Skip to main content

Fourth Skandha · Chapter 15

Chapter 15

Unit 77 of 318Fourth Skandha · Chapter 15Fourth Skandha · Chapter 151 source entries

Fourth Skandha · Chapter 15

Source

व्यास उवाच इति तस्य वचः श्रुत्वा भार्गवस्य महात्मनः । प्रह्लादस्तु सुसंहृष्टो बभूव नृपनन्दनः ॥ १ ॥ ज्ञात्वा दैवं बलिष्ठञ्च प्रह्लादस्तानुवाच ह । कृतेऽपि युद्धे न जयो भविष्यति कदाचन ॥ २ ॥ तदा ते जयिनः प्रोचुर्दानवा मदगर्विताः । संग्रामस्तु प्रकर्तव्यो दैवं किं न विदामहे ॥ ३ ॥ निरुद्यमानां दैवं हि प्रधानमसुराधिप । केन दृष्टं क्व वा दृष्टं कीदृशं केन निर्मितम् ॥ ४ ॥ तस्माद्युद्धं करिष्यामो बलमास्थाय साम्प्रतम् । भवाग्रे दैत्यवर्य त्वं सर्वज्ञोऽसि महामते ॥ ५ ॥ इत्युक्तस्तैस्तदा राजन् प्रह्लादः प्रबलारिहा । सेनानीश्च तदा भूत्वा देवान्युद्धे समाह्वयत् ॥ ६ ॥ तेऽपि तत्रासुरान्दृष्ट्वा संग्रामे समुपस्थितान् । सर्वे सम्भृतसम्भारा देवास्तान्समयोधयन् ॥ ७ ॥ संग्रामस्तु तदा घोरः शक्रप्रह्लादयोरभूत् । पूर्णं वर्षशतं तत्र मुनीनां विस्मयावहः ॥ ८ ॥ वर्तमाने महायुद्धे शुक्रेण प्रतिपालिताः । जयमापुस्तदा दैत्याः प्रह्लादप्रमुखा नृप ॥ ९ ॥ तदैवेन्द्रो गुरोर्वाक्यात्सर्वदुःखविनाशिनीम् । सस्मार मनसा देवीं मुक्तिदां परमां शिवाम् ॥ १० ॥ इन्द्र उवाच जय देवि महामाये शूलधारिणि चाम्बिके । शङ्खचक्रगदापद्मखड्गहस्तेऽभयप्रदे ॥ ११ ॥ नमस्ते भुवनेशानि शक्तिदर्शननायिके । दशतत्त्वात्मिके मातर्महाबिन्दुस्वरूपिणि ॥ १२ ॥ महाकुण्डलिनीरूपे सच्चिदानन्दरूपिणि । प्राणाग्निहोत्रविद्ये ते नमो दीपशिखात्मिके ॥ १३ ॥ पञ्चकोशान्तरगते पुच्छब्रह्मस्वरूपिणि । आनन्दकलिके मातः सर्वोपनिषदर्चिते ॥ १४ ॥ मातः प्रसीद सुमुखी भव हीनसत्त्वां- स्त्रायस्व नो जननि दैत्यपराजितान् वै । त्वं देवि नः शरणदा भुवने प्रमाणा शक्तासि दुःखशमनेऽखिलवीर्ययुक्ते ॥ १५ ॥ ध्यायन्ति येऽपि सुखिनो नितरां भवन्ति दुःखान्विताविगतशोकभयास्तथान्ये । मोक्षार्थिनो विगतमानविमुक्तसङ्गाः संसारवारिधिजलं प्रतरन्ति सन्तः ॥ १६ ॥ त्वं देवि विश्वजननि प्रथितप्रभावा संरक्षणार्थमुदितार्तिहरप्रतापा । संहर्तुमेतदखिलं किल कालरूपा को वेत्ति तेऽम्ब चरितं ननु मन्दबुद्धिः ॥ १७ ॥ ब्रह्मा हरश्च हरिदश्वरथो हरिश्च इन्द्रो यमोऽथ वरुणोऽग्निसमीरणौ च । ज्ञातुं क्षमा न मुनयोऽपि महानुभावा यस्याः प्रभावमतुलं निगमागमाश्च ॥ १८ ॥ धन्यास्त एव तव भक्तिपरा महान्तः संसारदुःखरहिताः सुखसिन्धुमग्नाः । ये भक्तिभावरहिता न कदापि दुःखा- ॥ म्भोधिं जनिक्षयतरङ्गमुमे तरन्ति ॥ १९ ॥ ये वीज्यमानाः सितचामरैश्च क्रीडन्ति धन्याः शिबिकाधिरूढाः । तैः पूजिता त्वं किल पूर्वदेहे नानोपहारैरिति चिन्तयामि ॥ २० ॥ ये पूज्यमाना वरवारणस्था विलासिनीवृन्दविलासयुक्ताः । सामन्तकैश्चोपनतैर्व्रजन्ति मन्ये हि तैस्त्वं किल पूजितासि ॥ २१ ॥ व्यास उवाच एवं स्तुता मघवता देवी विश्वेश्वरी तदा । प्रादुर्बभूव तरसा सिंहारूढा चतुर्भुजा ॥ २२ ॥ शङ्खचक्रगदापद्मान्बिभ्रती चारुलोचना । रक्ताम्बरधरा देवी दिव्यमाल्यविभूषणा ॥ २३ ॥ तानुवाच सुरान्देवी प्रसन्नवदना गिरा । भयं त्यजन्तु भो देवाः शं विधास्ये किलाधुना ॥ २४ ॥ इत्युक्त्वा सा तदा देवी सिंहारूढातिसुन्दरी । जगाम तरसा तत्र यत्र दैत्या मदान्विताः ॥ २५ ॥ प्रह्लादप्रमुखाः सर्वे दृष्ट्वा देवीं पुरःस्थिताम् । ऊचुः परस्परं भीताः किं कर्तव्यमितस्तदा ॥ २६ ॥ देवं नारायणं चात्र सम्प्राप्ता चण्डिका किल । महिषान्तकरी नूनं चण्डमुण्डविनाशिनी ॥ २७ ॥ निहनिष्यति नः सर्वानम्बिका नात्र संशयः । वक्रदृष्ट्या यया पूर्वं निहतौ मधुकैटभौ ॥ २८ ॥ एवं चिन्तातुरान्वीक्ष्य प्रह्लादस्तानुवाच ह । योद्धव्यं नाथ गन्तव्यं पलाय्य दानवोत्तमाः ॥ २९ ॥ नमुचिस्तानुवाचाथ पलायनपरानिह । हनिष्यति जगन्माता रुषिता किल हेतिभिः ॥ ३० ॥ तथा कुरु महाभाग यथा दुःखं न जायते । व्रजामोऽद्यैव पातालं तां स्तुत्वा तदनुज्ञया ॥ ३१ ॥ प्रह्लाद उवाच स्तौमि देवीं महामायां सृष्टिस्थित्यन्तकारिणीम् । सर्वेषां जननीं शक्तिं भक्तानामभयङ्करीम् ॥ ३२ ॥ व्यास उवाच इत्युक्त्या विष्णुभक्तस्तु प्रह्लादः परमार्थवित् । तुष्टाव जगतां धात्रीं कृताञ्जलिपुटस्तदा ॥ ३३ ॥ मालासर्पवदाभाति यस्यां सर्वं चराचरम् । सर्वाधिष्ठानरूपायै तस्यै ह्रींमूर्तये नमः ॥ ३४ ॥ त्वत्तः सर्वमिदं विश्वं स्थावरं जङ्गमं तथा । अन्ये निमित्तमात्रास्ते कर्तारस्तव निर्मिताः ॥ ३५ ॥ नमो देवि महामाये सर्वेषां जननी स्मृता । को भेदस्तव देवेषु दैत्येषु स्वकृतेषु च ॥ ३६ ॥ मातुः पुत्रेषु को भेदोऽप्यशुभेषु शुभेषु च । तथैव देवेष्वस्मासु न कर्तव्यस्त्वयाधुना ॥ ३७ ॥ यादृशास्तादृशा मातः सुतास्ते दानवाः किल । यतस्त्वं विश्वजननी पुराणेषु प्रकीर्तिता ॥ ३८ ॥ तेऽपि स्वार्थपरा नूनं यथैव वयमप्युत । नान्तरं दैत्यसुरयोर्भेदोऽयं मोहसम्भवः ॥ ३९ ॥ धनदारादिभोगेषु वयं सक्ता दिवानिशम् । तथैव देवा देवेशि को भेदोऽसुरदेवयोः ॥ ४० ॥ तेऽपि कश्यपदायादा वयं तत्सम्भवाः किल । कुतो विरोधसम्भूतिर्जाता मातस्तवाधुना ॥ ४१ ॥ न तथा विहितं मातस्त्वयि सर्वसमुद्‌भवे । साम्यतैव त्वया स्थाप्या देवेष्वस्मासु चैव हि ॥ ४२ ॥ गुणव्यतिकरात्सर्वे समुत्पन्नाः सुरासुराः । गुणान्विता भवेयुस्ते कथं देहभृतोऽमराः ॥ ४३ ॥ कामः क्रोधश्च लोभश्च सर्वदेहेषु संस्थिताः । वर्तन्ते सर्वदा तस्मात् कोऽविरोधी भवेञ्चनः ॥ ४४ ॥ त्वया मिथो विरोधोऽयं कल्पितः किल कौतुकात् । मन्यामहे विभेदेन नूनं युद्धदिदृक्षया ॥ ४५ ॥ अन्यथा खलु भ्रातॄणां विरोधः कीदृशोऽनघे । त्वं चेन्नेच्छसि चामुण्डे वीक्षितुं कलहं किल ॥ ४६ ॥ जानामि धर्मं धर्मज्ञे वेद्मि चाहं शतक्रतुम् । तथापि कलहोऽस्माकं भोगार्थं देवि सर्वदा ॥ ४७ ॥ एकः कोऽपि न शास्तास्ति संसारे त्वां विनाम्बिके । स्पृहावतस्तु कः कर्तुं क्षमते वचनं बुधः ॥ ४८ ॥ देवासुरैरयं सिन्धुर्मथितः समये क्वचित् । विष्णुना विहितो भेदः सुधारत्‍नच्छलेन वै ॥ ४९ ॥ त्वयासौ कल्पितः शौरिः पालकत्वे जगद्‌गुरुः । तेन लक्ष्मीः स्वयं लोभाद्‌ गृहीतामरसुन्दरी ॥ ५० ॥ ऐरावतस्तथेन्द्रेण पारिजातोऽथ कामधुक् । उच्चैःश्रवाः सुरैः सर्वं गृहीतं वैष्णवेच्छया ॥ ५१ ॥ अनयं तादृशं कृत्वा जाता देवास्तु साधवः । (अन्यायिनः सुरा नूनं पश्य त्वं धर्मलक्षणम् ।) ॥ संस्थापिताः सुरा नूनं विष्णुना बहुमानिना ॥ ५२ ॥ नूनं दैत्याः पराभूवन्पश्य त्वं धर्मलक्षणम् । क्व धर्मः कीदृशो धर्मः क्व कार्यं क्व च साधुता ॥ ५३ ॥ कथयामि च कस्याग्रे सिद्धं मैमांसिकं मतम् । तार्किका युक्तिवादज्ञा विधिज्ञा वेदवादकाः ॥ ५४ ॥ उक्ताः सकर्तृकं विश्वं विवदन्ते जडात्मकाः । कर्ता भवति चेदस्मिन्संसारे वितते किल ॥ ५५ ॥ विरोधः कीदृशस्तत्र चैककर्मणि वै मिथः । वेदे नैकमतिः कस्माच्छास्त्रेष्वपि तथा पुनः ॥ ५६ ॥ नैकवाक्यं वचस्तेषामपि वेदविदां पुनः । यतः स्वार्थपरं सर्वं जगत्स्थावरजङ्गमम् ॥ ५७ ॥ निःस्पृहः कोऽपि संसारे न भवेन्न भविष्यति । शशिनाथ गुरोर्भार्या हृता ज्ञात्वा बलादपि ॥ ५८ ॥ गौतमस्य तथेन्द्रेण जानता धर्मनिश्चयम् । गुरुणानुजभार्या च भुक्ता गर्भवती बलात् ॥ ५९ ॥ शप्तो गर्भगतो बालः कृतश्चान्धस्तथा पुनः । विष्णुना च शिरश्छिन्नं राहोश्चक्रेण वै बलात् ॥ ६० ॥ अपराधं विना कामं तदा सत्त्ववताम्बिके । पौत्रो धर्मवतां शूरः सत्यव्रतपरायणः ॥ ६१ ॥ यज्वा दानपतिः शान्तः सर्वज्ञः सर्वपूजकः । कृत्वाथ वामनं रूपं हरिणा छलवेदिना ॥ ६२ ॥ वञ्चितोऽसौ बलिः सर्वं हृतं राज्यं पुरा किल । तथापि देवान्धर्मस्थान्प्रवदन्ति मनीषिणः ॥ ६३ ॥ वदन्ति चाटुवादांश्च धर्मवादाज्जयं गताः । एवं ज्ञात्वा जगन्मातर्यथेच्छसि तथा कुरु ॥ ६४ ॥ शरणा दानवाः सर्वे जहि वा रक्ष वा पुनः । श्रीदेव्युवाच सर्वे गच्छत पातालं तत्र वासं यथेप्सितम् ॥ ६५ ॥ कुरुध्वं दानवाः सर्वे निर्भया गतमन्यवः । कालः प्रतीक्ष्यो युष्माभिः कारणं स शुभेऽशुभे ॥ ६६ ॥ सुनिर्वेदपराणां हि सुखं सर्वत्र सर्वदा । त्रैलोक्यस्य च राज्येऽपि न सुखं लोभचेतसाम् ॥ ६७ ॥ कृतेऽपि न सुखं पूर्णं सस्पृहाणां फलैरपि । तस्मात्त्यक्त्वा महीमेतां प्रयान्त्वद्य महीतलम् ॥ ६८ ॥ ममाज्ञां पुरतः कृत्वा सर्वे विगतकल्मषाः । व्यास उवाच तच्छ्रुत्वा वचनं देव्यास्तथेत्युक्त्वा रसातलम् ॥ ६९ ॥ प्रणम्य दानवाः सर्वे गताः शक्त्याभिरक्षिताः । अन्तर्दधे ततो देवी देवाः स्वभुवनं गताः ॥ ७० ॥ त्यक्त्वा वैरं स्थिताः सर्वे ते तदा देवदानवाः । एतदाख्यानमखिलं यः शृणोति वदत्यथ ॥ ७१ ॥ सर्वदुःखविनिर्मुक्तः प्रयाति पदमुत्तमम् ॥ ७२ ॥

