Ninth Skandha · Chapter 42
Sourceनारद उवाच हरेरुत्कीर्तनं भद्रं श्रुतं तज्ज्ञानमुत्तमम् । ईप्सितं लक्ष्म्युपाख्यानं ध्यानं स्तोत्रं वद प्रभो ॥ १ ॥ श्रीनारायण उवाच स्नात्वा तीर्थे पुरा शक्रो धृत्वा धौते च वाससी । घटं संस्थाप्य क्षीरोदे षड्देवान् पर्यपूजयत् ॥ २ ॥ गणेशं च दिनेशं च वह्निं विष्णुं शिवं शिवाम् । एतान् भक्त्या समभ्यर्च्य पुष्पगन्धादिभिस्तदा ॥ ३ ॥ आवाह्य च महालक्ष्मीं परमैश्वर्यरूपिणीम् । पूजाञ्चकार देवेशो ब्रह्मणा च पुरोधसा ॥ ४ ॥ पुरःस्थितेषु मुनिषु ब्राह्मणेषु गुरौ हरौ । देवादिषु सुदेशे च ज्ञानानन्दं शिवे मुने ॥ ५ ॥ पारिजातस्य पुष्पं च गृहीत्वा चन्दनोक्षितम् । ध्यात्वा देवीं महालक्ष्मीं पूजयामास नारद ॥ ६ ॥ ध्यानं च सामवेदोक्तं यद्दत्तं ब्रह्मणे पुरा । हरिणा तेन ध्यानेन तन्निबोध वदामि ते ॥ ७ ॥ सहस्रदलपद्मस्थकर्णिकावासिनीं पराम् । शरत्पार्वणकोटीन्दुप्रभामुष्टिकरां पराम् ॥ ८ ॥ स्वतेजसा प्रज्वलन्तीं सुखदृश्यां मनोहराम् । प्रतप्तकाञ्चननिभशोभां मूर्तिमतीं सतीम् ॥ ९ ॥ रत्नभूषणभूषाढ्यां शोभितां पीतवाससा । ईषद्धास्यप्रसन्नास्यां शश्वत्सुस्थिरयौवनाम् ॥ १० ॥ सर्वसम्पत्प्रदात्रीं च महालक्ष्मीं भजे शुभाम् । ध्यानेनानेन तां ध्यात्वा नानागुणसमन्विताम् ॥ ११ ॥ सम्पूज्य ब्रह्मवाक्येन चोपचाराणि षोडश । ददौ भक्त्या विधानेन प्रत्येकं मन्त्रपूर्वकम् ॥ १२ ॥ प्रशस्तानि प्रकृष्टानि वराणि विविधानि च । अमूल्यरत्नसारं च निर्मितं विश्वकर्मणा ॥ १३ ॥ आसनं च विचित्रं च महालक्ष्मि प्रगृह्यताम् । शुद्धं गङ्गोदकमिदं सर्ववन्दितमीप्सितम् ॥ १४ ॥ पापेध्मवह्निरूपं च गृह्यतां कमलालये । पुष्पचन्दनदूर्वादिसंयुतं जाह्नवीजलम् ॥ १५ ॥ शङ्खगर्भस्थितं स्वर्घ्यं गृह्यतां पद्मवासिनि । सुगन्धिपुष्पतैलं च सुगन्धामलकीफलम् ॥ १६ ॥ देहसौन्दर्यबीजं च गृह्यतां श्रीहरेः प्रिये । कार्पासजं च कृमिजं वसनं देवि गृह्यताम् ॥ १७ ॥ रत्नस्वर्णविकारं च देहभूषाविवर्धनम् । शोभायै श्रीकरं रत्नं भूषणं देवि गृह्यताम् ॥ १८ ॥ सर्वसौन्दर्यबीजं च सद्यः शोभाकरं परम् । वृक्षनिर्यासरूपं च गन्धद्रव्यादिसंयुतम् ॥ १९ ॥ श्रीकृष्णकान्ते धूपं च पवित्रं प्रतिगृह्यताम् । सुगन्धियुक्तं सुखदं चन्दनं देवि गृह्यताम् ॥ २० ॥ जगच्चक्षुःस्वरूपं च पवित्रं तिमिरापहम् । प्रदीपं सुखरूपं च गृह्यतां च सुरेश्वरि ॥ २१ ॥ नानोपहाररूपं च नानारससमन्वितम् । अतिस्वादुकरं चैव नैवेद्यं प्रतिगृह्यताम् ॥ २२ ॥ अन्नं ब्रह्मस्वरूपं च प्राणरक्षणकारणम् । तुष्टिदं पुष्टिदं चैव देव्यन्नं प्रतिगृह्यताम् ॥ २३ ॥ शाल्यन्नजं सुपक्वं च शर्करागव्यसंयुतम् । स्वादुयुक्तं महालक्ष्मि परमान्नं प्रगृह्यताम् ॥ २४ ॥ शर्करागव्यपक्वं च सुस्वादु सुमनोहरम् । स्वस्तिकं नाम नैवेद्यं गृहाण परमेश्वरि ॥ २५ ॥ नानाविधानि रम्याणि पक्वान्नानि फलानि च । सुरभिस्तनसंत्यक्तं सुस्वादु सुमनोहरम् ॥ २६ ॥ मर्त्यामृतं सुगव्यं च गृह्यतामच्युतप्रिये । सुस्वादु रससंयुक्तमिक्षुवृक्षसमुद्भवम् ॥ २७ ॥ अग्निपक्वमतिस्वादु गुडं च प्रतिगृह्यताम् । यवगोधूमसस्यानां चूर्णरेणुसमुद्भवम् ॥ २८ ॥ सुपक्वं गुडगव्याक्तं मिष्टान्नं देवि गृह्यताम् । सस्यचूर्णोद्भवं पक्वं स्वस्तिकादिसमन्वितम् ॥ २९ ॥ मया निवेदितं भक्त्या नैवेद्यं प्रतिगृह्यताम् । शीतवायुप्रदं चैव दाहे च सुखदं परम् ॥ ३० ॥ कमले गृह्यतां चेदं व्यजनं श्वेतचामरम् । ताम्बूलं च वरं रम्यं कर्पूरादिसुवासितम् ॥ ३१ ॥ जिह्वाजाड्यच्छेदकरं ताम्बूलं प्रतिगृह्यताम् । सुवासितं सुशीतं च पिपासानाशकारणम् ॥ ३२ ॥ जगज्जीवनरूपं च जीवनं देवि गृह्यताम् । देहसौन्दर्यबीजं च सदा शोभाविवर्धनम् ॥ ३३ ॥ कार्पासजं च कृमिजं वसनं देवि गृह्यताम् । रक्तस्वर्णविकारं च देहभूषादिवर्धनम् ॥ ३४ ॥ शोभाधारं श्रीकरं च भूषणं देवि गृह्यताम् । नानाऋतुषु निर्माणं बहुशोभाश्रयं परम् ॥ ३५ ॥ सुरभूपप्रियं शुद्धं माल्यं देवि प्रगृह्यताम् । शुद्धिदं शुद्धरूपं च सर्वमङ्गलमङ्गलम् ॥ ३६ ॥ गन्धवस्तूद्भवं रम्यं गन्धं देवि प्रगृह्यताम् । पुण्यतीर्थोदकं चैव विशुद्धं शुद्धिदं सदा ॥ ३७ ॥ गृह्यतां कृष्णकान्ते त्वं रम्यमाचमनीयकम् । रत्नसारादिनिर्माणं पुष्पचन्दनचर्चितम् ॥ ३८ ॥ रत्नभूषणभूषाढ्यं सुतल्पं देवि गृह्यताम् । यद्यद् द्रव्यमपूर्वं च पृथिव्यामपि दुर्लभम् ॥ ३९ ॥ देवभूषार्हभोग्यं च तद् द्रव्यं देवि गृह्यताम् । द्रव्याण्येतानि दत्त्वा च मूलेन देवपुङ्गवः ॥ ४० ॥ मूलं जजाप भक्त्या च दशलक्षं विधानतः । जपेन दशलक्षेण मन्त्रसिद्धिर्बभूव ह ॥ ४१ ॥ मन्त्रश्च ब्रह्मणा दत्तः कल्पवृक्षश्च सर्वतः । लक्ष्मीर्माया कामवाणी ङेऽन्ता कमलवासिनी ॥ ४२ ॥ वैदिको मन्त्रराजोऽयं प्रसिद्धः स्वाहयान्वितः । कुबेरोऽनेन मन्त्रेण परमैश्वर्यमाप्तवान् ॥ ४३ ॥ राजराजेश्वरो दक्षः सावर्णिर्मनुरेव च । मङ्गलोऽनेन मन्त्रेण सप्तद्वीपेऽवनीपतिः ॥ ४४ ॥ प्रियव्रतोत्तानपादौ केदारो नृप एव च । एते सिद्धाश्च राजेन्द्रा मन्त्रेणानेन नारद ॥ ४५ ॥ सिद्धे मन्त्रे महालक्ष्मीः शक्राय दर्शनं ददौ । रत्नेन्द्रसारनिर्माणविमानस्था वरप्रदा ॥ ४६ ॥ सप्तद्वीपवतीं पृथ्वीं छादयन्ती त्विषा च सा । श्वेतचम्पकवर्णाभा रत्नभूषणभूषिता ॥ ४७ ॥ ईषद्धास्यप्रसन्नास्या भक्तानुग्रहकातरा । बिभ्रती रत्नमालां च कोटिचन्द्रसमप्रभाम् ॥ ४८ ॥ दृष्ट्वा जगत्प्रसूं शान्तां तुष्टावैतां पुरन्दरः । पुलकाञ्चितसर्वाङ्गः साश्रुनेत्रः कृताञ्जलिः ॥ ४९ ॥ ब्रह्मणा च प्रदत्तेन स्तोत्रराजेन संयुतः । सर्वाभीष्टप्रदेनैव वैदिकेनैव तत्र च ॥ ५० ॥ पुरन्दर उवाच नमः कमलवासिन्यै नारायण्यै नमो नमः । कृष्णप्रियायै सततं महालक्ष्यै नमो नमः ॥ ५१ ॥ पद्मपत्रेक्षणायै च पद्मास्यायै नमो नमः । पद्मासनायै पद्मिन्यै वैष्णव्यै च नमो नमः ॥ ५२ ॥ सर्वसम्पत्स्वरूपिण्यै सर्वाराध्यै नमो नमः । हरिभक्तिप्रदात्र्यै च हर्षदात्र्यै नमो नमः ॥ ५३ ॥ कृष्णवक्षःस्थितायै च कृष्णेशायै नमो नमः । चन्द्रशोभास्वरूपायै रत्नपद्मे च शोभने ॥ ५४ ॥ सम्पत्त्यधिष्ठातृदेव्यै महादेव्यै नमो नमः । नमो वृद्धिस्वरूपायै वृद्धिदायै नमो नमः ॥ ५५ ॥ वैकुण्ठे या महालक्ष्मीर्या लक्ष्मीः क्षीरसागरे । स्वर्गलक्ष्मीरिन्द्रगेहे राजलक्ष्मीर्नृपालये ॥ ५६ ॥ गृहलक्ष्मीश्च गृहिणां गेहे च गृहदेवता । सुरभिः सागरे जाता दक्षिणा यज्ञकामिनी ॥ ५७ ॥ अदितिर्देवमाता त्वं कमला कमलालया । स्वाहा त्वं च हविर्दाने कव्यदाने स्वधा स्मृता ॥ ५८ ॥ त्वं हि विष्णुस्वरूपा च सर्वाधारा वसुन्धरा । शुद्धसत्त्वस्वरूपा त्वं नारायणपरायणा ॥ ५९ ॥ क्रोधहिंसावर्जिता च वरदा शारदा शुभा । परमार्थप्रदा त्वं च हरिदास्यप्रदा परा ॥ ६० ॥ यया विना जगत्सर्वं भस्मीभूतमसारकम् । जीवन्मृतं च विश्वं च शश्वत्सर्वं यया विना ॥ ६१ ॥ सर्वेषां च परा माता सर्वबान्धवरूपिणी । धर्मार्थकाममोक्षाणां त्वं च कारणरूपिणी ॥ ६२ ॥ यथा माता स्तनान्धानां शिशूनां शैशवे सदा । तथा त्वं सर्वदा माता सर्वेषां सर्वरूपतः ॥ ६३ ॥ मातृहीनः स्तनान्धस्तु स च जीवति दैवतः । त्वया हीनो जनः कोऽपि न जीवत्येव निश्चितम् ॥ ६४ ॥ सुप्रसन्नस्वरूपा त्वं मां प्रसन्ना भवाम्बिके । वैरिग्रस्तं च विषयं देहि मह्यं सनातनि ॥ ६५ ॥ अहं यावत्त्वया हीनो बन्धुहीनश्च भिक्षुकः । सर्वसम्पद्विहीनश्च तावदेव हरिप्रिये ॥ ६६ ॥ ज्ञानं देहि च धर्मं च सर्वसौभाग्यमीप्सितम् । प्रभावञ्च प्रतापं च सर्वाधिकारमेव च ॥ ६७ ॥ जयं पराक्रमं युद्धे परमैश्वर्यमेव च । इत्युक्त्वा च महेन्द्रश्च सर्वैः सुरगणैः सह ॥ ६८ ॥ प्रणनाम साश्रुनेत्रो मूर्ध्ना चैव पुनः पुनः । ब्रह्मा च शङ्करश्चैव शेषो धर्मश्च केशवः ॥ ६९ ॥ सर्वे चक्रुः परीहारं सुरार्थे च पुनः पुनः । देवेभ्यश्च वरं दत्त्वा पुष्पमालां मनोहराम् ॥ ७० ॥ केशवाय ददौ लक्ष्मीः सन्तुष्टा सुरसंसदि । ययुर्देवाश्च सन्तुष्टाः स्वं स्वं स्थानं च नारद ॥ ७१ ॥ देवी ययौ हरेः स्थानं हृष्टा क्षीरोदशायिनः । ययतुश्चैव स्वगृहं ब्रह्मेशानौ च नारद ॥ ७२ ॥ दत्त्वा शुभाशिषं तौ च देवेभ्यः प्रीतिपूर्वकम् । इदं स्तोत्रं महापुण्यं त्रिसन्ध्यं यः पठेन्नरः ॥ ७३ ॥ कुबेरतुल्यः स भवेद्राजराजेश्वरो महान् । पञ्चलक्षजपेनैव स्तोत्रसिद्धिर्भवेन्नृणाम् ॥ ७४ ॥ सिद्धस्तोत्रं यदि पठेन्मासमेकं तु सन्ततम् । महासुखी च राजेन्द्रो भविष्यति न संशयः ॥ ७५ ॥
nārada uvāca harerutkīrtanaṃ bhadraṃ śrutaṃ tajjñānamuttamam | īpsitaṃ lakṣmyupākhyānaṃ dhyānaṃ stotraṃ vada prabho || 1 || śrīnārāyaṇa uvāca snātvā tīrthe purā śakro dhṛtvā dhaute ca vāsasī | ghaṭaṃ saṃsthāpya kṣīrode ṣaḍdevān paryapūjayat || 2 || gaṇeśaṃ ca dineśaṃ ca vahniṃ viṣṇuṃ śivaṃ śivām | etān bhaktyā samabhyarcya puṣpagandhādibhistadā || 3 || āvāhya ca mahālakṣmīṃ paramaiśvaryarūpiṇīm | pūjāñcakāra deveśo brahmaṇā ca purodhasā || 4 || puraḥsthiteṣu muniṣu brāhmaṇeṣu gurau harau | devādiṣu sudeśe ca jñānānandaṃ śive mune || 5 || pārijātasya puṣpaṃ ca gṛhītvā candanokṣitam | dhyātvā devīṃ mahālakṣmīṃ pūjayāmāsa nārada || 6 || dhyānaṃ ca sāmavedoktaṃ yaddattaṃ brahmaṇe purā | hariṇā tena dhyānena tannibodha vadāmi te || 7 || sahasradalapadmasthakarṇikāvāsinīṃ parām | śaratpārvaṇakoṭīnduprabhāmuṣṭikarāṃ parām || 8 || svatejasā prajvalantīṃ sukhadṛśyāṃ manoharām | prataptakāñcananibhaśobhāṃ mūrtimatīṃ satīm || 