanena jāto manvantareśvaraḥ | pañcamo rudrasāvarṇistrayodaśamanuḥ smṛtaḥ || 29 || mahābalo mahāsattvo babhūva jagadīśvaraḥ | ṣaṣṭhaśca viṣṇusāvarṇiścaturdaśamanuḥ kṛtī || 30 || babhūva devīvarato jagatāṃ prathitaḥ prabhuḥ | caturdaśaite manavo mahātejobalairyutāḥ || 31 || devyārādhanataḥ pūjyā vandyā lokeṣu nityaśaḥ | mahāpratāpinaḥ sarve bhrāmaryāstu prasādataḥ || 32 || nārada uvāca keyaṃ sā bhrāmarī devī kathaṃ jātā kimātmikā | tadākhyānaṃ vada prājña vicitraṃ śokanāśakam || 33 || na tṛptimadhigacchāmi pibandevīkathāmṛtam | amṛtaṃ pibatāṃ mṛtyurnāsya śravaṇato yataḥ || 34 || śrīnārāyaṇa uvāca śṛṇu nārada vakṣyāmi jaganmāturviceṣṭitam | acintyāvyaktarūpāyā vicitraṃ mokṣadāyakam || 35 || yadyaccaritraṃ śrīdevyāstatsarvaṃ lokahetave | nirvyājayā karuṇayā putre māturyathā tathā || 36 || pūrvaṃ daityo mahānāsīdaruṇākhyo mahābalaḥ | pātāle daityasaṃsthāne devadveṣī mahākhalaḥ || 37 || sa devāñjetukāmaśca cakāra paramaṃ tapaḥ | padmasambhavamuddiśya sa nastrātā bhaviṣyati || 38 || gatvā himavataḥ pārśve gaṅgājalasuśītale | pakvaparṇāśano yogī sannirudhya marudgaṇam || 39 || gāyatrījapasaṃsaktaḥ sakāmastamasā yutaḥ | daśavarṣasahasrāṇi tato vārikaṇāśanaḥ || 40 || daśavarṣasahasrāṇi tataḥ pavanabhojanaḥ | daśavarṣasahasrāṇi nirāhāro'bhavattataḥ || 41 || evaṃ tapasyatastasya śarīrādutthito'nalaḥ | dadāha jagatīṃ sarvāṃ tadadbhutamivābhavat || 42 || kimidaṃ kimidaṃ ceti devāḥ sarve cakampire | santrastāḥ sakalā lokā brahmāṇaṃ śaraṇaṃ yayuḥ || 43 || vijñāpitaṃ devavaraiḥ śrutvā tatra caturmukhaḥ | gāyatrīsahito haṃsasamārūḍho yayau mudā || 44 || prāṇamātrāvaśiṣṭaṃ taṃ dhamanīśatasaṅkulam | śuṣkodaraṃ kṣāmagātraṃ dhyānamīlitalocanam || 45 || dadarśa tejasā dīptaṃ dvitīyamiva pāvakam | varaṃ varaya bhadraṃ te vatsa yanmanasi sthitam || 46 || śrutimātreṇa santoṣakārakaṃ vākyamūcivān | śrutvā brahmamukhādvāṇīṃ sudhādhārāmivāruṇaḥ || 47 || unmīlitākṣaḥ purato dadarśa jalajodbhavam | gāyatrīsahitaṃ devaṃ caturvedasamanvitam || 48 || akṣasrakkuṇḍikāhastaṃ japantaṃ brahma śāśvatam | dṛṣṭvotthāya nanāmātha stutvā ca vividhaiḥ stavaiḥ || 49 || varaṃ vavre svabuddhisthaṃ mā bhavenmṛtyurityapi | śrutvāruṇavaco brahmā bodhayāmāsa sādaram || 50 || brahmaviṣṇumaheśādyā mṛtyunā kavalīkṛtāḥ | tadānyeṣāṃ tu kā vārtā maraṇe dānavottama || 51 || varaṃ yogyaṃ tato brūhi dātuṃ yaḥ śakyate mayā | nātrāgrahaṃ prakurvanti buddhimanto janāḥ kvacit || 52 || iti brahmavacaḥ śrutvā punaḥ provāca sādaram | na yuddhe na ca śastrāstrānna puṃbhyo nāpi yoṣitaḥ || 53 || dvipādbhyo vā catuṣpādbhyo nobhayākāratastathā | bhavenme mṛtyurityevaṃ deva dehi varaṃ prabho || 54 || balaṃ ca vipulaṃ dehi yena devajayo bhavet | iti tasya vacaḥ śrutvā tathāstviti vaco'bravīt || 55 || dattvā varaṃ jagāmāśu padmajaḥ svaṃ niketanam | tato'ruṇākhyo daityastu pātālātsvāśrayasthitān || 56 || daityānākārayāmāsa brahmaṇo varadarpitaḥ | āgatya te'surāḥ sarve daityeśaṃ taṃ pracakrire || 57 || dūtaṃ ca preṣayāmāsuryuddhārthamamarāvatīm | dūtavākyaṃ tadā śrutvā devarāḍ bhayakampitaḥ || 58 || devaiḥ sārdhaṃ jagāmāśu brahmaṇaḥ sadanaṃ prati | brahmaviṣṇū puraskṛtya jagmuste śaṅkarālayam || 59 || vicāraṃ cakrire tatra vadhārthaṃ te suradruhām | etasminsamaye tatra daityasenāsamāvṛtaḥ || 60 || aruṇākhyo daityarājo jagāmāśu triviṣṭapam | sūryenduyamavahnīnāmadhikārānpṛthakpṛthak || 61 || svayaṃ cakāra tapasā nānārūpadharo mune | svasvasthānacyutāḥ sarve jagmuḥ kailāsamaṇḍalam || 62 || śaśaṃsuḥ śaṅkaraṃ devāḥ svasvaduḥkhaṃ pṛthakpṛthak | mahān vicārastatrāsītkiṃ kartavyamataḥ param || 63 || na yuddhena ca śastrāstrairna puṃbhyo nāpi yoṣitaḥ | dvipādbhyo vā catuṣpādbhyo nobhayākārato'pi vā || 64 || mṛtyurbhavediti brahmā provāca vacanaṃ yataḥ | iti cintāturāḥ sarve kartuṃ kiñcinna ca kṣamāḥ || 65 || etasminsamaye tatra vāgabhūdaśarīriṇī | bhajadhvaṃ bhuvaneśānīṃ sā vaḥ kāryaṃ vidhāsyati || 66 || gāyatrījapasaṃsakto daityarāḍ yadi tāṃ tyajet | mṛtyuyogyastadā bhūyādityuccaistoṣakāriṇī || 67 || śrutvā daivīṃ tathā vāṇīṃ mantrayāmāsurādṛtāḥ | bṛhaspatiṃ samāhūya vacanaṃ prāha devarāṭ || 68 || guro gaccha surāṇāṃ tu kāryārthamasuraṃ prati | yathā bhavecca gāyatrītyāgastasya tathā kuru || 69 || asmābhiḥ parameśānī sevyate dhyānayogataḥ | prasannā sā bhagavatī sāhāyyaṃ te kariṣyati || 70 || ityādiśya guruṃ sarve jagmurjāmbūnadeśvarīm | sāsmāndaityabhayatrastān pālayiṣyati śobhanā || 71 || tatra gatvā tapaścaryāṃ cakruḥ sarve suniṣṭhitāḥ | māyābījajapāsaktā devīmakhaparāyaṇāḥ || 72 || bṛhaspatistadā śīghraṃ jagāmāsurasannidhau | āgataṃ munivaryaṃ taṃ papracchātha sa daityarāṭ || 73 || mune kutrāgamaḥ kasmātkimarthamiti me vada | nāhaṃ yuṣmatpakṣapātī pratyutārātireva ca || 74 || iti tasya vacaḥ śrutvā provāca munināyakaḥ | asmatsevyā ca yā devī sā tvayā pūjyate'niśam || 75 || tasmādasmatpakṣapātī na bhavestvaṃ kathaṃ vada | iti tasya vacaḥ śrutvā mohito devamāyayā || 76 || tatyāja paramaṃ mantramabhimānena sattama | gāyatrītyāgato daityo nistejasko babhūva ha || 77 || kṛtakāryo gurustasmātsthānānnirgatavānpunaḥ | tato vṛttāntamakhilaṃ kathayāmāsa vajriṇe || 78 || saṃtuṣṭāste surāḥ sarve bhejire parameśvarīm | evaṃ bahugate kāle kasmiṃścitsamaye mune || 79 || prādurāsījjaganmātā jaganmaṅgalakāriṇī | koṭisūryapratīkāśā koṭikandarpasundarī || 80 || citrānulepanā devī citravāsoyugānvitā | vicitramālyābharaṇā citrabhramaramuṣṭikā || 81 || varābhayakarā śāntā karuṇāmṛtasāgarā | nānābhramarasaṃyuktapuṣpamālāvirājitā || 82 || bhrāmarībhirvicitrābhirasaṃkhyābhiḥ samāvṛtā | bhramarairgāyamānaiśca hrīṃkāramanumanvaham || 83 || samantataḥ parivṛtā koṭikoṭibhirambikā | sarvaśṛṅgāraveṣāḍhyā sarvavedapraśaṃsitā || 84 || sarvātmikā sarvamayī sarvamaṅgalarūpiṇī | sarvajñā sarvajananī sarvā sarveśvarī śivā || 85 || dṛṣṭvā tāṃ taralātmāno devā brahmapurogamāḥ | tuṣṭuvurhṛṣṭamanaso viṣṭaraśravasāṃ śivām || 86 || devā ūcuḥ namo devi mahāvidye sṛṣṭisthityantakāriṇi | namaḥ kamalapatrākṣi sarvādhāre namo'stu te || 87 || saviśvataijasaprājñavirāṭsūtrātmike namaḥ | namo vyākṛtarūpāyai kūṭasthāyai namo namaḥ || 88 || durge sargādirahite duṣṭasaṃrodhanārgale | nirargalapremagamye bharge devi namo'stu te || 89 || namaḥ śrīkālike mātarnamo nīlasarasvati | ugratāre mahogre te nityameva namo namaḥ || 90 || namaḥ pītāmbare devi namastripurasundari | namo bhairavi mātaṅgi dhūmāvati namo namaḥ || 91 || chinnamaste