Skip to main content

Twelfth Skandha · Chapter 6

Chapter 6

Unit 310 of 318Twelfth Skandha · Chapter 6Twelfth Skandha · Chapter 61 source entries

Twelfth Skandha · Chapter 6

Source

गायत्रीसहस्रनामस्तोत्रवर्णनम् नारद उवाच भगवन्सर्वधर्मज्ञ सर्वशास्त्रविशारद । श्रुतिस्मृतिपुराणानां रहस्यं त्वन्मुखाच्छ्रुतम् ॥ १ ॥ सर्वपापहरं देव येन विद्या प्रवर्तते । केन वा ब्रह्मविज्ञानं किं नु वा मोक्षसाधनम् ॥ २ ॥ ब्राह्मणानां गतिः केन केन वा मृत्युनाशनम् । ऐहिकामुष्मिकफलं केन वा पद्मलोचन ॥ ३ ॥ वक्तुमर्हस्यशेषेण सर्वं निखिलमादितः । श्रीनारायण उवाच साधु साधु महाप्राज्ञ सम्यक् पृष्टं त्वयानघ ॥ ४ ॥ शृणु वक्ष्यामि यत्‍नेन गायत्र्यष्टसहस्रकम् । नाम्नां शुभानां दिव्यानां सर्वपापविनाशनम् ॥ ५ ॥ सृष्ट्यादौ यद्‍भगवता पूर्वं प्रोक्तं ब्रवीमि ते । अष्टोत्तरसहस्रस्य ऋषिर्ब्रह्मा प्रकीर्तितः ॥ ६ ॥ छन्दोऽनुष्टुप् तथा देवी गायत्री देवता स्मृता । हलो बीजानि तस्यैव स्वराः शक्तय ईरिताः ॥ ७ ॥ अङ्‌गन्यासकरन्यासावुच्येते मातृकाक्षरैः । अथ ध्यानं प्रवक्ष्यामि साधकानां हिताय वै ॥ ८ ॥ रक्तश्वेतहिरण्यनीलधवलैर्युक्तां त्रिनेत्रोज्ज्वलां रक्तां रक्तनवस्रजं मणिगणैर्युक्तां कुमारीमिमाम् । गायत्रीं कमलासनां करतलव्यानद्धकुण्डाम्बुजां पद्माक्षीं च वरस्रजं च दधतीं हंसाधिरूढां भजे ॥ ९ ॥ अचिन्त्यलक्षणाव्यक्ताप्यर्थमातृमहेश्वरी । अमृतार्णवमध्यस्थाप्यजिता चापराजिता ॥ १० ॥ अणिमादिगुणाधाराप्यर्कमण्डलसंस्थिता । अजराजापराधर्मा अक्षसूत्रधराधरा ॥ ११ ॥ अकारादिक्षकारान्ताप्यरिषड्वर्गभेदिनी । अञ्जनाद्रिप्रतीकाशाप्यञ्जनाद्रिनिवासिनी ॥ १२ ॥ अदितिश्चाजपाविद्याप्यरविन्दनिभेक्षणा । अन्तर्बहिःस्थिताविद्याध्वंसिनी चान्तरात्मिका ॥ १३ ॥ अजा चाजमुखावासाप्यरविन्दनिभानना । अर्धमात्रार्थदानज्ञाप्यरिमण्डलमर्दिनी ॥ १४ ॥ असुरघ्नीह्यमावास्याप्यलक्ष्मीघ्न्यन्त्यजार्चिता । आदिलक्ष्मीश्चादिशक्तिराकृतिश्चायतानना ॥ १५ ॥ आदित्यपदवीचाराप्यादित्यपरिसेविता । आचार्यावर्तनाचाराप्यादिमूर्तिनिवासिनी ॥ १६ ॥ आग्नेयी चामरी चाद्या चाराध्या चासनस्थिता । आधारनिलयाधारा चाकाशान्तनिवासिनी ॥ १७ ॥ आद्याक्षरसमायुक्ता चान्तराकाशरूपिणी । आदित्यमण्डलगता चान्तरध्वान्तनाशिनी ॥ १८ ॥ इन्दिरा चेष्टदा चेष्टा चेन्दीवरनिभेक्षणा । इरावती चेन्द्रपदा चेन्द्राणी चेन्दुरूपिणी ॥ १९ ॥ इक्षुकोदण्डसंयुक्ता चेषुसन्धानकारिणी । इन्द्रनीलसमाकारा चेडापिङ्‌गलरूपिणी ॥ २० ॥ इन्द्राक्षी चेश्वरी देवी चेहात्रयविवर्जिता । उमा चोषा ह्युडुनिभा उर्वारुकफलानना ॥ २१ ॥ उडुप्रभा चोडुमती ह्युडुपा ह्युडुमध्यगा । ऊर्ध्वं चाप्यूर्ध्वकेशी चाप्यूर्ध्वाधोगतिभेदिनी ॥ २२ ॥ ऊर्ध्वबाहुप्रिया चोर्मिमालावाग्ग्रन्थदायिनी । ऋतं चर्षिर्ऋतुमती ऋषिदेवनमस्कृता ॥ २३ ॥ ऋग्वेदा ऋणहर्त्री च ऋषिमण्डलचारिणी । ऋद्धिदा ऋजुमार्गस्था ऋजुधर्मा ऋतुप्रदा ॥ २४ ॥ ऋग्वेदनिलया ऋज्वी लुप्तधर्मप्रवर्तिनी । लूतारिवरसम्भूता लूतादिविषहारिणी ॥ २५ ॥ एकाक्षरा चैकमात्रा चैका चैकैकनिष्ठिता । ऐन्द्री ह्यैरावतारूढा चैहिकामुष्मिकप्रदा ॥ २६ ॥ ओङ्‌कारा ह्योषधी चोता चोतप्रोतनिवासिनी । और्वा ह्यौषधसम्पन्ना औपासनफलप्रदा ॥ २७ ॥ अण्डमध्यस्थिता देवी चाःकारमनुरूपिणी । कात्यायनी कालरात्रिः कामाक्षी कामसुन्दरी ॥ २८ ॥ कमला कामिनी कान्ता कामदा कालकण्ठिनी । करिकुम्भस्तनभरा करवीरसुवासिनी ॥ २९ ॥ कल्याणी कुण्डलवती कुरुक्षेत्रनिवासिनी । कुरुविन्ददलाकारा कुण्डली कुमुदालया ॥ ३० ॥ कालजिह्वा करालास्या कालिका कालरूपिणी । कमनीयगुणा कान्तिः कलाधारा कुमुद्वती ॥ ३१ ॥ कौशिकी कमलाकारा कामचारप्रभञ्जिनी । कौमारी करुणापाङ्‌गी ककुबन्ता करिप्रिया ॥ ३२ ॥ केसरी केशवनुता कदम्बकुसुमप्रिया । कालिन्दी कालिका काञ्ची कलशोद्‍भवसंस्तुता ॥ ३३ ॥ काममाता क्रतुमती कामरूपा कृपावती । कुमारी कुण्डनिलया किराती कीरवाहना । ३४ ॥ कैकेयी कोकिलालापा केतकी कुसुमप्रिया । कमण्डलुधरा काली कर्मनिर्मूलकारिणी ॥ ३५ ॥ कलहंसगतिः कक्षा कृतकौतुकमङ्‌गला । कस्तूरीतिलका कम्रा करीन्द्रगमना कुहूः ॥ ३६ ॥ कर्पूरलेपना कृष्णा कपिला कुहराश्रया । कूटस्था कुधरा कम्रा कुक्षिस्थाखिलविष्टपा ॥ ३७ ॥ खड्गखेटकरा खर्वा खेचरी खगवाहना । खट्वाङ्‌गधारिणी ख्याता खगराजोपरिस्थिता ॥ ३८ ॥ खलघ्नी खण्डितजरा खण्डाख्यानप्रदायिनी । खण्डेन्दुतिलका गङ्‌गा गणेशगुहपूजिता ॥ ३९ ॥ गायत्री गोमती गीता गान्धारी गानलोलुपा । गौतमी गामिनी गाथा गन्धर्वाप्सरसेविता ॥ ४० ॥ गोविन्दचरणाक्रान्ता गुणत्रयविभाविता । गन्धर्वी गह्वरी गोत्रा गिरीशा गहना गमी ॥ ४१ ॥ गुहावासा गुणवती गुरुपापप्रणाशिनी । गुर्वी गुणवती गुह्या गोप्तव्या गुणदायिनी ॥ ४२ ॥ गिरिजा गुह्यमातङ्‌गी गरुडध्वजवल्लभा । गर्वापहारिणी गोदा गोकुलस्था गदाधरा ॥ ४३ ॥ गोकर्णनिलयासक्ता गुह्यमण्डलवर्तिनी । घर्मदा घनदा घण्टा घोरदानवमर्दिनी ॥ ४४ ॥ घृणिमन्त्रमयी घोषा घनसम्पातदायिनी । घण्टारवप्रिया घ्राणा घृणिसन्तुष्टकारिणी ॥ ४५ ॥ घनारिमण्डला घूर्णा घृताची घनवेगिनी । ज्ञानधातुमयी चर्चा चर्चिता चारुहासिनी ॥ ४६ ॥ चटुला चण्डिका चित्रा चित्रमाल्यविभूषिता । चतुर्भुजा चारुदन्ता चातुरी चरितप्रदा ॥ ४७ ॥ चूलिका चित्रवस्त्रान्ता चन्द्रमःकर्णकुण्डला । चन्द्रहासा चारुदात्री चकोरी चन्द्रहासिनी ॥ ४८ ॥ चन्द्रिका चन्द्रधात्री च चौरी चौरा च चण्डिका । चञ्चद्वाग्वादिनी चन्द्रचूडा चोरविनाशिनी ॥ ४९ ॥ चारुचन्दनलिप्ताङ्‌गी चञ्चच्चामरवीजिता । चारुमध्या चारुगतिश्चन्दिला चन्द्ररूपिणी ॥ ५० ॥ चारुहोमप्रिया चार्वाचरिता चक्रबाहुका । चन्द्रमण्डलमध्यस्था चन्द्रमण्डलदर्पणा ॥ ५१ ॥ चक्रवाकस्तनी चेष्टा चित्रा चारुविलासिनी । चित्स्वरूपा चन्द्रवती चन्द्रमाश्चन्दनप्रिया ॥ ५२ ॥ चोदयित्री चिरप्रज्ञा चातका चारुहेतुकी । छत्रयाता छत्रधरा छाया छन्दःपरिच्छदा ॥ ५३ ॥ छायादेवीच्छिद्रनखा छन्नेन्द्रियविसर्पिणी । छन्दोऽनुष्टुप्प्रतिष्ठान्ता छिद्रोपद्रवभेदिनी ॥ ५४ ॥ छेदा छत्रेश्वरी छिन्ना छुरिका छेदनप्रिया । जननी जन्मरहिता जातवेदा जगन्मयी ॥ ५५ ॥ जाह्नवी जटिला जेत्री जरामरणवर्जिता । जम्बूद्वीपवती ज्वाला जयन्ती जलशालिनी ॥ ५६ ॥ जितेन्द्रिया जितक्रोधा जितामित्रा जगत्प्रिया । जातरूपमयी जिह्वा जानकी जगती जरा ॥ ५७ ॥ जनित्री जह्नुतनया जगत्त्रयहितैषिणी । ज्वालामुखी जपवती ज्वरघ्नी जितविष्टपा ॥ ५८ ॥ जिताक्रान्तमयी ज्वाला जाग्रती ज्वरदेवता । ज्वलन्ती जलदा ज्येष्ठा ज्याघोषास्फोटदिङ्‌मुखी ॥ ५९ ॥ जम्भिनी जृम्भणा जृम्भा ज्वलन्माणिक्यकुण्डला । झिंझिका झणनिर्घोषा झंझामारुतवेगिनी ॥ ६० ॥ झल्लरीवाद्यकुशला ञरूपा ञभुजा स्मृता । टङ्‌कबाणसमायुक्ता टङ्‌किनी टङ्‌कभेदिनी ॥ ६१ ॥ टङ्‌कीगणकृताघोषा टङ्कनीयमहोरसा । टङ्‌कारकारिणी देवी ठठशब्दनिनादिनी ॥ ६२ ॥ डामरी डाकिनी डिम्भा डुण्डुमारैकनिर्जिता । डामरीतन्त्रमार्गस्था डमड्डमरुनादिनी ॥ ६३ ॥ डिण्डीरवसहा डिम्भलसत्क्रीडापरायणा । ढुण्ढिविघ्नेशजननी ढक्काहस्ता ढिलिव्रजा ॥ ६४ ॥ नित्यज्ञाना निरुपमा निर्गुणा नर्मदा नदी । त्रिगुणा त्रिपदा तन्त्री तुलसीतरुणातरुः ॥ ६५ ॥ त्रिविक्रमपदाक्रान्ता तुरीयपदगामिनी । तरुणादित्यसङ्‌काशा तामसी तुहिना तुरा ॥ ६६ ॥ त्रिकालज्ञानसम्पन्ना त्रिवेणी च त्रिलोचना । त्रिशक्तिस्त्रिपुरा तुङ्‌गा तुरङ्‌गवदना तथा ॥ ६७ ॥ तिमिङ्‌गिलगिला तीव्रा त्रिस्रोता तामसादिनी । तन्त्रमन्त्रविशेषज्ञा तनुमध्या त्रिविष्टपा ॥ ६८ ॥ त्रिसन्ध्या त्रिस्तनी तोषासंस्था तालप्रतापिनी । ताटङ्‌किनी तुषाराभा तुहिनाचलवासिनी ॥ ६९ ॥ तन्तुजालसमायुक्ता तारहारावलिप्रिया । तिलहोमप्रिया तीर्था तमालकुसुमाकृतिः ॥ ७० ॥ तारका त्रियुता तन्वी त्रिशङ्‌कुपरिवारिता । तलोदरी तिलाभूषा ताटङ्‌कप्रियवाहिनी ॥ ७१ ॥ त्रिजटा तित्तिरी तृष्णा त्रिविधा तरुणाकृतिः । तप्तकाञ्चनसंकाशा तप्तकाञ्चनभूषणा ॥ ७२ ॥ त्रैयम्बका त्रिवर्गा च त्रिकालज्ञानदायिनी । तर्पणा तृप्तिदा तृप्ता तामसी तुम्बुरुस्तुता ॥ ७३ ॥ तार्क्ष्यस्था त्रिगुणाकारा त्रिभङ्‌गी तनुवल्लरिः । थात्कारी थारवा थान्ता दोहिनी दीनवत्सला ॥ ७४ ॥ दानवान्तकरी दुर्गा दुर्गासुरनिबर्हिणी । देवरीतिर्दिवारात्रिर्द्रौपदी दुन्दुभिस्वना ॥ ७५ ॥ देवयानी दुरावासा दारिद्र्योद्‍भेदिनी दिवा । दामोदरप्रिया दीप्ता दिग्वासा दिग्विमोहिनी ॥ ७६ ॥ दण्डकारण्यनिलया दण्डिनी देवपूजिता । देववन्द्या दिविषदा द्वेषिणी दानवाकृतिः ॥ ७७ ॥ दीनानाथस्तुता दीक्षा दैवतादिस्वरूपिणी । धात्री धनुर्धरा धेनुर्धारिणी धर्मचारिणी ॥ ७८ ॥ धरंधरा धराधारा धनदा धान्यदोहिनी । धर्मशीला धनाध्यक्षा धनुर्वेदविशारदा ॥ ७९ ॥ धृतिर्धन्या धृतपदा धर्मराजप्रिया ध्रुवा । धूमावती धूमकेशी धर्मशास्त्रप्रकाशिनी ॥ ८० ॥ नन्दा नन्दप्रिया निद्रा नृनुता नन्दनात्मिका । नर्मदा नलिनी नीला नीलकण्ठसमाश्रया ॥ ८१ ॥ नारायणप्रिया नित्या निर्मला निर्गुणा निधिः । निराधारा निरुपमा नित्यशुद्धा निरञ्जना ॥ ८२ ॥ नादबिन्दुकलातीता नादबिन्दुकलात्मिका । नृसिंहिनी नगधरा नृपनागविभूषिता ॥ ८३ ॥ नरकक्लेशशमनी नारायणपदोद्‍भवा । निरवद्या निराकारा नारदप्रियकारिणी ॥ ८४ ॥ नानाज्योतिःसमाख्याता निधिदा निर्मलात्मिका । नवसूत्रधरा नीतिर्निरुपद्रवकारिणी ॥ ८५ ॥ नन्दजा नवरत्‍नाढ्या नैमिषारण्यवासिनी । नवनीतप्रिया नारी नीलजीमूतनिःस्वना ॥ ८६ ॥ निमेषिणी नदीरूपा नीलग्रीवा निशीश्वरी । नामावलिर्निशुम्भघ्नी नागलोकनिवासिनी ॥ ८७ ॥ नवजाम्बूनदप्रख्या नागलोकाधिदेवता । नूपुराक्रान्तचरणा नरचित्तप्रमोदिनी ॥ ८८ ॥ निमग्नारक्तनयना निर्घातसमनिःस्वना । नन्दनोद्याननिलया निर्व्यूहोपरिचारिणी ॥ ८९ ॥ पार्वती परमोदारा परब्रह्मात्मिका परा । पञ्चकोशविनिर्मुक्ता पञ्चपातकनाशिनी ॥ ९० ॥ परचित्तविधानज्ञा पञ्चिका पञ्चरूपिणी । पूर्णिमा परमा प्रीतिः परतेजः प्रकाशिनी ॥ ९१ ॥ पुराणी पौरुषी पुण्या पुण्डरीकनिभेक्षणा । पातालतलनिर्मग्ना प्रीता प्रीतिविवर्धिनी ॥ ९२ ॥ पावनी पादसहिता पेशला पवनाशिनी । प्रजापतिः परिश्रान्ता पर्वतस्तनमण्डला ॥ ९३ ॥ पद्मप्रिया पद्मसंस्था पद्माक्षी पद्मसम्भवा । पद्मपत्रा पद्मपदा पद्मिनी प्रियभाषिणी ॥ ९४ ॥ पशुपाशविनिर्मुक्ता पुरन्ध्री पुरवासिनी । पुष्कला पुरुषा पर्वा पारिजातसुमप्रिया ॥ ९५ ॥ पतिव्रता पवित्राङ्‌गी पुष्पहासपरायणा । प्रज्ञावतीसुता पौत्री पुत्रपूज्या पयस्विनी ॥ ९६ ॥ पट्टिपाशधरा पङ्‌क्तिः पितृलोकप्रदायिनी । पुराणी पुण्यशीला च प्रणतार्तिविनाशिनी ॥ ९७ ॥ प्रद्युम्नजननी पुष्टा पितामहपरिग्रहा । पुण्डरीकपुरावासा पुण्डरीकसमानना ॥ ९८ ॥ पृथुजङ्‌घा पृथुभुजा पृथुपादा पृथूदरी । प्रवालशोभा पिङ्‌गाक्षी पीतवासाः प्रचापला ॥ ९९ ॥ प्रसवा पुष्टिदा पुण्या प्रतिष्ठा प्रणवागतिः । पञ्चवर्णा पञ्चवाणी पञ्चिका पञ्जरस्थिता ॥ १०० ॥ परमाया परज्योतिः परप्रीतिः परागतिः । पराकाष्ठा परेशानी पावनी पावकद्युतिः ॥ १०१ ॥ पुण्यभद्रा परिच्छेद्या पुष्पहासा पृथूदरी । पीताङ्‌गी पीतवसना पीतशय्या पिशाचिनी ॥ १०२ ॥ पीतक्रिया पिशाचघ्नी पाटलाक्षी पटुक्रिया । पञ्चभक्षप्रियाचारा पूतनाप्राणघातिनी ॥ १०३ ॥ पुन्नागवनमध्यस्था पुण्यतीर्थनिषेविता । पञ्चाङ्‌गी च पराशक्तिः परमाह्लादकारिणी ॥ १०४ ॥ पुष्पकाण्डस्थिता पूषा पोषिताखिलविष्टपा । पानप्रिया पञ्चशिखा पन्नगोपरिशायिनी ॥ १०५ ॥ पञ्चमात्रात्मिका पृथ्वी पथिका पृथुदोहिनी । पुराणन्यायमीमांसा पाटली पुष्पगन्धिनी ॥ १०६ ॥ पुण्यप्रजा पारदात्री परमार्गैकगोचरा । प्रवालशोभा पूर्णाशा प्रणवा पल्लवोदरी ॥ १०७ ॥ फलिनी फलदा फल्गुः फूत्कारी फलकाकृतिः । फणीन्द्रभोगशयना फणिमण्डलमण्डिता ॥ १०८ ॥ बालबाला बहुमता बालातपनिभांशुका । बलभद्रप्रिया वन्द्या वडवा बुद्धिसंस्तुता ॥ १०९ ॥ बन्दीदेवी बिलवती बडिशघ्नी बलिप्रिया । बान्धवी बोधिता बुद्धिर्बन्धूककुसुमप्रिया ॥ ११० ॥ बालभानुप्रभाकारा ब्राह्मी ब्राह्मणदेवता । बृहस्पतिस्तुता वृन्दा वृन्दावनविहारिणी ॥ १११ ॥ बालाकिनी बिलाहारा बिलवासा बहूदका । बहुनेत्रा बहुपदा बहुकर्णावतंसिका ॥ ११२ ॥ बहुबाहुयुता बीजरूपिणी बहुरूपिणी । बिन्दुनादकलातीता बिन्दुनादस्वरूपिणी ॥ ११३ ॥ बद्धगोधाङ्‌गुलित्राणा बदर्याश्रमवासिनी । बृन्दारका बृहत्स्कन्धा बृहती बाणपातिनी ॥ ११४ ॥ वृन्दाध्यक्षा बहुनुता वनिता बहुविक्रमा । बद्धपद्मासनासीना बिल्वपत्रतलस्थिता ॥ ११५ ॥ बोधिद्रुमनिजावासा बडिस्था बिन्दुदर्पणा । बाला बाणासनवती वडवानलवेगिनी ॥ ११६ ॥ ब्रह्माण्डबहिरन्तःस्था ब्रह्मकङ्‌कणसूत्रिणी । भवानी भीषणवती भाविनी भयहारिणी ॥ ११७ ॥ भद्रकाली भुजङ्‌गाक्षी भारती भारताशया । भैरवी भीषणाकारा भूतिदा भूतिमालिनी ॥ ११८ ॥ भामिनी भोगनिरता भद्रदा भूरिविक्रमा । भूतवासा भृगुलता भार्गवी भूसुरार्चिता ॥ ११९ ॥ भागीरथी भोगवती भवनस्था भिषग्वरा । भामिनी भोगिनी भाषा भवानी भूरिदक्षिणा ॥ १२० ॥ भर्गात्मिका भीमवती भवबन्धविमोचिनी । भजनीया भूतधात्रीरञ्जिता भुवनेश्वरी ॥ १२१ ॥ भुजङ्‌गवलया भीमा भेरुण्डा भागधेयिनी । माता माया मधुमती मधुजिह्वा मधुप्रिया ॥ १२२ ॥ महादेवी महाभागा मालिनी मीनलोचना । मायातीता मधुमती मधुमांसा मधुद्रवा ॥ १२३ ॥ मानवी मधुसम्भूता मिथिलापुरवासिनी । मधुकैटभसंहर्त्री मेदिनी मेघमालिनी ॥ १२४ ॥ मन्दोदरी महामाया मैथिली मसृणप्रिया । महालक्ष्मीर्महाकाली महाकन्या महेश्वरी ॥ १२५ ॥ माहेन्द्री मेरुतनया मन्दारकुसुमार्चिता । मञ्जुमञ्जीरचरणा मोक्षदा मञ्जुभाषिणी ॥ १२६ ॥ मधुरद्राविणी मुद्रा मलया मलयान्विता । मेधा मरकतश्यामा मागधी मेनकात्मजा ॥ १२७ ॥ महामारी महावीरा महाश्यामा मनुस्तुता । मातृका मिहिराभासा मुकुन्दपदविक्रमा ॥ १२८ ॥ मूलाधारस्थिता मुग्धा मणिपूरकवासिनी । मृगाक्षी महिषारूढा महिषासुरमर्दिनी ॥ १२९ ॥ योगासना योगगम्या योगा यौवनकाश्रया । यौवनी युद्धमध्यस्था यमुना युगधारिणी ॥ १३० ॥ यक्षिणी योगयुक्ता च यक्षराजप्रसूतिनी । यात्रा यानविधानज्ञा यदुवंशसमुद्‍भवा ॥ १३१ ॥ यकारादिहकारान्ता याजुषी यज्ञरूपिणी । यामिनी योगनिरता यातुधानभयङ्‌करी ॥ १३२ ॥ रुक्मिणी रमणी रामा रेवती रेणुका रतिः । रौद्री रौद्रप्रियाकारा राममाता रतिप्रिया ॥ १३३ ॥ रोहिणी राज्यदा रेवा रमा राजीवलोचना । राकेशी रूपसम्पन्ना रत्‍नसिंहासनस्थिता ॥ १३४ ॥ रक्तमाल्याम्बरधरा रक्तगन्धानुलेपना । राजहंससमारूढा रम्भा रक्तबलिप्रिया ॥ १३५ ॥ रमणीययुगाधारा राजिताखिलभूतला । रुरुचर्मपरीधाना रथिनी रत्‍नमालिका ॥ १३६ ॥ रोगेशी रोगशमनी राविणी रोमहर्षिणी । रामचन्द्रपदाक्रान्ता रावणच्छेदकारिणी ॥ १३७ ॥ रत्‍नवस्त्रपरिच्छन्ना रथस्था रुक्मभूषणा । लज्जाधिदेवता लोला ललिता लिङ्‌गधारिणी ॥ १३८ ॥ लक्ष्मीर्लोला लुप्तविषा लोकिनी लोकविश्रुता । लज्जा लम्बोदरी देवी ललना लोकधारिणी ॥ १३९ ॥ वरदा वन्दिता विद्या वैष्णवी विमलाकृतिः । वाराही विरजा वर्षा वरलक्ष्मीर्विलासिनी ॥ १४० ॥ विनता व्योममध्यस्था वारिजासनसंस्थिता । वारुणी वेणुसम्भूता वीतिहोत्रा विरूपिणी ॥ १४१ ॥ वायुमण्डलमध्यस्था विष्णुरूपा विधिप्रिया । विष्णुपत्‍नी विष्णुमती विशालाक्षी वसुन्धरा ॥ १४२ ॥ वामदेवप्रिया वेला वज्रिणी वसुदोहिनी । वेदाक्षरपरीताङ्‌गी वाजपेयफलप्रदा ॥ १४३ ॥ वासवी वामजननी वैकुण्ठनिलया वरा । व्यासप्रिया वर्मधरा वाल्मीकिपरिसेविता ॥ १४४ ॥ शाकम्भरी शिवा शान्ता शारदा शरणागतिः । शातोदरी शुभाचारा शुम्भासुरविमर्दिनी ॥ १४५ ॥ शोभावती शिवाकारा शङ्‌करार्धशरीरिणी । शोणा शुभाशया शुभ्रा शिरःसन्धानकारिणी ॥ १४६ ॥ शरावती शरानन्दा शरज्ज्योत्स्ना शुभानना । शरभा शूलिनी शुद्धा शबरी शुकवाहना ॥ १४७ ॥ श्रीमती श्रीधरानन्दा श्रवणानन्ददायिनी । शर्वाणी शर्वरीवन्द्या षड्भाषा षड्‌ऋतुप्रिया ॥ १४८ ॥ षडाधारस्थिता देवी षण्मुखप्रियकारिणी । षडङ्‌गरूपसुमतिसुरासुरनमस्कृता ॥ १४९ ॥ सरस्वती सदाधारा सर्वमङ्‌गलकारिणी । सामगानप्रिया सूक्ष्मा सावित्री सामसम्भवा ॥ १५० ॥ सर्वावासा सदानन्दा सुस्तनी सागराम्बरा । सर्वैश्वर्यप्रिया सिद्धिः साधुबन्धुपराक्रमा ॥ १५१ ॥ सप्तर्षिमण्डलगता सोममण्डलवासिनी । सर्वज्ञा सान्द्रकरुणा समानाधिकवर्जिता ॥ १५२ ॥ सर्वोत्तुङ्‌गा सङ्‌गहीना सद्‌गुणा सकलेष्टदा । सरघा सूर्यतनया सुकेशी सोमसंहतिः ॥ १५३ ॥ हिरण्यवर्णा हरिणी ह्रींकारी हंसवाहिनी । क्षौमवस्त्रपरीताङ्‌गी क्षीराब्धितनया क्षमा ॥ १५४ ॥ गायत्री चैव सावित्री पार्वती च सरस्वती । वेदगर्भा वरारोहा श्रीगायत्री पराम्बिका ॥ १५५ ॥ इति साहस्रकं नाम्नां गायत्र्याश्चैव नारद । पुण्यदं सर्वपापघ्नं महासम्पत्तिदायकम् ॥ १५६ ॥ एवं नामानि गायत्र्यास्तोषोत्पत्तिकराणि हि । अष्टम्यां च विशेषेण पठितव्यं द्विजैः सह ॥ १५७ ॥ जपं कृत्वा होमपूजाध्यानं कृत्वा विशेषतः । यस्मै कस्मै न दातव्यं गायत्र्यास्तु विशेषतः ॥ १५८ ॥ सुभक्ताय सुशिष्याय वक्तव्यं भूसुराय वै । भ्रष्टेभ्यः साधकेभ्यश्च बान्धवेभ्यो न दर्शयेत् ॥ १५९ ॥ यद्‌गृहे लिखितं शास्त्रं भयं तस्य न कस्यचित् । चञ्चलापि स्थिरा भूत्वा कमला तत्र तिष्ठति ॥ १६० ॥ इदं रहस्यं परमं गुह्याद्‌गुह्यतरं महत् । पुण्यप्रदं मनुष्याणां दरिद्राणां निधिप्रदम् ॥ १६१ ॥ मोक्षप्रदं मुमुक्षूणां कामिनां सर्वकामदम् । रोगाद्वै मुच्यते रोगी बद्धो मुच्येत बन्धनात् ॥ १६२ ॥ बह्महत्यासुरापानसुवर्णस्तेयिनो नराः । गुरुतल्पगतो वापि पातकान्मुच्यते सकृत् ॥ १६३ ॥ असत्प्रतिग्रहाच्चैवाभक्ष्यभक्षाद्विशेषतः । पाखण्डानृतमुख्येभ्यः पठनादेव मुच्यते ॥ १६४ ॥ इदं रहस्यममलं मयोक्तं पद्मजोद्‍भव । ब्रह्मसायुज्यदं नॄणां सत्यं सत्यं न संशयः ॥ १६५ ॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां द्वादशस्कन्धे गायत्रीसहस्रनामस्तोत्रवर्णनं नाम षष्ठोऽध्यायः ॥ ६ ॥

