Skip to main content

Eleventh Skandha · Chapter 24

Chapter 24

Unit 304 of 318Eleventh Skandha · Chapter 24Eleventh Skandha · Chapter 241 source entries

Eleventh Skandha · Chapter 24

Source

प्रातश्चिन्तनम् नारद उवाच नारायण महाभाग गायत्र्यास्तु समासतः । शान्त्यादिकान्प्रयोगांस्तु वदस्व करुणानिधे ॥ १ ॥ श्रीनारायण उवाच अतिगुह्यमिदं पृष्टं त्वया ब्रह्यतनूद्‍भव । न कस्यापि च वक्तव्यं दुष्टाय पिशुनाय च ॥ २ ॥ अथ शान्तिः पयोऽक्ताभिः समिद्‌‍भिर्जुहुयाद् द्विजः । शमीसमिद्‌‍भिः शाम्यन्ति भूतरोगग्रहादयः ॥ ३ ॥ आर्द्राभिः क्षीरवृक्षस्य समिद्‌‍भिर्जुहुयाद् द्विजः । जुहुयाच्छकलैर्वापि भूतरोगादिशान्तये ॥ ४ ॥ जलेन तर्पयेत्सूर्यं पाणिभ्यां शान्तिमाप्नुयात् । जानुदघ्ने जले जप्त्वा सर्वान्दोषाञ्छमं नयेत् ॥ ५ ॥ कण्ठदघ्ने जले जप्त्वा मुच्येत्प्राणान्तिकाद्‍भयात् । सर्वेभ्यः शान्तिकर्मभ्यो निमज्याप्सु जपः स्मृतः ॥ ६ ॥ सौवर्णे राजते वापि पात्रे ताम्रमयेऽपि वा । क्षीरवृक्षमये वापि निर्व्रणे मृण्मयेऽपि वा ॥ ७ ॥ सहस्रं पञ्चगव्येन हुत्वा सुज्वलितेऽनले । क्षीरवृक्षमयैः काष्ठैः शेषं सम्पादयेच्छनैः ॥ ८ ॥ प्रत्याहुतिं स्पृशञ्जप्त्वा सहस्रं पात्रसंस्थितम् । तेन तं प्रोक्षयेद्देशं कुशैर्मन्त्रमनुस्मरन् ॥ ९ ॥ बलिं किरंस्ततस्तस्मिन्ध्यायेत्तु परदेवताम् । अभिचारसमुत्पन्ना कृत्या पापं च नश्यति ॥ १० ॥ देवभूतपिशाचाद्यान् यद्येवं कुरुते वशे । गृहं ग्रामं पुरं राष्ट्रं सर्वं तेभ्यो विमुच्यते ॥ ११ ॥ निखने मुच्यते तेभ्यो लिखने मध्यतोऽपि च । मण्डले शूलमालिख्य पूर्वोक्ते च क्रमेऽपि वा ॥ १२ ॥ अभिमन्त्र्य सहस्रं तन्निखनेत्सर्वशान्तये । सौवर्णं राजतं वापि कुम्भं ताम्रमयं च वा ॥ १३ ॥ मृण्मयं वा नवं दिव्यं सूत्रवेष्टितमव्रणम् । स्थण्डिले सैकते स्थाप्य पूरयेन्मन्त्रविज्जलैः ॥ १४ ॥ दिग्भ्य आहृत्य तीर्थानि चतसृभ्यो द्विजोत्तमैः । एलाचन्दनकर्पूरजातीपाटलमल्लिकाः ॥ १५ ॥ बिल्वपत्रं तथा क्रान्तां देवीं व्रीहियवांस्तिलान् । सर्षपान्क्षीरवृक्षाणां प्रवालानि च निक्षिपेत् ॥ १६ ॥ सर्वाण्यभिविधायैव कुशकूर्चसमन्वितम् । स्नातः समाहितो विप्रः सहस्रं मन्त्रयेद् बुधः ॥ १७ ॥ दिक्षु सौरानधीयीरन्मन्त्रान्विप्रास्त्रयीविदः । प्रोक्षयेत्पाययेदेनं नीरं तेनाभिषिञ्चयेत् ॥ १८ ॥ भूतरोगाभिचारेभ्यः स निर्मुक्तः सुखी भवेत् । अभिषेकेण मुच्येत मृत्योरास्यगतो नरः ॥ १९ ॥ अवश्यं कारयेद्विद्वान्‍राजा दीर्घं जिजीविषुः । गावो देयाश्च ऋत्विग्भ्य अभिषेके शतं मुने ॥ २० ॥ दक्षिणा येन वा तुष्टिर्यथाशक्त्याथवा भवेत् । जपेदश्वत्थमालभ्य मन्दवारे शतं द्विजः ॥ २१ ॥ भूतरोगाभिचारेभ्यो मुच्यते महतो भयात् । गुडूच्याः पर्वविच्छिन्नाः पयोऽक्ता जुहुयाद् द्विजः ॥ २२ ॥ एवं मृत्युञ्जयो होमः सर्वव्याधिविनाशनः । आम्रस्य जुहुयात्पत्रैः पयोऽक्तैर्ज्वरशान्तये ॥ २३ ॥ वचाभिः पयसाक्ताभिः क्षयं हुत्वा विनाशयेत् । मधुत्रितयहोमेन राजयक्ष्मा विनश्यति ॥ २४ ॥ निवेद्य भास्करायान्नं पायसं होमपूर्वकम् । राजयक्ष्माभिभूतं च प्राशयेच्छान्तिमाप्नुयात् ॥ २५ ॥ लताः पर्वसु विच्छिद्य सोमस्य जुहुयाद् द्विजः । सोमे सूर्येण संयुक्ते पयोऽक्ताः क्षयशान्तये ॥ २६ ॥ कुसुमैः शङ्‌खवृक्षस्य हुत्वा कुष्ठं विनाशयेत् । अपस्मारविनाशः स्यादपामार्गस्य तण्डुलैः ॥ २७ ॥ क्षीरवृक्षसमिद्धोमादुन्मादोऽपि विनश्यति । औदुम्बरसमिद्धोमादतिमेहः क्षयं व्रजेत् ॥ २८ ॥ प्रमेहं शमयेद्धुत्वा मधुनेक्षुरसेन वा । मधुत्रितयहोमेन नयेच्छान्तिं मसूरिकाम् ॥ २९ ॥ कपिलासर्पिषा हुत्वा नयेच्छान्तिं मसूरिकाम् । उदुम्बरवटाश्वत्थैर्गोगजाश्वामयं हरेत् ॥ ३० ॥ पिपीलिमधुवल्मीके गृहे जाते शतं शतम् । शमीसमिद्‌‍भिरन्नेन सर्पिषा जुहुयाद् द्विजः ॥ ३१ ॥ तदुत्थं शान्तिमायाति शेषैस्तत्र बलिं हरेत् । अभ्रस्तनितभूकम्पालक्ष्यादौ वनवेतसः ॥ ३२ ॥ सप्ताहं जुहुयादेवं राष्ट्रे राज्यं सुखी भवेत् । यां दिशं शतजप्तेन लोष्ठेनाभिप्रताडयेत् ॥ ३३ ॥ ततोऽग्निमारुतारिभ्यो भयं तस्य विनश्यति । मनसैव जपेदेनां बद्धो मुच्येत बन्धनात् ॥ ३४ ॥ भूतरोगविषादिभ्यः स्पृशञ्जप्त्वा विमोचयेत् । भूतादिभ्यो विमुच्येत जलं पीत्वाभिमन्त्रितम् ॥ ३५ ॥ अभिमन्त्र्य शतं भस्म न्यसेद्‌भूतादिशान्तये । शिरसा धारयेद्‍भस्म मन्त्रयित्वा तदित्यृचा ॥ ३६ ॥ सर्वव्याधिविनिर्मुक्तः सुखी जीवेच्छतं समाः । अशक्तः कारयेच्छान्तिं विप्रं दत्त्वा तु दक्षिणाम् ॥ ३७ ॥ अथ पुष्टिं श्रियं लक्ष्मीं पुष्पैर्हुत्वाप्नुयाद् द्विजः । श्रीकामो जुहुयात्पद्मै रक्तैः श्रियमवाप्नुयात् ॥ ३८ ॥ हुत्वा श्रियमवाप्नोति जातीपुष्पैर्नवैः शुभैः । शालितण्डुलहोमेन श्रियमाप्नोति पुष्कलाम् ॥ ३९ ॥ समिद्‌‍भिर्बिल्ववृक्षस्य हुत्वा श्रियमवाप्नुयात् । बिल्वस्य शकलैर्हुत्वा पत्रैः पुष्पैः फलैरपि ॥ ४० ॥ श्रियमाप्नोति परमां मूलस्य शकलैरपि । समिद्‌‍भिर्बिल्ववृक्षस्य पायसेन च सर्पिषा ॥ ४१ ॥ शतं शतं च सप्ताहं हुत्वा श्रियमवाप्नुयात् । लाजैस्त्रिमधुरोपेतैर्होमे कन्यामवाप्नुयात् ॥ ४२ ॥ अनेन विधिना कन्या वरमाप्नोति वाञ्छितम् । रक्तोत्पलशतं हुत्वा सप्ताहं हेम चाप्नुयात् ॥ ४३ ॥ सूर्यबिम्बे जलं हुत्वा जलस्थं हेम चाप्नुयात् । अन्नं हुत्वाप्नुयादन्नं व्रीहीन्व्रीहिपतिर्भवेत् ॥ ४४ ॥ करीषचूर्णैर्वत्सस्य हुत्वा पशुमवाप्नुयात् । प्रियङ्‌गुपायसाज्यैश्च भवेद्धोमादिभिः प्रजा ॥ ४५ ॥ निवेद्य भास्करायान्नं पायसं होमपूर्वकम् । भोजयेत्तदृतुस्नातां पुत्रं परमवाप्नुयात् ॥ ४६ ॥ सप्ररोहाभिरार्द्राभिरायुर्हुत्वा समाप्नुयात् । समिद्‌‍भिः क्षीरवृक्षस्य हुत्वायुषमवाप्नुयात् ॥ ४७ ॥ सप्ररोहाभिरार्द्राभी रक्ताभिर्मधुरत्रयैः । व्रीहीणां च शतं हुत्वा हेम चायुरवाप्नुयात् ॥ ४८ ॥ सुवर्णकुड्मलं हुत्वा शतमायुरवाप्नुयात् । दूर्वाभिः पयसा वापि मधुना सर्पिषापि वा ॥ ४९ ॥ शतं शतं च सप्ताहमपमृत्युं व्यपोहति । शमीसमिद्‌‍भिरन्नेन पयसा वा च सर्पिषा ॥ ५० ॥ शतं शतं च सप्ताहमपमृत्युं व्यपोहति । न्यग्रोधसमिधो हुत्वा पायसं होमयेत्ततः ॥ ५१ ॥ शतं शतं च सप्ताहमपमृत्युं व्यपोहति । क्षीराहारो जपेन्मृत्योः सप्ताहाद्विजयी भवेत् ॥ ५२ ॥ अनश्नन्वाग्यतो जप्त्वा त्रिरात्रं मुच्यते यमात् । निमज्ज्याप्सु जपेदेवं सद्यो मृत्योर्विमुच्यते ॥ ५३ ॥ जपेद् बिल्वं समाश्रित्य मासं राज्यमवाप्नुयात् । बिल्वं हुत्वाप्नुयाद्‌राज्यं समूलफलपल्लवम् ॥ ५४ ॥ हुत्वा पद्मशतं मासं राज्यमाप्नोत्यकण्टकम् । यवागूं ग्राममाप्नोति हुत्वा शालिसमन्वितम् ॥ ५५ ॥ अश्वत्थसमिधो हुत्वा युद्धादौ जयमाप्नुयात् । अर्कस्य समिधो हुत्वा सर्वत्र विजयी भवेत् ॥ ५६ ॥ संयुक्तैः पयसा पत्रैः पुष्पैर्वा वेतसस्य च । पायसेन शतं हुत्वा सप्ताहं वृष्टिमाप्नुयात् ॥ ५७ ॥ नाभिदघ्ने जले जप्त्वा सप्ताहं वृष्टिमाप्नुयात् । जले भस्मशतं हुत्वा महावृष्टिं निवारयेत् ॥ ५८ ॥ पालाशाभिरवाप्नोति समिद्‌‍भिर्ब्रह्मवर्चसम् । पलाशकुसुमैर्हुत्वा सर्वमिष्टमवाप्नुयात् ॥ ५९ ॥ पयो हुत्वाऽऽप्नुयान्मेधामाज्यं बुद्धिमवाप्नुयात् । अभिमन्त्र्य पिबेद् ब्राह्मं रसं मेधामवाप्नुयात् ॥ ६० ॥ पुष्पहोमे भवेद्वासस्तन्तुभिस्तद्विधं पटम् । लवणं मधुसम्मिश्रं हुत्वेष्टं वशमानयेत् ॥ ६१ ॥ नयेदिष्टं वशं हुत्वा लक्ष्मीपुष्पैर्मधुप्लुतैः । नित्यमञ्जलिनाऽऽत्मानमभिषिञ्चेज्जले स्थितः ॥ ६२ ॥ मतिमारोग्यमायुष्यमग्र्यं स्वास्थ्यमवाप्नुयात् । कुर्याद्विप्रोऽन्यमुद्दिश्य सोऽपि पुष्टिमवाप्नुयात् ॥ ६३ ॥ अथ चारुविधिर्मासं सहस्रं प्रत्यहं जपेत् । आयुष्कामः शुचौ देशे प्राप्नुयादायुरूत्तमम् ॥ ६४ ॥ आयुरारोग्यकामस्तु जपेन्मासद्वयं द्विजः । भवेदायुष्यमारोग्यं श्रियै मासत्रयं जपेत् ॥ ६५ ॥ आयुः श्रीपुत्रदाराद्याश्चतुर्भिश्च यशो जपात् । पुत्रदारायुरारोग्यं श्रियं विद्यां च पञ्चभिः ॥ ६६ ॥ एवमेवोत्तरान्कामान् मासैरेवोत्तरैर्व्रजेत् । एकपादो जपेदूर्ध्वबाहुः स्थित्वा निराश्रयः ॥ ६७ ॥ मासं शतत्रयं विप्रः सर्वान्कामानवाप्नुयात् । एवं शतोत्तरं जप्त्वा सहस्रं सर्वमाप्नुयात् ॥ ६८ ॥ रुद्ध्वा प्राणमपानं च जपेन्मासं शतत्रयम् । यदिच्छेत्तदवाप्नोति सहस्रात्परमाप्नुयात् ॥ ६९ ॥ एकपादो जपेदूर्ध्वबाहू रुद्ध्वानिलं वशः । मासं शतमवाप्नोति यदिच्छेदिति कौशिकः ॥ ७० ॥ एवं शतत्रयं जप्त्वा सहस्रं सर्वमाप्नुयात् । निमज्ज्याप्सु जपेन्मासं शतमिष्टमवाप्नुयात् ॥ ७१ ॥ एवं शतत्रयं जप्त्वा सहस्रं सर्वमाप्नुयात् । एकपादो जपेदूर्ध्वबाहू रुद्ध्वा निराश्रयः ॥ ७२ ॥ नक्तमश्नन् हविष्यान्नं वत्सरादृषितामियात् । गीरमोघा भवेदेवं जप्त्वा संवत्सरद्वयम् ॥ ७३ ॥ त्रिवत्सरं जपेदेवं भवेत्त्रैकालदर्शनम् । आयाति भगवान्देवश्चतुःसंवत्सरं जपेत् ॥ ७४ ॥ पञ्चभिर्वत्सरैरेवमणिमादिगुणो भवेत् । एवं षड्वत्सरं जप्त्वा कामरूपित्वमाप्नुयात् ॥ ७५ ॥ सप्तिभिर्वत्सरैरेवममरत्वमवाप्नुयात् । मनुत्वं नवभिः सिद्धमिन्द्रत्वं दशभिर्भवेत् ॥ ७६ ॥ एकादशभिराप्नोति प्राजापत्यं सुवत्सरैः । बह्मत्वं प्राप्नुयादेवं जप्त्वा द्वादशवत्सरान् ॥ ७७ ॥ एतेनैव जिता लोकास्तपसा नारदादिभिः । शाकमन्ये परे मूलं फलमन्ये पयः परे ॥ ७८ ॥ घृतमन्ये परे सोममपरे चरुवृत्तयः । ऋषयः पक्षमश्नन्ति केचिद्‍भैक्ष्याशिनोऽहनि ॥ ७९ ॥ हविष्यमपरेऽश्नन्तः कुर्वन्त्येव परं तपः । अथ शुद्ध्यै रहस्यानां त्रिसहस्रं जपेद् द्विजः ॥ ८० ॥ मासं शुद्धो भवेत्स्तेयात्सुवर्णस्य द्विजोत्तमः । जपेन्मासं त्रिसाहस्रं सुरापः शुद्धिमाप्नुयात् ॥ ८१ ॥ मासं जपेत् त्रिसाहस्रं शुचिः स्याद् गुरुतल्पगः । त्रिसहस्रं जपेन्मासं कुटीं कृत्वा वने वसन् ॥ ८२ ॥ ब्रह्महा मुच्यते पापादिति कौशिकभाषितम् । द्वादशाहं निमज्ज्याप्सु सहस्रं प्रत्यहं जपेत् ॥ ८३ ॥ मुच्येरन्नंहसः सर्वे महापातकिनो द्विजाः । त्रिसाहस्रं जपेन्मासं प्राणानायम्य वाग्यतः ॥ ८४ ॥ महापातकयुक्तो वा मुच्यते महतो भयात् । प्राणायामसहस्रेण ब्रह्महापि विशुध्यति ॥ ८५ ॥ षट्कृत्वस्त्वभ्यसेदूर्ध्वं प्राणापानौ समाहितः । प्राणायामो भवेदेष सर्वपापप्रणाशनः ॥ ८६ ॥ सहस्रमभ्यसेन्मासं क्षितिपः शुचितामियात् । द्वादशाहं त्रिसाहस्रं जपेद्धि गोवधे द्विजः ॥ ८७ ॥ अगम्यागमनस्तेयहननाभक्ष्यभक्षणे । दशसाहस्रमभ्यस्ता गायत्री शोधयेद् द्विजम् ॥ ८८ ॥ प्राणायामशतं कृत्वा मुच्यते सर्वकिल्विषात् । सर्वेषामेव पापानां सङ्‌करे सति शुद्धये ॥ ८९ ॥ सहस्रमभ्यसेन्मासं नित्यजापी वने वसन् । उपवाससमं जप्यं त्रिसहस्रं तदित्यृचम् ॥ ९० ॥ चतुर्विंशतिसाहस्रमभ्यस्तात्कृच्छ्रसंज्ञिता । चतुःषष्टिसहस्राणि चान्द्रायणसमानि तु ॥ ९१ ॥ शतकृत्वोऽभ्यसेन्नित्यं प्राणानायम्य सन्ध्ययोः । तदित्यृचमवाप्नोति सर्वपापक्षयं परम् ॥ ९२ ॥ निमज्ज्याप्सु जपेन्नित्यं शतकृत्वस्तदित्यृचम् । ध्यायन्देवीं सूर्यरूपां सर्वपापैः प्रमुच्यते ॥ ९३ ॥ इति ते सम्यगाख्याताः शान्तिशुद्ध्यादिकल्पनाः । रहस्यातिरहस्याश्च गोपनीयास्त्वया सदा ॥ ९४ ॥ इति संक्षेपतः प्रोक्तः सदाचारस्य संग्रहः । विधिनाऽऽचरणादस्य माया दुर्गा प्रसीदति ॥ ९५ ॥ नैमित्तिकं च नित्यं च काम्यं कर्म यथाविधि । आचरेन्मनुजः सोऽयं भुक्तिमुक्तिफलाप्तिभाक् ॥ ९६ ॥ आचारः प्रथमो धर्मो धर्मस्य प्रभुरीश्वरी । इत्युक्तं सर्वशास्त्रेषु सदाचारफलं महत् ॥ ९७ ॥ आचारवान्सदा पूतः सदैवाचारवान्मसुखी । आचारवान्सदा धन्यः सत्यं सत्यं च नारद ॥ ९८ ॥ देवीप्रसादजनकं सदाचारविधानकम् । यदपि शृणुयान्मर्त्यो महासम्पत्तिसौख्यभाक् ॥ ९९ ॥ सदाचारेण सिद्धेच्च ऐहिकामुष्मिकं सुखम् । तदेव ते मया प्रोक्तं किमन्यच्छ्रोतुमिच्छसि ॥ १०० ॥