9 || ratnabhūṣaṇabhūṣāḍhyāṃ śobhitāṃ pītavāsasā | īṣaddhāsyaprasannāsyāṃ śaśvatsusthirayauvanām || 10 || sarvasampatpradātrīṃ ca mahālakṣmīṃ bhaje śubhām | dhyānenānena tāṃ dhyātvā nānāguṇasamanvitām || 11 || sampūjya brahmavākyena copacārāṇi ṣoḍaśa | dadau bhaktyā vidhānena pratyekaṃ mantrapūrvakam || 12 || praśastāni prakṛṣṭāni varāṇi vividhāni ca | amūlyaratnasāraṃ ca nirmitaṃ viśvakarmaṇā || 13 || āsanaṃ ca vicitraṃ ca mahālakṣmi pragṛhyatām | śuddhaṃ gaṅgodakamidaṃ sarvavanditamīpsitam || 14 || pāpedhmavahnirūpaṃ ca gṛhyatāṃ kamalālaye | puṣpacandanadūrvādisaṃyutaṃ jāhnavījalam || 15 || śaṅkhagarbhasthitaṃ svarghyaṃ gṛhyatāṃ padmavāsini | sugandhipuṣpatailaṃ ca sugandhāmalakīphalam || 16 || dehasaundaryabījaṃ ca gṛhyatāṃ śrīhareḥ priye | kārpāsajaṃ ca kṛmijaṃ vasanaṃ devi gṛhyatām || 17 || ratnasvarṇavikāraṃ ca dehabhūṣāvivardhanam | śobhāyai śrīkaraṃ ratnaṃ bhūṣaṇaṃ devi gṛhyatām || 18 || sarvasaundaryabījaṃ ca sadyaḥ śobhākaraṃ param | vṛkṣaniryāsarūpaṃ ca gandhadravyādisaṃyutam || 19 || śrīkṛṣṇakānte dhūpaṃ ca pavitraṃ pratigṛhyatām | sugandhiyuktaṃ sukhadaṃ candanaṃ devi gṛhyatām || 20 || jagaccakṣuḥsvarūpaṃ ca pavitraṃ timirāpaham | pradīpaṃ sukharūpaṃ ca gṛhyatāṃ ca sureśvari || 21 || nānopahārarūpaṃ ca nānārasasamanvitam | atisvādukaraṃ caiva naivedyaṃ pratigṛhyatām || 22 || annaṃ brahmasvarūpaṃ ca prāṇarakṣaṇakāraṇam | tuṣṭidaṃ puṣṭidaṃ caiva devyannaṃ pratigṛhyatām || 23 || śālyannajaṃ supakvaṃ ca śarkarāgavyasaṃyutam | svāduyuktaṃ mahālakṣmi paramānnaṃ pragṛhyatām || 24 || śarkarāgavyapakvaṃ ca susvādu sumanoharam | svastikaṃ nāma naivedyaṃ gṛhāṇa parameśvari || 25 || nānāvidhāni ramyāṇi pakvānnāni phalāni ca | surabhistanasaṃtyaktaṃ susvādu sumanoharam || 26 || martyāmṛtaṃ sugavyaṃ ca gṛhyatāmacyutapriye | susvādu rasasaṃyuktamikṣuvṛkṣasamudbhavam || 27 || agnipakvamatisvādu guḍaṃ ca pratigṛhyatām | yavagodhūmasasyānāṃ cūrṇareṇusamudbhavam || 28 || supakvaṃ guḍagavyāktaṃ miṣṭānnaṃ devi gṛhyatām | sasyacūrṇodbhavaṃ pakvaṃ svastikādisamanvitam || 29 || mayā niveditaṃ bhaktyā naivedyaṃ pratigṛhyatām | śītavāyupradaṃ caiva dāhe ca sukhadaṃ param || 30 || kamale gṛhyatāṃ cedaṃ vyajanaṃ śvetacāmaram | tāmbūlaṃ ca varaṃ ramyaṃ karpūrādisuvāsitam || 31 || jihvājāḍyacchedakaraṃ tāmbūlaṃ pratigṛhyatām | suvāsitaṃ suśītaṃ ca pipāsānāśakāraṇam || 32 || jagajjīvanarūpaṃ ca jīvanaṃ devi gṛhyatām | dehasaundaryabījaṃ ca sadā śobhāvivardhanam || 33 || kārpāsajaṃ ca kṛmijaṃ vasanaṃ devi gṛhyatām | raktasvarṇavikāraṃ ca dehabhūṣādivardhanam || 34 || śobhādhāraṃ śrīkaraṃ ca bhūṣaṇaṃ devi gṛhyatām | nānāṛtuṣu nirmāṇaṃ bahuśobhāśrayaṃ param || 35 || surabhūpapriyaṃ śuddhaṃ mālyaṃ devi pragṛhyatām | śuddhidaṃ śuddharūpaṃ ca sarvamaṅgalamaṅgalam || 36 || gandhavastūdbhavaṃ ramyaṃ gandhaṃ devi pragṛhyatām | puṇyatīrthodakaṃ caiva viśuddhaṃ śuddhidaṃ sadā || 37 || gṛhyatāṃ kṛṣṇakānte tvaṃ ramyamācamanīyakam | ratnasārādinirmāṇaṃ puṣpacandanacarcitam || 38 || ratnabhūṣaṇabhūṣāḍhyaṃ sutalpaṃ devi gṛhyatām | yadyad dravyamapūrvaṃ ca pṛthivyāmapi durlabham || 39 || devabhūṣārhabhogyaṃ ca tad dravyaṃ devi gṛhyatām | dravyāṇyetāni dattvā ca mūlena devapuṅgavaḥ || 40 || mūlaṃ jajāpa bhaktyā ca daśalakṣaṃ vidhānataḥ | japena daśalakṣeṇa mantrasiddhirbabhūva ha || 41 || mantraśca brahmaṇā dattaḥ kalpavṛkṣaśca sarvataḥ | lakṣmīrmāyā kāmavāṇī ṅe'ntā kamalavāsinī || 42 || vaidiko mantrarājo'yaṃ prasiddhaḥ svāhayānvitaḥ | kubero'nena mantreṇa paramaiśvaryamāptavān || 43 || rājarājeśvaro dakṣaḥ sāvarṇirmanureva ca | maṅgalo'nena mantreṇa saptadvīpe'vanīpatiḥ || 44 || priyavratottānapādau kedāro nṛpa eva ca | ete siddhāśca rājendrā mantreṇānena nārada || 45 || siddhe mantre mahālakṣmīḥ śakrāya darśanaṃ dadau | ratnendrasāranirmāṇavimānasthā varapradā || 46 || saptadvīpavatīṃ pṛthvīṃ chādayantī tviṣā ca sā | śvetacampakavarṇābhā ratnabhūṣaṇabhūṣitā || 47 || īṣaddhāsyaprasannāsyā bhaktānugrahakātarā | bibhratī ratnamālāṃ ca koṭicandrasamaprabhām || 48 || dṛṣṭvā jagatprasūṃ śāntāṃ tuṣṭāvaitāṃ purandaraḥ | pulakāñcitasarvāṅgaḥ sāśrunetraḥ kṛtāñjaliḥ || 49 || brahmaṇā ca pradattena stotrarājena saṃyutaḥ | sarvābhīṣṭapradenaiva vaidikenaiva tatra ca || 50 || purandara uvāca namaḥ kamalavāsinyai nārāyaṇyai namo namaḥ | kṛṣṇapriyāyai satataṃ mahālakṣyai namo namaḥ || 51 || padmapatrekṣaṇāyai ca padmāsyāyai namo namaḥ | padmāsanāyai padminyai vaiṣṇavyai ca namo namaḥ || 52 || sarvasampatsvarūpiṇyai sarvārādhyai namo namaḥ | haribhaktipradātryai ca harṣadātryai namo namaḥ || 53 || kṛṣṇavakṣaḥsthitāyai ca kṛṣṇeśāyai namo namaḥ | candraśobhāsvarūpāyai ratnapadme ca śobhane || 54 || sampattyadhiṣṭhātṛdevyai mahādevyai namo namaḥ | namo vṛddhisvarūpāyai vṛddhidāyai namo namaḥ || 55 || vaikuṇṭhe yā mahālakṣmīryā lakṣmīḥ kṣīrasāgare | svargalakṣmīrindragehe rājalakṣmīrnṛpālaye || 56 || gṛhalakṣmīśca gṛhiṇāṃ gehe ca gṛhadevatā | surabhiḥ sāgare jātā dakṣiṇā yajñakāminī || 57 || aditirdevamātā tvaṃ kamalā kamalālayā | svāhā tvaṃ ca havirdāne kavyadāne svadhā smṛtā || 58 || tvaṃ hi viṣṇusvarūpā ca sarvādhārā vasundharā | śuddhasattvasvarūpā tvaṃ nārāyaṇaparāyaṇā || 59 || krodhahiṃsāvarjitā ca varadā śāradā śubhā | paramārthapradā tvaṃ ca haridāsyapradā parā || 60 || yayā vinā jagatsarvaṃ bhasmībhūtamasārakam | jīvanmṛtaṃ ca viśvaṃ ca śaśvatsarvaṃ yayā vinā || 61 || sarveṣāṃ ca parā mātā sarvabāndhavarūpiṇī | dharmārthakāmamokṣāṇāṃ tvaṃ ca kāraṇarūpiṇī || 62 || yathā mātā stanāndhānāṃ śiśūnāṃ śaiśave sadā | tathā tvaṃ sarvadā mātā sarveṣāṃ sarvarūpataḥ || 63 || mātṛhīnaḥ stanāndhastu sa ca jīvati daivataḥ | tvayā hīno janaḥ ko'pi na jīvatyeva niścitam || 64 || suprasannasvarūpā tvaṃ māṃ prasannā bhavāmbike | vairigrastaṃ ca viṣayaṃ dehi mahyaṃ sanātani || 65 || ahaṃ yāvattvayā hīno bandhuhīnaśca bhikṣukaḥ | sarvasampadvihīnaśca tāvadeva haripriye || 66 || jñānaṃ dehi ca dharmaṃ ca sarvasaubhāgyamīpsitam | prabhāvañca pratāpaṃ ca sarvādhikārameva ca || 67 || jayaṃ parākramaṃ yuddhe paramaiśvaryameva ca | ityuktvā ca mahendraśca sarvaiḥ suragaṇaiḥ saha || 68 || praṇanāma sāśrunetro mūrdhnā caiva punaḥ punaḥ | brahmā ca śaṅkaraścaiva śeṣo dharmaśca keśavaḥ || 69 || sarve cakruḥ parīhāraṃ surārthe ca punaḥ punaḥ | devebhyaśca varaṃ dattvā puṣpamālāṃ manoharām || 70 || keśavāya dadau lakṣmīḥ santuṣṭā surasaṃsadi | yayurdevāśca santuṣṭāḥ svaṃ svaṃ sthānaṃ ca nārada || 71 || devī yayau hareḥ sthānaṃ hṛṣṭā kṣīrodaśāyinaḥ | yayatuścaiva svagṛhaṃ brahmeśānau ca nārada || 72 || dattvā śubhāśiṣaṃ tau ca devebhyaḥ prītipūrvakam | idaṃ stotraṃ mahāpuṇyaṃ trisandhyaṃ yaḥ paṭhennaraḥ || 73 || kuberatulyaḥ sa bhavedrājarājeśvaro mahān | pañcalakṣajapenaiva stotrasiddhirbhavennṛṇām || 74 || siddhastotraṃ yadi paṭhenmāsamekaṃ tu santatam | mahāsukhī ca rājendro bhaviṣyati na saṃśayaḥ || 75 ||
English translation
1-50. Narada said O Bhagavan! I have heard about the glories of Hari, about the Tattvajhanam (the True Knowledge) and the story of Laksmi. Now tell me Her Dhyanam (meditation) and Stotram (recitation of hymns) of Her. Narayana said O Narada! Indra then, bathed first in the Tirath (holy place) and, wearing a cleansed cloth, installed, first of all, an earthen jar (ghata) on the beach of the Ksiroda Ocean. Then he worshipped with devotion Ganes’a, Surya, Fire, Visnu, S’iva, and S’iva, the six deities with scents and flowers. Next Indra invoked Maha Laksmi, of the nature of the highest powers and greatest prosperity, and began to worship Her as Brahma, who was acting as an officiating priest in the presence of the Munis, Brahmanas, Brihaspati, Hari and the other Devas, had dictated him. He first smeared one Parijata flower with sandal paste and reciting the meditation mantra of Maha Laksmi offered it to Her feet. The meditation mantra that was recited by Devendra, was what Bhagavan Hari first gave to Brahma. I am now telling you that. Listen.
