Skip to main content

Twelfth Skandha · Chapter 10

Chapter 10

Unit 314 of 318Twelfth Skandha · Chapter 10Twelfth Skandha · Chapter 101 source entries

Twelfth Skandha · Chapter 10

Source

व्यास उवाच ब्रह्मलोकादूर्ध्वभागे सर्वलोकोऽस्ति यः श्रुतः । मणिद्वीपः स एवास्ति यत्र देवी विराजते ॥ १ ॥ सर्वस्मादधिको यस्मात्सर्वलोकस्ततः स्मृतः । पुरा पराम्बयैवायं कल्पितो मनसेच्छया ॥ २ ॥ सर्वादौ निजवासार्थं प्रकृत्या मूलभूतया । कैलासादधिको लोको वैकुण्ठादपि चोत्तमः ॥ ३ ॥ गोलोकादपि सर्वस्मात्सर्वलोकोऽधिकः स्मृतः । न तत्समं त्रिलोक्यां तु सुन्दरं विद्यते क्वचित् ॥ ४ ॥ छत्रीभूतं त्रिजगतो भवसन्तापनाशकम् । छायाभूतं तदेवास्ति ब्रह्माण्डानां तु सत्तम ॥ ५ ॥ बहुयोजनविस्तीर्णो गम्भीरस्तावदेव हि । मणिद्वीपस्य परितो वर्तते तु सुधोदधिः ॥ ६ ॥ मरुत्सङ्‌घट्टनोत्कीर्णतरङ्‌ग शतसङ्‌कुलः । रत्‍नाच्छवालुकायुक्तो झषशङ्‌खसमाकुलः ॥ ७ ॥ वीचिसङ्‌घर्षसञ्जातलहरीकणशीतलः । नानाध्वजसमायुक्तनानापोतगतागतैः ॥ ८ ॥ विराजमानः परितस्तीररत्‍नद्रुमो महान् । तदुत्तरमयोधातुनिर्मितो गगने ततः ॥ ९ ॥ सप्तयोजनविस्तीर्णः प्राकारो वर्तते महान् । नानाशस्त्रप्रहरणा नानायुद्धविशारदाः ॥ १० ॥ रक्षका निवसन्त्यत्र मोदमानाः समन्ततः । चतुर्द्वारसमायुक्तो द्वारपालशतान्वितः ॥ ११ ॥ नानागणैः परिवृतो देवीभक्तियुतैर्नृप । दर्शनार्थं समायान्ति ये देवा जगदीशितुः ॥ १२ ॥ तेषां गणा वसन्त्यत्र वाहनानि च तत्र हि । विमानशतसङ्‌घर्षघण्टास्वनसमाकुलः ॥ १३ ॥ हयहेषाखराघातबधिरीकृतदिङ्‌मुखः । गणैः किलकिलारावैर्वेत्रहस्तैश्च ताडिताः ॥ १४ ॥ सेवका देवसङ्‌घानां भ्राजन्ते तत्र भूमिप । तस्मिन्कोलाहले राजन्न शब्दः केनचित्क्वचित् ॥ १५ ॥ कस्यचिच्छ्रूयतेऽत्यन्तं नानाध्वनिसमाकुले । पदे पदे मिष्टवारिपरिपूर्णसरांसि च ॥ १६ ॥ वाटिका विविधा राजन् रत्‍नद्रुमविराजिताः । तदुत्तरं महासारधातुनिर्मितमण्डलः ॥ १७ ॥ सालोऽपरो महानस्ति गगनस्पर्शि यच्छिरः । तेजसा स्याच्छतगुणः पूर्वसालादयं परः ॥ १८ ॥ गोपुरद्वारसहितो बहुवृक्षसमन्वितः । या वृक्षजातयः सन्ति सर्वास्तास्तत्र सन्ति च ॥ १९ ॥ निरन्तरं पुष्पयुताः सदा फलसमन्विताः । नवपल्लवसंयुक्ताः परसौरभसङ्‌कुलाः ॥ २० ॥ पनसा बकुला लोध्राः कर्णिकाराश्च शिंशपाः । देवदारुकाञ्चनारा आम्राश्चैव सुमेरवः ॥ २१ ॥ लिकुचा हिङ्‌गुलाश्चैला लवङ्‌गाः कट्फलास्तथा । पाटला मुचुकुन्दाश्च फलिन्यो जघनेफलाः ॥ २२ ॥ तालास्तमालाः सालाश्च कङ्‌कोला नागभद्रकाः । पुन्नागाः पीलवः साल्वका वै कर्पूरशाखिनः ॥ २३ ॥ अश्वकर्णा हस्तिकर्णास्तालपर्णाश्च दाडिमाः । गणिका बन्धुजीवाश्च जम्बीराश्च कुरण्डकाः ॥ २४ ॥ चाम्पेया बन्धुजीवाश्च तथा वै कनकद्रुमाः । कालागुरुद्रुमाश्चैव तथा चन्दनपादपाः ॥ २५ ॥ खर्जूरा यूथिकास्तालपर्ण्यश्चैव तथेक्षवः । क्षीरवृक्षाश्च खदिराश्चिञ्जाभल्लातकास्तथा ॥ २६ ॥ रुचकाः कुटजा वृक्षा बिल्ववृक्षास्तथैव च । तुलसीनां वनान्येवं मल्लिकानां तथैव च ॥ २७ ॥ इत्यादितरुजातीनां वनान्युपवनानि च । नानावापीशतैर्युक्तान्येवं सन्ति धराधिप ॥ २८ ॥ कोकिलारावसंयुक्ता गुञ्जद्‌भ्रमरभूषिताः । निर्यासस्राविणः सर्वे स्निग्धच्छायास्तरूत्तमाः ॥ २९ ॥ नानाऋतुभवा वृक्षा नानापक्षिसमाकुलाः । नानारसस्राविणीभिर्नदीभिरतिशोभिताः ॥ ३० ॥ पारावतशुकव्रातसारिकापक्षमारुतैः । हंसपक्षसमुद्‌भूतावातव्रातैश्चलद्द्रुमम् ॥ ३१ ॥ सुगन्धग्राहिपवनपूरितं तद्वनोत्तमम् । सहितं हरिणीयूथैर्धावमानैरितस्ततः ॥ ३२ ॥ नृत्यद्‌बर्हिकदम्बस्य केकारावैः सुखप्रदैः । नादितं तद्वनं दिव्यं मधुस्रावि समन्ततः ॥ ३३ ॥ कांस्यसालादुत्तरे तु ताम्रसालः प्रकीर्तितः । चतुरस्रसमाकार उन्नत्या सप्तयोजनः ॥ ३४ ॥ द्वयोस्तु सालयोर्मध्ये सम्प्रोक्ता कल्पवाटिका । येषां तरूणां पुष्पाणि काञ्चनाभानि भूमिप ॥ ३५ ॥ पत्राणि काञ्चनाभानि रत्‍नबीजफलानि च । दशयोजनगन्धो हि प्रसर्पति समन्ततः ॥ ३६ ॥ तद्वनं रक्षितं राजन् वसन्तेनर्तुनानिशम् । पुष्पसिंहासनासीनः पुष्पच्छत्रविराजितः ॥ ३७ ॥ पुष्पभूषाभूषितश्च पुष्पासवविघूर्णितः । मधुश्रीर्माधवश्रीश्च द्वे भार्ये तस्य सम्मते ॥ ३८ ॥ क्रीडतः स्मेरवदने सुमस्तबककन्दुकैः । अतीव रम्यं विपिनं मधुस्रावि समन्ततः ॥ ३९ ॥ दशयोजनपर्यन्तं कुसुमामोदवायुना । पूरितं दिव्यगन्धर्वैः साङ्‌गनैर्गानलोलुपैः ॥ ४० ॥ शोभितं तद्वनं दिव्यं मत्तकोकिलनादितम् । वसन्तलक्ष्मीसंयुक्तं कामिकामप्रवर्धनम् ॥ ४१ ॥ ताम्रसालादुत्तरत्र सीससालः प्रकीर्तितः । समुच्छ्रायः स्मृतोऽप्यस्य सप्तयोजनसंख्यया ॥ ४२ ॥ सन्तानवाटिकामध्ये सालयोस्तु द्वयोर्नृप । दशयोजनगन्धस्तु प्रसूनानां समन्ततः ॥ ४३ ॥ हिरण्याभानि कुसुमान्युत्फुल्लानि निरन्तरम् । अमृतद्रवसंयुक्तफलानि मधुराणि च ॥ ४४ ॥ ग्रीष्मर्तुर्नायकस्तस्या वाटिकाया नृपोत्तम । शुक्रश्रीश्च शुचिश्रीश्च द्वे भार्ये तस्य सम्मते ॥ ४५ ॥ सन्तापत्रस्तलोकास्तु वृक्षमूलेषु संस्थिताः । नानासिद्धैः परिवृतो नानादेवैः समन्वितः ॥ ४६ ॥ विलासिनीनां वृन्दैस्तु चन्दनद्रवपङ्‌किलैः । पुष्पमालाभूषितैस्तु तालवृन्तकराम्बुजैः ॥ ४७ ॥ प्राकारः शोभितो राजञ्छीतलाम्बुनिषेविभिः । सीससालादुत्तरत्राप्यारकूटमयः शुभः ॥ ४८ ॥ प्राकारो वर्तते राजन् मुनियोजनदैर्घ्यवान् । हरिचन्दनवृक्षाणां वाटी मध्ये तयोः स्मृता ॥ ४९ ॥ सालयोरधिनाथस्तु वर्षर्तुर्मेघवाहनः । विद्युत्पिङ्‌गलनेत्रश्च जीमूतकवचः स्मृतः ॥ ५० ॥ वज्रनिर्घोषमुखरश्चेन्द्रधन्वा समन्ततः । सहस्रशो वारिधारा मुञ्चन्नास्ते गणावृतः ॥ ५१ ॥ नभःश्रीश्च नभस्यश्रीः स्वरस्या रस्यमालिनी । अम्बा दुला निरत्‍निश्चाभ्रमन्ती मेघयन्तिका ॥ ५२ ॥ वर्षयन्ती चिपुणिका वारिधारा च सम्मताः । वर्षर्तोर्द्वादश प्रोक्ताः शक्तयो मदविह्वलाः ॥ ५३ ॥ नवपल्लववृक्षाश्च नवीनलतिकान्विताः । हरितानि तृणान्येव वेष्टिता यैर्धराखिला ॥ ५४ ॥ नदीनदप्रवाहाश्च प्रवहन्ति च वेगतः । सरांसि कलुषाम्बूनि रागिचित्तसमानि च ॥ ५५ ॥ वसन्ति देवाः सिद्धाश्च ये देवीकर्मकारिणः । वापीकूपतडागाश्च ये देव्यर्थं समर्पिताः ॥ ५६ ॥ ते गणा निवसन्त्यत्र सविलासाश्च साङ्‌गनाः । आरकूटमयादग्रे सप्तयोजनदैर्घ्यवान् ॥ ५७ ॥ पञ्चलोहात्मकः सालो मध्ये मन्दारवाटिका । नानापुष्पलताकीर्णा नानापल्लवशोभिता ॥ ५८ ॥ अधिष्ठातात्र सम्प्रोक्तः शरद्‌ऋतुरनामयः । इषुलक्ष्मीरूर्जलक्ष्मीर्द्वे भार्ये तस्य सम्मते ॥ ५९ ॥ नानासिद्धा वसन्त्यत्र साङ्‌गनाः सपरिच्छदाः । पञ्चलोहमयादग्रे सप्तयोजनदैर्घ्यवान् ॥ ६० ॥ दीप्यमानो महाशृङ्‌गैर्वर्तते रौप्यसालकः । पारिजाताटवीमध्ये प्रसूनस्तबकान्विता ॥ ६१ ॥ दशयोजनगन्धीनि कुसुमानि समन्ततः । मोदयन्ति गणान्सर्वान्ये देवीकर्मकारिणः ॥ ६२ ॥ तत्राधिनाथः सम्प्रोक्तो हेमन्तर्तुर्महोज्ज्वलः । सगणः सायुधः सर्वान् रागिणो रञ्जयन्नृप ॥ ६३ ॥ सहश्रीश्च सहस्यश्रीर्द्वे भार्ये तस्य सम्मते । वसन्ति तत्र सिद्धाश्च ये देवीव्रतकारिणः ॥ ६४ ॥ रौप्यसालमयादग्रे सप्तयोजनदैर्घ्यवान् । सौवर्णसालः सम्प्रोक्तस्तप्तहाटककल्पितः ॥ ६५ ॥ मध्ये कदम्बवाटी तु पुष्पपल्लवशोभिता । कदम्बमदिराधाराः प्रवर्तन्ते सहस्रशः ॥ ६६ ॥ याभिर्निपीतपीताभिर्निजानन्दोऽनुभूयते । तत्राधिनाथः सम्प्रोक्तः शैशिरर्तुर्महोदयः ॥ ६७ ॥ तपःश्रीश्च तपस्यश्रीर्द्वे भार्ये तस्य सम्मते । मोदमानः सहैताभ्यां वर्तते शिशिराकृतिः ॥ ६८ ॥ नानाविलाससंयुक्तो नानागणसमावृतः । निवसन्ति महासिद्धा ये देवीदानकारिणः ॥ ६९ ॥ नानाभोगसमुत्पन्नमहानन्दसमन्विताः । साङ्‌गनाः परिवारैस्तु सङ्‌घशः परिवारिताः ॥ ७० ॥ स्वर्णसालमयादग्रे मुनियोजनदैर्घ्यवान् । पुष्परागमयः सालः कुङ्‌कुमारुणविग्रहः ॥ ७१ ॥ पुष्परागमयी भूमिर्वनान्युपवनानि च । रत्‍नवृक्षालवालाश्च पुष्परागमयाः स्मृताः ॥ ७२ ॥ प्राकारो यस्य रत्‍नस्य तद्रत्‍नरचिता द्रुमाः । वनभूः पक्षिणश्चैव रत्‍नवर्णजलानि च ॥ ७३ ॥ मण्डपा मण्डपस्तम्भाः सरांसि कमलानि च । प्राकारे तत्र यद्यत्स्यात्तत्सर्वं तत्समं भवेत् ॥ ७४ ॥ परिभाषेयमुद्दिष्टा रत्‍नसालादिषु प्रभो । तेजसा स्याल्लक्षगुणः पूर्वसालात्परो नृप ॥ ७५ ॥ दिक्पाला निवसन्त्यत्र प्रतिब्रह्माण्डवर्तिनाम् । दिक्पालानां समष्ट्यात्मरूपाः स्फूर्जद्वरायुधाः ॥ ७६ ॥ पूर्वाशायां समुत्तुङ्‌गशृङ्‌गा पूरमरावती । नानोपवनसंयुक्तो महेन्द्रस्तत्र राजते ॥ ७७ ॥ स्वर्गशोभा च या स्वर्गे यावती स्यात्ततोऽधिका । समष्टिशतनेत्रस्य सहस्रगुणतः स्मृता ॥ ७८ ॥ ऐरावतसमारूढो वज्रहस्तः प्रतापवान् । देवसेनापरिवृतो राजतेऽत्र शतक्रतुः ॥ ७९ ॥ देवाङ्‌गनागणयुता शची तत्र विराजते । वह्निकोणे वह्निपुरी वह्निपूःसदृशी नृप ॥ ८० ॥ स्वाहास्वधासमायुक्तो वह्निस्तत्र विराजते । निजवाहनभूषाढ्यो निजदेवगणैर्वृतः ॥ ८१ ॥ याम्याशायां यमपुरी तत्र दण्डधरो महान् । स्वभटैर्वेष्टितो राजन् चित्रगुप्तपुरोगमैः ॥ ८२ ॥ निजशक्तियुतो भास्वत्तनयोऽस्ति यमो महान् । नैर्ऋत्यां दिशि राक्षस्यां राक्षसैः परिवारितः ॥ ८३ ॥ खड्गधारी स्फुरन्नास्ते निर्ऋतिर्निजशक्तियुक् । वारुण्यां वरुणो राजा पाशधारी प्रतापवान् ॥ ८४ ॥ महाझषसमारूढो वारुणीमधुविह्वलः । निजशक्तिसमायुक्तो निजयादोगणान्वितः ॥ ८५ ॥ समास्ते वारुणे लोके वरुणानीरताकुलः । वायुकोणे वायुलोको वायुस्तत्राधितिष्ठति ॥ ८६ ॥ वायुसाधनसंसिद्धयोगिभिः परिवारितः । ध्वजहस्तो विशालाक्षो मृगवाहनसंस्थितः ॥ ८७ ॥ मरुद्‌गणैः परिवृतो निजशक्तिसमन्वितः । उत्तरस्यां दिशि महान् यक्षलोकोऽस्ति भूमिप ॥ ८८ ॥ यक्षाधिराजस्तत्रास्ते वृद्धिऋद्ध्यादिशक्तिभिः । नवभिर्निधिभिर्युक्तस्तुन्दिलो धननायकः ॥ ८९ ॥ मणिभद्रः पूर्णभद्रो मणिमान्मणिकन्धरः । मणिभूषो मणिस्रग्वी मणिकार्मुकधारकः ॥ ९० ॥ इत्यादियक्षसेनानीसहितो निजशक्तियुक् । ईशानकोणे सम्प्रोक्तो रुद्रलोको महत्तरः ॥ ९१ ॥ अनर्घ्यरत्‍नखचितो यत्र रुद्रोऽधिदैवतम् । मन्युमान्दीप्तनयनो बद्धपृष्ठमहेषुधिः ॥ ९२ ॥ स्फूर्जद्धनुर्वामहस्तोऽधिज्यधन्वभिराधृतः । स्वसमानैरसंख्यातरुद्रैः शूलवरायुधैः ॥ ९३ ॥ विकृतास्यैः करालास्यैर्वमद्वह्निभिरास्यतः । दशहस्तैः शतकरैः सहस्रभुजसंयुतैः ॥ ९४ ॥ दशपादैर्दशग्रीवैस्त्रिनेत्रैरुग्रमूर्तिभिः । अन्तरिक्षचरा ये च ये च भूमिचरा स्मृताः ॥ ९५ ॥ रुद्राध्याये स्मृता रुद्रास्तैः सर्वैश्च समावृतः । रुद्राणीकोटिसहितो भद्रकाल्यादिमातृभिः ॥ ९६ ॥ नानाशक्तिसमाविष्टडामर्यादिगणावृतः । वीरभद्रादिसहितो रुद्रो राजन् विराजते ॥ ९७ ॥ मुण्डमालाधरो नागवलयो नागकन्धरः । व्याघ्रचर्मपरीधानो गजचर्मोत्तरीयकः ॥ ९८ ॥ चिताभस्माङ्‌ग लिप्ताङ्‌गः प्रमथादिगणावृतः । निनदड्डमरुध्वानैर्बधिरीकृतदिङ्‌मुखः ॥ ९९ ॥ अट्टहासास्फोटशब्दैः सन्त्रासितनभस्तलः । भूतसङ्‌घसमाविष्टो भूतावासो महेश्वरः । ईशानदिक्पतिः सोऽयं नाम्ना चेशान एव च ॥ १०० ॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां द्वादशस्कन्धे मणिद्वीपवर्णनं नाम दशमोऽध्यायः ॥ १० ॥