gāyatrīsahasranāmastotravarṇanam nārada uvāca bhagavansarvadharmajña sarvaśāstraviśārada | śrutismṛtipurāṇānāṃ rahasyaṃ tvanmukhācchrutam || 1 || sarvapāpaharaṃ deva yena vidyā pravartate | kena vā brahmavijñānaṃ kiṃ nu vā mokṣasādhanam || 2 || brāhmaṇānāṃ gatiḥ kena kena vā mṛtyunāśanam | aihikāmuṣmikaphalaṃ kena vā padmalocana || 3 || vaktumarhasyaśeṣeṇa sarvaṃ nikhilamāditaḥ | śrīnārāyaṇa uvāca sādhu sādhu mahāprājña samyak pṛṣṭaṃ tvayānagha || 4 || śṛṇu vakṣyāmi yat‍nena gāyatryaṣṭasahasrakam | nāmnāṃ śubhānāṃ divyānāṃ sarvapāpavināśanam || 5 || sṛṣṭyādau yad‍bhagavatā pūrvaṃ proktaṃ bravīmi te | aṣṭottarasahasrasya ṛṣirbrahmā prakīrtitaḥ || 6 || chando'nuṣṭup tathā devī gāyatrī devatā smṛtā | halo bījāni tasyaiva svarāḥ śaktaya īritāḥ || 7 || aṅ‌ganyāsakaranyāsāvucyete mātṛkākṣaraiḥ | atha dhyānaṃ pravakṣyāmi sādhakānāṃ hitāya vai || 8 || raktaśvetahiraṇyanīladhavalairyuktāṃ trinetrojjvalāṃ raktāṃ raktanavasrajaṃ maṇigaṇairyuktāṃ kumārīmimām | gāyatrīṃ kamalāsanāṃ karatalavyānaddhakuṇḍāmbujāṃ padmākṣīṃ ca varasrajaṃ ca dadhatīṃ haṃsādhirūḍhāṃ bhaje || 9 || acintyalakṣaṇāvyaktāpyarthamātṛmaheśvarī | amṛtārṇavamadhyasthāpyajitā cāparājitā || 10 || aṇimādiguṇādhārāpyarkamaṇḍalasaṃsthitā | ajarājāparādharmā akṣasūtradharādharā || 11 || akārādikṣakārāntāpyariṣaḍvargabhedinī | añjanādripratīkāśāpyañjanādrinivāsinī || 12 || aditiścājapāvidyāpyaravindanibhekṣaṇā | antarbahiḥsthitāvidyādhvaṃsinī cāntarātmikā || 13 || ajā cājamukhāvāsāpyaravindanibhānanā | ardhamātrārthadānajñāpyarimaṇḍalamardinī || 14 || asuraghnīhyamāvāsyāpyalakṣmīghnyantyajārcitā | ādilakṣmīścādiśaktirākṛtiścāyatānanā || 15 || ādityapadavīcārāpyādityaparisevitā | ācāryāvartanācārāpyādimūrtinivāsinī || 16 || āgneyī cāmarī cādyā cārādhyā cāsanasthitā | ādhāranilayādhārā cākāśāntanivāsinī || 17 || ādyākṣarasamāyuktā cāntarākāśarūpiṇī | ādityamaṇḍalagatā cāntaradhvāntanāśinī || 18 || indirā ceṣṭadā ceṣṭā cendīvaranibhekṣaṇā | irāvatī cendrapadā cendrāṇī cendurūpiṇī || 19 || ikṣukodaṇḍasaṃyuktā ceṣusandhānakāriṇī | indranīlasamākārā ceḍāpiṅ‌galarūpiṇī || 20 || indrākṣī ceśvarī devī cehātrayavivarjitā | umā coṣā hyuḍunibhā urvārukaphalānanā || 21 || uḍuprabhā coḍumatī hyuḍupā hyuḍumadhyagā | ūrdhvaṃ cāpyūrdhvakeśī cāpyūrdhvādhogatibhedinī || 22 || ūrdhvabāhupriyā cormimālāvāggranthadāyinī | ṛtaṃ carṣirṛtumatī ṛṣidevanamaskṛtā || 23 || ṛgvedā ṛṇahartrī ca ṛṣimaṇḍalacāriṇī | ṛddhidā ṛjumārgasthā ṛjudharmā ṛtupradā || 24 || ṛgvedanilayā ṛjvī luptadharmapravartinī | lūtārivarasambhūtā lūtādiviṣahāriṇī || 25 || ekākṣarā caikamātrā caikā caikaikaniṣṭhitā | aindrī hyairāvatārūḍhā caihikāmuṣmikapradā || 26 || oṅ‌kārā hyoṣadhī cotā cotaprotanivāsinī | aurvā hyauṣadhasampannā aupāsanaphalapradā || 27 || aṇḍamadhyasthitā devī cāḥkāramanurūpiṇī | kātyāyanī kālarātriḥ kāmākṣī kāmasundarī || 28 || kamalā kāminī kāntā kāmadā kālakaṇṭhinī | karikumbhastanabharā karavīrasuvāsinī || 29 || kalyāṇī kuṇḍalavatī kurukṣetranivāsinī | kuruvindadalākārā kuṇḍalī kumudālayā || 30 || kālajihvā karālāsyā kālikā kālarūpiṇī | kamanīyaguṇā kāntiḥ kalādhārā kumudvatī || 31 || kauśikī kamalākārā kāmacāraprabhañjinī | kaumārī karuṇāpāṅ‌gī kakubantā karipriyā || 32 || kesarī keśavanutā kadambakusumapriyā | kālindī kālikā kāñcī kalaśod‍bhavasaṃstutā || 33 || kāmamātā kratumatī kāmarūpā kṛpāvatī | kumārī kuṇḍanilayā kirātī kīravāhanā | 34 || kaikeyī kokilālāpā ketakī kusumapriyā | kamaṇḍaludharā kālī karmanirmūlakāriṇī || 35 || kalahaṃsagatiḥ kakṣā kṛtakautukamaṅ‌galā | kastūrītilakā kamrā karīndragamanā kuhūḥ || 36 || karpūralepanā kṛṣṇā kapilā kuharāśrayā | kūṭasthā kudharā kamrā kukṣisthākhilaviṣṭapā || 37 || khaḍgakheṭakarā kharvā khecarī khagavāhanā | khaṭvāṅ‌gadhāriṇī khyātā khagarājoparisthitā || 38 || khalaghnī khaṇḍitajarā khaṇḍākhyānapradāyinī | khaṇḍendutilakā gaṅ‌gā gaṇeśaguhapūjitā || 39 || gāyatrī gomatī gītā gāndhārī gānalolupā | gautamī gāminī gāthā gandharvāpsarasevitā || 40 || govindacaraṇākrāntā guṇatrayavibhāvitā | gandharvī gahvarī gotrā girīśā gahanā gamī || 41 || guhāvāsā guṇavatī gurupāpapraṇāśinī | gurvī guṇavatī guhyā goptavyā guṇadāyinī || 42 || girijā guhyamātaṅ‌gī garuḍadhvajavallabhā | garvāpahāriṇī godā gokulasthā gadādharā || 43 || gokarṇanilayāsaktā guhyamaṇḍalavartinī | gharmadā ghanadā ghaṇṭā ghoradānavamardinī || 44 || ghṛṇimantramayī ghoṣā ghanasampātadāyinī | ghaṇṭāravapriyā ghrāṇā ghṛṇisantuṣṭakāriṇī || 45 || ghanārimaṇḍalā ghūrṇā ghṛtācī ghanaveginī | jñānadhātumayī carcā carcitā cāruhāsinī || 46 || caṭulā caṇḍikā citrā citramālyavibhūṣitā | caturbhujā cārudantā cāturī caritapradā || 47 || cūlikā citravastrāntā candramaḥkarṇakuṇḍalā | candrahāsā cārudātrī cakorī candrahāsinī || 48 || candrikā candradhātrī ca caurī caurā ca caṇḍikā | cañcadvāgvādinī candracūḍā coravināśinī || 49 || cārucandanaliptāṅ‌gī cañcaccāmaravījitā | cārumadhyā cārugatiścandilā candrarūpiṇī || 50 || cāruhomapriyā cārvācaritā cakrabāhukā | candramaṇḍalamadhyasthā candramaṇḍaladarpaṇā || 51 || cakravākastanī ceṣṭā citrā cāruvilāsinī | citsvarūpā candravatī candramāścandanapriyā || 52 || codayitrī ciraprajñā cātakā cāruhetukī | chatrayātā chatradharā chāyā chandaḥparicchadā || 53 || chāyādevīcchidranakhā channendriyavisarpiṇī | chando'nuṣṭuppratiṣṭhāntā chidropadravabhedinī || 54 || chedā chatreśvarī chinnā churikā chedanapriyā | jananī janmarahitā jātavedā jaganmayī || 55 || jāhnavī jaṭilā jetrī jarāmaraṇavarjitā | jambūdvīpavatī jvālā jayantī jalaśālinī || 56 || jitendriyā jitakrodhā jitāmitrā jagatpriyā | jātarūpamayī jihvā jānakī jagatī jarā || 57 || janitrī jahnutanayā jagattrayahitaiṣiṇī | jvālāmukhī japavatī jvaraghnī jitaviṣṭapā || 58 || jitākrāntamayī jvālā jāgratī jvaradevatā | jvalantī jaladā jyeṣṭhā jyāghoṣāsphoṭadiṅ‌mukhī || 59 || jambhinī jṛmbhaṇā jṛmbhā jvalanmāṇikyakuṇḍalā | jhiṃjhikā jhaṇanirghoṣā jhaṃjhāmārutaveginī || 60 || jhallarīvādyakuśalā ñarūpā ñabhujā smṛtā | ṭaṅ‌kabāṇasamāyuktā ṭaṅ‌kinī ṭaṅ‌kabhedinī || 61 || ṭaṅ‌kīgaṇakṛtāghoṣā ṭaṅkanīyamahorasā | ṭaṅ‌kārakāriṇī devī ṭhaṭhaśabdaninādinī || 62 || ḍāmarī ḍākinī ḍimbhā ḍuṇḍumāraikanirjitā | ḍāmarītantramārgasthā ḍamaḍḍamarunādinī || 63 || ḍiṇḍīravasahā ḍimbhalasatkrīḍāparāyaṇā | ḍhuṇḍhivighneśajananī ḍhakkāhastā ḍhilivrajā || 64 || nityajñānā nirupamā nirguṇā narmadā nadī | triguṇā tripadā tantrī tulasītaruṇātaruḥ || 65 || trivikramapadākrāntā turīyapadagāminī | taruṇādityasaṅ‌kāśā tāmasī tuhinā turā || 66 || trikālajñānasampannā triveṇī ca trilocanā | triśaktistripurā tuṅ‌gā turaṅ‌gavadanā tathā || 67 || timiṅ‌gilagilā tīvrā trisrotā tāmasādinī | tantramantraviśeṣajñā tanumadhyā triviṣṭapā || 68 || trisandhyā tristanī toṣāsaṃsthā tālapratāpinī | tāṭaṅ‌kinī tuṣārābhā tuhinācalavāsinī || 69 || tantujālasamāyuktā tārahārāvalipriyā | tilahomapriyā tīrthā tamālakusumākṛtiḥ || 70 || tārakā triyutā tanvī triśaṅ‌kuparivāritā | talodarī tilābhūṣā tāṭaṅ‌kapriyavāhinī || 71 || trijaṭā tittirī tṛṣṇā trividhā taruṇākṛtiḥ | taptakāñcanasaṃkāśā taptakāñcanabhūṣaṇā || 72 || traiyambakā trivargā ca trikālajñānadāyinī | tarpaṇā tṛptidā tṛptā tāmasī tumburustutā || 73 || tārkṣyasthā triguṇākārā tribhaṅ‌gī tanuvallariḥ | thātkārī thāravā thāntā dohinī dīnavatsalā || 74 || dānavāntakarī durgā durgāsuranibarhiṇī | devarītirdivārātrirdraupadī dundubhisvanā || 75 || devayānī durāvāsā dāridryod‍bhedinī divā | dāmodarapriyā dīptā digvāsā digvimohinī || 76 || daṇḍakāraṇyanilayā daṇḍinī devapūjitā | devavandyā diviṣadā dveṣiṇī dānavākṛtiḥ || 77 || dīnānāthastutā dīkṣā daivatādisvarūpiṇī | dhātrī dhanurdharā dhenurdhāriṇī dharmacāriṇī || 78 || dharaṃdharā dharādhārā dhanadā dhānyadohinī | dharmaśīlā dhanādhyakṣā dhanurvedaviśāradā || 79 || dhṛtirdhanyā dhṛtapadā dharmarājapriyā dhruvā | dhūmāvatī dhūmakeśī dharmaśāstraprakāśinī || 80 || nandā nandapriyā nidrā nṛnutā nandanātmikā | narmadā nalinī nīlā nīlakaṇṭhasamāśrayā || 81 || nārāyaṇapriyā nityā nirmalā nirguṇā nidhiḥ | nirādhārā nirupamā nityaśuddhā nirañjanā || 82 || nādabindukalātītā nādabindukalātmikā | nṛsiṃhinī