namaste'stu kṣīrasāgarakanyake | namaḥ śākambhari śive namaste raktadantike || 92 || niśumbhaśumbhadalani raktabījavināśini | dhūmralocananirṇāśe vṛtrāsuranibarhiṇi || 93 || caṇḍamuṇḍapramathini dānavāntakare śive | namaste vijaye gaṅge śārade vikacānane || 94 || pṛthvīrūpe dayārūpe tejorūpe namo namaḥ | prāṇarūpe mahārūpe bhūtarūpe namo'stu te || 95 || viśvamūrte dayāmūrte dharmamūrte namo namaḥ | devamūrte jyotimūrte jñānamūrte namo'stu te || 96 || gāyatri varade devi sāvitri ca sarasvati | namaḥ svāhe svadhe mātardakṣiṇe te namo namaḥ || 97 || neti netīti vākyairyā bodhyate sakalāgamaiḥ | sarvapratyaksvarūpāṃ tāṃ bhajāmaḥ paradevatām || 98 || bhramarairveṣṭitā yasmād bhrāmarī yā tataḥ smṛtā | tasyai devyai namo nityaṃ nityameva namo namaḥ || 99 || namaste pārśvayoḥ pṛṣṭhe namaste purato'mbike | nama ūrdhvaṃ namaścādhaḥ sarvatraiva namo namaḥ || 100 || kṛpāṃ kuru mahādevi maṇidvīpādhivāsini | anantakoṭibrahmāṇḍanāyike jagadambike || 101 || jaya devi jaganmātarjaya devi parātpare | jaya śrībhuvaneśāni jaya sarvottamottame || 102 || kalyāṇaguṇaratnānāmākare bhuvaneśvari | prasīda parameśāni prasīda jagatoraṇe || 103 || śrīnārāyaṇa uvāca iti devavacaḥ śrutvā pragalbhaṃ madhuraṃ vacaḥ | uvāca jagadambā sā mattakokilabhāṣiṇī || 104 || devyuvāca prasannāhaṃ sadā devā varadeśaśikhāmaṇiḥ | bruvantu vibudhāḥ sarve yadeva syāccikīrṣitam || 105 || devīvākyaṃ surāḥ śrutvā procurduḥkhasya kāraṇam | duṣṭadaityasya caritaṃ jagadbādhākaraṃ param || 106 || devabrāhmaṇavedānāṃ helanaṃ nāśanaṃ tathā | sthānabhraṃśaṃ surāṇāṃ ca kathayāmāsurādṛtāḥ || 107 || brahmaṇo varadānaṃ ca yathāvatte samūcire | śrutvā devamukhādvāṇīṃ mahābhagavatī tadā || 108 || prerayāmāsa hastasthānbhramarānbhrāmarī tadā | pārśvasthānagnabhāgasthānnānārūpadharāṃstathā || 109 || janayāmāsa bahuśo yairvyāptaṃ bhuvanatrayam | maṭacīyūthavatteṣāṃ samudāyastu nirgataḥ || 110 || tadāntarikṣaṃ tairvyāptamandhakāraḥ kṣitāvabhūt | divi parvataśṛṅgeṣu drumeṣu vipineṣvapi || 111 || bhramarā eva sañjātāstadadbhutamivābhavat | te sarve daityavakṣāṃsi dārayāmāsurudgatāḥ || 112 || naraṃ madhuharaṃ yadvanmakṣikāḥ kopasaṃyutāḥ | upāyo na ca śastrāṇāṃ tathāstrāṇāṃ tadābhavat || 113 || na yuddhaṃ na ca sambhāṣā kevalaṃ maraṇaṃ khalu | yasminyasminsthale ye ye sthitā daityā yathā yathā || 114 || tatraiva ca tathā sarve maraṇaṃ prāpurutsmayāḥ | parasparaṃ samācāro na kasyāpyabhavattadā || 115 || kṣaṇamātreṇa te sarve vinaṣṭā daityapuṅgavāḥ | kṛtvetthaṃ bhramarāḥ kāryaṃ devīnikaṭamāyayuḥ || 116 || āścaryametadāścaryamiti lokāḥ samūcire | kiṃ citraṃ jagadambāyā yasyā māyeyamīdṛśī || 117 || tato devagaṇāḥ sarve brahmaviṣṇupurogamāḥ | nimagnā harṣajaladhau pūjayāmāsurambikām || 118 || nānopacārairvividhairnānopāyanapāṇayaḥ | jayaśabdaṃ prakurvāṇā mumucuḥ sumanāṃsi ca || 119 || divi dundubhayo nedurnanṛtuścāpsarogaṇāḥ | peṭhurvedānmuniśreṣṭhā gandharvādyā jagustathā || 120 || mṛdaṅgamurajāvīṇāḍhakkāḍamaruniḥsvanaiḥ | ghaṇṭāśaṅkhaninādaiśca vyāptamāsījjagattrayam || 121 || nānāstotraistadā stutvā mūrdhnyādhāyājjalīṃstathā | jaya mātarjayeśānītyevaṃ sarve samūcire || 122 || tatastuṣṭā mahādevī varāndattvā pṛthakpṛthak | svasmiṃśca vipulāṃ bhaktiṃ prārthitā tairdadau ca tām || 123 || paśyatāmeva devānāmantardhānaṃ gatā tataḥ | iti te sarvamākhyātaṃ bhrāmaryāścaritaṃ mahat || 124 || paṭhatāṃ śṛṇvatāṃ caiva sarvapāpapraṇāśanam | śrutamāścaryajanakaṃ saṃsārārṇavatārakam || 125 || evaṃ manūnāṃ sarveṣāṃ caritaṃ pāpanāśanam | devīmāhātmyasaṃyuktaṃ paṭhañśṛṇvañśubhapradam || 126 || yaścaitatpaṭhate nityaṃ śṛṇuyādyo'niśaṃ naraḥ | sarvapāpavinirmukto devīsāyujyamāpnuyāt || 127 || iti śrīmaddevībhāgavate mahāpurāṇe'ṣṭādaśasāhasryāṃ saṃhitāyāṃ daśamaskandhe bhrāmarīcaritravarṇanaṃ nāma trayodaśo'dhyāyaḥ || 13 ||
English translation
1-21. S’n Narayana spoke O Child Narada! Hear now the wonderful anecdotes of the births of the remaining other Manus. The mere remembrance of these birth anecdotes causes Bhakti to grow and well up towards the Devi. Vaivasvata Manu had six sons viz., Karusa, Prisadhra, Nabhaga, Dista, Saryati, and Tris'anku. All of them were stout and strong. Once they all united went to the excellent banks of the Jumna and began to practise Pranayama without taking any food and became engaged in worshipping the Devi. Each of them built separately an earthen image of the Devi and worshipped Her with devotion and with various offerings. In the beginning, they took the dry leaves of the trees that dropped of themselves for their food; then they drank water only, then breathed air only; then the smoke from the fire of the Homa; then they depended on the Solar Rays. Thus they practised tapasya with great difficulties. The continual worship of the Devi with the greatest devotion made them conscious of their clear intellect, destructive of all sorts of vanities and delusions, and the Menu's sons thought only of the Hallowed Feet of the Devi; their intellects were purified and they were greatly wondered to see within their Self the whole Universe. Thus they practised their Tapasya full twelve years when Bhagavati, the Ruling Principle of this Universe resplendent wiih the brilliance of the thousand Suns, appeared before them. The princes with their intelligences thus purified saw Her, bowed down and, with their lowly hearts, began to chant hymns to Her with greatest devotion. “O Is'ani! O Merciful! Thou art the Devi presiding over all. Thou art the Best. So Victory to Thee! Thou art known by the Vagbhava Mantra. Thou gettest pleased when the Vagbhava Mantra is repeated. O Devi! Thou art of the nature of Klim Kara (of the form of Klim). Thou gettest pleased with the repetition of Klim Mantra. O Thou, that gladdenest the Lord! Thou bestowest joy and pleasure in the heart of the King of Kama. O Maha Maya! When Thou art pleased. Thou givest that Unequalled Kingdom. O Thou that