vyāsa uvāca iti tasya vacaḥ śrutvā bhārgavasya mahātmanaḥ | prahlādastu susaṃhṛṣṭo babhūva nṛpanandanaḥ || 1 || jñātvā daivaṃ baliṣṭhañca prahlādastānuvāca ha | kṛte'pi yuddhe na jayo bhaviṣyati kadācana || 2 || tadā te jayinaḥ procurdānavā madagarvitāḥ | saṃgrāmastu prakartavyo daivaṃ kiṃ na vidāmahe || 3 || nirudyamānāṃ daivaṃ hi pradhānamasurādhipa | kena dṛṣṭaṃ kva vā dṛṣṭaṃ kīdṛśaṃ kena nirmitam || 4 || tasmādyuddhaṃ kariṣyāmo balamāsthāya sāmpratam | bhavāgre daityavarya tvaṃ sarvajño'si mahāmate || 5 || ityuktastaistadā rājan prahlādaḥ prabalārihā | senānīśca tadā bhūtvā devānyuddhe samāhvayat || 6 || te'pi tatrāsurāndṛṣṭvā saṃgrāme samupasthitān | sarve sambhṛtasambhārā devāstānsamayodhayan || 7 || saṃgrāmastu tadā ghoraḥ śakraprahlādayorabhūt | pūrṇaṃ varṣaśataṃ tatra munīnāṃ vismayāvahaḥ || 8 || vartamāne mahāyuddhe śukreṇa pratipālitāḥ | jayamāpustadā daityāḥ prahlādapramukhā nṛpa || 9 || tadaivendro gurorvākyātsarvaduḥkhavināśinīm | sasmāra manasā devīṃ muktidāṃ paramāṃ śivām || 10 || indra uvāca jaya devi mahāmāye śūladhāriṇi cāmbike | śaṅkhacakragadāpadmakhaḍgahaste'bhayaprade || 11 || namaste bhuvaneśāni śaktidarśananāyike | daśatattvātmike mātarmahābindusvarūpiṇi || 12 || mahākuṇḍalinīrūpe saccidānandarūpiṇi | prāṇāgnihotravidye te namo dīpaśikhātmike || 13 || pañcakośāntaragate pucchabrahmasvarūpiṇi | ānandakalike mātaḥ sarvopaniṣadarcite || 14 || mātaḥ prasīda sumukhī bhava hīnasattvāṃ- strāyasva no janani daityaparājitān vai | tvaṃ devi naḥ śaraṇadā bhuvane pramāṇā śaktāsi duḥkhaśamane'khilavīryayukte || 15 || dhyāyanti ye'pi sukhino nitarāṃ bhavanti duḥkhānvitāvigataśokabhayāstathānye | mokṣārthino vigatamānavimuktasaṅgāḥ saṃsāravāridhijalaṃ prataranti santaḥ || 16 || tvaṃ devi viśvajanani prathitaprabhāvā saṃrakṣaṇārthamuditārtiharapratāpā | saṃhartumetadakhilaṃ kila kālarūpā ko vetti te'mba caritaṃ nanu mandabuddhiḥ || 17 || brahmā haraśca haridaśvaratho hariśca indro yamo'tha varuṇo'gnisamīraṇau ca | jñātuṃ kṣamā na munayo'pi mahānubhāvā yasyāḥ prabhāvamatulaṃ nigamāgamāśca || 18 || dhanyāsta eva tava bhaktiparā mahāntaḥ saṃsāraduḥkharahitāḥ sukhasindhumagnāḥ | ye bhaktibhāvarahitā na kadāpi duḥkhā- || mbhodhiṃ janikṣayataraṅgamume taranti || 19 || ye vījyamānāḥ sitacāmaraiśca krīḍanti dhanyāḥ śibikādhirūḍhāḥ | taiḥ pūjitā tvaṃ kila pūrvadehe nānopahārairiti cintayāmi || 20 || ye pūjyamānā varavāraṇasthā vilāsinīvṛndavilāsayuktāḥ | sāmantakaiścopanatairvrajanti manye hi taistvaṃ kila pūjitāsi || 21 || vyāsa uvāca evaṃ stutā maghavatā devī viśveśvarī tadā | prādurbabhūva tarasā siṃhārūḍhā caturbhujā || 22 || śaṅkhacakragadāpadmānbibhratī cārulocanā | raktāmbaradharā devī divyamālyavibhūṣaṇā || 23 || tānuvāca surāndevī prasannavadanā girā | bhayaṃ tyajantu bho devāḥ śaṃ vidhāsye kilādhunā || 24 || ityuktvā sā tadā devī siṃhārūḍhātisundarī | jagāma tarasā tatra yatra daityā madānvitāḥ || 25 || prahlādapramukhāḥ sarve dṛṣṭvā devīṃ puraḥsthitām | ūcuḥ parasparaṃ bhītāḥ kiṃ kartavyamitastadā || 26 || devaṃ nārāyaṇaṃ cātra samprāptā caṇḍikā kila | mahiṣāntakarī nūnaṃ caṇḍamuṇḍavināśinī || 27 || nihaniṣyati naḥ sarvānambikā nātra saṃśayaḥ | vakradṛṣṭyā yayā pūrvaṃ nihatau madhukaiṭabhau || 28 || evaṃ cintāturānvīkṣya prahlādastānuvāca ha | yoddhavyaṃ nātha gantavyaṃ palāyya dānavottamāḥ || 29 || namucistānuvācātha palāyanaparāniha | haniṣyati jaganmātā ruṣitā kila hetibhiḥ || 30 || tathā kuru mahābhāga yathā duḥkhaṃ na jāyate | vrajāmo'dyaiva pātālaṃ tāṃ stutvā tadanujñayā || 31 || prahlāda uvāca staumi devīṃ mahāmāyāṃ sṛṣṭisthityantakāriṇīm | sarveṣāṃ jananīṃ śaktiṃ bhaktānāmabhayaṅkarīm || 32 || vyāsa uvāca ityuktyā viṣṇubhaktastu prahlādaḥ paramārthavit | tuṣṭāva jagatāṃ dhātrīṃ kṛtāñjalipuṭastadā || 33 || mālāsarpavadābhāti yasyāṃ sarvaṃ carācaram | sarvādhiṣṭhānarūpāyai tasyai hrīṃmūrtaye namaḥ || 34 || tvattaḥ sarvamidaṃ viśvaṃ sthāvaraṃ jaṅgamaṃ tathā | anye nimittamātrāste kartārastava nirmitāḥ || 35 || namo devi mahāmāye sarveṣāṃ jananī smṛtā | ko bhedastava deveṣu daityeṣu svakṛteṣu ca || 36 || mātuḥ putreṣu ko bhedo'pyaśubheṣu śubheṣu ca | tathaiva deveṣvasmāsu na kartavyastvayādhunā || 37 || yādṛśāstādṛśā mātaḥ sutāste dānavāḥ kila | yatastvaṃ viśvajananī purāṇeṣu prakīrtitā || 38 || te'pi svārthaparā nūnaṃ yathaiva vayamapyuta | nāntaraṃ daityasurayorbhedo'yaṃ mohasambhavaḥ || 39 || dhanadārādibhogeṣu vayaṃ saktā divāniśam | tathaiva devā deveśi ko bhedo'suradevayoḥ || 40 || te'pi kaśyapadāyādā vayaṃ tatsambhavāḥ kila | kuto virodhasambhūtirjātā mātastavādhunā || 41 || na tathā vihitaṃ mātastvayi sarvasamud‌bhave | sāmyataiva tvayā sthāpyā deveṣvasmāsu caiva hi || 42 || guṇavyatikarātsarve samutpannāḥ surāsurāḥ | guṇānvitā bhaveyuste kathaṃ dehabhṛto'marāḥ || 43 || kāmaḥ krodhaśca lobhaśca sarvadeheṣu saṃsthitāḥ | vartante sarvadā tasmāt ko'virodhī bhaveñcanaḥ || 44 || tvayā mitho virodho'yaṃ kalpitaḥ kila kautukāt | manyāmahe vibhedena nūnaṃ yuddhadidṛkṣayā || 45 || anyathā khalu bhrātṝṇāṃ virodhaḥ kīdṛśo'naghe | tvaṃ cennecchasi cāmuṇḍe vīkṣituṃ kalahaṃ kila || 46 || jānāmi dharmaṃ dharmajñe vedmi cāhaṃ śatakratum | tathāpi kalaho'smākaṃ bhogārthaṃ devi sarvadā || 47 || ekaḥ ko'pi na śāstāsti saṃsāre tvāṃ vināmbike | spṛhāvatastu kaḥ kartuṃ kṣamate vacanaṃ budhaḥ || 48 || devāsurairayaṃ sindhurmathitaḥ samaye kvacit | viṣṇunā vihito bhedaḥ sudhārat‍nacchalena vai || 49 || tvayāsau kalpitaḥ śauriḥ pālakatve jagad‌guruḥ | tena lakṣmīḥ svayaṃ lobhād‌ gṛhītāmarasundarī || 50 || airāvatastathendreṇa pārijāto'tha kāmadhuk | uccaiḥśravāḥ suraiḥ sarvaṃ gṛhītaṃ vaiṣṇavecchayā || 51 || anayaṃ tādṛśaṃ kṛtvā jātā devāstu sādhavaḥ | (anyāyinaḥ surā nūnaṃ paśya tvaṃ dharmalakṣaṇam |) || saṃsthāpitāḥ surā nūnaṃ viṣṇunā bahumāninā || 52 || nūnaṃ daityāḥ parābhūvanpaśya tvaṃ dharmalakṣaṇam | kva dharmaḥ kīdṛśo dharmaḥ kva kāryaṃ kva ca sādhutā || 53 || kathayāmi ca kasyāgre siddhaṃ maimāṃsikaṃ matam | tārkikā yuktivādajñā vidhijñā vedavādakāḥ || 54 || uktāḥ sakartṛkaṃ viśvaṃ vivadante jaḍātmakāḥ | kartā bhavati cedasminsaṃsāre vitate kila || 55 || virodhaḥ kīdṛśastatra caikakarmaṇi vai mithaḥ | vede naikamatiḥ kasmācchāstreṣvapi tathā punaḥ || 56 || naikavākyaṃ vacasteṣāmapi vedavidāṃ punaḥ | yataḥ svārthaparaṃ sarvaṃ jagatsthāvarajaṅgamam || 57 || niḥspṛhaḥ ko'pi saṃsāre na bhavenna bhaviṣyati | śaśinātha gurorbhāryā hṛtā jñātvā balādapi || 58 || gautamasya tathendreṇa jānatā dharmaniścayam | guruṇānujabhāryā ca bhuktā garbhavatī balāt || 59 || śapto garbhagato bālaḥ kṛtaścāndhastathā punaḥ | viṣṇunā ca śiraśchinnaṃ rāhoścakreṇa vai balāt || 60 || aparādhaṃ vinā kāmaṃ tadā sattvavatāmbike | pautro dharmavatāṃ śūraḥ satyavrataparāyaṇaḥ || 61 || yajvā dānapatiḥ śāntaḥ sarvajñaḥ sarvapūjakaḥ | kṛtvātha vāmanaṃ rūpaṃ hariṇā chalavedinā || 62 || vañcito'sau baliḥ sarvaṃ hṛtaṃ rājyaṃ purā kila | tathāpi devāndharmasthānpravadanti manīṣiṇaḥ || 63 || vadanti cāṭuvādāṃśca dharmavādājjayaṃ gatāḥ | evaṃ jñātvā jaganmātaryathecchasi tathā kuru || 64 || śaraṇā dānavāḥ sarve jahi vā rakṣa vā punaḥ | śrīdevyuvāca sarve gacchata pātālaṃ tatra vāsaṃ yathepsitam || 65 || kurudhvaṃ dānavāḥ sarve nirbhayā gatamanyavaḥ | kālaḥ pratīkṣyo yuṣmābhiḥ kāraṇaṃ sa śubhe'śubhe || 66 || sunirvedaparāṇāṃ hi sukhaṃ sarvatra sarvadā | trailokyasya ca rājye'pi na sukhaṃ lobhacetasām || 67 || kṛte'pi na sukhaṃ pūrṇaṃ saspṛhāṇāṃ phalairapi | tasmāttyaktvā mahīmetāṃ prayāntvadya mahītalam || 68 || mamājñāṃ purataḥ kṛtvā sarve vigatakalmaṣāḥ | vyāsa uvāca tacchrutvā vacanaṃ devyāstathetyuktvā rasātalam || 69 || praṇamya dānavāḥ sarve gatāḥ śaktyābhirakṣitāḥ | antardadhe tato devī devāḥ svabhuvanaṃ gatāḥ || 70 || tyaktvā vairaṃ sthitāḥ sarve te tadā devadānavāḥ | etadākhyānamakhilaṃ yaḥ śṛṇoti vadatyatha || 71 || sarvaduḥkhavinirmuktaḥ prayāti padamuttamam || 72 ||