prātaścintanam nārada uvāca nārāyaṇa mahābhāga gāyatryāstu samāsataḥ | śāntyādikānprayogāṃstu vadasva karuṇānidhe || 1 || śrīnārāyaṇa uvāca atiguhyamidaṃ pṛṣṭaṃ tvayā brahyatanūd‍bhava | na kasyāpi ca vaktavyaṃ duṣṭāya piśunāya ca || 2 || atha śāntiḥ payo'ktābhiḥ samid‌‍bhirjuhuyād dvijaḥ | śamīsamid‌‍bhiḥ śāmyanti bhūtarogagrahādayaḥ || 3 || ārdrābhiḥ kṣīravṛkṣasya samid‌‍bhirjuhuyād dvijaḥ | juhuyācchakalairvāpi bhūtarogādiśāntaye || 4 || jalena tarpayetsūryaṃ pāṇibhyāṃ śāntimāpnuyāt | jānudaghne jale japtvā sarvāndoṣāñchamaṃ nayet || 5 || kaṇṭhadaghne jale japtvā mucyetprāṇāntikād‍bhayāt | sarvebhyaḥ śāntikarmabhyo nimajyāpsu japaḥ smṛtaḥ || 6 || sauvarṇe rājate vāpi pātre tāmramaye'pi vā | kṣīravṛkṣamaye vāpi nirvraṇe mṛṇmaye'pi vā || 7 || sahasraṃ pañcagavyena hutvā sujvalite'nale | kṣīravṛkṣamayaiḥ kāṣṭhaiḥ śeṣaṃ sampādayecchanaiḥ || 8 || pratyāhutiṃ spṛśañjaptvā sahasraṃ pātrasaṃsthitam | tena taṃ prokṣayeddeśaṃ kuśairmantramanusmaran || 9 || baliṃ kiraṃstatastasmindhyāyettu paradevatām | abhicārasamutpannā kṛtyā pāpaṃ ca naśyati || 10 || devabhūtapiśācādyān yadyevaṃ kurute vaśe | gṛhaṃ grāmaṃ puraṃ rāṣṭraṃ sarvaṃ tebhyo vimucyate || 11 || nikhane mucyate tebhyo likhane madhyato'pi ca | maṇḍale śūlamālikhya pūrvokte ca krame'pi vā || 12 || abhimantrya sahasraṃ tannikhanetsarvaśāntaye | sauvarṇaṃ rājataṃ vāpi kumbhaṃ tāmramayaṃ ca vā || 13 || mṛṇmayaṃ vā navaṃ divyaṃ sūtraveṣṭitamavraṇam | sthaṇḍile saikate sthāpya pūrayenmantravijjalaiḥ || 14 || digbhya āhṛtya tīrthāni catasṛbhyo dvijottamaiḥ | elācandanakarpūrajātīpāṭalamallikāḥ || 15 || bilvapatraṃ tathā krāntāṃ devīṃ vrīhiyavāṃstilān | sarṣapānkṣīravṛkṣāṇāṃ pravālāni ca nikṣipet || 16 || sarvāṇyabhividhāyaiva kuśakūrcasamanvitam | snātaḥ samāhito vipraḥ sahasraṃ mantrayed budhaḥ || 17 || dikṣu saurānadhīyīranmantrānviprāstrayīvidaḥ | prokṣayetpāyayedenaṃ nīraṃ tenābhiṣiñcayet || 18 || bhūtarogābhicārebhyaḥ sa nirmuktaḥ sukhī bhavet | abhiṣekeṇa mucyeta mṛtyorāsyagato naraḥ || 19 || avaśyaṃ kārayedvidvān‍rājā dīrghaṃ jijīviṣuḥ | gāvo deyāśca ṛtvigbhya abhiṣeke śataṃ mune || 20 || dakṣiṇā yena vā tuṣṭiryathāśaktyāthavā bhavet | japedaśvatthamālabhya mandavāre śataṃ dvijaḥ || 21 || bhūtarogābhicārebhyo mucyate mahato bhayāt | guḍūcyāḥ parvavicchinnāḥ payo'ktā juhuyād dvijaḥ || 22 || evaṃ mṛtyuñjayo homaḥ sarvavyādhivināśanaḥ | āmrasya juhuyātpatraiḥ payo'ktairjvaraśāntaye || 23 || vacābhiḥ payasāktābhiḥ kṣayaṃ hutvā vināśayet | madhutritayahomena rājayakṣmā vinaśyati || 24 || nivedya bhāskarāyānnaṃ pāyasaṃ homapūrvakam | rājayakṣmābhibhūtaṃ ca prāśayecchāntimāpnuyāt || 25 || latāḥ parvasu vicchidya somasya juhuyād dvijaḥ | some sūryeṇa saṃyukte payo'ktāḥ kṣayaśāntaye || 26 || kusumaiḥ śaṅ‌khavṛkṣasya hutvā kuṣṭhaṃ vināśayet | apasmāravināśaḥ syādapāmārgasya taṇḍulaiḥ || 27 || kṣīravṛkṣasamiddhomādunmādo'pi vinaśyati | audumbarasamiddhomādatimehaḥ kṣayaṃ vrajet || 28 || pramehaṃ śamayeddhutvā madhunekṣurasena vā | madhutritayahomena nayecchāntiṃ masūrikām || 29 || kapilāsarpiṣā hutvā nayecchāntiṃ masūrikām | udumbaravaṭāśvatthairgogajāśvāmayaṃ haret || 30 || pipīlimadhuvalmīke gṛhe jāte śataṃ śatam | śamīsamid‌‍bhirannena sarpiṣā juhuyād dvijaḥ || 31 || tadutthaṃ śāntimāyāti śeṣaistatra baliṃ haret | abhrastanitabhūkampālakṣyādau vanavetasaḥ || 32 || saptāhaṃ juhuyādevaṃ rāṣṭre rājyaṃ sukhī bhavet | yāṃ diśaṃ śatajaptena loṣṭhenābhipratāḍayet || 33 || tato'gnimārutāribhyo bhayaṃ tasya vinaśyati | manasaiva japedenāṃ baddho mucyeta bandhanāt || 34 || bhūtarogaviṣādibhyaḥ spṛśañjaptvā vimocayet | bhūtādibhyo vimucyeta jalaṃ pītvābhimantritam || 35 || abhimantrya śataṃ bhasma nyased‌bhūtādiśāntaye | śirasā dhārayed‍bhasma mantrayitvā tadityṛcā || 36 || sarvavyādhivinirmuktaḥ sukhī jīvecchataṃ samāḥ | aśaktaḥ kārayecchāntiṃ vipraṃ dattvā tu dakṣiṇām || 37 || atha puṣṭiṃ śriyaṃ lakṣmīṃ puṣpairhutvāpnuyād dvijaḥ | śrīkāmo juhuyātpadmai raktaiḥ śriyamavāpnuyāt || 38 || hutvā śriyamavāpnoti jātīpuṣpairnavaiḥ śubhaiḥ | śālitaṇḍulahomena śriyamāpnoti puṣkalām || 39 || samid‌‍bhirbilvavṛkṣasya hutvā śriyamavāpnuyāt | bilvasya śakalairhutvā patraiḥ puṣpaiḥ phalairapi || 40 || śriyamāpnoti paramāṃ mūlasya śakalairapi | samid‌‍bhirbilvavṛkṣasya pāyasena ca sarpiṣā || 41 || śataṃ śataṃ ca saptāhaṃ hutvā śriyamavāpnuyāt | lājaistrimadhuropetairhome kanyāmavāpnuyāt || 42 || anena vidhinā kanyā varamāpnoti vāñchitam | raktotpalaśataṃ hutvā saptāhaṃ hema cāpnuyāt || 43 || sūryabimbe jalaṃ hutvā jalasthaṃ hema cāpnuyāt | annaṃ hutvāpnuyādannaṃ vrīhīnvrīhipatirbhavet || 44 || karīṣacūrṇairvatsasya hutvā paśumavāpnuyāt | priyaṅ‌gupāyasājyaiśca bhaveddhomādibhiḥ prajā || 45 || nivedya bhāskarāyānnaṃ pāyasaṃ homapūrvakam | bhojayettadṛtusnātāṃ putraṃ paramavāpnuyāt || 46 || saprarohābhirārdrābhirāyurhutvā samāpnuyāt | samid‌‍bhiḥ kṣīravṛkṣasya hutvāyuṣamavāpnuyāt || 47 || saprarohābhirārdrābhī raktābhirmadhuratrayaiḥ | vrīhīṇāṃ ca śataṃ hutvā hema cāyuravāpnuyāt || 48 || suvarṇakuḍmalaṃ hutvā śatamāyuravāpnuyāt | dūrvābhiḥ payasā vāpi madhunā sarpiṣāpi vā || 49 || śataṃ śataṃ ca saptāhamapamṛtyuṃ vyapohati | śamīsamid‌‍bhirannena payasā vā ca sarpiṣā || 50 || śataṃ śataṃ ca saptāhamapamṛtyuṃ vyapohati | nyagrodhasamidho hutvā pāyasaṃ homayettataḥ || 51 || śataṃ śataṃ ca saptāhamapamṛtyuṃ vyapohati | kṣīrāhāro japenmṛtyoḥ saptāhādvijayī bhavet || 52 || anaśnanvāgyato japtvā trirātraṃ mucyate yamāt | nimajjyāpsu japedevaṃ sadyo mṛtyorvimucyate || 53 || japed bilvaṃ samāśritya māsaṃ rājyamavāpnuyāt | bilvaṃ hutvāpnuyād‌rājyaṃ samūlaphalapallavam || 54 || hutvā padmaśataṃ māsaṃ rājyamāpnotyakaṇṭakam | yavāgūṃ grāmamāpnoti hutvā śālisamanvitam || 55 || aśvatthasamidho hutvā yuddhādau jayamāpnuyāt | arkasya samidho hutvā sarvatra vijayī bhavet || 56 || saṃyuktaiḥ payasā patraiḥ puṣpairvā vetasasya ca | pāyasena śataṃ hutvā saptāhaṃ vṛṣṭimāpnuyāt || 57 || nābhidaghne jale japtvā saptāhaṃ vṛṣṭimāpnuyāt | jale bhasmaśataṃ hutvā mahāvṛṣṭiṃ nivārayet || 58 || pālāśābhiravāpnoti samid‌‍bhirbrahmavarcasam | palāśakusumairhutvā sarvamiṣṭamavāpnuyāt || 59 || payo hutvā''pnuyānmedhāmājyaṃ buddhimavāpnuyāt | abhimantrya pibed brāhmaṃ rasaṃ medhāmavāpnuyāt || 60 || puṣpahome bhavedvāsastantubhistadvidhaṃ paṭam | lavaṇaṃ madhusammiśraṃ hutveṣṭaṃ vaśamānayet || 61 || nayediṣṭaṃ vaśaṃ hutvā lakṣmīpuṣpairmadhuplutaiḥ | nityamañjalinā''tmānamabhiṣiñcejjale sthitaḥ || 62 || matimārogyamāyuṣyamagryaṃ svāsthyamavāpnuyāt | kuryādvipro'nyamuddiśya so'pi puṣṭimavāpnuyāt || 63 || atha cāruvidhirmāsaṃ sahasraṃ pratyahaṃ japet | āyuṣkāmaḥ śucau deśe prāpnuyādāyurūttamam || 64 || āyurārogyakāmastu japenmāsadvayaṃ dvijaḥ | bhavedāyuṣyamārogyaṃ śriyai māsatrayaṃ japet || 65 || āyuḥ śrīputradārādyāścaturbhiśca yaśo japāt | putradārāyurārogyaṃ śriyaṃ vidyāṃ ca pañcabhiḥ || 66 || evamevottarānkāmān māsairevottarairvrajet | ekapādo japedūrdhvabāhuḥ sthitvā nirāśrayaḥ || 67 || māsaṃ śatatrayaṃ vipraḥ sarvānkāmānavāpnuyāt | evaṃ śatottaraṃ japtvā sahasraṃ sarvamāpnuyāt || 68 || ruddhvā prāṇamapānaṃ ca japenmāsaṃ śatatrayam | yadicchettadavāpnoti sahasrātparamāpnuyāt || 69 || ekapādo japedūrdhvabāhū ruddhvānilaṃ vaśaḥ | māsaṃ śatamavāpnoti yadicchediti kauśikaḥ || 70 || evaṃ śatatrayaṃ japtvā sahasraṃ sarvamāpnuyāt | nimajjyāpsu japenmāsaṃ śatamiṣṭamavāpnuyāt || 71 || evaṃ śatatrayaṃ japtvā sahasraṃ sarvamāpnuyāt | ekapādo japedūrdhvabāhū ruddhvā nirāśrayaḥ || 72 || naktamaśnan haviṣyānnaṃ vatsarādṛṣitāmiyāt | gīramoghā bhavedevaṃ japtvā saṃvatsaradvayam || 73 || trivatsaraṃ japedevaṃ bhavettraikāladarśanam | āyāti bhagavāndevaścatuḥsaṃvatsaraṃ japet || 74 || pañcabhirvatsarairevamaṇimādiguṇo bhavet | evaṃ ṣaḍvatsaraṃ japtvā kāmarūpitvamāpnuyāt || 75 || saptibhirvatsarairevamamaratvamavāpnuyāt | manutvaṃ navabhiḥ siddhamindratvaṃ daśabhirbhavet || 76 || ekādaśabhirāpnoti prājāpatyaṃ suvatsaraiḥ | bahmatvaṃ prāpnuyādevaṃ japtvā dvādaśavatsarān || 77 || etenaiva jitā lokāstapasā nāradādibhiḥ | śākamanye pare mūlaṃ phalamanye payaḥ pare || 78 || ghṛtamanye pare somamapare caruvṛttayaḥ | ṛṣayaḥ pakṣamaśnanti kecid‍bhaikṣyāśino'hani || 79 || haviṣyamapare'śnantaḥ kurvantyeva paraṃ tapaḥ | atha śuddhyai rahasyānāṃ trisahasraṃ japed dvijaḥ || 80 || māsaṃ śuddho bhavetsteyātsuvarṇasya dvijottamaḥ | japenmāsaṃ trisāhasraṃ surāpaḥ śuddhimāpnuyāt || 81 || māsaṃ japet trisāhasraṃ śuciḥ syād gurutalpagaḥ | trisahasraṃ japenmāsaṃ kuṭīṃ kṛtvā vane vasan || 82 || brahmahā mucyate pāpāditi kauśikabhāṣitam | dvādaśāhaṃ nimajjyāpsu sahasraṃ pratyahaṃ japet || 83 || mucyerannaṃhasaḥ sarve mahāpātakino dvijāḥ | trisāhasraṃ japenmāsaṃ prāṇānāyamya vāgyataḥ || 84 || mahāpātakayukto vā mucyate mahato bhayāt | prāṇāyāmasahasreṇa brahmahāpi viśudhyati || 85 || ṣaṭkṛtvastvabhyasedūrdhvaṃ prāṇāpānau samāhitaḥ | prāṇāyāmo bhavedeṣa sarvapāpapraṇāśanaḥ || 86 || sahasramabhyasenmāsaṃ kṣitipaḥ śucitāmiyāt | dvādaśāhaṃ trisāhasraṃ japeddhi govadhe dvijaḥ || 87 || agamyāgamanasteyahananābhakṣyabhakṣaṇe | daśasāhasramabhyastā gāyatrī śodhayed dvijam || 88 || prāṇāyāmaśataṃ kṛtvā mucyate sarvakilviṣāt | sarveṣāmeva pāpānāṃ saṅ‌kare sati śuddhaye || 89 || sahasramabhyasenmāsaṃ nityajāpī vane vasan | upavāsasamaṃ japyaṃ trisahasraṃ tadityṛcam || 90 || caturviṃśatisāhasramabhyastātkṛcchrasaṃjñitā | catuḥṣaṣṭisahasrāṇi cāndrāyaṇasamāni tu || 91 || śatakṛtvo'bhyasennityaṃ prāṇānāyamya sandhyayoḥ | tadityṛcamavāpnoti sarvapāpakṣayaṃ param || 92 || nimajjyāpsu japennityaṃ śatakṛtvastadityṛcam | dhyāyandevīṃ sūryarūpāṃ sarvapāpaiḥ pramucyate || 93 || iti te samyagākhyātāḥ śāntiśuddhyādikalpanāḥ | rahasyātirahasyāśca gopanīyāstvayā sadā || 94 || iti saṃkṣepataḥ proktaḥ sadācārasya saṃgrahaḥ | vidhinā''caraṇādasya māyā durgā prasīdati || 95 || naimittikaṃ ca nityaṃ ca kāmyaṃ karma yathāvidhi | ācarenmanujaḥ so'yaṃ bhuktimuktiphalāptibhāk || 96 || ācāraḥ prathamo dharmo dharmasya prabhurīśvarī | ityuktaṃ sarvaśāstreṣu sadācāraphalaṃ mahat || 97 || ācāravānsadā pūtaḥ sadaivācāravānmasukhī | ācāravānsadā dhanyaḥ satyaṃ satyaṃ ca nārada || 98 || devīprasādajanakaṃ sadācāravidhānakam | yadapi śṛṇuyānmartyo mahāsampattisaukhyabhāk || 99 || sadācāreṇa siddhecca aihikāmuṣmikaṃ sukham | tadeva te mayā proktaṃ kimanyacchrotumicchasi || 100 ||