increasest the enjoyments! Thou art Visnu, Surya, Hara, Indra and the other Devas.” When the highsouled princes praised Her thus, Bhagavati became pleased and spoke to them the following sweet words “O Highsouled Princes! You all have worshipped Me and practised, indeed, very hard tapasyas and thus you have become sinless and your intellects and hearts have become thoroughly purged and thus purified. Now ask boons that you desire. I will grant them ere long to you.” The Princes said “O Devi! We want unrivalled Kingdoms, many sons of long longevity, continual enjoyment of pleasures, fame, energy, freedom in all actions, and as well the good and keen intelligence. These will be beneficial to us.” The Devi said Whatever you have desired, I grant them to you all. Besides I give you another boon. Listen attentively. By My Grace you all will be the Lords of the Manvantaras and acquire strength that will experience no defeat, and you will get prosperity, fame, energy, powers, and a continual line of descent and abundant full enjoyments.
22-32. Narayana said After the World Mother Bhramari Devi granted them these boons, the princes chanted hymns to Her and then She instantly vanished. The very energetic princes acquired in that birth excellent kingdoms and abundance of wealth. They all had sons and thus established their families, and became the Lords of Manvantara in their next births. By the Grace of the Devi, the first of the princes Karusa became the Ninth Manu, the exceedingly powerful Daksa Savarni; the second prince Prisadhra became the Tenth Manu, named Meru Savarni; the third prince, the highly enthusiastic Nabhaga became the Eleventh Manu, named Surya Savarni; the fourth prince Dista became the Twelfth Manu, named Chandra Savarni; the powerful fifth prince S'aryati became the Thirteenth Manu named Rudra Savarni and the sixth prince Tris'anku became the Fourteenth Manu named Visnu Savarni and became the celebrated Lord of the world.
33-41. Narada questioned “O Wise One! Who is that Bhramari Devi? What is Her Nature? What for She takes birth? Kindly describe all this beautiful and pain destroying anecdotes to me. I am not satiated with the drinking of the nectar of the Glories of the Devi; my desire to hear further more is as strong as ever. As the drink of the nectar takes away death, so the drink of this anecdote of the Devi takes away the fear of death.” Narayana said O Narada! I will now narrate the wonderful glories of that unthinkable, unmanifested World Mother, leading to Mukti. Hear, as a Mother behaves towards Her child kindly and without any hypocrisy, so the World Mother in all Her lives manifests Her merciful sincere dealings for the welfare of the humanity. In days gone by, in the nether regions, in the city of the Daityas, there lived a powerful Daitya named Aruna. He was a furious Deva Hater and a pakka hyprocrite. With a view to conquer the Devas, he went to the banks of the Ganges in the Himalayas, practised a very bard Tapasya, to Brahma, taking Him to be the Protector of the Daityas. First influenced by Tamo Guna, he withheld in his body the five Vayus and partook only the dry leaves and repeated, the Gayatri Mantra and practised austerities. Thus he practised for full ten thousand years. Then for another ten thousand years the Daitya lived drinking some drops of water only; then for another ten thousand years he remained by inhaling air only; and then for another ten thousand years he did not take any thing and thus practised he his wonderful Tapasya.
