Skip to main content

Ninth Skandha · Chapter 4

Chapter 4

Unit 221 of 318Ninth Skandha · Chapter 4Ninth Skandha · Chapter 41 source entries

Ninth Skandha · Chapter 4

Source

नारद उवाच श्रुतं सर्वं मया पूर्वं त्वत्प्रसादात्सुधोपमम् । अधुना प्रकृतीनां च व्यस्तं वर्णय पूजनम् ॥ १ ॥ कस्याः पूजा कृता केन कथं मर्त्ये प्रचारिता । केन वा पूजिता का वा केन का वा स्तुता प्रभो ॥ २ ॥ तासां स्तोत्रं च ध्यानं च प्रभावं चरितं शुभम् । काभिः केभ्यो वरो दत्तस्तन्मे व्याख्यातुमर्हसि ॥ ३ ॥ श्रीनारायण उवाच गणेशजननी दुर्गा राधा लक्ष्मीः सरस्वती । सावित्री च सृष्टिविधौ प्रकृतिः पञ्चधा स्मृता ॥ ४ ॥ आसां पूजा प्रसिद्धा च प्रभावः परमाद्‍भुतः । सुधोपमं च चरितं सर्वमङ्‌गलकारणम् ॥ ५ ॥ प्रकृत्यंशाः कला याश्च तासां च चरितं शुभम् । सर्वं वक्ष्यामि ते ब्रह्मन् सावधानो निशामय ॥ ६ ॥ काली वसुन्धरा गङ्‌गा षष्ठी मङ्‌गलचण्डिका । तुलसी मनसा निद्रा स्वधा स्वाहा च दक्षिणा ॥ ७ ॥ संक्षिप्तमासां चरितं पुण्यदं श्रुतिसुन्दरम् । जीवकर्मविपाकं च तच्च वक्ष्यामि सुन्दरम् ॥ ८ ॥ दुर्गायाश्चैव राधाया विस्तीर्णं चरितं महत् । तद्वत्पश्चात्प्रवक्ष्यामि संक्षेपक्रमतः शृणु ॥ ९ ॥ आदौ सरस्वतीपूजा श्रीकृष्णेन विनिर्मिता । यत्प्रसादान्मुनिश्रेष्ठ मूर्खो भवति पण्डितः ॥ १० ॥ आविर्भूता यथा देवी वक्त्रतः कृष्णयोषितः । इयेष कृष्णं कामेन कामुकी कामरूपिणी ॥ ११ ॥ स च विज्ञाय तद्‍भावं सर्वज्ञः सर्वमातरम् । तामुवाच हितं सत्यं परिणामे सुखावहम् ॥ १२ ॥ श्रीकृष्ण उवाच भज नारायणं साध्वि मदंशं च चतुर्भुजम् । युवानं सुन्दरं सर्वगुणयुक्तं च मत्समम् ॥ १३ ॥ कामज्ञं कामिनीनां च तासां च कामपूरकम् । कोटिकन्दर्पलावण्यं लीलालङ्‌कतमीश्वरम् ॥ १४ ॥ कान्ते कान्तं च मां कृत्वा यदि स्थातुमिहेच्छसि । त्वत्तो बलवती राधा न भद्रं ते भविष्यति ॥ १५ ॥ यो यस्माद्‌ बलवान्वापि ततोऽन्यं रक्षितुं क्षमः । कथं परान्साधयति यदि स्वयमनीश्वरः ॥ १६ ॥ सर्वेशः सर्वशास्ताहं राधां बाधितुमक्षमः । तेजसा मत्समा सा च रूपेण च गुणेन च ॥ १७ ॥ प्राणाधिष्ठातृदेवी सा प्राणांस्त्यक्तुं च कः क्षमः । प्राणतोऽपि प्रियः पुत्रः केषां वास्ति च कश्चन ॥ १८ ॥ त्वं भद्रे गच्छ वैकुण्ठं तव भद्रं भविष्यति । पतिं तमीश्वरं कृत्वा मोदस्व सुचिरं सुखम् ॥ १९ ॥ लोभमोहकामक्रोधमानहिंसाविवर्जिता । तेजसा त्वत्समा लक्ष्मी रूपेण च गुणेन च ॥ २० ॥ तया सार्धं तव प्रीत्या शश्वत्कालः प्रयास्यति । गौरवं च हरिस्तुल्यं करिष्यति द्वयोरपि ॥ २१ ॥ प्रतिविश्वेषु तां पूजां महतीं गौरवान्विताम् । माघस्य शुक्लपञ्चम्यां विद्यारम्भे च सुन्दरि ॥ २२ ॥ मानवा मनवो देवा मुनीन्द्राश्च मुमुक्षवः । वसवो योगिनः सिद्धा नागा गन्धर्वराक्षसाः ॥ २३ ॥ मद्वरेण करिष्यन्ति कल्पे कल्पे लयावधि । भक्तियुक्ताश्च दत्त्वा वै चोपचाराणि षोडश ॥ २४ ॥ कण्वशाखोक्तविधिना ध्यानेन स्तवनेन च । जितेन्द्रियाः संयताश्च घटे च पुस्तकेऽपि च ॥ २५ ॥ कृत्वा सुवर्णगुटिकां गन्धचन्दनचर्चिताम् । कवचं ते ग्रहीष्यन्ति कण्ठे वा दक्षिणे भुजे ॥ २६ ॥ पठिष्यन्ति च विद्वांसः पूजाकाले च पूजिते । इत्युक्त्वा पूजयामास तां देवीं सर्वपूजिताम् ॥ २७ ॥ ततस्तत्पूजनं चकुर्ब्रह्मविष्णुशिवादयः । अनन्तश्चापि धर्मश्च मुनीन्द्राः सनकादयः ॥ २८ ॥ सर्वे देवाश्च मुनयो नृपाश्च मानवादयः । बभूव पूजिता नित्यं सर्वलोकैः सरस्वती ॥ २९ ॥ नारद उवाच पूजाविधानं कवचं ध्यानं चापि निरन्तरम् । पूजोपयुक्तं नैवेद्यं पुष्पं च चन्दनादिकम् ॥ ३० ॥ वद वेदविदां श्रेष्ठ श्रोतुं कौतूहलं मम । वर्तते हृदये शश्वत्किमिदं श्रुतिसुन्दरम् ॥ ३१ ॥ श्रीनारायण उवाच शृणु नारद वक्ष्यामि कण्वशाखोक्तपद्धतिम् । जगन्मातुः सरस्वत्याः पूजाविधिसमन्विताम् ॥ ३२ ॥ माघस्य शुक्लपञ्चम्यां विद्यारम्भदिनेऽपि च । पूर्वेऽह्नि समयं कृत्वा तत्राह्नि संयतः शुचिः ॥ ३३ ॥ स्नात्वा नित्यक्रियाः कृत्वा घटं संस्थाप्य भक्तितः । स्वशाखोक्तविधानेन तान्त्रिकेणाथवा पुनः ॥ ३४ ॥ गणेशं पूर्वमभ्यर्च्य ततोऽभीष्टां प्रपूजयेत् । ध्यानेन वक्ष्यमाणेन ध्यात्वा बाह्यघटे ध्रुवम् ॥ ३५ ॥ ध्यात्वा पुनः षोडषोपचारेण पूजयेद्‌ व्रती । पूजोपयुक्तं नैवेद्यं यच्च वेदनिरूपितम् ॥ ३६ ॥ वक्ष्यामि सौम्य तत्किञ्चिद्यथाधीतं यथागमम् । नवनीतं दधि क्षीरं लाजांश्च तिललड्डुकम् ॥ ३७ ॥ इक्षुमिक्षुरसं शुक्लवर्णं पञ्चगुडं मधु । स्वस्तिकं शर्करां शुक्लधान्यस्याक्षतमक्षतम् ॥ ३८ ॥ अच्छिन्नशुक्लधान्यस्य पृथुकं शुक्लमोदकम् । घृतसैन्धवसंयुक्तं हविष्यान्नं यथोदितम् ॥ ३९ ॥ यवगोधूमचूर्णानां पिष्टकं घृतसंयुतम् । पिष्टकं स्वस्तिकस्यापि पक्वरम्भाफलस्य च ॥ ४० ॥ परमान्नं च सघृतं मिष्टान्नं च सुधोपमम् । नारिकेलं तदुदकं कसेरुं मूलमार्द्रकम् ॥ ४१ ॥ पक्वरम्भाफलं चारु श्रीफलं बदरीफलम् । कालदेशोद्‍भवं चारु फलं शुक्लं च संस्कतम् ॥ ४२ ॥ सुगन्धं शुक्लपुष्पं च सुगन्धं शुक्लचन्दनम् । नवीनं शुक्लवस्त्रं च शङ्‌खं च सुन्दरं मुने ॥ ४३ ॥ माल्यं च शुक्लपुष्पाणां शुक्लहारं च भूषणम् । यादृशं च श्रुतौ ध्यानं प्रशस्यं श्रुतिसुन्दरम् ॥ ४४ ॥ तन्निबोध महाभाग भ्रमभञ्जनकारणम् । सरस्वतीं शुक्लवर्णां सस्मितां सुमनोहराम् ॥ ४५ ॥ कोटिचन्द्रप्रभामुष्टपुष्टश्रीयुक्तविग्रहाम् । वह्निशुद्धांशुकाधानां वीणापुस्तकधारिणीम् ॥ ४६ ॥ रत्‍नसारेन्द्रनिर्माणनवभूषणभूषिताम् । सुपूजितां सुरगणैर्ब्रह्मविष्णुशिवादिभिः ॥ ४७ ॥ वन्दे भक्त्या वन्दितां च मुनीन्द्रमनुमानवैः । एवं ध्यात्वा च मूलेन सर्वं दत्त्वा विचक्षणः ॥ ४८ ॥ संस्तूय कवचं धृत्वा प्रणमेद्दण्डवद्‌भुवि । येषां चेयमिष्टदेवी तेषां नित्यक्रिया मुने ॥ ४९ ॥ विद्यारम्भे च वर्षान्ते सर्वेषां पञ्चमीदिने । सर्वोपयुक्तं मूलं च वैदिकाष्टाक्षरः परः ॥ ५० ॥ येषां येनोपदेशो वा तेषां स मूल एव च । सरस्वती चतुर्थ्यन्तं वह्निजायान्तमेव च ॥ ५१ ॥ लक्ष्मीमायादिकं चैव मन्त्रोऽयं कल्पपादपः । पुरा नारायणश्चेमं वाल्मीकाय कृपानिधिः ॥ ५२ ॥ प्रददौ जाह्नवीतीरे पुण्यक्षेत्रे च भारते । भृगुर्ददौ च शुक्राय पुष्करे सूर्यपर्वणि ॥ ५३ ॥ चन्द्रपर्वणि मारीचो ददौ वाक्पतये मुदा । भृगोश्चैव ददौ तुष्टो ब्रह्मा बदरिकाश्रमे ॥ ५४ ॥ आस्तिकस्य जरत्कारुर्ददौ क्षीरोदसन्निधौ । विभाण्डको ददौ मेरौ ऋष्यशृङ्‌गाय धीमते ॥ ५५ ॥ शिवः कणादमुनये गौतमाय ददौ मुदा । सूर्यश्च याज्ञवल्क्याय तथा कात्यायनाय च ॥ ५६ ॥ शेषः पाणिनये चैव भारद्वाजाय धीमते । ददौ शाकटायनाय सुतले बलिसंसदि ॥ ५७ ॥ चतुर्लक्षजपेनैव मन्त्रः सिद्धो भवेन्नृणाम् । यदि स्यान्मन्त्रसिद्धो हि बृहस्पतिसमो भवेत् ॥ ५८ ॥ कवचं शृणु विप्रेन्द्र यद्दत्तं ब्रह्मणा पुरा । विश्वस्रष्टा विश्वजयं भृगवे गन्धमादने ॥ ५९ ॥ भृगुरुवाच ब्रह्मन्ब्रह्मविदां श्रेष्ठ ब्रह्मज्ञानविशारद । सर्वज्ञ सर्वजनक सर्वेश सर्वपूजित ॥ ६० ॥ सरस्वत्याश्च कवचं ब्रूहि विश्वजयं प्रभो । अयातयामं मन्त्राणां समूहसंयुतं परम् ॥ ६१ ॥ ब्रह्मोवाच शृणु वत्स प्रवक्ष्यामि कवचं सर्वकामदम् । श्रुतिसारं श्रुतिसुखं श्रुत्युक्तं श्रुतिपूजितम् ॥ ६२ ॥ उक्तं कृष्णेन गोलोके मह्यं वृन्दावने वने । रासेश्वरेण विभुना रासे वै रासमण्डले ॥ ६३ ॥ अतीव गोपनीयं च कल्पवृक्षसमं परम् । अश्रुताद्‍भुतमन्त्राणां समूहैश्च समन्वितम् ॥ ६४ ॥ यद्धृत्वा भगवाञ्छुक्रः सर्वदैत्येषु पूजितः । यद्धृत्वा पठनाद्‌ ब्रह्मन् बुद्धिमांश्च बृहस्पतिः ॥ ६५ ॥ पठनाद्धारणाद्वाग्मी कवीन्द्रो वाल्मिको मुनिः । स्वायम्भुवो मनुश्चैव यद्धृत्वा सर्वपूजितः ॥ ६६ ॥ कणादो गौतमः कण्वः पाणिनिः शाकटायनः । ग्रन्धं चकार यद्धृत्वा दक्षः कात्यायनः स्वयम् ॥ ६७ ॥ धृत्वा वेदविभागं च पुराणान्यखिलानि च । चकार लीलामात्रेण कृष्णद्वैपायनः स्वयम् ॥ ६८ ॥ शातातपश्च संवर्तो वसिष्ठश्च पराशरः । यद्धृत्वा पठनाद्‌ ग्रन्थं याज्ञवल्क्यश्चकार सः ॥ ६९ ॥ ऋष्यशृङ्‌गो भरद्वाजश्चास्तिको देवलस्तथा । जैगीषव्यो ययातिश्च धृत्वा सर्वत्र पूजिताः ॥ ७० ॥ कवचस्यास्य विप्रेन्द्र ऋषिरेव प्रजापतिः । स्वयं छन्दश्च बृहती देवता शारदाम्बिका ॥ ७१ ॥ सर्वतत्त्वपरिज्ञानसर्वार्थसाधनेषु च । कवितासु च सर्वासु विनियोगः प्रकीर्तितः ॥ ७२ ॥ श्रीं ह्रीं सरस्वत्यै स्वाहा शिरो मे पातु सर्वतः । श्रीं वाग्देवतायै स्वाहा भालं मे सर्वदावतु ॥ ७३ ॥ ॐ ह्रीं सरस्वत्यै स्वाहेति श्रोत्रे पातु निरन्तरम् । ओं श्रीं ह्रीं भगवत्यै सरस्वत्यै स्वाहा नेत्रयुग्मं सदावतु ॥ ७४ ॥ ऐं ह्रीं वाग्वादिन्यै स्वाहा नासां मे सर्वदावतु । ह्रीं विद्याधिष्ठातृदेव्यै स्वाहा चोष्ठं सदावतु ॥ ७५ ॥ ॐ श्रीं ह्रीं ब्राह्म्यै स्वाहेति दन्तपंक्तिं सदावतु । ऐमित्येकाक्षरो मन्त्रो मम कण्ठं सदावतु ॥ ७६ ॥ ॐ श्रीं ह्रीं पातु मे ग्रीवां स्कन्धौ मे श्रीं सदावतु । ॐ ह्रीं विद्याधिष्ठातृदेव्यै स्वाहा वक्षः सदावतु ॥ ७७ ॥ ॐ ह्रीं विद्याधिस्वरूपायै स्वाहा मे पातु नाभिकाम् । ॐ ह्रीं क्लीं वाण्यै स्वाहेति मम हस्तौ सदावतु ॥ ७८ ॥ ॐ सर्ववर्णात्मिकायै स्वाहा पादयुग्मं सदावतु । ॐ वागधिष्ठातृदेव्यै स्वाहा सर्वं सदावतु ॥ ७९ ॥ ॐ सर्वकण्ठवासिन्यै स्वाहा प्राच्यां सदावतु । ॐ सर्वजिह्वाग्रवासिन्यै स्वाहाग्निदिशि रक्षतु ॥ ८० ॥ ॐ ऐं ह्रीं क्लीं सरस्वत्यै बुधजनन्यै स्वाहा । सततं मन्त्रराजोऽयं दक्षिणे मां सदावतु ॥ ८१ ॥ ऐं ह्रीं श्रीं त्र्यक्षरो मन्त्रो नैर्ऋत्यां सर्वदावतु । ॐ ऐं जिह्वाग्रवासिन्यै स्वाहा मां वारुणेऽवतु ॥ ८२ ॥ ॐ सर्वाम्बिकायै स्वाहा वायव्ये मां सदावतु । ॐ ऐं श्रीं क्लीं गद्यवासिन्यै स्वाहा मामुत्तरेऽवतु ॥ ८३ ॥ ॐ ऐं सर्वशास्त्रवासिन्यै स्वाहैशान्यां सदावतु । ॐ ह्रीं सर्वपूजितायै स्वाहा चोर्ध्वं सदावतु ॥ ८४ ॥ ॐ ह्रीं पुस्तकवासिन्यै स्वाहाधो मां सदावतु । ॐ ग्रन्थबीजस्वरूपायै स्वाहा मां सर्वतोऽवतु ॥ ८५ ॥ इति ते कथितं विप्र ब्रह्ममन्त्रौघविग्रहम् । इदं विश्वजयं नाम कवचं ब्रह्मरूपकम् ॥ ८६ ॥ पुरा श्रुतं धर्मवक्त्रात्पर्वते गन्धमादने । तव स्नेहान्मयाख्यातं प्रवक्तव्यं न कस्यचित् ॥ ८७ ॥ गुरुमभ्यर्च्य विधिवद्वस्त्रालङ्‌कारचन्दनैः । प्रणम्य दण्डवद्‍भूमौ कवचं धारयेत्सुधीः ॥ ८८ ॥ पञ्चलक्षजपेनैव सिद्धं तु कवचं भवेत् । यदि स्यात्सिद्धकवचो बृहस्पतिसमो भवेत् ॥ ८९ ॥ महावाग्मी कवीन्द्रश्च त्रैलोक्यविजयी भवेत् । शक्नोति सर्वं जेतुं च कवचस्य प्रसादतः ॥ ९० ॥ इदं च कण्वशाखोक्तं कवचं कथितं मुने । स्तोत्रं पूजाविधानं च ध्यानं च वन्दनं शृणु ॥ ९१ ॥