vyāsa uvāca brahmalokādūrdhvabhāge sarvaloko'sti yaḥ śrutaḥ | maṇidvīpaḥ sa evāsti yatra devī virājate || 1 || sarvasmādadhiko yasmātsarvalokastataḥ smṛtaḥ | purā parāmbayaivāyaṃ kalpito manasecchayā || 2 || sarvādau nijavāsārthaṃ prakṛtyā mūlabhūtayā | kailāsādadhiko loko vaikuṇṭhādapi cottamaḥ || 3 || golokādapi sarvasmātsarvaloko'dhikaḥ smṛtaḥ | na tatsamaṃ trilokyāṃ tu sundaraṃ vidyate kvacit || 4 || chatrībhūtaṃ trijagato bhavasantāpanāśakam | chāyābhūtaṃ tadevāsti brahmāṇḍānāṃ tu sattama || 5 || bahuyojanavistīrṇo gambhīrastāvadeva hi | maṇidvīpasya parito vartate tu sudhodadhiḥ || 6 || marutsaṅ‌ghaṭṭanotkīrṇataraṅ‌ga śatasaṅ‌kulaḥ | rat‍nācchavālukāyukto jhaṣaśaṅ‌khasamākulaḥ || 7 || vīcisaṅ‌gharṣasañjātalaharīkaṇaśītalaḥ | nānādhvajasamāyuktanānāpotagatāgataiḥ || 8 || virājamānaḥ paritastīrarat‍nadrumo mahān | taduttaramayodhātunirmito gagane tataḥ || 9 || saptayojanavistīrṇaḥ prākāro vartate mahān | nānāśastrapraharaṇā nānāyuddhaviśāradāḥ || 10 || rakṣakā nivasantyatra modamānāḥ samantataḥ | caturdvārasamāyukto dvārapālaśatānvitaḥ || 11 || nānāgaṇaiḥ parivṛto devībhaktiyutairnṛpa | darśanārthaṃ samāyānti ye devā jagadīśituḥ || 12 || teṣāṃ gaṇā vasantyatra vāhanāni ca tatra hi | vimānaśatasaṅ‌gharṣaghaṇṭāsvanasamākulaḥ || 13 || hayaheṣākharāghātabadhirīkṛtadiṅ‌mukhaḥ | gaṇaiḥ kilakilārāvairvetrahastaiśca tāḍitāḥ || 14 || sevakā devasaṅ‌ghānāṃ bhrājante tatra bhūmipa | tasminkolāhale rājanna śabdaḥ kenacitkvacit || 15 || kasyacicchrūyate'tyantaṃ nānādhvanisamākule | pade pade miṣṭavāriparipūrṇasarāṃsi ca || 16 || vāṭikā vividhā rājan rat‍nadrumavirājitāḥ | taduttaraṃ mahāsāradhātunirmitamaṇḍalaḥ || 17 || sālo'paro mahānasti gaganasparśi yacchiraḥ | tejasā syācchataguṇaḥ pūrvasālādayaṃ paraḥ || 18 || gopuradvārasahito bahuvṛkṣasamanvitaḥ | yā vṛkṣajātayaḥ santi sarvāstāstatra santi ca || 19 || nirantaraṃ puṣpayutāḥ sadā phalasamanvitāḥ | navapallavasaṃyuktāḥ parasaurabhasaṅ‌kulāḥ || 20 || panasā bakulā lodhrāḥ karṇikārāśca śiṃśapāḥ | devadārukāñcanārā āmrāścaiva sumeravaḥ || 21 || likucā hiṅ‌gulāścailā lavaṅ‌gāḥ kaṭphalāstathā | pāṭalā mucukundāśca phalinyo jaghanephalāḥ || 22 || tālāstamālāḥ sālāśca kaṅ‌kolā nāgabhadrakāḥ | punnāgāḥ pīlavaḥ sālvakā vai karpūraśākhinaḥ || 23 || aśvakarṇā hastikarṇāstālaparṇāśca dāḍimāḥ | gaṇikā bandhujīvāśca jambīrāśca kuraṇḍakāḥ || 24 || cāmpeyā bandhujīvāśca tathā vai kanakadrumāḥ | kālāgurudrumāścaiva tathā candanapādapāḥ || 25 || kharjūrā yūthikāstālaparṇyaścaiva tathekṣavaḥ | kṣīravṛkṣāśca khadirāściñjābhallātakāstathā || 26 || rucakāḥ kuṭajā vṛkṣā bilvavṛkṣāstathaiva ca | tulasīnāṃ vanānyevaṃ mallikānāṃ tathaiva ca || 27 || ityāditarujātīnāṃ vanānyupavanāni ca | nānāvāpīśatairyuktānyevaṃ santi dharādhipa || 28 || kokilārāvasaṃyuktā guñjad‌bhramarabhūṣitāḥ | niryāsasrāviṇaḥ sarve snigdhacchāyāstarūttamāḥ || 29 || nānāṛtubhavā vṛkṣā nānāpakṣisamākulāḥ | nānārasasrāviṇībhirnadībhiratiśobhitāḥ || 30 || pārāvataśukavrātasārikāpakṣamārutaiḥ | haṃsapakṣasamud‌bhūtāvātavrātaiścaladdrumam || 31 || sugandhagrāhipavanapūritaṃ tadvanottamam | sahitaṃ hariṇīyūthairdhāvamānairitastataḥ || 32 || nṛtyad‌barhikadambasya kekārāvaiḥ sukhapradaiḥ | nāditaṃ tadvanaṃ divyaṃ madhusrāvi samantataḥ || 33 || kāṃsyasālāduttare tu tāmrasālaḥ prakīrtitaḥ | caturasrasamākāra unnatyā saptayojanaḥ || 34 || dvayostu sālayormadhye samproktā kalpavāṭikā | yeṣāṃ tarūṇāṃ puṣpāṇi kāñcanābhāni bhūmipa || 35 || patrāṇi kāñcanābhāni rat‍nabījaphalāni ca | daśayojanagandho hi prasarpati samantataḥ || 36 || tadvanaṃ rakṣitaṃ rājan vasantenartunāniśam | puṣpasiṃhāsanāsīnaḥ puṣpacchatravirājitaḥ || 37 || puṣpabhūṣābhūṣitaśca puṣpāsavavighūrṇitaḥ | madhuśrīrmādhavaśrīśca dve bhārye tasya sammate || 38 || krīḍataḥ smeravadane sumastabakakandukaiḥ | atīva ramyaṃ vipinaṃ madhusrāvi samantataḥ || 39 || daśayojanaparyantaṃ kusumāmodavāyunā | pūritaṃ divyagandharvaiḥ sāṅ‌ganairgānalolupaiḥ || 40 || śobhitaṃ tadvanaṃ divyaṃ mattakokilanāditam | vasantalakṣmīsaṃyuktaṃ kāmikāmapravardhanam || 41 || tāmrasālāduttaratra sīsasālaḥ prakīrtitaḥ | samucchrāyaḥ smṛto'pyasya saptayojanasaṃkhyayā || 42 || santānavāṭikāmadhye sālayostu dvayornṛpa | daśayojanagandhastu prasūnānāṃ samantataḥ || 43 || hiraṇyābhāni kusumānyutphullāni nirantaram | amṛtadravasaṃyuktaphalāni madhurāṇi ca || 44 || grīṣmarturnāyakastasyā vāṭikāyā nṛpottama | śukraśrīśca śuciśrīśca dve bhārye tasya sammate || 45 || santāpatrastalokāstu vṛkṣamūleṣu saṃsthitāḥ | nānāsiddhaiḥ parivṛto nānādevaiḥ samanvitaḥ || 46 || vilāsinīnāṃ vṛndaistu candanadravapaṅ‌kilaiḥ | puṣpamālābhūṣitaistu tālavṛntakarāmbujaiḥ || 47 || prākāraḥ śobhito rājañchītalāmbuniṣevibhiḥ | sīsasālāduttaratrāpyārakūṭamayaḥ śubhaḥ || 48 || prākāro vartate rājan muniyojanadairghyavān | haricandanavṛkṣāṇāṃ vāṭī madhye tayoḥ smṛtā || 49 || sālayoradhināthastu varṣarturmeghavāhanaḥ | vidyutpiṅ‌galanetraśca jīmūtakavacaḥ smṛtaḥ || 50 || vajranirghoṣamukharaścendradhanvā samantataḥ | sahasraśo vāridhārā muñcannāste gaṇāvṛtaḥ || 51 || nabhaḥśrīśca nabhasyaśrīḥ svarasyā rasyamālinī | ambā dulā nirat‍niścābhramantī meghayantikā || 52 || varṣayantī cipuṇikā vāridhārā ca sammatāḥ | varṣartordvādaśa proktāḥ śaktayo madavihvalāḥ || 53 || navapallavavṛkṣāśca navīnalatikānvitāḥ | haritāni tṛṇānyeva veṣṭitā yairdharākhilā || 54 || nadīnadapravāhāśca pravahanti ca vegataḥ | sarāṃsi kaluṣāmbūni rāgicittasamāni ca || 55 || vasanti devāḥ siddhāśca ye devīkarmakāriṇaḥ | vāpīkūpataḍāgāśca ye devyarthaṃ samarpitāḥ || 56 || te gaṇā nivasantyatra savilāsāśca sāṅ‌ganāḥ | ārakūṭamayādagre saptayojanadairghyavān || 57 || pañcalohātmakaḥ sālo madhye mandāravāṭikā | nānāpuṣpalatākīrṇā nānāpallavaśobhitā || 58 || adhiṣṭhātātra samproktaḥ śarad‌ṛturanāmayaḥ | iṣulakṣmīrūrjalakṣmīrdve bhārye tasya sammate || 59 || nānāsiddhā vasantyatra sāṅ‌ganāḥ saparicchadāḥ | pañcalohamayādagre saptayojanadairghyavān || 60 || dīpyamāno mahāśṛṅ‌gairvartate raupyasālakaḥ | pārijātāṭavīmadhye prasūnastabakānvitā || 61 || daśayojanagandhīni kusumāni samantataḥ | modayanti gaṇānsarvānye devīkarmakāriṇaḥ || 62 || tatrādhināthaḥ samprokto hemantarturmahojjvalaḥ | sagaṇaḥ sāyudhaḥ sarvān rāgiṇo rañjayannṛpa || 63 || sahaśrīśca sahasyaśrīrdve bhārye tasya sammate | vasanti tatra siddhāśca ye devīvratakāriṇaḥ || 64 || raupyasālamayādagre saptayojanadairghyavān | sauvarṇasālaḥ samproktastaptahāṭakakalpitaḥ || 65 || madhye kadambavāṭī tu puṣpapallavaśobhitā | kadambamadirādhārāḥ pravartante sahasraśaḥ || 66 || yābhirnipītapītābhirnijānando'nubhūyate | tatrādhināthaḥ samproktaḥ śaiśirarturmahodayaḥ || 67 || tapaḥśrīśca tapasyaśrīrdve bhārye tasya sammate | modamānaḥ sahaitābhyāṃ vartate śiśirākṛtiḥ || 68 || nānāvilāsasaṃyukto nānāgaṇasamāvṛtaḥ | nivasanti mahāsiddhā ye devīdānakāriṇaḥ || 69 || nānābhogasamutpannamahānandasamanvitāḥ | sāṅ‌ganāḥ parivāraistu saṅ‌ghaśaḥ parivāritāḥ || 70 || svarṇasālamayādagre muniyojanadairghyavān | puṣparāgamayaḥ sālaḥ kuṅ‌kumāruṇavigrahaḥ || 71 || puṣparāgamayī bhūmirvanānyupavanāni ca | rat‍navṛkṣālavālāśca puṣparāgamayāḥ smṛtāḥ || 72 || prākāro yasya rat‍nasya tadrat‍naracitā drumāḥ | vanabhūḥ pakṣiṇaścaiva rat‍navarṇajalāni ca || 73 || maṇḍapā maṇḍapastambhāḥ sarāṃsi kamalāni ca | prākāre tatra yadyatsyāttatsarvaṃ tatsamaṃ bhavet || 74 || paribhāṣeyamuddiṣṭā rat‍nasālādiṣu prabho | tejasā syāllakṣaguṇaḥ pūrvasālātparo nṛpa || 75 || dikpālā nivasantyatra pratibrahmāṇḍavartinām | dikpālānāṃ samaṣṭyātmarūpāḥ sphūrjadvarāyudhāḥ || 76 || pūrvāśāyāṃ samuttuṅ‌gaśṛṅ‌gā pūramarāvatī | nānopavanasaṃyukto mahendrastatra rājate || 77 || svargaśobhā ca yā svarge yāvatī syāttato'dhikā | samaṣṭiśatanetrasya sahasraguṇataḥ smṛtā || 78 || airāvatasamārūḍho vajrahastaḥ pratāpavān | devasenāparivṛto rājate'tra śatakratuḥ || 79 || devāṅ‌ganāgaṇayutā śacī tatra virājate | vahnikoṇe vahnipurī vahnipūḥsadṛśī nṛpa || 80 || svāhāsvadhāsamāyukto vahnistatra virājate | nijavāhanabhūṣāḍhyo nijadevagaṇairvṛtaḥ || 81 || yāmyāśāyāṃ yamapurī tatra daṇḍadharo mahān | svabhaṭairveṣṭito rājan citraguptapurogamaiḥ || 82 || nijaśaktiyuto bhāsvattanayo'sti yamo mahān | nairṛtyāṃ diśi rākṣasyāṃ rākṣasaiḥ parivāritaḥ || 83 || khaḍgadhārī sphurannāste nirṛtirnijaśaktiyuk | vāruṇyāṃ varuṇo rājā pāśadhārī pratāpavān || 84 || mahājhaṣasamārūḍho vāruṇīmadhuvihvalaḥ | nijaśaktisamāyukto nijayādogaṇānvitaḥ || 85 || samāste vāruṇe loke varuṇānīratākulaḥ | vāyukoṇe vāyuloko vāyustatrādhitiṣṭhati || 86 || vāyusādhanasaṃsiddhayogibhiḥ parivāritaḥ | dhvajahasto viśālākṣo mṛgavāhanasaṃsthitaḥ || 87 || marud‌gaṇaiḥ parivṛto nijaśaktisamanvitaḥ | uttarasyāṃ diśi mahān yakṣaloko'sti bhūmipa || 88 || yakṣādhirājastatrāste vṛddhiṛddhyādiśaktibhiḥ | navabhirnidhibhiryuktastundilo dhananāyakaḥ || 89 || maṇibhadraḥ pūrṇabhadro maṇimānmaṇikandharaḥ | maṇibhūṣo maṇisragvī maṇikārmukadhārakaḥ || 90 || ityādiyakṣasenānīsahito nijaśaktiyuk | īśānakoṇe samprokto rudraloko mahattaraḥ || 91 || anarghyarat‍nakhacito yatra rudro'dhidaivatam | manyumāndīptanayano baddhapṛṣṭhamaheṣudhiḥ || 92 || sphūrjaddhanurvāmahasto'dhijyadhanvabhirādhṛtaḥ | svasamānairasaṃkhyātarudraiḥ śūlavarāyudhaiḥ || 93 || vikṛtāsyaiḥ karālāsyairvamadvahnibhirāsyataḥ | daśahastaiḥ śatakaraiḥ sahasrabhujasaṃyutaiḥ || 94 || daśapādairdaśagrīvaistrinetrairugramūrtibhiḥ | antarikṣacarā ye ca ye ca bhūmicarā smṛtāḥ || 95 || rudrādhyāye smṛtā rudrāstaiḥ sarvaiśca samāvṛtaḥ | rudrāṇīkoṭisahito bhadrakālyādimātṛbhiḥ || 96 || nānāśaktisamāviṣṭaḍāmaryādigaṇāvṛtaḥ | vīrabhadrādisahito rudro rājan virājate || 97 || muṇḍamālādharo nāgavalayo nāgakandharaḥ | vyāghracarmaparīdhāno gajacarmottarīyakaḥ || 98 || citābhasmāṅ‌ga liptāṅ‌gaḥ pramathādigaṇāvṛtaḥ | ninadaḍḍamarudhvānairbadhirīkṛtadiṅ‌mukhaḥ || 99 || aṭṭahāsāsphoṭaśabdaiḥ santrāsitanabhastalaḥ | bhūtasaṅ‌ghasamāviṣṭo bhūtāvāso maheśvaraḥ | īśānadikpatiḥ so'yaṃ nāmnā ceśāna eva ca || 100 || iti śrīmaddevībhāgavate mahāpurāṇe'ṣṭādaśasāhasryāṃ saṃhitāyāṃ dvādaśaskandhe maṇidvīpavarṇanaṃ nāma daśamo'dhyāyaḥ || 10 ||