nagadharā nṛpanāgavibhūṣitā || 83 || narakakleśaśamanī nārāyaṇapadod‍bhavā | niravadyā nirākārā nāradapriyakāriṇī || 84 || nānājyotiḥsamākhyātā nidhidā nirmalātmikā | navasūtradharā nītirnirupadravakāriṇī || 85 || nandajā navarat‍nāḍhyā naimiṣāraṇyavāsinī | navanītapriyā nārī nīlajīmūtaniḥsvanā || 86 || nimeṣiṇī nadīrūpā nīlagrīvā niśīśvarī | nāmāvalirniśumbhaghnī nāgalokanivāsinī || 87 || navajāmbūnadaprakhyā nāgalokādhidevatā | nūpurākrāntacaraṇā naracittapramodinī || 88 || nimagnāraktanayanā nirghātasamaniḥsvanā | nandanodyānanilayā nirvyūhoparicāriṇī || 89 || pārvatī paramodārā parabrahmātmikā parā | pañcakośavinirmuktā pañcapātakanāśinī || 90 || paracittavidhānajñā pañcikā pañcarūpiṇī | pūrṇimā paramā prītiḥ paratejaḥ prakāśinī || 91 || purāṇī pauruṣī puṇyā puṇḍarīkanibhekṣaṇā | pātālatalanirmagnā prītā prītivivardhinī || 92 || pāvanī pādasahitā peśalā pavanāśinī | prajāpatiḥ pariśrāntā parvatastanamaṇḍalā || 93 || padmapriyā padmasaṃsthā padmākṣī padmasambhavā | padmapatrā padmapadā padminī priyabhāṣiṇī || 94 || paśupāśavinirmuktā purandhrī puravāsinī | puṣkalā puruṣā parvā pārijātasumapriyā || 95 || pativratā pavitrāṅ‌gī puṣpahāsaparāyaṇā | prajñāvatīsutā pautrī putrapūjyā payasvinī || 96 || paṭṭipāśadharā paṅ‌ktiḥ pitṛlokapradāyinī | purāṇī puṇyaśīlā ca praṇatārtivināśinī || 97 || pradyumnajananī puṣṭā pitāmahaparigrahā | puṇḍarīkapurāvāsā puṇḍarīkasamānanā || 98 || pṛthujaṅ‌ghā pṛthubhujā pṛthupādā pṛthūdarī | pravālaśobhā piṅ‌gākṣī pītavāsāḥ pracāpalā || 99 || prasavā puṣṭidā puṇyā pratiṣṭhā praṇavāgatiḥ | pañcavarṇā pañcavāṇī pañcikā pañjarasthitā || 100 || paramāyā parajyotiḥ paraprītiḥ parāgatiḥ | parākāṣṭhā pareśānī pāvanī pāvakadyutiḥ || 101 || puṇyabhadrā paricchedyā puṣpahāsā pṛthūdarī | pītāṅ‌gī pītavasanā pītaśayyā piśācinī || 102 || pītakriyā piśācaghnī pāṭalākṣī paṭukriyā | pañcabhakṣapriyācārā pūtanāprāṇaghātinī || 103 || punnāgavanamadhyasthā puṇyatīrthaniṣevitā | pañcāṅ‌gī ca parāśaktiḥ paramāhlādakāriṇī || 104 || puṣpakāṇḍasthitā pūṣā poṣitākhilaviṣṭapā | pānapriyā pañcaśikhā pannagopariśāyinī || 105 || pañcamātrātmikā pṛthvī pathikā pṛthudohinī | purāṇanyāyamīmāṃsā pāṭalī puṣpagandhinī || 106 || puṇyaprajā pāradātrī paramārgaikagocarā | pravālaśobhā pūrṇāśā praṇavā pallavodarī || 107 || phalinī phaladā phalguḥ phūtkārī phalakākṛtiḥ | phaṇīndrabhogaśayanā phaṇimaṇḍalamaṇḍitā || 108 || bālabālā bahumatā bālātapanibhāṃśukā | balabhadrapriyā vandyā vaḍavā buddhisaṃstutā || 109 || bandīdevī bilavatī baḍiśaghnī balipriyā | bāndhavī bodhitā buddhirbandhūkakusumapriyā || 110 || bālabhānuprabhākārā brāhmī brāhmaṇadevatā | bṛhaspatistutā vṛndā vṛndāvanavihāriṇī || 111 || bālākinī bilāhārā bilavāsā bahūdakā | bahunetrā bahupadā bahukarṇāvataṃsikā || 112 || bahubāhuyutā bījarūpiṇī bahurūpiṇī | bindunādakalātītā bindunādasvarūpiṇī || 113 || baddhagodhāṅ‌gulitrāṇā badaryāśramavāsinī | bṛndārakā bṛhatskandhā bṛhatī bāṇapātinī || 114 || vṛndādhyakṣā bahunutā vanitā bahuvikramā | baddhapadmāsanāsīnā bilvapatratalasthitā || 115 || bodhidrumanijāvāsā baḍisthā bindudarpaṇā | bālā bāṇāsanavatī vaḍavānalaveginī || 116 || brahmāṇḍabahirantaḥsthā brahmakaṅ‌kaṇasūtriṇī | bhavānī bhīṣaṇavatī bhāvinī bhayahāriṇī || 117 || bhadrakālī bhujaṅ‌gākṣī bhāratī bhāratāśayā | bhairavī bhīṣaṇākārā bhūtidā bhūtimālinī || 118 || bhāminī bhoganiratā bhadradā bhūrivikramā | bhūtavāsā bhṛgulatā bhārgavī bhūsurārcitā || 119 || bhāgīrathī bhogavatī bhavanasthā bhiṣagvarā | bhāminī bhoginī bhāṣā bhavānī bhūridakṣiṇā || 120 || bhargātmikā bhīmavatī bhavabandhavimocinī | bhajanīyā bhūtadhātrīrañjitā bhuvaneśvarī || 121 || bhujaṅ‌gavalayā bhīmā bheruṇḍā bhāgadheyinī | mātā māyā madhumatī madhujihvā madhupriyā || 122 || mahādevī mahābhāgā mālinī mīnalocanā | māyātītā madhumatī madhumāṃsā madhudravā || 123 || mānavī madhusambhūtā mithilāpuravāsinī | madhukaiṭabhasaṃhartrī medinī meghamālinī || 124 || mandodarī mahāmāyā maithilī masṛṇapriyā | mahālakṣmīrmahākālī mahākanyā maheśvarī || 125 || māhendrī merutanayā mandārakusumārcitā | mañjumañjīracaraṇā mokṣadā mañjubhāṣiṇī || 126 || madhuradrāviṇī mudrā malayā malayānvitā | medhā marakataśyāmā māgadhī menakātmajā || 127 || mahāmārī mahāvīrā mahāśyāmā manustutā | mātṛkā mihirābhāsā mukundapadavikramā || 128 || mūlādhārasthitā mugdhā maṇipūrakavāsinī | mṛgākṣī mahiṣārūḍhā mahiṣāsuramardinī || 129 || yogāsanā yogagamyā yogā yauvanakāśrayā | yauvanī yuddhamadhyasthā yamunā yugadhāriṇī || 130 || yakṣiṇī yogayuktā ca yakṣarājaprasūtinī | yātrā yānavidhānajñā yaduvaṃśasamud‍bhavā || 131 || yakārādihakārāntā yājuṣī yajñarūpiṇī | yāminī yoganiratā yātudhānabhayaṅ‌karī || 132 || rukmiṇī ramaṇī rāmā revatī reṇukā ratiḥ | raudrī raudrapriyākārā rāmamātā ratipriyā || 133 || rohiṇī rājyadā revā ramā rājīvalocanā | rākeśī rūpasampannā rat‍nasiṃhāsanasthitā || 134 || raktamālyāmbaradharā raktagandhānulepanā | rājahaṃsasamārūḍhā rambhā raktabalipriyā || 135 || ramaṇīyayugādhārā rājitākhilabhūtalā | rurucarmaparīdhānā rathinī rat‍namālikā || 136 || rogeśī rogaśamanī rāviṇī romaharṣiṇī | rāmacandrapadākrāntā rāvaṇacchedakāriṇī || 137 || rat‍navastraparicchannā rathasthā rukmabhūṣaṇā | lajjādhidevatā lolā lalitā liṅ‌gadhāriṇī || 138 || lakṣmīrlolā luptaviṣā lokinī lokaviśrutā | lajjā lambodarī devī lalanā lokadhāriṇī || 139 || varadā vanditā vidyā vaiṣṇavī vimalākṛtiḥ | vārāhī virajā varṣā varalakṣmīrvilāsinī || 140 || vinatā vyomamadhyasthā vārijāsanasaṃsthitā | vāruṇī veṇusambhūtā vītihotrā virūpiṇī || 141 || vāyumaṇḍalamadhyasthā viṣṇurūpā vidhipriyā | viṣṇupat‍nī viṣṇumatī viśālākṣī vasundharā || 142 || vāmadevapriyā velā vajriṇī vasudohinī | vedākṣaraparītāṅ‌gī vājapeyaphalapradā || 143 || vāsavī vāmajananī vaikuṇṭhanilayā varā | vyāsapriyā varmadharā vālmīkiparisevitā || 144 || śākambharī śivā śāntā śāradā śaraṇāgatiḥ | śātodarī śubhācārā śumbhāsuravimardinī || 145 || śobhāvatī śivākārā śaṅ‌karārdhaśarīriṇī | śoṇā śubhāśayā śubhrā śiraḥsandhānakāriṇī || 146 || śarāvatī śarānandā śarajjyotsnā śubhānanā | śarabhā śūlinī śuddhā śabarī śukavāhanā || 147 || śrīmatī śrīdharānandā śravaṇānandadāyinī | śarvāṇī śarvarīvandyā ṣaḍbhāṣā ṣaḍ‌ṛtupriyā || 148 || ṣaḍādhārasthitā devī ṣaṇmukhapriyakāriṇī | ṣaḍaṅ‌garūpasumatisurāsuranamaskṛtā || 149 || sarasvatī sadādhārā sarvamaṅ‌galakāriṇī | sāmagānapriyā sūkṣmā sāvitrī sāmasambhavā || 150 || sarvāvāsā sadānandā sustanī sāgarāmbarā | sarvaiśvaryapriyā siddhiḥ sādhubandhuparākramā || 151 || saptarṣimaṇḍalagatā somamaṇḍalavāsinī | sarvajñā sāndrakaruṇā samānādhikavarjitā || 152 || sarvottuṅ‌gā saṅ‌gahīnā sad‌guṇā sakaleṣṭadā | saraghā sūryatanayā sukeśī somasaṃhatiḥ || 153 || hiraṇyavarṇā hariṇī hrīṃkārī haṃsavāhinī | kṣaumavastraparītāṅ‌gī kṣīrābdhitanayā kṣamā || 154 || gāyatrī caiva sāvitrī pārvatī ca sarasvatī | vedagarbhā varārohā śrīgāyatrī parāmbikā || 155 || iti sāhasrakaṃ nāmnāṃ gāyatryāścaiva nārada | puṇyadaṃ sarvapāpaghnaṃ mahāsampattidāyakam || 156 || evaṃ nāmāni gāyatryāstoṣotpattikarāṇi hi | aṣṭamyāṃ ca viśeṣeṇa paṭhitavyaṃ dvijaiḥ saha || 157 || japaṃ kṛtvā homapūjādhyānaṃ kṛtvā viśeṣataḥ | yasmai kasmai na dātavyaṃ gāyatryāstu viśeṣataḥ || 158 || subhaktāya suśiṣyāya vaktavyaṃ bhūsurāya vai | bhraṣṭebhyaḥ sādhakebhyaśca bāndhavebhyo na darśayet || 159 || yad‌gṛhe likhitaṃ śāstraṃ bhayaṃ tasya na kasyacit | cañcalāpi sthirā bhūtvā kamalā tatra tiṣṭhati || 160 || idaṃ rahasyaṃ paramaṃ guhyād‌guhyataraṃ mahat | puṇyapradaṃ manuṣyāṇāṃ daridrāṇāṃ nidhipradam || 161 || mokṣapradaṃ mumukṣūṇāṃ kāmināṃ sarvakāmadam | rogādvai mucyate rogī baddho mucyeta bandhanāt || 162 || bahmahatyāsurāpānasuvarṇasteyino narāḥ | gurutalpagato vāpi pātakānmucyate sakṛt || 163 || asatpratigrahāccaivābhakṣyabhakṣādviśeṣataḥ | pākhaṇḍānṛtamukhyebhyaḥ paṭhanādeva mucyate || 164 || idaṃ rahasyamamalaṃ mayoktaṃ padmajod‍bhava | brahmasāyujyadaṃ nṝṇāṃ satyaṃ satyaṃ na saṃśayaḥ || 165 || iti śrīmaddevībhāgavate mahāpurāṇe'ṣṭādaśasāhasryāṃ saṃhitāyāṃ dvādaśaskandhe gāyatrīsahasranāmastotravarṇanaṃ nāma ṣaṣṭho'dhyāyaḥ || 6 ||