nārada uvāca śrutaṃ sarvaṃ mayā pūrvaṃ tvatprasādātsudhopamam | adhunā prakṛtīnāṃ ca vyastaṃ varṇaya pūjanam || 1 || kasyāḥ pūjā kṛtā kena kathaṃ martye pracāritā | kena vā pūjitā kā vā kena kā vā stutā prabho || 2 || tāsāṃ stotraṃ ca dhyānaṃ ca prabhāvaṃ caritaṃ śubham | kābhiḥ kebhyo varo dattastanme vyākhyātumarhasi || 3 || śrīnārāyaṇa uvāca gaṇeśajananī durgā rādhā lakṣmīḥ sarasvatī | sāvitrī ca sṛṣṭividhau prakṛtiḥ pañcadhā smṛtā || 4 || āsāṃ pūjā prasiddhā ca prabhāvaḥ paramād‍bhutaḥ | sudhopamaṃ ca caritaṃ sarvamaṅ‌galakāraṇam || 5 || prakṛtyaṃśāḥ kalā yāśca tāsāṃ ca caritaṃ śubham | sarvaṃ vakṣyāmi te brahman sāvadhāno niśāmaya || 6 || kālī vasundharā gaṅ‌gā ṣaṣṭhī maṅ‌galacaṇḍikā | tulasī manasā nidrā svadhā svāhā ca dakṣiṇā || 7 || saṃkṣiptamāsāṃ caritaṃ puṇyadaṃ śrutisundaram | jīvakarmavipākaṃ ca tacca vakṣyāmi sundaram || 8 || durgāyāścaiva rādhāyā vistīrṇaṃ caritaṃ mahat | tadvatpaścātpravakṣyāmi saṃkṣepakramataḥ śṛṇu || 9 || ādau sarasvatīpūjā śrīkṛṣṇena vinirmitā | yatprasādānmuniśreṣṭha mūrkho bhavati paṇḍitaḥ || 10 || āvirbhūtā yathā devī vaktrataḥ kṛṣṇayoṣitaḥ | iyeṣa kṛṣṇaṃ kāmena kāmukī kāmarūpiṇī || 11 || sa ca vijñāya tad‍bhāvaṃ sarvajñaḥ sarvamātaram | tāmuvāca hitaṃ satyaṃ pariṇāme sukhāvaham || 12 || śrīkṛṣṇa uvāca bhaja nārāyaṇaṃ sādhvi madaṃśaṃ ca caturbhujam | yuvānaṃ sundaraṃ sarvaguṇayuktaṃ ca matsamam || 13 || kāmajñaṃ kāminīnāṃ ca tāsāṃ ca kāmapūrakam | koṭikandarpalāvaṇyaṃ līlālaṅ‌katamīśvaram || 14 || kānte kāntaṃ ca māṃ kṛtvā yadi sthātumihecchasi | tvatto balavatī rādhā na bhadraṃ te bhaviṣyati || 15 || yo yasmād‌ balavānvāpi tato'nyaṃ rakṣituṃ kṣamaḥ | kathaṃ parānsādhayati yadi svayamanīśvaraḥ || 16 || sarveśaḥ sarvaśāstāhaṃ rādhāṃ bādhitumakṣamaḥ | tejasā matsamā sā ca rūpeṇa ca guṇena ca || 17 || prāṇādhiṣṭhātṛdevī sā prāṇāṃstyaktuṃ ca kaḥ kṣamaḥ | prāṇato'pi priyaḥ putraḥ keṣāṃ vāsti ca kaścana || 18 || tvaṃ bhadre gaccha vaikuṇṭhaṃ tava bhadraṃ bhaviṣyati | patiṃ tamīśvaraṃ kṛtvā modasva suciraṃ sukham || 19 || lobhamohakāmakrodhamānahiṃsāvivarjitā | tejasā tvatsamā lakṣmī rūpeṇa ca guṇena ca || 20 || tayā sārdhaṃ tava prītyā śaśvatkālaḥ prayāsyati | gauravaṃ ca haristulyaṃ kariṣyati dvayorapi || 21 || prativiśveṣu tāṃ pūjāṃ mahatīṃ gauravānvitām | māghasya śuklapañcamyāṃ vidyārambhe ca sundari || 22 || mānavā manavo devā munīndrāśca mumukṣavaḥ | vasavo yoginaḥ siddhā nāgā gandharvarākṣasāḥ || 23 || madvareṇa kariṣyanti kalpe kalpe layāvadhi | bhaktiyuktāśca dattvā vai copacārāṇi ṣoḍaśa || 24 || kaṇvaśākhoktavidhinā dhyānena stavanena ca | jitendriyāḥ saṃyatāśca ghaṭe ca pustake'pi ca || 25 || kṛtvā suvarṇaguṭikāṃ gandhacandanacarcitām | kavacaṃ te grahīṣyanti kaṇṭhe vā dakṣiṇe bhuje || 26 || paṭhiṣyanti ca vidvāṃsaḥ pūjākāle ca pūjite | ityuktvā pūjayāmāsa tāṃ devīṃ sarvapūjitām || 27 || tatastatpūjanaṃ cakurbrahmaviṣṇuśivādayaḥ | anantaścāpi dharmaśca munīndrāḥ sanakādayaḥ || 28 || sarve devāśca munayo nṛpāśca mānavādayaḥ | babhūva pūjitā nityaṃ sarvalokaiḥ sarasvatī || 29 || nārada uvāca pūjāvidhānaṃ kavacaṃ dhyānaṃ cāpi nirantaram | pūjopayuktaṃ naivedyaṃ puṣpaṃ ca candanādikam || 30 || vada vedavidāṃ śreṣṭha śrotuṃ kautūhalaṃ mama | vartate hṛdaye śaśvatkimidaṃ śrutisundaram || 31 || śrīnārāyaṇa uvāca śṛṇu nārada vakṣyāmi kaṇvaśākhoktapaddhatim | jaganmātuḥ sarasvatyāḥ pūjāvidhisamanvitām || 32 || māghasya śuklapañcamyāṃ vidyārambhadine'pi ca | pūrve'hni samayaṃ kṛtvā tatrāhni saṃyataḥ śuciḥ || 33 || snātvā nityakriyāḥ kṛtvā ghaṭaṃ saṃsthāpya bhaktitaḥ | svaśākhoktavidhānena tāntrikeṇāthavā punaḥ || 34 || gaṇeśaṃ pūrvamabhyarcya tato'bhīṣṭāṃ prapūjayet | dhyānena vakṣyamāṇena dhyātvā bāhyaghaṭe dhruvam || 35 || dhyātvā punaḥ ṣoḍaṣopacāreṇa pūjayed‌ vratī | pūjopayuktaṃ naivedyaṃ yacca vedanirūpitam || 36 || vakṣyāmi saumya tatkiñcidyathādhītaṃ yathāgamam | navanītaṃ dadhi kṣīraṃ lājāṃśca tilalaḍḍukam || 37 || ikṣumikṣurasaṃ śuklavarṇaṃ pañcaguḍaṃ madhu | svastikaṃ śarkarāṃ śukladhānyasyākṣatamakṣatam || 38 || acchinnaśukladhānyasya pṛthukaṃ śuklamodakam | ghṛtasaindhavasaṃyuktaṃ haviṣyānnaṃ yathoditam || 39 || yavagodhūmacūrṇānāṃ piṣṭakaṃ ghṛtasaṃyutam | piṣṭakaṃ svastikasyāpi pakvarambhāphalasya ca || 40 || paramānnaṃ ca saghṛtaṃ miṣṭānnaṃ ca sudhopamam | nārikelaṃ tadudakaṃ kaseruṃ mūlamārdrakam || 41 || pakvarambhāphalaṃ cāru śrīphalaṃ badarīphalam | kāladeśod‍bhavaṃ cāru phalaṃ śuklaṃ ca saṃskatam || 42 || sugandhaṃ śuklapuṣpaṃ ca sugandhaṃ śuklacandanam | navīnaṃ śuklavastraṃ ca śaṅ‌khaṃ ca sundaraṃ mune || 43 || mālyaṃ ca śuklapuṣpāṇāṃ śuklahāraṃ ca bhūṣaṇam | yādṛśaṃ ca śrutau dhyānaṃ praśasyaṃ śrutisundaram || 44 || tannibodha mahābhāga bhramabhañjanakāraṇam | sarasvatīṃ śuklavarṇāṃ sasmitāṃ sumanoharām || 45 || koṭicandraprabhāmuṣṭapuṣṭaśrīyuktavigrahām | vahniśuddhāṃśukādhānāṃ vīṇāpustakadhāriṇīm || 46 || rat‍nasārendranirmāṇanavabhūṣaṇabhūṣitām | supūjitāṃ suragaṇairbrahmaviṣṇuśivādibhiḥ || 47 || vande bhaktyā vanditāṃ ca munīndramanumānavaiḥ | evaṃ dhyātvā ca mūlena sarvaṃ dattvā vicakṣaṇaḥ || 48 || saṃstūya kavacaṃ dhṛtvā praṇameddaṇḍavad‌bhuvi | yeṣāṃ ceyamiṣṭadevī teṣāṃ nityakriyā mune || 49 || vidyārambhe ca varṣānte sarveṣāṃ pañcamīdine | sarvopayuktaṃ mūlaṃ ca vaidikāṣṭākṣaraḥ paraḥ || 50 || yeṣāṃ yenopadeśo vā teṣāṃ sa mūla eva ca | sarasvatī caturthyantaṃ vahnijāyāntameva ca || 51 || lakṣmīmāyādikaṃ caiva mantro'yaṃ kalpapādapaḥ | purā nārāyaṇaścemaṃ vālmīkāya kṛpānidhiḥ || 52 || pradadau jāhnavītīre puṇyakṣetre ca bhārate | bhṛgurdadau ca śukrāya puṣkare sūryaparvaṇi || 53 || candraparvaṇi mārīco dadau vākpataye mudā | bhṛgoścaiva dadau tuṣṭo brahmā badarikāśrame || 54 || āstikasya jaratkārurdadau kṣīrodasannidhau | vibhāṇḍako dadau merau ṛṣyaśṛṅ‌gāya dhīmate || 55 || śivaḥ kaṇādamunaye gautamāya dadau mudā | sūryaśca yājñavalkyāya tathā kātyāyanāya ca || 56 || śeṣaḥ pāṇinaye caiva bhāradvājāya dhīmate | dadau śākaṭāyanāya sutale balisaṃsadi || 57 || caturlakṣajapenaiva mantraḥ siddho bhavennṛṇām | yadi syānmantrasiddho hi bṛhaspatisamo bhavet || 58 || kavacaṃ śṛṇu viprendra yaddattaṃ brahmaṇā purā | viśvasraṣṭā viśvajayaṃ bhṛgave gandhamādane || 59 || bhṛguruvāca brahmanbrahmavidāṃ śreṣṭha brahmajñānaviśārada | sarvajña sarvajanaka sarveśa sarvapūjita || 60 || sarasvatyāśca kavacaṃ brūhi viśvajayaṃ prabho | ayātayāmaṃ mantrāṇāṃ samūhasaṃyutaṃ param || 61 || brahmovāca śṛṇu vatsa pravakṣyāmi kavacaṃ sarvakāmadam | śrutisāraṃ śrutisukhaṃ śrutyuktaṃ śrutipūjitam || 62 || uktaṃ kṛṣṇena goloke mahyaṃ vṛndāvane vane | rāseśvareṇa vibhunā rāse vai rāsamaṇḍale || 63 || atīva gopanīyaṃ ca kalpavṛkṣasamaṃ param | aśrutād‍bhutamantrāṇāṃ samūhaiśca samanvitam || 64 || yaddhṛtvā bhagavāñchukraḥ sarvadaityeṣu pūjitaḥ | yaddhṛtvā paṭhanād‌ brahman buddhimāṃśca bṛhaspatiḥ || 65 || paṭhanāddhāraṇādvāgmī kavīndro vālmiko muniḥ | svāyambhuvo manuścaiva yaddhṛtvā sarvapūjitaḥ || 66 || kaṇādo gautamaḥ kaṇvaḥ pāṇiniḥ śākaṭāyanaḥ | grandhaṃ cakāra yaddhṛtvā dakṣaḥ kātyāyanaḥ svayam || 67 || dhṛtvā vedavibhāgaṃ ca purāṇānyakhilāni ca | cakāra līlāmātreṇa kṛṣṇadvaipāyanaḥ svayam || 68 || śātātapaśca saṃvarto vasiṣṭhaśca parāśaraḥ | yaddhṛtvā paṭhanād‌ granthaṃ yājñavalkyaścakāra saḥ || 69 || ṛṣyaśṛṅ‌go bharadvājaścāstiko devalastathā | jaigīṣavyo yayātiśca dhṛtvā sarvatra pūjitāḥ || 70 || kavacasyāsya viprendra ṛṣireva prajāpatiḥ | svayaṃ chandaśca bṛhatī devatā śāradāmbikā || 71 || sarvatattvaparijñānasarvārthasādhaneṣu ca | kavitāsu ca sarvāsu viniyogaḥ prakīrtitaḥ || 72 || śrīṃ hrīṃ sarasvatyai svāhā śiro me pātu sarvataḥ | śrīṃ vāgdevatāyai svāhā bhālaṃ me sarvadāvatu || 73 || oṃ hrīṃ sarasvatyai svāheti śrotre pātu nirantaram | oṃ śrīṃ hrīṃ bhagavatyai sarasvatyai svāhā netrayugmaṃ sadāvatu || 74 || aiṃ hrīṃ vāgvādinyai svāhā nāsāṃ me sarvadāvatu | hrīṃ vidyādhiṣṭhātṛdevyai svāhā coṣṭhaṃ sadāvatu || 75 || oṃ śrīṃ hrīṃ brāhmyai svāheti dantapaṃktiṃ sadāvatu | aimityekākṣaro mantro mama kaṇṭhaṃ sadāvatu || 76 || oṃ śrīṃ hrīṃ pātu me grīvāṃ skandhau me śrīṃ sadāvatu | oṃ hrīṃ vidyādhiṣṭhātṛdevyai svāhā vakṣaḥ sadāvatu || 77 || oṃ hrīṃ vidyādhisvarūpāyai svāhā me pātu nābhikām | oṃ hrīṃ klīṃ vāṇyai svāheti mama hastau sadāvatu || 78 || oṃ sarvavarṇātmikāyai svāhā pādayugmaṃ sadāvatu | oṃ vāgadhiṣṭhātṛdevyai svāhā sarvaṃ sadāvatu || 79 || oṃ sarvakaṇṭhavāsinyai svāhā prācyāṃ sadāvatu | oṃ sarvajihvāgravāsinyai svāhāgnidiśi rakṣatu || 80 || oṃ aiṃ hrīṃ klīṃ sarasvatyai budhajananyai svāhā | satataṃ mantrarājo'yaṃ dakṣiṇe māṃ sadāvatu || 81 || aiṃ hrīṃ śrīṃ tryakṣaro mantro nairṛtyāṃ sarvadāvatu | oṃ aiṃ jihvāgravāsinyai svāhā māṃ vāruṇe'vatu || 82 || oṃ sarvāmbikāyai svāhā vāyavye māṃ sadāvatu | oṃ aiṃ śrīṃ klīṃ gadyavāsinyai svāhā māmuttare'vatu || 83 || oṃ aiṃ sarvaśāstravāsinyai svāhaiśānyāṃ sadāvatu | oṃ hrīṃ sarvapūjitāyai svāhā cordhvaṃ sadāvatu || 84 || oṃ hrīṃ pustakavāsinyai svāhādho māṃ sadāvatu | oṃ granthabījasvarūpāyai svāhā māṃ sarvato'vatu || 85 || iti te kathitaṃ vipra brahmamantraughavigraham | idaṃ viśvajayaṃ nāma kavacaṃ brahmarūpakam || 86 || purā śrutaṃ dharmavaktrātparvate gandhamādane | tava snehānmayākhyātaṃ pravaktavyaṃ na kasyacit || 87 || gurumabhyarcya vidhivadvastrālaṅ‌kāracandanaiḥ | praṇamya daṇḍavad‍bhūmau kavacaṃ dhārayetsudhīḥ || 88 || pañcalakṣajapenaiva siddhaṃ tu kavacaṃ bhavet | yadi syātsiddhakavaco bṛhaspatisamo bhavet || 89 || mahāvāgmī kavīndraśca trailokyavijayī bhavet | śaknoti sarvaṃ jetuṃ ca kavacasya prasādataḥ || 90 || idaṃ ca kaṇvaśākhoktaṃ kavacaṃ kathitaṃ mune | stotraṃ pūjāvidhānaṃ ca dhyānaṃ ca vandanaṃ śṛṇu || 91 ||