English translation

1. Narada said O Bhagavan! Thou art the ocean of mercy; kindly speak out to me in brief all the things and the duties to be observed and applied in the S’anti Karmas (the peace bringing acts) of Gayatri.

2-20. Narayana said O Narada! The question asked by you is esoteric. Never divulge this to a wicked person or any hypocrite. It is to be kept secret. While doing this S’anti Karma, the Brahmanas are to perform the Homas with fuel soaked in milk (Payah). If the fuel of the S’ami tree be offered in Homa ceremony, then diseases caused by planets are cured. If the Homa be performed with wet As’vaththa or Udumbara or other ksira trees, the diseases caused by demons and hob-goblins are cured. If one offers Tarpanam with one palmful of water, repeating the mantra “Suryam Tarpayami namah”, the pending evils are also averted and troubles are ceased. The repetition of the Gayatri mantra with knees immersed in water averts all evils. The repetition of Gayatri with body immersed in water upto the throat, averts the danger of life; and the same with whole body immersed grants all success. This is the best of all the S’anti karmas, the acts that bring health, wealth, happiness and peace. While performing Homa, light with the fuel of Ksiravriksa (the trees that emit milky juice); place Pahchagavya in a vessel made of gold, silver, copper or wood of ksira trees, or in the vessels made of earth, without any knot or crack; utter the Gayatri mantra and offer one thousand homas. Sprinkle with water at every offering, touching the Pahchagavya with Kus’a grass, thousand times. Then offer the sacrifices there where calamities or nuisances are seen and meditate on the Highest Devata. Thus all the magic spells used by other persons for a malevolent purpose will be rendered nugatory. Bring under your control any Deva yoni, Bhute Yoni, or Pis’acha Yoni that causes you troubles; then they will quit the house, village, city.