English translation

1-20. Vyasa said O King Janamejaya! What is known in the S’rutis, in the Subala Upanisada, as the Sarvaloka over the Brahmaloka, that is Manidvipa. Here the Devi resides. This region is superior to all the other regions. Hence it is named “Sarvaloka.” The Devi built this place of yore according to Her will. In the very beginning, the Devi Mula Prakriti Bhagavati built this place for Her residence, superior to Kailas’a, Vaikuntha and Goloka. Verily no other place in this universe can stand before it. Hence it is called Manidvipa or Sarvaloka as superior to all the Lokas. This Manidvipa is situated at the top of all the regions, and resembles an umbrella. Its shadow falls on the Brahmanda and destroys the pains and sufferings of this world. Surrounding this Manidvipa exists an ocean called the Sudha Samudra, many yojanas wide and many yojanas deep. Many waves arise in it due to winds. Various fishes and conches and other aquatic animals play and here the beach is full of clear sand like gems. The sea-shores are kept always cool by the splashes of the waves of water striking the beach. Various ships decked with various nice flags are plying to and fro. Various trees bearing gems are adorning the beach. Across this ocean, there is an iron enclosure, very long and seven yojanas wide, very high so as to block the Heavens. Within this enclosure wall the military guards skilled in war and furnished with various weapons are running gladly to and fro. There are four gateways or entrances; at every gate there are hundreds of guards and various hosts of the devotees of the Devi. Whenever any Deva comes to pay a visit to the JagadisVari, their Vahanas (carriers) and retinue are stopped here. O King! This place is being resounded with the chimings of the bells of hundreds of chariots of the Devas and the neighings of their horses and the sounds of their hoofs. The Devas walk here and there with canes in their hands and they are chiding at intervals the attendants of the Devas. This place is so noisy that no one can hear clearly another’s word. Here are seen thousands of houses adorned with trees of

gems and jewels and tanks filled with plenty of tasteful good sweet waters. O King! After this there is a second enclosure wall, very big and built of white copper metal (an amalgam of zinc or tin and copper); it is so very high that it almost touches the Heavens. It is hundred times more brilliant than the preceding enclosure wall; there are many principal entrance gates and various trees here. What to speak of the trees there more than this that all the trees that are found in this universe are found there and they bear always flowers, fruits and new leaves! All the quarters are scented with their sweet fragrance!

21-40. O King! Now hear, in brief, the names of some of the trees that are found in abundance there Panasa, Vakula, Lodhra, Karnikara, S’ins’apa, Deodara, Kanchanara, mango, Sumeru, Likucha, Hingula, Ela, Labanga, Kat fruit tree, Patala, Muchukunda, Tala, Tamala, Sala, Kankola, Nagabhdra, Punnaga, Pilu, Salvaka, Karpura, AsVakarna, Hastikarna, Talaparna, Pomegranate, Ganika, Bandhujiva, Jamvira, Kurandaka, Champeya, Bandhujiva, Kanakavriksa, Kalaguru (usually coiled all over with cobras, very black poisonous snakes), Sandaltree, Datetree,Yuthika, Talaparni, Sugarcane, Ksira-tree, Khadira, Bhallataka, Ruchaka, Kutaja, Bel tree and others, the TalasT and Mallika and other forest plants. The place is interspersed with various forests and gardens. At intervals there are wells, tanks, etc., adding very much to the beauty of the place. The cuckoos are perching on every tree and they are cooing sweetly, the bees are drinking the honey and humming all around, the trees are emitting juices and sweet fragrance all around. The trees are casting cool nice shadows. The trees of all seasons are seen here; on the tops of these are sitting pigeons, parrots, female birds of the Mayana species and other birds of various other species. There are seen rivers flowing at intervals carrying many juicy liquids. The Flamingoes, swans, and other aquatic animals are playing in them. The breeze is stealing away the perfumes of flowers and carrying it all around. The deer are following this breeze. The wild

mad peacocks are dancing with madness and the whole place looks very nice, lovely and charming. Next this Kamsya enclosure comes the third enclosure wall of copper. It is square shaped and seven yojanas high. Within this are forests of Kalpavriksas, bearing golden leaves and flowers and fruits like gems. Their perfumes spread ten yojanas and gladden things all around. The king of the seasons preserves always this place. The king’s seat is made of flowers; his umbrella is of flowers; ornaments made of flowers; he drinks the honey of the flowers; and, with rolling eyes, he lives here always with his two wives named Madhu S’ri and Madhava S’ri. The two wives of Spring have their faces always smiling. They play with bunches of flowers. This forest is very pleasant. Oh! The honey of the flowers is seen here in abundance. The perfumes of the full blown flowers spread to a distance of ten yojanas. The Gandharbhas, the musicians, live here with their wives.

41-60. The places round this are filled with the beauties of the spring and with the cooing of cuckoos. No doubt this place intensifies the desires of the amorous persons! O King! Next comes the enclosure wall, made of lead. Its height is seven yojanas. Within this enclosure there is the garden of the Santanaka tree. The fragrance of its flowers extends to ten yojanas. The flowers look like gold and are always in full bloom. Its fruits are very sweet. They seem to be imbued with nectar drops. In this garden resides always the Summer Season with his two wives S’ukra S’ri and S’uchi S’ri. The inhabitants of this place always remain under trees; otherwise they will be scorched by summer rays. Various Siddhas and Devas inhabit this place. The female sensualists here get their bodies all anointed with sandal paste and all decked with flower garlands and they stalk to and fro with fans in their hands. There is water to be found here very cool and refreshing. And owing to heat all the people here use this water. Next to this lead enclosure comes the wall made of brass, the fifth enclosure wall. It is seven yojanas long. In the

centre is situated the garden of Hah Chandana trees. Its ruler is the Rainy Season.