English translation

1-3. Narada said By your Grace I have heard everything very sweet like nectar, of the origin of things. Now may I ask you which Devi of these five Prakritis has been worshipped by what Mantra? and by whom? How has each of them been praised? and by whom? How has the worship of their Murtis (form) become prevalent in this world? What are the Stotram (hymn of praise), the Dhyan (meditation) glory and life of these? Also what sort of boon do each of the Devis grant? and to whom? Kindly describe all these in detail.

4-29. Narayana said O Child! Durga, the mother of Ganes'a, Radha, Laksmi, Sarasvati and Savitri, these are the five Prakritis sprung directly from Mula Prakriti. The methods of their worship, wonderful glorious acts, excellent stotrams, and their lives, inculcating good to all, and sweet like nectar are all widely written in the Vedas, Puranas, Tantras and other S'astras. So there is no need to describe them here again. Now I am describing in detail the auspicious character of these that are sprung from the parts and Kalas of the Prakriti. Hear attentively. Kali, Vasundhara,

Ganga, Sasthi, Mangal Chandika, Tulasi, Manasa, Nidra, Svadha, Svaha, and Daksina, these are the parts of Prakriti. By and by I will describe, briefly, the merit-giving characters and pleasant to hear. Along with these I will describe the Karmas of the Jivas, and the great exalted lives of Durga and Radha. I am now describing Sarasvati's character. Hear, O Muni! S'ri Krisna introduced first in this Bharata, the worship of the Devi Sarasvati, the holder of Vma in Her hands, under whose influence, the hearts of illiterate stupid persons become illumined with knowledge. The amorous Devi Sarasvati sprang from the end of the lips of Radha and so she desired to marry Krisna out of amorous feelings. S'ri Krisna, the controller of the hearts of all, knew it instantly and addressed the