way, even that kingdom. Now hear how they are brought under control. Prepare a sacrificial altar with sand, draw a square on it, place a Sula (spear) in its centre and plaster with Astagandha. For the sake of converting all the evils, repeat Gayatri mantra thousand times and impregnate it with the mantra, dig the ground and place or bury the Sula under it. Place on the level ground or sthandila a jar or Navaphala, a fruit made of gold, silver, or copper or a newly made earthen jar and enclose it with thread. Then have the sacred waters brought from the several Tirthas by the Brahmins and fill the jar, repeating the Gayatri Mantra. Put within this jar the twigs, then of Cardamom tree, sandal tree, karpura tree, jati, aparajita. Saha Devi, Patala, Mallika flower, Bel leaves, rice, barley. Til, mustard, asVattha, and udumbara trees and throw them within the jar. (The Ksira trees are AsVaththa, Udumbara, Plaksa, and Nyagrodha.) Doing all these, prepare one Kus’a Kurcha made of twenty seven Kus’a grass in the form of a braid of hair, round one end of a straight rod and tied in a knot and place it there. Then take your bath and repeat the Gayatri mantra over it one thousand times with your whole mind fully concentrated. Then the Veda knowing Brahmanas would recite the Saura mantra and sprinkle the man attacked by the demon with water and make him drink also the water saturated with the mantra and bathe him also with that. Then that person will be dispossessed of the devil and be happy. Even when the man (possessed by a devil), is going to die, he gets his life again if he be made to drink this water saturated with this mantra and have his bath with that. So a wise King must do this, with a desire to have a long life; and after he is sprinkled with this mantra-charged water he is to give one hundred cows to the Brahmanas as the Daksina.

21-44. The Daksina is to be given according to one’s might; and specially what gives satisfaction to the Brahmanas. If one be terrified by a Devil or so or by the mischievous magic spells of others, one is to sit on Saturday under an As’vattha tree and repeat one hundred Gayatris. For the cure of all diseases, if one has to perform the

Mrityunjaya Homa, one will have to do Homa with the Gulancha creeper, soaked in milk and deducting the knots thereof. For the pacification of fever, mango leaves soaked with milk ought to be used in the Homa ceremony. The wasting diseases are cured if Homa be performed with the leaves of the Vacha soaked in milk; phthisis or consumption is cured if Homa be performed with curd, milk and ghee. Again, if offerings be given to the Solar Deity and if Payasannam be given to him and if this be given to the consumptive patient, his disease will be cured. Again, on the Amavasya tithi (new moon day) if Homa be performed with Soma creeper (excluding the knot joints) soaked in milk, then consumption will be cured. If Homa be made with the flowers of the S’amkhya tree, then leprosy is cured; if the Homa be done with the seed of Apamarga, the Mrigis or the hysteric and epileptic fits are cured. So if Homa be performed with the fuel of Ksira trees, lunacy is cured; if, with the fuel of udumbara, meha (spermatorrhea) is cured; if with sugarcane juice, gonorrhea is cured; if with curd, milk and ghee or with the ghee of Kapila cow, the homa be performed, the Masurika disease or smallpox will be cured, and if Homa be performed with the fuels of Udumbara, Vata, and AsVatha be performed, then the diseases of cows, elephants and horses are cured. If the trouble be caused by many ants and ant-hills (Madhu Valmika) then perform the Homa ceremony with the fuel of Sami tree one hundred times and with the food prepared of ghee one hundred times and offer sacrifices with the rest of the food; then the above troubles will cease. If there be a earth quake or if there be seen flashes of lightnings, then homa is to be performed with the fuel of Vana Vetasa and the whole kingdom will be happy. If you surcharge any piece of iron with Gayatri mantra repeated hundred times and if you throw it in any direction then no fear will arise from that quarter out of fire, air, or any other enemy. If one be imprisoned, and if he repeats the Gayatri mentally, he will be liberated from the prison. If you touch the man possessed by a devil, disease or mortification and sorrow with the Kus’a grass and repeat the Gayatri mantra, and thus charge him with Divine electricity, that man will be liberated from the fear caused thereby. If you make the man possessed by devils, etc., drink the water charged with the

Gayatn mantra or if you cast on his body the ashes charged with hundred Gayatris or tie those ashes on his head repeating the Gayatri mantra, he will be instantly freed of all diseases and will live for one hundred years in happiness. In case a man is unable to do fully all these himself, he can get all these done by other Brahmanas and pay Daksina (fees) to them duly for the same.

O Narada! Now I will tell you how nourishment and wealth are attained. Wealth is attained if the Homa be performed with red lotus or fresh Jati flower or with the S’ali rice or with the fuel of Bel tress, leaves, flowers, fruits or roots or with any portions thereof. If for one week the oblations be offered with fuel of Bel tree mixed with Payasa or with ghee one hundred times, then Laksmi Devi will surely be attained. If the Homa be performed with Laja (fried rice) mixed with curd, milk, and ghee, the daughter will be obtained. If for one week, the Homa be performed with red lotus, then gold is obtained. If the Tarpanam (peace offering) be offered to the Sun, then the treasures, gold hidden under the water, are obtained. If the Homa be performed with food (Anna) then Anna is obtained; if Homa be performed with rice, then rice is obtained.

45-51. If Homa be performed with calfdung, dried and powdered, then animals are obtained. If Homa be performed with Priyangu, Payasa or ghee then the progeny is obtained. If the oblations of Payasanna be offered to the Solar Deity and if the Prasadam (remnant) be given to one’s wife under menstruation to eat, then excellent sons will be obtained. If the Homa be performed with the fuel of wet pointed Ksira trees, then longevity is attained. If Homa be performed with the fuel of the Palas’a tree, pointed and wet and mixed with curd, milk, and ghee for one hundred times consecutively, then longevity and gold are attained. If the Homa be performed with Durba grass, milk, honey or ghee, one hundred times, then longevity and golden lotus are obtained. If for one week the Homa ceremony

be performed with the fuel of S’ami tree mixed with food, milk or ghee one hundred times of each or if for one week the Homa he performed with the fuel of Nyagrodha tree and afterwards one hundred Homas be made with Payasanna, the fear of unnatural death is removed.

52-60. That man can conquer death who can remain for one week living on milk only and who performs during that time hundreds, and hundreds of Homas and repeats the Gayatri, controlling his speech.

If anybody can fast three nights and control his speech and repeat Gayatri he gets himself freed from the hands of Death; or totally immersed in water if he repeats Gayatri, he will be saved from the impending danger of death. If anybody repeats the Gayatri mantra for one month, taking his seat under a Bel tree or performs Homa with Bel fruit, root or leaves, he gets kingdoms. (Know all the Mantrams are electric in their effects). Similarly if anybody performs Homa with one hundred lotuses, he gets a foeless kingdom. So one becomes the lord of a village if one performs Homa with Yavagu (barley gruel) and Salidhanya. If the Homa be performed with the fuel of Asvaththa tree, victory in battle is ensured and if the Homa be performed with the fuel of Akanda tree, then victory everywhere is ensured. If one hundred Homas be performed extending a week with Vetasa tree’s leaves or fruits, dipped in milk and mixed with Payasa, the rainfall is ensured. Similarly if anybody repeats Gayatri for one week with his body upto navel immersed in water, the rainfall is ensured; on the contrary if the Homa be performed with ashes in water, then the cessation of heavy rainfall is ensured. The Homa with the fuel of Palasa gives Brahmateja; Homa with the flowers of Palasa gives everything desired. Homa with milk or drinking Brahmarasa, charged with mantra, increases the intellect; and the Homa with ghee gives Buddhi (medha) (intelligence).