42-49. Thus practising his Tapasya a sort of wonderful halo of light emitted from his body and began to burn the whole world. This thing then appeared a great wonder. All the Devas then exclaimed. “Oh! What is this! Oh! What is this!” And they trembled. All were very much terrified and took refuge of Brahma. Hearing all the news from the Devas, the four-faced Bhagavan rode on His vehicle, the Swan, and with the Gayatri went very gladly to where the Daitya was practising his austerities and saw that the Daitya was immersed in meditation with his eyes closed; and he looked, as it were, blazing
with fire, as if a second Fire himself. His belly had become dried up, body withered and the nerves of the bodies, too, became almost visible; only the life breath was lingering there. Brahma then spoke to him “O Child! Auspices to you! Now ask the boon that you desire.” Hearing these gladdening nectar-like words from the mouth of Brahma, Aruna, the chief of the Daityas opened his eyes and saw Brahma in his front. Seeing Brahma before him with a rosary of beads and Kamandalu in his hand and attended by Gayatri and the four Vedas, muttering the name of the Eternal Brahma, the Daitya rose up and bowed down to Him and sang to Him various Stotras.
50-59. Then the intelligent Daitya asked from Brahma the following boon that “I shall not die. Grant this.” Brahma then gently explained to him “O Best of the Danavas! See that Brahma, Visnu, MahesVara and others are not free from this limitation of death!
What to speak then for others! I cannot grant you a boon that is an impossibility. Ask what is possible and just. The intelligent persons never show an eagerness to an impossibility.” Hearing the above words of Brahma, Aruna again said with devotion “O Deva! If Thou art unwilling to grant me the above boon, then, O Lord! Grant me such a boon, as is practicable, that my death shall not be caused by any war, nor by any arms or weapons, nor by any man or any woman, by any biped or quadruped or any combination of two and grant me such a boon, such a large army as I can conquer the Devas.” Hearing the words of the Daitya, Brahma said “Let that be so” and went back instantly to His own abode. Then, puffed up with that boon, the Daitya Aruna called on all the other Daityas that lived in the nether regions. The Daityas, that were under his shelter, came and saluted him, as their king and, by his command, they sent messengers to the Heavens to fight with the Devas. Hearing from the messenger that the Daityas were willing to fight with the Devas, Indra trembled with fear and went instantly with the Devas to the abode of Brahma. Taking Brahma, too, along with them from there.
they went to the Visnu Loka and took Visnu with them and all went to the S’iva Loka.
60-70. There they all held a conference how to kill the Daitya, the enemy of the Gods. While, on the other hand, Aruna, the king of the Daityas surrounded by his army, went ere long to the Heavens.
O Muni! The Daitya, then, through the power of his Tapas, assumed various forms and seized the rights and possessions of the Moon, the Sun, Yama, Agni and all the others. All the Devas, then, dislodged from their stations went to the region of Kailas'a and represented to S’ankara about their own troubles and dangers respectively. Then, what was to be done on this subject, on this, great discussions cropped up. When Brahma said, that the death of the Daitya would not ensue from any fight, with any arms or weapons, from any man or woman, biped, quadruped or from any combination of the above two. Then the Devas became all anxious and could not find out any solution at that instant, when the Incorporeal Voice was clearly heard in the Heavens Let you all worship the Queen of the Universe. She will carry out your work to success. If the king of the Daityas, always engaged in muttering the Gayatri, forsakes the Gayatri any how, then his death will occur. Hearing this gladdening Celestial Voice, the Devas held the council with great caution. When it was settled what ought to be done, Indra asked Brihaspati and said “O Guru Deva! You would better go to the Daitya for the carrying out of the Devas' ends and do so that he forsakes the Devi Gayatri ParamesVari. We will all now go and meditate on Her. When She will be pleased. She will help us.
71-77. Thus commanding Brihaspati and thinking that the beautiful Protectress of Jambu Nada would protect them the Devas all started to worship Her and, going there, began the Devi Yajha and with
great devotion muttered the Maya Vija and practised asceticism. On the other hand, Brihaspati went ere long in the garb of a Muni to the Daitya Aruna. The king of the Daityas then asked him “O Best of Munis! Whence and why have you come here. Say, O Muni! Where have you come? I am not one of your party. Rather I am your enemy.” Hearing the above words, Brihaspati said When you are worshipping incessantly the Devi whom we too worship, then say how you are not a one on our side! O Saint! The vicious Daitya, hearing the above words and deluded by the Maya of the Devas, forsook the Gayatri Mantra out of vanity and therefore he became weak, bereft of the Holy Fire.