The lightnings are his auburn eyes; the clouds are his armour, the thunder is his voice and the rainbow is his arrow. Surrounded by his hosts he rains incessantly. He has twelve wives (1) Nabhah S’ri, (2) Nabhahsya S’ri, (3) Svarasya, (4) Rasyasalini, (5) Amba, (6)

Dula, (7) Niratni, (8) Abhramanti, (9) Megha Yantika, (10) Varsayanti, (11) Chivunika, and (12) Varidhara (some say Madamatta). All the trees here are always seen with new leaves and entwined with new creepers. The whole site is covered all over with fresh green leaves and twigs. The rivers here always flow full and the current is strong, indeed! The tanks here are very dirty like the minds of worldly persons attached to worldly things. The devotees of the Devi, the Siddhas and the Devas and those that consecrated in their life times tanks, wells, and reservoirs for the satisfaction of the Devas dwell here with their wives. O King! Next to this brass enclosure comes, the sixth enclosure wall made of five fold irons. It is seven yojanas long. In the centre is situated the Garden of Mandara trees. This garden is beautified by various creepers, flowers and leaves. The Autumn season lives here with his two wives Isalaksmi and Urjalaksmi and he is the ruler. Various Siddha persons dwell here with their wives, well clothed. O King! Next to this comes the seventh enclosure wall, seven yojanas long and built of silver.

61-80. In the centre is situated the garden of Parijata trees. They are filled with bunches of flowers. The fragrance of these Parijatas extend upto the ten Yojanas and gladden all the things all around. Those who are the Devi Bhaktas and who do the works of the Devi are delighted with this fragrance. The Hemanta (Dewy) season is the Regent of this place. He lives here with his two wives Saha S’ri and Sahasya S’ri and with his hosts. Those who are of a loving nature are pleased hereby. Those who have become perfect by performing

the Vratas of the Devi live here also. O King! Next to this silver, there comes the eighth enclosure wall built of molten gold. It is seven Yojanas long. In the centre there is the garden of the Kadamba tree. The trees are always covered with fruits and flowers and the honey is coming out always from the trees from all the sides. The devotees of the Devi drink this honey always and feel intense delight; the Dewy Season is the Regent of this place. He resides here with his two wives Tapah S’ri and Tapasya S’ri and his various hosts, and enjoys gladly various objects of enjoyments. Those who had made various gifts for the Devi’s satisfaction, those great Siddha Purusas live here with their wives and relatives very gladly in various enjoyments. O King! Next to this golden enclosure well comes the ninth enclosure made of red Kum Kum like (saffron) Pusparaga gems. The ground inside this enclosure, the ditches or the basins for water dug round their roots are all built of Pusparaga gems. Next to this wall there are other enclosure walls built of various other gems and jewels; the sites, forests, trees, flowers birds, rivers, tanks, lotuses, mandapas (halls) and their pillars are all built respectively of those gems. Only this is to be remembered that those coming nearer and nearer to the centre are one lakh times more brilliant than the ones receding from them. This is the general rule observed in the construction of these enclosures and the articles contained therein. Here the Regents of the several quarters, the Dikpalas, representing the sum total of the several Dikpalas of every Brahmanda and their guardians reside. On the eastern quarter is situated the Amaravati city. Here the high-peaked mountains exist and various trees are seen. Indra, the Lord of the Devas, dwells here. Whatever beauty exists in the separate Heavens in the several places, one thousand times, rather more than that, exists in the Heaven of this cosmic Indra, the thousand-eyed, here. Here Indra mounting on the elephant Airavata, with thunderbolt in his hand, lives with S’achi Devi and other immortal ladies and with the hosts of the Deva forces. On the Agni (south-eastern) corner is the city of Agni. This represents the sum total of the several cities of Agni in different Brahmandas.

81-100. Here resides the Agni Deva very gladly with his two wives Svaha and Svadha and with his Vahana and the other Devas. On the south is situated the city of Yama, the God of Death. Here lives Dharma Raja with rod in his hand and with Chitragupta and several other hosts. On the south-westen corner is the place of the Raksasas. Here resides Nirriti with his axe in his hand and with his wife and other Raksasas. On the west is the city of Varuna. Here Varuna raja resides with his wife Varuni and intoxicated with the drink of Varuni honey; his weapon is the noose, his Vahana is the King of fishes and his subjects are the aquatic animals. On the north¬ western corner dwells Vayudeva. Here Havana Deva lives with his wife and with the Yogis perfect in the practice of Pranayama. He holds a flag in his hand.

His Vahana, is deer and his family consists of the forty nine Vayus. On the north resides the Yaksas. The corpulent King of the Yaksas, Kuvera, lives here with his S’aktis Vriddhi and Riddhi, and in possession of various gems and jewels. His generals Manibhadra, Puma bhadra, Maniman, Manikandhara, Manibhusa, Manisragvi, Manikar-mukadhari, etc., live here. On the north eastern corner is situated the Rudra loka, decked with invaluable gems. Here dwells the Rudra Deva. On His back is kept the arrow-case and he holds a bow in his left hand. He looks very angry and his eyes are red with anger. There are other Rudras like him with bows and spears and other weapons, surrounding him. The faces of some of them are distorted; some are very horrible indeed! Fire is coming out from the mouths of some others. Some have ten hands; some have hundred hands and some have thousand hands; some have ten feet; some have ten heads whereas some others have three eyes. Those who roam in the intermediate spaces between the heaven and earth, those who move on the earth, or the Rudras mentioned in the Rudradhyaya all live here. O King! Isana, the Regent of the north eastern quarter lives here with BhadrakalT and other Matriganas, with Kotis and Kotis of Rudranis and with Damaris and Vira Bhadras and

various other S’aktis. On his neck there is a garland of skulls, on his hand there is a ring of snakes; he wears a tiger skin; his upper clothing is a tiger skin and his body is smeared with the ashes of the dead. He sounds frequently his Damaru; this sound reverberates on all sides, he makes big laughs called Attahasya, reverberating through the heavens. He remains always surrounded with Pramathas and Bhutas; they live here.

Here ends the Tenth Chapter of the Twelfth Book on the description of Mani Dvipa in the Mahapuranam S’ri Mad Devi Bhagavatam of 18,000 verses by Maharsi Veda Vyasa.

Complete chapter-aligned witnesses. Sanskrit Wikisource page 31985, revision 118790 (2017-08-30T20:21:27Z). English is Swami Vijñanananda’s complete 1921–23 public-domain translation, controlled against the archival OCR and its chapter page at https://sacred-texts.com/hin/db/bk12ch10.htm. Historic spelling and transliteration are lightly normalized; no verse-by-verse alignment is asserted.