Mother of the people in true words proper to Her and beneficial to Her in the end. O Chaste One! The four-armed Narayana is born from My parts; He is young, of good features and endowed with all qualifications; so much so, he is like Me. He is a Knower of amorous sentiments of women and He fulfils those desires; what to speak of His beauty, ten millions of the God of love are playing in His body. O Beloved! And if you desire to marry and remain with Me, that will not be of any good to you. For Radha is near to Me; She is more powerful than you. If a man be stronger than another, he can rescue one who takes his shelter; but if he be weaker, how can he then, himself weak, protect his dependant from others. Though I am the Lord of all, and rule all, yet I cannot control Radha. For She is equal to me in power, in beauty, in qualifications, equal to Me in every respect. Again it is impossible for Me to quit Radha for She is the presiding Deity of My life. Who can relinquish life? Though a son is very dear to his father, still it may be questioned, is he dearer than his father's life? So, O Auspicious One! Go to the abode Vaikuntha; you will get your desires fulfilled there. You will get for your husband the Lord of Vaikuntha and you will live ever in peace and enjoy happiness. Though Laksmi is residing there yet like you she is not under the control of lust, anger, greed, delusion and vanity. She is also equal to you in beauty, qualities, and power. So you will live with her in great delight and Hah, the Lord of Vaikuntha, will treat both of you equally. Moreover, I say this in particular that in every universe, on the fifth day of the bright fortnight of the month of Magha, every year, the day when the learning is commenced, a great festival will be held and men, Manus, Devas, and the Munis desirous of liberation, Vasus, Yogis, Nagas, Siddhas, Gandarbhas, Raksasas, all will perform your worship with devotion in every Kalpa till the time of Maha Pralaya comes. All are required to be Jitendriya (having their senses under control) and Samyami (concentrating his mind, and with a religious vow) and they will invoke Thee on a jar or on books and then meditate according to what is stated in the Kanva S'akha of Yajurveda and then worship and sing hymns to Thee. Thy Kavacha (an armour; a mystical syllable ** considered as a preservative like armour) is written on the bark of the Bhurja tree and then with eight

kinds of scents mingled with it is placed within a golden nut or ring named Maduli and then held on the neck or on the right arm. The learned should recite Thy Stotras during worship. Thus saying, the Puran Brahma S'ri Krisna Himself worshipped the Devi Sarasvati. Since then, Brahma, Visnu, Mahes'a, Ananta Deva, Dharma, Sanaka and other Munmdras, all the Devas, Munis, all the kings and all the human beings are worshipping the Devi Sarasvati. O Narada! Thus the worship of the Eternal Devi is made extant in the three worlds.

30-31. Narada said O Chief of the Knowers of the Vedas! Now describe to me the methods of worship, Dhyan, Kavacham, hymns, the appropriate offerings of the Puja flowers, sandalpaste and other good things necessary in these worships and which are so sweet to hear. I am ever very eager and anxious to hear these.

32-59. Narayana said O Narada! I am now stating the method of worship of the Devi Sarasvati, the Mother of the Worlds, according to Kanva S'akha of the Yajurveda. Hear. On the day previous to the fifth day of the bright fortnight of the month of Magh or the day of commencement of education, the devotee should control his senses, concentrate his mind and take his bath. Then he is to perform his daily duties and install the jar (Ghata) with devotion and according to the Mantras of the Kanva S'akha or the Tantra, as the case may be. He is to worship first on that Ghata (jar) Ganapati (Ganes'a), then meditate the Devi Sarasvati as described below, invoke Her and again read the Dhyan and then worship with Sodas'opachara (sixteen good articles offered in the worship). O Good One! Now I am speaking, according to my knowledge, about the offerings as ordained in the Vedas or Tantras. Hear. Fresh butter, curd, thickened milk, rice freed from the husk by frying, sweetmeats (Til Laddu) prepared of Til, sugar cane, sugarcane juice, nice Gud (molasses), honey, svastik, sugar, rice (not broken) out of white Dhan, chipitak of table rice (Alo chal), white Modak, Harbisyanna prepared of boiled

rice with clarified butter and salt, Pistaka of jaoa or wheaten flour, Paramanna with ghee, nectar like sweetmeats, cocoanut, cocoanut water, Svastik Pistaka, Svastik and ripe plantain Pistaka, Kaseru (root), Mula, ginger, ripe plantains, excellent Bel fruit, the jujube fruit, and other appropriate white purified fruits of the season and peculiar to the place are to be offered in the Pooja. O Narada! White flowers of good scent, white sandalpaste of good scent, new white clothes, nice conchshell, nice garlands of white flowers, nice white necklaces, and beautiful ornament are to be given to the Devi. I say now the Dhyanam sweet to hear, of the Devi Sarasvati according to the Vedas, capable to remove errors! Hear. I hereby bow down to the Devi Sarasvati, of a white colour, of a smiling countenance and exceedingly beautiful, the lustre of whose body overpowers that of the ten millions of Moons, whose garment is purified by fire, in whose hands there are Vma and books, who is decorated with new excellent ornaments of jewels and pearls and whom Brahma, Visnu, MahesVara and the other Devas, Munis, Manus and men constantly worship. Thus meditating the Devi, the intelligent persons should offer all articles, after pronouncing the root Mantra. Then he is to hymn and hold Kavacha and make Sastanga pranams before the Devi. O Muni! Those whose Devi Sarasvati is the presiding Deity, are not to be spoken of at all (i.e., they will naturally do all these things and with a greater fervour). Besides all should worship the Devi Sarasvati on the day of commencement of education and every year on the S'ukla Panchami day of the month of Magh. The eight- lettered Mantra, as mentioned in the Vedas is the root Mantra of Sarasvati. (Aim Klim Sarasvatyai namah). Or the Mantra to which each worshipper is initiated is his Mulmantra (not Mantra). Or uttering the Mantra “S'rim Hrim Sarasvatyai Svaha” one is to offer everything to the Devi Sarasvati. This Mantra is the Kalpa Vriksa (i. e., the tree which yields all desires). Narayana, the ocean of mercy, gave in ancient times, this very Mantra to Valmiki in the holy land Bharata Varsa on the banks of the Ganges; next Bhrigu gave this Mantra on the occasion of solar eclipse to Maharsi Sukracharya on the Puskara Tirtha; Maricha gave to Brihaspati on a lunar eclipse; Brahma gave to Bhrigu in the Vadarika As'rama; Jaratkara gave to