78-85. Then Brihaspati, having succeeded in his work there, went to the Heavens and saw Indra and told him everything in detail. The Devas became satisfied and worshipped the Highest Deity. O Muni! Thus, a long interval passed, when one day the World Mother, the Auspicious Devi appeared before them. She was resplendent with the brilliance of ten million suns and looked beautiful like ten millions of Kandarpas (Gods of love). Her body was anointed with variegated colours, etc.; She wore a pair of clothings; a wonderful garland suspended from Her neck; Her body was decked with various ornaments and in the fists of Her hands there were wonderful rows of hornets (large black bees). Her one hand was ready to grant boons and Her other hand was ready to hold out “no fear.” On the neck of Bhagavati, the Ocean of Mercy, and peaceful, were seen the variegated garlands with large black bees all round. Those male and female bees singing incessantly all round Her the Hrimkara Mantra (the First Vibration of Force), kotis of black bees surrounded Her. The All-auspicious Bhagavati, praised by all the Vedas, Who is all in all, composed of all. Who is all good, the Mother of all. Omniscient, the Protectress of all, was adorned fully with dress.
86-96. Seeing suddenly the Devi, in their front Brahnna and the other Devas became surprised and by and by they got relieved and gladly began to chant hymns of praise to Bhagavati, Whose Glories have been written in the Vedas.
The Devas said “O Devi! Obeisance to Thee! Thou art the Highest Knowledge and the Creatrix, Preservrix and the Destructrix of the Universe. O Thou, the Lotus-eyed! Thou art the Refuge of all! So we bow down to Thee. O Devi! Thou art collectively and individually VisVa, Taijasa, Prajha, Virat and Sutratma. O Bhagavati. Thou art differentiated and undifferentiated; Thou art the Kutastha Chaitanya (the Unmoveable, Unchangeable Consciousness). So we bow down to Thee. O Durge! Thou art unconcerned with the creation, preservation and destruction; yet Thou punishest the wicked and art easily available by the sincere devotion of Thy Bhaktas. O Devi!
Thou scorchest and destroyest the ignorance and sin of the embodied souls. Hence Thou art named Bharga. So we bow down to Thee. O Mother! Thou art Kalika, Nila Sarasvati, Ugra Tara,
Mahogra; Thou assumest many other forms. So we always bow down to Thee. O Devi! Thou art Tripura Sundari, Bhairabi, Matangi, Dhumavati, Chhinnamasta, S'akambhari and Rakta Dantika. Obeisance to Thee! O Bhagavati! It is Thou that didst appear as Laksmi out of the milk ocean (Ksira Samudra). Thou hadst destroyed Vritrasura, Chanda, Munda, Dhumralochana, Rakta Bija, S’umbha, Nis'umbha and the Exterminator of the Danavas and thus. Thou didst do great favours to the Devas. So, O Gracious Countenanced! Thou art Vijaya and Ganga; O Sarade! We bow down to Thee. O Devi! Thou art the earth, fire. Prana and other Vayus and other substances. O Merciful! Thou art of the form of this Universe; the Deva form, and the Moon, Sun and other Luminous forms and of the Knowledge Form.
97-109. O Devi! Thou art Savitri; Thou art Gayatri; Thou art Sarasvati; Thou art Svadha, Svaha, and Daksina. So we bow down to Thee. Thou art, in the Vedas, the Agamas, “Not this, not this.” Thou art what is left after the negation of all this. This all the Vedas declare of Thy True Nature thus as the Absolute Consciousness in all. Thus Thou art the Highest Deity. So we worship Thee. As Thou art surrounded by large black bees. Thou art named Bhramari. We always make obeisance to Thee! Obeisance to Thee! Obeisance to Thy sides! Obeisance to Thy back! Obeisance to Thy front! O Mother! Obeisance to Thy above! Obeisance to Thy below! Obeisance to everywhere round of Thee! O Thou, the Dweller in Mani Dvipa! O Maha Devi! Thou art the Guide of the innumerable Brahmandas! O World Mother! Let Thou be merciful to us. O Devi! Thou art higher than the highest. O World Mother! Victory be to Thee! All Hail! O Goddess of the universe! Thou art the Best in the whole universe; Victory to Thee! O Lady of the world! Thou art the mine of all the gems of qualities. O ParamesVari! O World Mother! Let Thou be pleased unto us.” Narayana said Hearing those sweet, ready and confident words of the Devas, the World Mother said in the sweet tone of a Mad Cuckoo:- “O Devas! As far as granting boons to others is concerned, I am ever ready. I am always pleased with you. So, O Devas! Say what you want.” Hearing the words of the Devi, the Devas began to express the cause of their sorrows. They informed Her of the wicked nature of the vicious Daitya, the neglect of the Devas, the Brahmanas and the Vedas and the ruins thereof, and the dispossession of the Devas of their abodes and the receiving by the Daitya of the boon from Brahma; in fact, everything what they had to say, duly and vigorously. Then the Bhagavati Bhramari Devi sent out all sorts of black bees, hornets, etc., from Her sides, front and forepart.