English translation

1. Vyasa said O king Janamejaya! Prahlada was glad to hear the above words of the high souled Bhargava.

2. Knowing Fate to be the strongest, he addressed the Daityas Never, in this battle will victory be ours.

3-5. Then the victorious Dennons, infatuated with pride, told Prahlada What is Fate? We do not recognise it. We ought to fight. O Lord of us Fate reigns over those that are idle, not energetic. Has Fate any shape? Who has created it? Has anybody seen Fate? However let us gather strength and fight. You are very intelligent and all knowing; It is proper that you should take our lead in the fight.

6. O king! When the Daityas spoke thus, Prahlada, the great Destroyer of enemies, became the general and challenged the Devas to fight.

7. On seeing the Asuras in the battle field, the Devas, dressed with arms and weapons, began to fight with them.

8. For full one hundred years the dreadful battle was fought between Indra and Prahlada; on seeing this, the Munis were astonished.

9. O king! In this fearful battle, the Daityas with their general Prahlada, the followers of S’ukracharya, got the victory.

10. Then Indra, advised by their Guru Brihaspati, began to remember the Goddess of the Universe, the Most High, the Giver of welfare, the Destroyer of all sorrows and calamities, and the Bestower of freedom, worship Her, and sing hymns to Her with great devotion.

11-12. Indra said Victory be to the name of the Goddess Mahamaya, the Eternal Mother, the Holder of the trident! Holder of conchshell, disc, club, and lotus, the Giver of “no fear.” Salutation to Thee, the Goddess of the Universe; Thou art the Supreme Heroine in everything that relates to force, that is described in the S’akti Dars’ana S’astras. Thou art the Ten Tattvas, Thou art the Mother, Thou art the Mahavidya (the Supreme Knowledge).

13. There are many Tattvas; here the ten tattvas are according to the S’akti Dars’ana. There are many Dharma S’astras. Here S’akti S’astra is meant.

The Tattvas are those ultimate substances into which these gross manifestations resolve. The tattvas are Mahavindu, Nada S’akti, Mis'ra Vindu, etc.

O World Mother! Thou art the Maha Kundalini (the great Serpent Fire); thou art the Everlasting Existence, Intelligence and Bliss; Thou art the Deity of the vital Fire (Prana); Thou art the Deity of the Agnihotra (maintenance of the Sacred Fire and an oblation to It);

Thou art the Holy Flame, burning always in the ethereal space in the Heart; Salutation to Thee!

14. Thou dwellest within the five Sheaths (the Annamaya, the Pranamaya, the Manomaya, the Vijhanamaya and the Anandamaya sheaths are the five sheaths here referred to). Thou art the Indweller of the Ananda maya kosa, Thou art of the nature of Puchchha Brahma, the end of Brahma. Thou art the Deity of all, the Ananda (bliss) unblown, O Mother! Thou art the Deity of all the Upanisadas.