Astika on the shore of the Ksiroda ocean; Bibhandaka gave this to the intelligent Risyasringa on the Sumeru mountain, S'iva gave this to Kanada and Gotama, Surya gave to Yajhavalkya and Katyayana, Ananta Deva gave to Panini, to the intelligent Bharadvaja and to S'akatayana in Bali's assembly in the Patala. If this Mantra be repeated four lakhs of times, all men attain success. And when they become Siddhas with this Mantra, they become powerful like Brihaspati. In past times, the Creator Brahma gave a Kavacha named Vis'vajaya to Bhrigu on the Gandhamadana Mountain. I now speak of that. Hear.

60-61. Once on a time Bhrigu asked Brahma the Lord of all, and adored by all, thus “O Brahman! Thou art the foremost of those that know the Vedas; there is none equal to thee in matters regarding the knowledge of the Vedas (so much so that there is nothing that is not known to thee; for all these have sprung from thee). Now say about the Vis'vajaya Kavacha of the Devi Sarasvati, that is excellent, without any faults and embodying in it all the properties of all the Mantras.”

62-91. Brahma said “O Child! What you have asked about the Kavacha of Sarasvati that is sweet to hear, ordained and worshipped by the Vedas, and the giver of all desired fruits, now hear of that. In the very beginning, the all-pervading S'ri Krisna, the Lord of the Rasa circle, mentioned this Kavacha to me in the holy Brindavana forest in the abode Goloka at the time of Rasa in Rasa Mandala.

This is very secret; it is full of holy unheard, wonderful Mantras. Reading this Kavacha and holding it (on one's arm) Brihaspati has become foremost in matters of intelligence; by the force of this Kavacha S'ukracharya has got his ascendancy over the Daityas; the foremost Muni Valmiki has become eloquent and skilled in language and has become Kavmdra and Svayambhuva Manu; holding this Kavacha he has become honoured everywhere. Kanada, Gotama,

Kanva, Panini, S'akatayana, Daksa, and Katyayana all have become great authors by virtue of this Kavacha; Krisna Dvaipayana Veda Vyasa made the classification of the Vedas and composed the eighteen Puranas. S'atatapa, Samvarta, Vas'istha, Parasara and Yajhavalkya had become authors by holding and reading this Sarasvati Kavacha. Risyas'ringa, Bharadvaja, Astika, Devala, Jaigisavya, and Yayati all were honoured everywhere by virtue of this Kavacha. O Dvija! The Prajapati Himself is the Risi of this Kavacha; Brihati is its Chhanda; and S'arada Ambika is its presiding Deity. Its application (Viniyoga) is in the acquisition of spiritual knowlege, in the fruition of any desires or necessities, in composing poems or anywhere wheresoever success is required. May S'rim Hrim Sarasvatyai Svaha protect fully my head; S’rim Vagdevatayai Svaha, my forehead; Om Hrim Sarasvatyai Svaha, my ears always; Om S’rim Hrim Bhagabatyai Sarasvatyai Svaha always my eyes;

Aim Hrim Vagvadinyai Svaha, always my nose; Om Hrim Vidyadhisthatri Devyai Svaha, my lips always; Om S’rim Hrim Brahmyai Svaha my rows of teeth; Aim, this single letter protect my neck; Om S’rim Hrim my throat; S'rim, my shoulders, Om Hrim Vidyadhisthatri Devyai Svaha, always my chest; Om Hrim Vidyadhisvarupayai Svaha my navel; Om Hrim Klim Vanyai Svaha my hands; Om Svarva varnatmi Kayai Svaha my feet; and let Om Vagadhisthatridevyai Svaha protect all my body. Let Om Sarvakanthavasinyai Svaha protect my east; Let Om Svarvajibhagra vasinyai Svaha, the South-east; Om Aim Hrim S’rim Klim Sarasvatyai budhajananyai Svaha, my South; Aim Hrim S’rim, this three lettered Mantra my South-west; Om Aim Jhibhagravasinyai Svaha, my West; Om Svarvam bikayai Svaha, my North west; Om Aim S’rim Klim Gadyavasinyai Svaha my North; Aim Sarvas'astra vasinyai Svaha, my North-east; Om Hrim Sarvapujitayai Svaha, my top; Hrim Pustakavasinyai Svaha my below and let Om Grantha vijasvarupayai Svaha protect all my sides. O Narada! This Vis'vajaya Kavacha of the nature of Brahma and its embodied Mantra I have now spoken to you. I heard this before from the mouth of Dharma Deva in the Gandhamadana mountain. Now I speak this to you out of my great affection for you. But never divulge this to anybody. One

is worship one's spiritual Teacher (Guru Deva) according to due rites and ceremonies with clothings, ornaments, and sandalpaste and then fall down prostrate to him and then hold this Kavacha.

Repeating this five lakhs of times, one gets success and becomes a Siddha. The holder of this Kavacha becomes intelligent like Brihaspati, eloquent, Kavmdras, and the conqueror of the three worlds, no sooner one becomes a Siddiha in this. In fact, he can conquer everything by virtue of this Kavacha. O Muni! Thus I have described to you this Kavacha according to Kanva S'akha. Now I am speaking about the method of worship, Dhyana and the praise of this Kavacha. Hear.

Here ends the Fourth Chapter of the Ninth Book on the hymn, worship and Kavacha of Sarasvati Devi in S'ri Mad Devi Bhagavatam of 18,000 verses by Maharsi Veda Vyasa.

Complete chapter-aligned witnesses. Sanskrit Wikisource page 24489, revision 75059 (2016-07-24T05:52:09Z). English is Swami Vijñanananda’s complete 1921–23 public-domain translation, controlled against the archival OCR and its chapter page at https://sacred-texts.com/hin/db/bk09ch04.htm. Historic spelling and transliteration are lightly normalized; no verse-by-verse alignment is asserted.