110-120. Innumerable lines of black bees then were generated and they joined themselves with those that got out of the Devi's hands and thus they covered the whole earth. Thus countless bees began
to emit from all sides like locusts. The sky was overcast with the bees; and the earth was covered with darkness. The sky, mountain peaks, trees, forests all became filled with bees and the spectacle presented a grand dismal sight. Then the black bees began to tear asunder the breasts of the Daityas as the bees bite those who destroy their beehives. Thus the Daityas could not use their weapons nor could they fight nor exchange any words. Nothing they could do; they had no help but to die. The Daityas remained in the same state where they were and in that state they wondered and died. No one could talk with another. Thus the principal Daityas died within an instant. Thus completing their destruction, the bees came back to the Devi. All the people then spoke to one another “Oh!
What a wonder! Oh! What a wonder!” Or like this “Whose Maya is this! What a wonder that She will do like this!” Thus Brahma, Visnu and Mahes'a became merged in the ocean of joy and worshipped the Devi Bhagavati with various offerings and shoutings of chants “Victory to the Devi” and showered flowers all around. The Munis began to recite the Vedas. The Gandharbas began to sing.
121-127. The various musical instruments, Mridangas, Murajas, the Indian lutes, Dhakkas, Damarus, S'ankhas, bells, etc., all sounded and the three worlds were filled with their echoes. All with folded palms chanted various hymns of praise to the Devi and said “O Mother! Isani! Victory to Thee!” The Maha Devi became glad and gave to each separate boons and when they asked “for unshakeable devotion to Thy lotus feet,” She granted them that also and disappeared before them. Thus I have described to you the glorious character of the Bhramari Devi. If anybody hears this very wonderful anecdote, he crosses at once this ocean of the world. Along with the glories and greatness of the Devi, if one hears the accounts of Manus, then all auspiciousness comes to him. He who hears or recites daily this Greatness of the Devi, becomes freed from all his sins and he gets himself absorbed in the thoughts of the Devi (Sajuya). Note The Mantra is here not merely the Seed, the Spiritual Password, but it connotes, besides the idea of the password, the Adi First vibration and it exhibits the First Spiritual
Form, endowed with the highest feelings of Faith, Wisdom, Bliss and Joy, displayed with the grandest colours, startling thrills, rapt enchanting signs, gestures, and postures, the shooting forth of all powers, the sources of Siddhis, that cannot be ordinarily conceived in the worldly concerns. Their faint echoes govern this mighty world. The Mantras are seated in the six chakras or plexuses or the six Laya centres in the spinal cord. Within these chakras, the transformations of the Tattvas take place. Some vanish. Some appear and so on. Remark In this chapter we find clearly the mention of the several names of the ten Das'a Maha Vidyas.
Here ends the Thirteenth Chapter of the Tenth Book of the account of Bhramari Devi in the Mahapuranam S’ri Mad Devi Bhagavatam of 18,000 verses by Maharsi Veda Vyasa and here ends as well the Tenth Book.
[The Tenth Book completed.]
Complete chapter-aligned witnesses. Sanskrit Wikisource page 31961, revision 201133 (2019-05-07T23:16:29Z). English is Swami Vijñanananda’s complete 1921–23 public-domain translation, controlled against the archival OCR and its chapter page at https://sacred-texts.com/hin/db/bk10ch13.htm. Historic spelling and transliteration are lightly normalized; no verse-by-verse alignment is asserted.