“O Mother! Thou residest on the thousand-petalled lotus. The beauty of Thy face excels the beauty of koti autumnal Full Moons. Thou art shining with Thy own splendour. Thou art very beautiful and lovely; Thy colour is like the burnished gold; Thou art with form, chaste, ornamented all over with jewel ornaments; Thou art wearing the yellow cloth and look! What beauty is coming out of it! Always a sweet smile reigns on Thy lips. Thy beauty is constant; Thou art the bestower of prosperity to all. O Maha Laksmi! I meditate on Thee.” Thus meditating on Her endowed with various attributes with this mantra, Indra worshipped devotedly with sixteen upacharas (articles offered). Every upachara (article) was offered with the repetition of mantra. All the things were very excellent, right and commendable.
“O Maha Laksmi! VisVakarma has made this invaluable Asan (a carpet seat) wonderfully decked with jewels; I am offering this Asan to Thee. Accept. O Thou residing in the Lotus! This holy Ganges water is considered with great regard and desired by all. This is like the fire to burn the fuel in the shape of the sins of the sinners. O Thou! The Dweller in the Lotus! This Durbha grass, flowers, this Arghya (offering) of the Ganges water perfumed with sandalpaste, I am offering to Thee. Accept. O Beloved of Hari! This sweet scented flower oil and this sweet scented Amalaki fruit lead to the beauty of the body; therefore I present this to Thee. Accept. O Devi! I am presenting this cloth made of silk to Thee; Accept. O Devi! This excellent ornament made of gold and jewels, which increases the beauty, I am presenting to Thee. Accept. O Beloved of Krisna! I am presenting this sweet scented holy Dhupa prepared from various herbs and plants, exquisitely nice and the root of all beauty, to Thee. Accept. This sweet scented pleasant sandalpaste I offer to Thee, O Devi! Accept. O Ruler of the Devas! I present this pleasing holy DTpa (lights) which is the eye of this world and by which all the darkness is vanished; accept. O Devi! I present to Thee these very delicious offerings of fruits, etc., very juicy and of various kinds. Accept. O Deves'i! This Anna (food) is Brahma and the chief means to preserve the life of living beings. By this the nourishment of the body and the mental satisfaction are effected. Therefore I am presenting this food to Thee. Accept. O Maha Laksmi! I am presenting this most delicious Paramanna, which is prepared out of rice, milk and sugar, to Thee. Accept. O Devi! I am presenting this most delicious and pleasant svastika prepared of sugar and clarified butter to Thee; accept. O Beloved of Achyuta! I am presenting to Thee various beautiful Pakkannas, ripe delicious fruits and clarified butter out of cow’s milk; accept. O Devi! The sugarcane juice, when heated, yields a syrup which again heated yields very delicious and nice thing called Gur. I am presenting this Gur to Thee; accept. O Devi! I am presenting to Thee the sweetmeats prepared out of the flour of Yava and and wheat and Gur and clarified butter; accept. I am presenting with devotion the offering made of Svastika and the flour of other grains; accept. O Kamale! I am presenting to Thee this fan
and white chamara, which blows cool air and is very pleasant when this body gets hot; accept. O Devi! I am presenting this betel scented with camphor by which the inertness of the tongue is removed; accept. O Devi! I am presenting this scented cool water, which will allay the thirst and which is known as the life of this world; accept. O Devi! I am presenting this cloth made of cotton and silk that increases the beauty and splendour of the body. Accept. O Devi! I am presenting to Thee, the ornaments made of gold and jewels which are the source of beauty and loveliness. Accept. O Devi! I am presenting to Thee these pure garlands of flowers which blossom in different seasons, which look very beautiful and which give satisfaction to the Devas and to the kings. Accept. O Devi! I am presenting to Thee this nice scent, this very holy thing to Thee by which both the body and mind become pure, which is most auspicious and which is prepared of many fragrant herbs and plants; accept. O Beloved of the God Krisna! I am presenting this Achamaniya water to Thee for rinsing the mouth, pure and holy, and brought from holy places of pilgrimages; accept. O Devi! I am presenting to Thee, this bed made of excellent gems and jewels and flowers, sandalpaste, clothings and ornaments; accept. O Devi! I am presenting to Thee all those things that are extraordinary, very rare in this earth and fit to be enjoyed by the Devas and worthy of their ornaments; accept.” O Devarsi! Uttering those mantras, the Devendra offered those articles, with intense devotion according to the rules. He, then, made Japam of the Mula Mantra (the Radical Seed Mantra) ten lakhs of times. Thus his Mantra revealed the Deity thereof and thus came to a successful issue. The lotus born Brahma gave this Mantra “S’rim Hrim Klim Aim Kamalavasinyai Svaha” to the Devendra. This is like a Kalpavriksa (the tree in Indra’s garden yielding whatever may be desired). This Vaidik mantra is the chief of the mantras. The word “Svaha” is at the end of the mantra. By virtue of this Mantra, Kuvera got his highest prosperity. By the power of this Mantra, the King-Emperor Daksa Savarni Manu and Mangala became the lords of the earth with seven islands. Priyavrata, Uttanapada, and Kedararaja all these became Siddhas (were fructified with success) and became King-Emperors. O Narada!