English translation

1-3. Narada said O Bhagavan! O All-knowing One! O Thou versed in all the S’astras! I have heard from Thy mouth all the secrets of S’rutis and Smritis. Now I ask Thee, O Deva! How can the knowledge of that Veda Vidya (Learning) be obtained by which all sins are rooted out and destroyed, how is Brahmajhanam obtained and how can Moksa be obtained? How can death be conquered and how can the best results be obtained in this world and in the next. O Lotus-eyed One! Thou ought’st to describe fully all these to me.

4-9. Narayana said O Narada! O Highly Learned One! Sadhu! Sadhu! You have now put a nice question indeed! Now I will describe one thousand and eight names of the Gayatri Devi. Listen attentively. These all sin-destroying auspicious names were composed by Brahma and first recited by Him. Its Risi is Brahma; the Chhandas is Anustup; the Devata is Gayatri; its Vija is Halavarna (consonants) and its S’akti is Svaravarna (vowels). Perform the Anga Nyasa and the Kara Nyasa by the Matrika varnas (that is, by the fifty syllables). Now hear its Dhyanam, that will do good to the Sadhakas (the practisers). [N.B. Amga Nyasa - Touching the limbs of the body with the hand accompanied by appropriate Mantras. Kara Nyasa - assignment of the various parts of fingers and hand to different deities which is usually accompanied with prayers and corresponding gesticulations.] I worship the Kumari (virgin) Gayatri Devi, the Lotus-eyed One, riding on the Swan (the Pranas), and seated on a lotus (creation); Who is three-eyed and of a red colour; and Who is bright and decorated with gems and jewels of red, white, green, blue, yellow and other variegated colours; Who is holding in Her hands Kundika, the rosary, lotus and making signs as if ready to grant the desired boons and on whose neck is suspended the

garland of red flowers. I worship the Devi Gayatri. [Note The colours are the various emotions and feelings.]

10-16. Now I will recite the one thousand and eight names of the Gayatri, beginning with the syllable “a” and going on a, a, i, i, etc., in due order of the alphabets. Listen! Her ways and actions cannot be comprehended by intellect (Buddhi); She is therefore Achintya Laksana; She is Avyakta (unmanifested; unspeakable); She is ArthamatrimahesVari, (because She is the Controller of Brahma, etc.); She is Amritarnava madhyastha, Ajita and Aparajita. Thou art Animadigunadhara, Arka mandalasamsthita, Ajara, Aja, Apara, Adharma (she has no dharma, caste, etc.), Aksasutradhara, Adhara; Akaradaksakaranta (beginning with the syllable “a” and ending with the syllable “ksa”, thus comprising the fifty syllables), Arisadvargabhedini (destroying the five passions), Anjanadripratikas’a, Anjanadrinivasini, Aditi, Ajapa, Avidya, Aravindanibheksana, Antarvahihsthita, Avidyadhvamsini, and Antaratmika. Thou art Aja. Ajamukhavasa (residing in the mouth of Brahma), Aravindanibhanana, (Vyanjanavarnatmika, therefore called) Ardhamatra, Arthadanajha (because She grants all the Purusarthas.)

Arimandalamarddini, Asuraghni, Amavasya, Alaksighni, Antyajarchita. Thus end Her names beginning with “A”. Now the names with “A” Thou art Adi Laksmi, Adi S’akti, Akriti, Ayatanana, Adityapadavichara, Adityaparisevita, Acharya, Avartana; Achara, and Adi Murti nivasini.

17-18. Thou art Agneyi, Amari, Adya, Aradhya, Asanasthita, Adhara nilaya (seated in the Muladhara), Adhara (the Refuge of all), and Akas’anta nivasini (of the nature of Aham tattva; Thou art Adyaksara samayukta, Antarakas’arupini, Adityamandalagata,

Antaradhvantanas’ini, (i.e., destroyer of the Moha of Jivas). Then come the names beginning with “I.”