15. O Mother! Be pleased unto us; we have become powerless; protect us, O Mother! we are defeated by the Daityas; O Goddess! Thou art endowed with all the powers. Thou art our Sole Refuge in this Universe, in times of distress, and Thou art the Only One, strong and capable to remove all our dangers.

16. O Goddess! Those who incessantly meditate on Thee are really happy and those that do not meditate Thee, their fear, and sorrows are never removed; those that want ultimate freedom from bondage and who meditate on Thee always; those pure souls, being free from Ahamkara, and free from attachment go, no doubt, beyond this ocean of world.

17. O World Mother! Thy prowess is ever manifested whenever protection is demanded; You always come forward and relieve the distressed; You are the great destroyer! Thou art the Time Incarnate of all these worlds; O Mother! We are fools; how can we appreciate your qualities.

18. Brahma, Visnu, Mahes’a, I myself, Sun, Yama, Varuna, Fire, Air, the high minded munis, Agama, Nigama, the Tantras and the Vedas, are quite unable to realise Your unequalled prowess; Salutation to Thy Feet.

19. Those are blessed that are devoted to Thee; They are the great souls; they always dive in the Ocean of Bliss, being always free from the fangs of this Samsara. Those that are not Your devotees, cannot cross this Ocean of Samsara, where the Birth and Death are the billows.

20. O Goddess! Those that are always fanned by the white chamaras and those that travel always in cars, they in their previous births worshipped Thee with various things; therefore they have acquired the effects of their meritorious deeds; this is my opinion.

21. Those that are always worshipped amongst the human beings, those that go on nice elephants, those that are surrounded by pleasures and enjoy the lovely companions of beautiful coquettish women, those that go surrounded by soldiers, O Goddess! I consider they worshipped Thee in their previous births, and they are now enjoying fruits of their past deeds.

22-23. Vyasa said Thus praised by Indra, the Goddess of the Universe with four arms hurriedly appeared there mounted on a lion Conchshell, disc, club, and lotuses were held by the beautiful eyed Goddess in Her four hands respectively, wearing a red apparel and ornamented with divine garlands.

24. The Goddess being pleased addressed the Devas with sweet words, “Cast off your fear. O Devas! I will see presently all about your welfare.”

25. Addressing the Devas thus, the Divine Mother nnounted on a lion, went hurriedly to the place where the demons were waiting, infatuated with pride.

26. All the Daityas with their general Prahlada saw the Goddess before them and were terrified and began to address each other “What are we to do now?”

27-28. This Chandika Goddess has come here to protect the Devas. She destroyed Mahisasura and Chanda Munda; it was She that killed, in days of yore, Madhukaitava with evil look.

29-30. Seeing the demons thus full of sorrowful thoughts, Prahlada addressed the Daityas “It is better not to fight but let us fly away all together.” Then the Daitya Namuchi told the Daityas ready to fly away “If you fly away, this World Mother will instantly kill you all with weapons in Her hands.

31. Do that by which we can protect us. Let us worship the Goddess of the Universe, and, getting Her permission, we will go this very day to the Patala.”

32. Prahlada said “I will worship the Goddess Mahamaya, the Creatrix, Preservrix and Destructrix of the Universe, the World Mother, and the Assurer of safety to Her devotees.”

33. Vyasa said Thus saying, the knower of the highest knowledge, Prahlada, the devotee of Visnu, began to sing hymns with folded hands in praise of the Goddess, the Upholdress of the Universe.

34. I bow down to Thee, the incarnate of the mantra “Hrim” the Refuge of all, and within Whom this whole Universe, moving and unmoving, is appearing untruly as a snake is mistaken for a garland of flowers.

35. O Goddess! All these Universes, moving and unmoving, have sprung from Thee; Brahma, Visnu and others are Creators, Preservers in name only; Thou hast created them all.

36. O Mahamaya! You are the Divine Mother of all! When You have created the Asuras and the Suras, how can you then see any difference between the Devas and the Daityas?

37. As a Mother makes no distinction between her good sons and bad sons, so You are not to make any difference between us and the Devas; this is our prayer to you.

38. O Goddess! You have been sung in all the Puranas as the World Mother; therefore, O Mother! We are your sons just as the Devas are.

39. O Mother! As they have got their interests, so we too have got our interests; therefore there is no difference between he Daityas

and the Devas. Therefore if anyone nnakes any difference, it is due to the subtle error.

40. O Goddess! As we are attached to wealth, wives, and other pleasures of the senses, so the gods are; O Goddess! How then can any difference exist between them and us.

41. O Mother! They are the sons of Maharsi Kas’yapa; we also are his sons; Therefore you cannot have partiality for them before us.

42. O World Mother! In You no such difference is visible anywhere. Therefore do You here preserve equality amongst us both.

43. The Suras and Asuras all have sprung from the permutations and combinations of the 3 qualities! Then how the Devas being embodied can possess more qualities than us.