When Indra attained success in this Mantra, there appeared before hinn Maha Laksmi, seated in the celestial car, decked with excellent gems and jewels. The Great Halo, coming out of Her body made manifest the earth with seven islands. Her colour was white like the white champaka flower and Her whole body was decked with ornaments. Her face was always gracious and cheerful with sweet smiles. She was ever ready to shew Her kindness to the Bhaktas.
On Her neck there was a garland of jewels and gems, bright as ten million Moons. O Devarsi! No sooner did Indra see that World Mother Maha Laksmi, of a peaceful appearance, than his body was filled with joy and the hairs of the body stood on ends. His eyes were filled with tears; and, with folded palms, he began to recite stotras to Her, the Vaidik stotras, yielding all desires, that was communicated to him by Brahma.
51-75. Indra said “O Thou, the Dweller in the lotus! O Narayani! O Dear to Krisna! O Padmasane! O Maha Laksmi!
Obeisance to Thee! O Padmadaleksane! O Padmanibhanane! O Padmasane! O Padme! O Vaisnavi! Obeisance to Thee! Thou art the wealth of all; Thou art worshipped by all; Thou bestowest to all the bliss and devotion to S’ri Hari. I bow down to Thee. O Devi! Thou always dwellest on the breast of Krisna and exercisest Thy powers over Him. Thou art the beauty of the Moon; Thou takest Thy seat on the beautiful Jewel Lotus. Obeisance to Thee! O Devi! Thou art the Presiding Deity of the riches; Thou art the Great Devi; Thou increasest always Thy gifts and Thou art the bestower of increments. So I bow down to Thee. O Devi! Thou art the Maha Laksmi of Vaikuntha, the Laksmi of the Ksiroda Ocean; Thou art Indra’s Heavenly Laksmi; Thou art the Raja Laksmi of the Kings; Thou art the Griha Laksmi of the householders; Thou art the household Deity of them; Thou art the Surabhi, born of the Ocean; Thou art the Daksina, the wife of the Sacrifices; Thou art Aditi, the Mother of the
Devas; Thou art the Kamala, always dwelling in the Lotus; Thou art the Svaha, in the offerings with clarified butter in the sacrificial ceremonies; Thou art the Svadha Mantra in the Kavyas (an offering of food to deceased ancestors). So obeisance to Thee! O Mother Thou art of the nature of Visnu; Thou art the Earth that supports all; Thou art of pure S’uddha Sattva and Thou art devoted to Narayana. Thou art void of anger, jealousy. Rather Thou grantest boons to all. Thou art the auspicious Sarada; Thou grantest the Highest Reality and the devotional service to Hari. Without Thee all the worlds are quite stale, to no purpose like ashes, always dead while existing. Thou art the Chief Mother, the Chief Friend of all; Thou art the source of Dharma, Artha, Kama and Moksa! As a mother nourishes her infants with the milk of her breasts, so Thou nourishest all as their mother! A child that sucks the milk might be saved by the Daiva (Fate), when deprived of its mother; but men can never be saved, if they be bereft of Thee! O Mother! Thou art always gracious. Please be gracious unto me. O Eternal One! My possessions are now in the hands of the enemies. Be kind enough to restore my kingdoms to me from my enemies’ hands. O Beloved of Hari! Since Thou hast forsaken me, I am wandering abroad, friendless, like a beggar, deprived of all prosperities. O Devi! Give me Jhanam, Dharma, my desired fortune, power, influence and my possessions.” O Narada! Indra and all the other Devas bowed down frequently to Maha Laksmi with their eyes filled with tears. Brahma, S’ankara, Ananta Deva, Dharma and Kes’ava all asked pardon again and again from Maha Laksmi. Laksmi then granted boons to the Devas and before the assembly gladly gave the garland of flowers on the neck of Ke’sava. The Devas, satisfied, went back to their own places. The Devi, Laksmi, too, becoming very glad went to S’ri Hari sleeping in the Ksiroda Ocean. Brahma and Mahes’vara, both became very glad and, blessing the Devas, went respectively to their own abodes. Whoever recites this holy Stotra three times a day, becomes the King Emperor and gets prosperity and wealth like the God Kuvera. Siddhi (success) comes to him who recites this stotra five lakhs of times. If anybody reads regularly and always this Siddha Stotra for one month, he becomes very happy and he turns out a Rajarajendra.
Here ends the Forty-second Chapter of the Ninth Book on the Dhyanam and Stotra of Maha Laksmi in the Maha Puranam S’ri Mad Devi Bhagavatam of 18,000 verses by Maharsi Veda Vyasa.
Complete chapter-aligned witnesses. Sanskrit Wikisource page 24537, revision 75186 (2016-07-27T14:10:36Z). English is Swami Vijñanananda’s complete 1921–23 public-domain translation, controlled against the archival OCR and its chapter page at https://sacred-texts.com/hin/db/bk09ch42.htm. Historic spelling and transliteration are lightly normalized; no verse-by-verse alignment is asserted.