19-25. Thou art Indira, Istada, Ista Indivaraniveksana, Iravati, Indrapada, Indrani, Indurupini, Iksukodandasamyukta, Isusandhanakarini, Indranilasamakara, Idapingalarupini, Indraksi, IsVari, Devi lhatrayavivarjita. Thou art Lima, Usa, Udunibha, Urvarukaphalanana, Uduprabha, Udumati, Udupa, Udumadhyaga, Urdha, Urdhakes’i, Urdhadhogatibhedini, Urdhavahupriya, Urmimalavaggranthadayini. Thou art Rita, Risi, Ritumati (the Creatrix of the

world), Risidevanamaskrita, Rigveda, Rinahartri, Risimandala charini, Riddhida, Rijumargastha, Rijudharma, Rijuprada, Rigvedanil aya, RijvT, Lupta dharma pravartini, Lutarivarasam bhuta, Lutadivisaharini.

26-30. Thou art Ekaksara, Ekamatra, Eka, Ekaikanisthita, Aindri, Airavatarudha, Aihikamusmikaprada, Omkara, Osadhi, Ota, Otaprotanivasini, Aurbba, Ausadhasampanna, Aupasanaphalaprada, Andamadhyasthita, Ahkaramanurupini. (Visargarupini). Thus end the names beginning with vowels.

Now begin the names beginning with consonants. Thou art Katyayani, Kalaratri, KamaksT, Kamasundari, Kamala,. Kamini, Kanta, Kamada, Kalakanthini, Karikumbha stana bhara, Karavira Suvasini, Kalyani, Kundalavati, Kuruksetranivasini, Kuruvinda, dalakara, Kundali, and Kumudalaya.

31-32. Thou art Kalajhibha, Karalasya, Kalika, Kalarupini, Kamaniyaguna, Kanti, Kaladhara, Kumudvati, Kaus’iki, Kamalakara,

Kamacharaprabhanjini. Thou art Kaumari, Karunapangi, Kakubanta (as presiding over all the quarters), and Karipriya.

33-37. Thou art Kes’ari, Kes’avanuta, Kadamba Kus’umapriya, Kalindi, Kalika, Kahchi, Kalas’odbhavasamstuta. Thou art Kamamata, Kratumati, Kamarupa, Kripavati, Kumari, Kunda nilaya, Kirati, Kiravahana, Kaikeyi, Kokilalapa, Ketaki, Kusumapriya, Kannandaludhara, Kali, Karmanirmulakarini, Kalahansagati, Kaksa, Krita, Krita, Kautukamangala, Kasturitilaka, Kamra, Karmdra Gamana, Kuhu, Karpuralepana, Krisna, Kapila, Kuharas’raya, Kutastha, Kudhara, Kannra, Kuksisthakhilavistapa.

Thus end the names with Ka. Now come those with Kha.

38-62. Thou art Khadga Khetadhara, Kharbha, Khechari, Khagavahana, Khattanga dharini, Khyata, Khagarajoparisthita, Khalaghni, Khanditajara, Khadaksyanapradayini, Khandendu tilaka.

Thou art Ganga, Ganes’a guhapujita, Gayatri, Gomati, Gita, Gandhari, Ganalolupa, Gautami, Gamini, Gadha, Gandharvapsarasevita, Govinda charana kranta, Gunatraya vibhabita, GandharvT, Gahvari, Gotra, Giris’a, Gahana, Garni, Guhavasa, Gunavati (of good qualities), Gurupapapranas’ini, Gurbhi, Gunavati (of the three gunas), Guhya, Goptavya, Gunadayini, Girija, Guhyamatangi, Garudadhvajavallabha, Garvapaharini, Goda (grating Heaven), Gokulastha, Gadadhara, Gokarnanilaya sakta, and Guhyamandala vartini.

Now the names with “Gha”. Thou art Gharmada, Ghanada, Ghanta, Ghora Danava marddini, Ghrini mantra mayi (of the Surya mantra.

Ghrini is to shine). Ghosa, Ghanasampatadayini, Ghantara-vapriya, Ghrana, Ghrinisantustikarini (giving pleasure to the Sun), Ghanarimandala, Ghurna, Ghritachi, Ghanavegini,

Ghanadhatumayi. Thou art Charcha, Charchita, Charuhasini, Chatula, Chandika, Chitra, Chitramalyayi bhusita, Chaturbhuja.

Charu danta, Chaturi, Charitaprada, Chulika, Chitravastranta, Chandramah Kama Kundala, Chandrahasa, Charudatri, Chakori, Ghandrahasini, Chandrika, Chandradhatri, Chauri, Chora, Chandika, Chanchadvagvadini, Chandrachuda, Choravinas’ini, Charuchandana liptangi, Chanchachchamaravijita, Charumadhya, Charugati, Chandila, Chandrarupini, Charuhoma priya, Charva, Charita, Chakrabahuka, Chandramandalamadhyastha, Chandramandala Darpana, Chakravakastani, Chesta, Chitra, Charuvilasini, Chitsvarupa; Chandavati, Chandrama, Chandanapriya, Chodayitri (as impelling the Jivas always to actions), Chiraprajha, Chataka, Charuhetuki.

Thou art Chhatrayata, Chhatradhara, Chhaya, Chhandhahparichchhada, Chhaya Devi, Chhidranakha, Chhannendriyavisarpini, Chhandonustuppratisthanta, Chhidropadrava bhedini, Chheda, ChhatresVari, Chhinna, Chhurika, and Chhelanpriya. Thou art Janani, Janmrarahita, Jataveda, Jaganmayi, Jahnavi, Jatila, Jatri (Jetri), Jaramarana varjita, Jambu dvipa vati, Jvala, Jayanti, Jalasalini, Jitendriya, Jitakrodha, Jitamitra, Jagatpriya, Jatarupamayi, Jihva, Janaki, Jagati, Jara (Jaya) Janitri, Jahnutanaya, Jagattrayahitaisini, Jvalamuli, Japavati, Jvaraghni, Jitavistapa, Jitakrantamayi, Jvala, Jagrati, Jvaradevata, Jvalanti, Jalada, Jyestha, Jyaghosa sphota dinmukhi, Jambhini, Jrimbhana, Jrimbha, Jvalanmanikya Kundala. Jhinjhika, Jhananirghosa, Jhanjha Maruta vegini, Jhallakivadya kus’ala, Nrupa, Nbhuja, Tanka bhedini. Tanka banasamayukta. Tankini, Tanka bhedini,

Tankiganakritaghosa, Tankaniya mahorasa, Tankara Karini, Tha tha s’avdaninadini.

63-80. Now come the names beginning with “Da.” They are - Damari, Dakini, Dimbha, Dundamaraikanirjita, Damaritantramargas tha, Dandadamarunadini, Dindiravasaha, Dimbhalasat kridaparayana (dancing with joy in battles). Then Dhundhi vighnes’a janani, Dhakka hasta, Dhilivraja (followed by S’iva ganas), Nityajhana, Nirupama, Nirguna and Narmada river. Now Triguna, Tripada, Tantri, Tulasi, Taruna, Tara, Trivikramapada kranta, Turiyapadagamini, Taruna ditya samkas’a, Tamasi, Tuhina, Tura, Trikalajhana Sampanna, Trivali, Trilochana, Tri S’akti, Tripura,

Tunga, Turangavadana, Timingilagila, Tibra, Trisrota, Tamasadini, Tantra mantravis’esajha, Tanumadhya, Trivipstapa, Trisandhya, Tristani, Tosasamstha, Talapratapini, Tatankini, Tusarabha, Tuhinachala vasini, Tantujalasamayukta, Tarahara valipriya, Tilahomapriya, Tirtha, Tamala kusuma kriti, Taraka, Triyuta, Tanvi, Tris’am kuparivarita, Talodari, Tirobhasa, Tatamka priyavadini, Trijata, Tittiri, Trisna, Tribidha, Taruna kriti, Tapta kanchanasamkas’a, Tapta kahchana bhusana, Traiyambaka, Trivarga,

Trikalajhanadayini, Tarpana, Triptida, Tripta, Tamasi, Tumvarustuta, Tarksyastha, Trigunakara, Tribhangi, Tanuvallari, Thatkari, Tharava, Thanta, Dohini, Dmavatsala, Danavanta kari, Durga, Durgasuranivahrini, Devariti, Divaratri, Draupadi, Dunda bhisvana, Devayani, Duravasa, Daridrya bhedini. Diva, Damodarapriya, DTpta, Digvasa, Digvimohini, Danda karanya nilaya, Dandini, Deva pujita, Deva vandya, Divisada, Dvesini, Danava kriti, Dmana thastuta,

Diksa, Daivas’a disvarupini, Dhatri, Dhanurdhara, Dhenur Dharini, Dharmacharini, Dhurandhara, Dharadhara, Dhanada, Dhanya dohini, Dharmas’ila, Dhanadhyaksa, Dhanurvedavis’arada, Dhriti, Dhanya, Dhritapada, Dharmarajapriya, Dhruva, Dhumavati, Dhumakes’i Dharmas’astraprakas’ini.

81-98. Nanda, Nandapriya, Nidra, Nrinuta, Nandanatmika, Narmmada Nalini, Nila, NTIakanthasamas’raya, Rudrani, Narayanapriya, Nitya, Nirmmala, Nirguna, Nidhi, Niradhara, Nirupama, Nityas’uddha, Nirajhana, Nadabindu Kalatita, Nadavindu

Kalatmika, Nrisimhini; Nagadhara, Nripanaga vibhusita, Naraka Kles’anas’ini, Narayanapadodbhava, Niravadya, Nirakara, Naradapriyakarini, Nanajyotih, Nidhida, Nirmalatmika, Navasutradhara, Niti, Nirupa drava karini, Nandaja, Navaratnadhya, Naimisaranya vasini, Navanitapriya, Nan, Nila jimuta nisvana, Nimesini, Nadirupa, Nilagnva, Nis’isVan, Namavali, Nis’umbhaghni, Nagaloka nivasini, Navajambu nadaprakhya, Nagaloka dhidevata, Nupura Krantacharana, Narachitta pramodini, Nimagna rakta nayana, Nirghata-sama-nisvana, Nandanodyanilaya, Nirvya hoparicharini.