61-69. Homa with flowers gives good smell; Homa with thread gives cloth; Homa with salt and honey mixed or Bel flowers gives one power to control anything and everything that is desired. If anybody bathes everyday immersed completely within water and sprinkles water on his body, he becomes cured of diseases and he becomes very healthy. If any Brahmana does these things for others, he becomes also no doubt healthy. If anybody wants to increase his life period he should practise good deeds and repeat Gayatri thousand times daily for one month. Thus his longevity will be increased. Two months’ such practice gives long life and perpetual health; three month’s such practice will give life, health, and wealth, four months such practice gives longevity, wealth, fame, women, sons, etc., five months such practice gives longevity, health, wealth, wife, sons and learning. So one should repeat this as many months in proportion to the number of his desires and he would get them. Again any Brahmana who stands on one leg without holding any other thing and raises both his hands and daily repeats three hundred Gayatris for one month, gets all his desires fulfilled. And if he repeats one thousand one hundred Gayatris, there is nothing in this world that is not met and attained with success. Controlling the Prana (inhaling) and Apana (exhaling) Vayu (breath), he who repeats daily three hundred Gayatris to the Devi, his highest desires are satisfied.

70-77. Vis’vamitra Risi says Standing on one leg, with both hands raised and controlling Vayu he who repeats daily one hundred Gayatris for one month, gets all his desires fulfilled. Similarly with three hundred or thousand repeatings, all things are attained. Submerged under water, if one repeats Gayatris as many times as mentioned above, he gets everything. If, for one year, with hands uplifted and without holding anything, anyone stands on one leg, controls one’s breath and repeats Gayatri mantra three hundred times or thousand times, eating Havisyannam only in the night time, he becomes a Risi (Seer). This thing repeated two years gives infallible speech; three years gives knowledge of the present, past

and future; four years will enable one to see face to face the Solar God; five years will give the eight Siddhis, lightness, etc., six years will enable one to assunne forms as he desires; seven years gives immortality; nine years gives Manuhood; ten years gives Indrahood; eleven years gives Brahma-hood; and twelve years gives the state of Parama Brahma.

78-90. O Narada! By these practices of Tapasyas you and other Risis have been able to conquer the three Lokas (regions). Some ate only vegetables; some fruits; some, roots; some simply water; some, ghee; some, Somarasa; whereas some others ate only charu and did tapasya. Some Risis practised this great Tapasya by eating very little for a fortnight only. Some ate food, only what they got by begging during the day; and some ate only Havisyanna. O Narada! Now hear the rules for the purification and expiation of sins. For the expiation of the sin incurred in stealing gold, one is to repeat three thousand Gayatris (daily) for one month; then the sin will be destroyed. By this act also the sins incurred by drinking or by going to one’s Guru’s wife are destroyed. Vis’vamitra Risi says The sin incurred by killing a Brahmana (Brahmahatya) is destroyed if one erects a shed in a forest and, living there, repeats three thousand Gayatris daily for one month. Those Brahmanas that have committed the Great Sins (i.e., Mahapatakas), become free, if they repeat one thousand Gayatris daily, submerged under water, for twelve successive days. By controlling speech and by practising Pranayama, if one repeats three thousand Gayatris daily for one month, one will be free from the Mahapatakas. If one practises one thousand Pranayamas repeating the Gayatri, one becomes freed also of Brahmahatya. If one draws upwards the Prana and Apana Vayus six times, repeating the Gayatri with collected mind, this destroys all the sins and it is called all-sin destroying Pranayama. If one practises this Pranayama one thousand times for one month, the lord of the earth becomes freed of all sins. If any Brahmana incurs the sin of killing a cow, for twelve days he is to repeat three

thousand Gayatris daily for expiation. Similarly the repetition of ten thousand Gayatris removes the sin of going to those not fit to be gone into, eating the uneatables, stealing and killing and this act brings in peace. All sins are destroyed by performing one hundred Pranayamas with Gayatri. Again if there be a mixture of various sins, one will have to live in the forest for one month and repeat one thousand Gayatris or practise fasting and repeat three thousand Gayatris; thus all sins will be destroyed.

91-100. To repeat Gayatri twenty-four thousand times is equal to performing the Krichchhra vrata and to repeat sixty four thousand Gayatris duly is equal to performing the Chandrayana. If anybody repeats, in the morning and evening Sandhya times, the merit giving Gayatri one hundred times, with Pranayama, all his sins are destroyed. So, submerged under water, if one repeats the Gayatri Devi, meditating Her in the Sun, one hundred times daily, one’s all the sins are fully destroyed. O Narada! Thus I have described to you all about averting or destroying the evils and the purification of various sins. All this is secret. Keep it carefully concealed. Never divulge this. Whoever divulges this will bring his own ruin. I have spoken to you, in brief, all about Sadachara (right way of living). If anybody practises this duly, according to rules, S’ri Mahamaya Durga Devi becomes pleased with him. If anybody wants to have both enjoyment and liberation, he is to practise all these daily, as well as the occasional, and Kamya (desired) duties duly according to rules. It is stated in all the S’astras, that this Achara (right way of living) is the foremost and the chief Dharma, the Deity of which is the Supreme Mother Herself. O Narada! That man who practises duly this Achara is, in this world, holy, happy and blessed. This I speak to you truly. If anybody desires to get the Devi Bhagavati’s Grace, he should first of all set himself at once to practise this Sadachara. He who hears this gets wealth and great happiness. There is no doubt in this. Now speak what more you want to hear.

Here ends the Twenty fourth Chapter of the Eleventh Book on Sadachara in the Mahapuranam S’ri Mad Devi Bhagavatam of 18,000 verses by Maharsi Veda Vyasa. The Eleventh Book Completed.

[Here ends the Eleventh Book.]

Complete chapter-aligned witnesses. Sanskrit Wikisource page 24050, revision 84668 (2016-10-07T17:45:05Z). English is Swami Vijñanananda’s complete 1921–23 public-domain translation, controlled against the archival OCR and its chapter page at https://sacred-texts.com/hin/db/bk11ch24.htm. Historic spelling and transliteration are lightly normalized; no verse-by-verse alignment is asserted.