44. Every embodied soul possesses always cupidity, anger, covetousness; how then can one expect to remain without any quarrels with others.

45. We think that it is all sport with You to see our opinions different, rather contradictory, and it is You who got us involved in quarrels with each other and it is Your pleasure to witness how we fight against each other.

46. Sinless one! O Chamunde! Were You not so fond to see our fight, how then, we being brothers are at war against each other.

Certainly it is Your Divine Sport.

47. O Goddess! I know what is religion, I know who is Indra. It is the very idea to enjoy these sensual pleasures that is the only cause of our incessant quarrels.

48. O Mother! You are the Sole Ruler of this Samsara; no sensible man can carry out the words of a man who yearns for something, (i.e., O Mother, You are the only one that is desireless; so we can obey your words).

49. O Mother! Once the Devas and the Asuras conjointly churned the ocean. At that time Visnu, on the plea of distributing the jewel, and the ambrosial nectar, incurred quarrels amongst them.

50. O Mother! You have made him the Preserver and Controller of the Universe and the Spiritual Guide of the world. And it was He who took away the Goddess Laksmi, the beautiful lady amongst the Deva women.

51. Indra, the Lord of the Gods, took the elephant named Airavat, the flower Parijat, the Heavenly Cow yielding all desires, and the horse Uchchais’rava. Thus, through the desires and devices of Visnu, they got the excellent things.

52. O! What a wonder is this that the Devas were considered holy persons, after they had committed such unholy acts; no doubt the Devas had done a very heinous crime. O Goddess! You can judge Yourself what is the just and unjust thing in this case.

53. What is Religion? And where is Religion? And what are the acts done by a religious man? What is uprightness, justice, and purity? You better examine which party has observed virtue? Who has shown uprightness, justice and parity? To whom victory and defeat are due? You are the only one capable to judge all these things.

54-55. Alas! Whom to tell all the conclusions arrived at in the Mimamsakas. If any one considers, one will find the world is the field of dissensions and quarrels; the argumentators look to the logical reasoning only; followers of the Vedas look to the rules and regulations only; these so called men of gross ideas they acknowledge that this world is created and preserved by the One only, and yet they quarrel amongst each other.

56-57. If there be One and only One Lord of this wide infinite Samsara, then why would there be differences and quarrels amongst each other? Why is there not seen any agreement in opinion and why do the S’astras differ and why are there so many differences in the opinions held by the knowers of the Vedas.

58. O Goddess! This whole Universe, moving and unmoving is selfish; hence arise so many differences between several opinions. There was no one unselfish in this world and there would be no unselfish persons born hereafter.

59-64. Look! The Moon stole away perforce knowingly the wife of Brihaspati; Indra, knowing what is religion stole away the wife of Gautama; Brihaspati enjoyed forcibly the wife of his younger; and also he outraged his elder brother’s wife in her pregnant state and cursed the boy in the womb and made him blind. What more to say

than Visnu, all full of Sattvic qualities, severed perforce the head of Rahu. O Mother! Look to the case of my grandson Bali who used to pay due respects to all, who was the foremost amongst the virtuous, observer of rigorous truth, performer of sacrifices, liberal, peaceful, all-knowing. The pretender Hah, taking the form of a dwarf in his Vamana incarnation, deceived Bali and took away all his kingdoms. Alas! Still the intelligent good persons reckon the Deva Visnu as the preserver of Religion. What a wonder! Those who are flatterers become victorious in this world; and defeat come to those that speak of Dharma.

65. O Goddess! You are the Mother of all the worlds; do whatever You like. But You should know that the Demons are all under Your protection; kill or save them as You like.

66. The Devi said O Demons! Leave you all the anger arising from this warfare and go without any fear to Patala and live there at your ease and happiness.

67. Better now wait on Time; whether you will get auspicious or inauspicious fruits for your deeds. Know whoever is desireless and unattached, to him happiness is always and everywhere.

68. Whose mind is avaricious. He does not get peace and happiness, even if he acquires the Triloki. Even, in the golden age, avaricious persons did not get happiness, though they acquired the fruits of their actions.

69. Therefore you get yourselves freed of your sins and obey My order and leave the earth and go down to the Patala.

70. Vyasa said On hearing the Devi’s words, the Demons obeyed and bowing at Her feet and preserved by Her, went to Patala.

71. Then the Devi disappeared; and the Devas went away to their own homes. Thus the Devas and the Daityas, abandoning their feelings of enmity towards each other, lived in peace.

O King! He who hears this fact, gets himself freed from all sorts of calamities and reaches the Highest Peace.

Here ends the Fifteenth Chapter in the Fourth Book of S’ri Mad Devi Bhagavatam, the Maha Puranam of 18,000 verses, on the truce between the Daityas and Devas and on their departures with peace, by Maharsi Veda Vyasa.

Complete chapter-aligned witnesses. Sanskrit Wikisource page 25182, revision 76340 (2016-08-19T16:36:55Z). English is Swami Vijñanananda’s complete 1921–23 public-domain translation, controlled against the archival OCR and its chapter page at https://sacred-texts.com/hin/db/bk04ch15.htm. Historic spelling and transliteration are lightly normalized; no verse-by-verse alignment is asserted.