99-107. Parvati, Paramodara, Parabrahmatmika, Para, Panchkos’avinirmukta, Panchapataka-nas’ini, Para chitta vidhanajna, Panchika, Pancharupini. Purnima, Parama Priti, Paratejah prakas’ini, Purani, Paurusi, Punya, Pundari kanibheksana, Patala tala nirmmagna, Prita, Pritivivardhini, Pavani, Pada sahita, Pes’ala, Pavanas’ini Prajapati, Paris’ranta, Parvatastana mandala, Padmapriya, Padmasamstha, PadmaksT, Padmasambhava, Padmapatra, Padmapada, Padmini, Priyabhasini, Pas’upas’a vinirmukta, Purandhri, Puravasini, Puskala, Purusa, Parbha, Parijata Kusumapriya, Pativrata, Pativrata, Pavitrangi, Puspahasa parayana, Prajnavatisuta, Pautri, Putrapujya, Payasvini, Pattipas’adhara, Pankti, Pitrilokapradayini, Purani, Punyas’ila, Pranatarti vinas’ini, Pradyumnajanani; Pusta, Pitamahaparigraha, Pundarikapuravasa, Pundarikasamanana, Prithujangha, Prithubhuja, Prithupada, Prithudari, Pravalas’obha, Pingaksi, Pitavasah, Prachapala,

Prasava, Pustida, Punya, Pratistha, Pranava, Pati, Panchavarna, Panchavani, Panchika, Panjarasthita, Paramaya, Parajyotih, Parapriti, Paragati, Parakastha, Pares’ani, Pavani, Pavaka Dyuti, Punyabhadra, Parichchhedya. Puspahasa, Prithudara, Pitangi, Pitavasana Pitas’aya, Pis’achini, Pitakriya, Pis’achaghni, Patalaksi, Patukriya, Pahchabhaksapriyachara, Putana pranaghatini, Punyagavanamadhyastha, Punyatirthanisevita, Panchangi, Paras’akti, Paramadhada karini, Puspakandasthita, Pusa,

Positakhilavistapa, Panapriya, Panchas’ikha, Pannagoparis’ayini, Panchamatratmika, PrithvT, Pathika, Prithudohini, Purananyayamimansa, Patali, Puspagandhini, Punyapraja, Paradatn, Paramargaikagochara, Pravalas’obha, Purnas’a, Pranava, Palhabodan.

108-149. Phalini, Phalada, Phalgu, Phutkan, Phalakakriti, Phanindra bhogas’ayana, Phanimandalamandita, Balabala, Bahumata, Balatapanibhams’uka, Balabbadrapriya, Vandya, Badava, Buddhisamstuta, Bandidevi, Bilavati, Badis’aghini, Balipnya, Bandhavi, Bodhita, Buddhirbandhukakusumapriya, Bala bhanuprabhakara, Brahmi, Brahmana devata, Brihaspatistuta. Brinda, Brindavana viharini, Balakini, Bilahara, Bilavasa Bahudaka, Bahunetra, Bahupada, Bahukarnavatamsika, Bahubahuyuta, Bijarupini, Bahurupini, Bindunadakalatita, Bindunadasvarupini, Baddhagodhangulitrana, Badaryas’ramavasini, Brindaraka, Brihatskandha, Brihati, Banapatini, Brindadhyaksa, Bahunuta,

Vanita, Bahuvikrama, Baddhapadmasanasma, Bilvapatratalasthita, Bodhidrumanijavasa, Badistha, Bindu darpana, Bala, Vanasanavati, Badavanalavegini, Brahmanda bahirantastha,

Brahmakankanasutrini, Bhavani, Bhisanavati, Bhavini, Bhayaharini, BhadrakalT, BhujangaksT, Bharati, Bharatas’aya, BhairavT, Bhisanakara, Bhutida, Bhutimalini, Bhamini, Bhoganirata, Bhadrada, Bhurivikrama, Bhutavasa, Bhrigulata, Bhargavi, Bhusurarchita, Bhagirathi, Bhogavati, Bhavanastha, Bhisagvara, Bhamina, Bhogini, Bhasa, Bhavani, Bhuridaksina, Bhargatmika, Bhamavati, Bhavabandhavimochini, Bhajaniya, Bhutadhatri-ranjita, BhuvanesVan, Bhujangavalaya, Bhima, Bherunda, Bhagadheyini; Thou art Mata, Maya, Madhumati, Madhujihava, Manupriya, Mahadevi, Mahabhagia, Maliri, Minalochana, Mayatita, Madhumati, Madhumansa, Madhudrava, Manavi, Madhusambhuta, Mithilapuravasini, Madhukaitabhasamhartri, Medini, Meghamalini, Mandodara, Maha Maya, Maithili, Masrinapriya, Maha Laksmi, Maha Kali, Maha Kanya, MahesVari, Mahendri, Merutanaya

Mandarakusumarchita, Manjumanjiracharana, Moksada, Manjubhasini, Madhuradravini, Mudra, Malaya, Malayanvita, Medha, Marakatas’yanna, Magadhi, Menakatmaja, Mahamari, Mahavira, Mahas’yanna, Manustuta, Matrika, Mihirabhasa, Mukundapada Vikrama, Muladharasthita, Mugdha, Manipuranivasina, Mrigaksi, Mahisarudha, Mahisasuramardini. Thou art Yogasana, Yogagamya, Yoga, Yauvanakas’raya, Yauvani, Yuddhamadhyastha, Yamuna, Yugadharini, Yaksini, Yogayukta, Yaksarajaprasutini, Yatra, Yana bidhanajha, Yaduvans’asamudbhava, Yakaradi-Ha Karanta, (all antahstha varnas), YajusT, Yajha rupini, Yamini, Yoganirata. Yatudhana, bhayamkari, Rukmini, Ramani, Rama, Revati, Renuka, Rati, Raudri, Raudrapriyakara Rama mata, Ratipriya, Rohini, Rajyada, Reva, Rasa, Rajivalochana, Rakes’i, Rupasampanna, Ratnasimhas’anasthita, Raktamalyambaradhara, Raktagandhanu lepana. Raja hamsa samarudha, Rambha, Raktavalipriya, Ramaniyayugadhara, Rajitakhilabhutala, Rurucharmapari-dhana, Rathini, Ratnamalika, Roges’i, Rogas’amani, Ravini, Romaharsini, Ramachandra pada Kranta, Ravanachchhedakarini, Ratnavastra parichchhinva, Rathastha, Rukma bhusana, Lajjadhidevata, Lola, Lalita, Lingadharini, Laksmi, Lola, Luptavisa, Lokini, Lokavis’ruta, Lajja, Lambodari, Lalana, Lokadharini Varada, Vandita, Vidya, VaisnavT, Vimalakriti, Varahi, Viraja, Varsa, Varalaksmi, Vilasini, Vinata, Vyomamadhyastha, Varijasanasamsthita, Varuni, Venusambhuta, Vitihotra, Virupini, Vayumandalamadhyastha, Visnurupa, Vidhikriya, Visnupatni, Visnumati, Vis’alaksi, Vasundhara, Vamadevapriya, Vela, Vajrini, Vasudohini, Vedaksaraparitamgi, Vajapeya-phalaprada, Vasavi, Vamajanani, Vaikunthanilaya, Vara, Vyasapriya Varmadhara, Valmikiparisevita.

Thou art S’akambhari, S’iva, S’anta, S’arada, S’aranagati, S’atodari, S’ubhachara, S’umbhasuramardini, S’obhabati, S’ivakara, S’amkarardhas’aririni, S’ona (red), S’ubhas’aya, S’ubhra, S’irahsandhanakarini, S’aravati, S’arananda, S’arajjyotana, S’ubbanana, S’arabha, S’ulini, S’uddha, S’abari, S’ukavahana,

S’nmatT, S’ndharananda, S’ravananandadayini, S’arvani, S’arbhanvandya, Sadbhasa, Sadritupriya, Sadadharasthitadevi, San mukhapriyakarini, Sadamgarupasumati, Surasuranamaskrita.

150-155. Thou art Sarasvati, Sadadhara, Sarvamangalakarini, Samaganapriya, Suksma, Savitri, Samasambhava, Sarvavasa, Sadananda, Sustani, Sagarambara, SarvaisVaryapriya, Siddhi, Sadhubandhuparakrama, Saptarsimandalagata, Somamandalavasini, Sarvajha, Sandrakaruna, Samanadhikavarjita, Sarvottunga, Sangahina, Sadguna, Sakalestada, Saragha (bee), Suryatanaya, Sukes’i, Somasamhati, Hiranyavarna, Harini, Hrimkari, Hamsavahini, Ksaumavastraparitangi, Ksirabdhitanaya, Ksama, Gayatri, Savitri, Parvati, Sarasvati, Vedagarbha, Vararoha, S’ri Gayatri, and Paramvika.

156-159. O Narada! Thus I have described to you one thousand (and eight) names of Gayatri; the hearing of which yields merits and destroys all sins and gives all prosperity and wealth. Specially in the Astamitithi (eighth lunar day) if after one’s meditation (dhyanam) worship, Homa, and japam, one recites this in company with the Brahmanas, one gets all sorts of satisfactions. These one thousand and eight names of the Gayatri ought not to be given to anybody indiscriminately. Speak this out to him only who is very devoted, who is a Brahmana, and who is an obedient disciple. Even if any devotee, fallen from the observances of Achara (right way of living), be a great friend, still do not disclose this to him.

160-165. In whatever house, these names are kept written, no cause of fear can creep in there and Laksmi, the Goddess of wealth, though unsteady, remains steady in that house.

This great secret yields merits to persons, gives wealth to the poor, yields moksa to those who are desirous of it, and grants all desires.

If anybody reads this, he gets cured of his diseases, and becomes freed from bondages and imprisonment. All the Great Sins, for example, murdering Brahmanas, drinking wine, stealing gold, going to the wife of one’s Guru, taking gifts from bad persons, and eating the uneatables, all are destroyed, yea, verily destroyed! O Narada! Thus I have recited to you this Great Secret. All persons get, indeed, united with Brahma (Brahama sayujya) by this. True. True. True. There is not the least trace of doubt here.

Here ends the Sixth Chapter of the Twelfth Book on the one thousand and eight names of the Gayatri in the Mahapuranam S’ri Mad Devi Bhagavatam of 18,000 verses by Maharsi Veda Vyasa.

Complete chapter-aligned witnesses. Sanskrit Wikisource page 31981, revision 361778 (2022-11-29T07:27:22Z). English is Swami Vijñanananda’s complete 1921–23 public-domain translation, controlled against the archival OCR and its chapter page at https://sacred-texts.com/hin/db/bk12ch06.htm. Historic spelling and transliteration are lightly normalized; no verse-by-verse alignment is asserted.