First Skandha · Chapter 11
Sourceऋषय ऊचुः कोऽसौ पुरूरवा राजा कोर्वशी देवकन्यका । कथं कष्टं च सम्प्राप्तं तेन राज्ञा महात्मना ॥ १ ॥ सर्वं कथानकं ब्रूहि लोमहर्षणजाधुना । श्रोतुकामा वयं सर्वे त्वन्मुखाब्जच्युतं रसम् ॥ २ ॥ अमृतादपि मिष्टा ते वाणी सूत रसात्मिका । न तृप्यामो वयं सर्वे सुधया च यथामराः ॥ ३ ॥ सूत उवाच शृणुध्वं मुनयः सर्वे कथां दिव्यां मनोरमाम् । वक्ष्याम्यहं यथाबुद्ध्या श्रुतां व्यासवरोत्तमात् ॥ ४ ॥ गुरोस्तु दयिता भार्या तारा नामेति विश्रुता । रूपयौवनयुक्ता सा चार्वङ्गी मदविह्वला ॥ ५ ॥ गतैकदा विधोर्धाम यजमानस्य भामिनी । दृष्टा च शशिनात्यर्थं रूपयौवनशालिनी ॥ ६ ॥ कामातुरस्तदा जातः शशी शशिमुखीं प्रति । सापि वीक्ष्य विधुं कामं जाता मदनपीडिता ॥ ७ ॥ तावन्योन्यं प्रेमयुक्तौ स्मरार्तौ च बभूवतुः । तारा शशी मदोन्मत्तौ कामबाणप्रपीडितौ ॥ ८ ॥ रेमाते मदमत्तौ तौ परस्परस्पृहान्वितौ । दिनानि कतिचित्तत्र जातानि रममाणयोः ॥ ९ ॥ बृहस्पतिस्तु दुःखार्तस्तारामानयितुं गृहम् । प्रेषयामास शिष्यं तु नायाता सा वशीकृता ॥ १० ॥ पुनः पुनर्यदा शिष्यं परावर्तत चन्द्रमाः । बृहस्पतिस्तदा क्रुद्धो जगाम स्वयमेव हि ॥ ११ ॥ गत्वा सोमगृहं तत्र वाचस्पतिरुदारधीः । उवाच शशिनं क्रुद्धः स्मयमानं मदान्वितम् ॥ १२ ॥ किं कृतं किल शीतांशो कर्म धर्मविगर्हितम् । रक्षिता मम भार्येयं सुन्दरी केन हेतुना ॥ १३ ॥ तव देव गुरुश्चाहं यजमानोऽसि सर्वथा । गुरुभार्या कथं मूढ भुक्ता किं रक्षिताथवा ॥ १४ ॥ ब्रह्महा हेमहारी च सुरापो गुरुतल्पगः । महापातकिनो ह्येते तत्संसर्गी च पञ्चमः ॥ १५ ॥ महापातकयुक्तस्त्वं दुराचारोऽतिगर्हितः । न देवसदनार्होऽसि यदि भुक्तेयमङ्गना ॥ १६ ॥ मुञ्चेमामसितापाङ्गीं नयामि सदनं मम । नोचेद्वक्ष्यामि दुष्टात्मन् गुरुदारापहारिणम् ॥ १७ ॥ इत्येवं भाषमाणं तमुवाच रोहिणीपतिः । गुरुं क्रोधसमायुक्तं कान्ताविरहदुःखितम् ॥ १८ ॥ इन्दुरुवाच क्रोधात्ते तु दुराराध्या ब्राह्मणाः क्रोधवर्जिताः । पूजार्हा धर्मशास्त्रज्ञा वर्जनीयास्ततोऽन्यथा ॥ १९ ॥ आगमिष्यति सा कामं गृहं ते वरवर्णिनी । अत्रैव संस्थिता बाला का ते हानिरिहानघ ॥ २० ॥ इच्छया संस्थिता चात्र सुखकामार्थिनी हि सा । दिनानि कतिचित्स्थित्वा स्वेच्छया चागमिष्यति ॥ २१ ॥ त्वयैवोदाहृतं पूर्वं धर्मशास्त्रमतं तथा । न स्त्री दुष्यति चारेण न विप्रो वेदकर्मणा ॥ २२ ॥ इत्युक्तः शशिना तत्र गुरुरत्यन्तदुःखितः । जगाम स्वगृहं तूर्णं चिन्ताविष्टः स्मरातुरः ॥ २३ ॥ दिनानि कतिचित्तत्र स्थित्वा चिन्तातुरो गुरुः । ययावथ गृहं तस्य त्वरितश्चौषधीपतेः ॥ २४ ॥ स्थितः क्षत्रा निषिद्धोऽसौ द्वारदेशे रुषान्वितः । नाजगाम शशी तत्र चुकोपाति बृहस्पतिः ॥ २५ ॥ अयं मे शिष्यतां यातो गुरुपत्नीं तु मातरम् । जग्राह बलतोऽधर्मी शिक्षणीयो मयाधुना ॥ २६ ॥ उवाच वाचं कोपात्तु द्वारदेशस्थितो बहिः । किं शेषे भवने मन्द पापाचार सुराधम ॥ २७ ॥ देहि मे कामिनीं शीघ्रं नोचेच्छापं ददाम्यहम् । करोमि भस्मसान्नूनं न ददासि प्रियां मम ॥ २८ ॥ सूत उवाच क्रूराणि चैवमादीनि भाषणानि बृहस्पतेः । श्रुत्वा द्विजपतिः शीघ्रं निर्गतः सदनाद्बहिः ॥ २९ ॥ तमुवाच हसन्सोमः किमिदं बहु भाषसे । न ते योग्यासितापाङ्गी सर्वलक्षणसंयुता ॥ ३० ॥ कुरूपां च स्वसदृशीं गृहाणान्यां स्त्रियं द्विज । भिक्षुकस्य गृहे योग्या नेदृशी वरवर्णिनी ॥ ३१ ॥ रतिः स्वसदृशे कान्ते नार्याः किल निगद्यते । त्वं न जानासि मन्दात्मन् कामशास्त्रविनिर्णयम् ॥ ३२ ॥ यथेष्टं गच्छ दुर्बुद्धे नाहं दास्यामि कामिनीम् । यच्छक्यं कुरु तत्कामं न देया वरवर्णिनी ॥ ३३ ॥ कामार्तस्य च ते शापो न मां बाधितुमर्हति । नाहं ददे गुरो कान्तां यथेच्छसि तथा कुरु ॥ ३४ ॥ सूत उवाच इत्युक्तः शशिना चेज्यश्चिन्तामाप रुषान्वितः । जगाम तरसा सद्म क्रोधयुक्तः शचीपतेः ॥ ३५ ॥ दृष्ट्वा शतक्रतुस्तत्र गुरुं दुःखातुरं स्थितम् । पाद्यार्घ्याचमनीयाद्यैः पूजयित्वा सुसंस्थितः ॥ ३६ ॥ पप्रच्छ परमोदारस्तं तथावस्थितं गुरुम् । का चिन्ता ते महाभाग शोकार्तोऽसि महामुने ॥ ३७ ॥ केनापमानितोऽसि त्वं मम राज्ये गुरुश्च मे । त्वदधीनमिदं सर्वं सैन्यं लोकाधिपैः सह ॥ ३८ ॥ बह्मा विष्णुस्तथा शम्भुर्ये चान्ये देवसत्तमाः । करिष्यन्ति च साहाय्यं का चिन्ता वद साम्प्रतम् ॥ ३९ ॥ गुरुरुवाच शशिनापहृता भार्या तारा मम सुलोचना । न ददाति स दुष्टात्मा प्रार्थितोऽपि पुनः पुनः ॥ ४० ॥ किं करोमि सुरेशान त्वमेव शरणं मम । साहाय्यं कुरु देवेश दुःखितोऽस्मि शतक्रतो ॥ ४१ ॥ इन्द्र उवाच मा शोकं कुरु धर्मज्ञ दासोऽस्मि तव सुव्रत । आनयिष्याम्यहं नूनं भार्यां तव महामते ॥ ४२ ॥ प्रेषिते चेन्मया दूते न दास्यति मदाकुलः । ततो युद्धं करिष्यामि देवसैन्यैः समावृतः ॥ ४३ ॥ इत्याश्वास्य गुरुं शक्रो दूतं वक्तृविचक्षणम् । प्रेषयामास सोमाय वार्ताशंसिनमद्भुतम् ॥ ४४ ॥ स गत्वा शशिलोकं तु त्वरितः सुविचक्षणः । उवाच वचनेनैव वचनं रोहिणीपतिम् ॥ ४५ ॥ प्रेषितोऽहं महाभाग शक्रेण त्वां विवक्षया । कथितं प्रभुणा यच्च तद्ब्रवीमि महामते ॥ ४६ ॥ धर्मज्ञोऽसि महाभाग नीतिं जानासि सुव्रत । अत्रिः पिता ते धर्मात्मा न निद्यं कर्तुमर्हसि ॥ ४७ ॥ भार्या रक्ष्या सर्वभूतैर्यथाशक्ति ह्यतन्द्रितैः । तदर्थे कलहः कामं भविता नात्र संशयः ॥ ४८ ॥ यथा तव तथा तस्य यत्नः स्याद्दाररक्षणे । आत्मवत्सर्वभूतानि चिन्तय त्वं सुधानिधे ॥ ४९ ॥ अष्टाविंशतिसंख्यास्ते कामिन्यो दक्षजाः शुभाः । गुरुपत्नीं कथं भोक्तुं त्वमिच्छसि सुधानिधे ॥ ५० ॥ स्वर्गे सदा वसन्त्येता मेनकाद्या मनोरमाः । भुंक्ष्व ताः स्वेच्छया कामं मुञ्च पत्नीं गुरोरपि ॥ ५१ ॥ ईश्वरा यदि कुर्वन्ति जुगुप्सितमहन्तया । अज्ञास्तदनुवर्तन्ते तदा धर्मक्षयो भवेत् ॥ ५२ ॥ तस्मान्मुञ्च महाभाग गुरोः पत्नीं मनोरमाम् । कलहस्त्वन्निमित्तोऽद्य सुराणां न भवेद्यथा ॥ ५३ ॥ सूत उवाच सोमः शक्रवचः श्रुत्वा किञ्चित्क्रोधसमाकुलः । भङ्ग्या प्रतिवचः प्राह शक्रदूतं तदा शशी ॥ ५४ ॥ इन्दुरावाच धर्मज्ञोऽसि महाबाहो देवानामधिपः स्वयम् । पुरोधापि च ते तादृग्युवयोः सदृशी मतिः ॥ ५५ ॥ परोपदेशे कुशला भवन्ति बहवो जनाः । दुर्लभस्तु स्वयं कर्ता प्राप्ते कर्मणि सर्वदा ॥ ५६ ॥ बार्हस्पत्यप्रणीतं च शास्त्रं गृह्णन्ति मानवाः । को विरोधोऽत्र देवेश कामयानां भजन्स्त्रियम् ॥ ५७ ॥ स्वकीयं बलिनां सर्वं दुर्बलानां न किञ्चन । स्वीया च परकीया च भ्रमोऽयं मन्दचेतसाम् ॥ ५८ ॥ तारा मय्यनुरक्ता च यथा न तु तथा गुरौ । अनुरक्ता कथं त्याज्या धर्मतो न्यायतस्तथा ॥ ५९ ॥ गृहारम्भस्तु रक्तायां विरक्तायां कथं भवेत् । विरक्तेयं यदा जाता चकमेऽनुजकामिनीम् ॥ ६० ॥ न दास्येऽहं वरारोहां गच्छ दूत वद स्वयम् । ईश्वरोऽसि सहस्राक्ष यदिच्छसि कुरुष्व तत् ॥ ६१ ॥ सूत उवाच इत्युक्तः शशिना दूतः प्रययौ शक्रसन्निधिम् । इन्द्रायाचष्ट तत्सर्वं यदुक्तं शीतरश्मिना ॥ ६२ ॥ तुराषाडपि तच्छ्रुत्वा क्रोधयुक्तो बभूव ह । सेनोद्योगं तथा चक्रे साहाय्यार्थं गुरोर्विभुः ॥ ६३ ॥ शुक्रस्तु विग्रहं श्रुत्वा गुरुद्वेषात्ततो ययौ । मा ददस्वेति तं वाक्यमुवाच शशिनं प्रति ॥ ६४ ॥ साहाय्यं ते करिष्यामि मन्त्रशक्त्या महामते । भविता यदि संग्रामस्तव चेन्द्रेण मारिष ॥ ६५ ॥ शङ्करस्तु तदाकर्ण्य गुरुदाराभिमर्शनम् । गुरुशत्रुं भृगुं मत्वा साहाय्यमकरोत्तदा ॥ ६६ ॥ संग्रामस्तु तदा वृत्तो देवदानवयोर्द्रुतम् । बहूनि तत्र वर्षाणि तारकासुरवत्किल ॥ ६७ ॥ देवासुरकृतं युद्धं दृष्ट्वा तत्र पितामहः । हंसारूढो जगामाशु तं देशं क्लेशशान्तये ॥ ६८ ॥ राकापतिं तदा प्राह मुञ्च भार्यां गुरोरिति । नोचेद्विष्णुं समाहूय करिष्यामि तु संक्षयम् ॥ ६९ ॥ भृगुं निवारयामास ब्रह्मा लोकपितामहः । किमन्यायमतिर्जाता सङ्गदोषान्महामते ॥ ७० ॥ निषेधयामास ततो भृगुस्तं चौषधीपतिम् । मुञ्च भार्यां गुरोरद्य पित्राहं प्रेषितस्तव ॥ ७१ ॥ सूत उवाच द्विजराजस्तु तच्छ्रुत्वा भृगोर्वचनमद्भुतम् । ददौ च तत्प्रियां भार्यां गुरोर्गर्भवतीं शुभाम् ॥ ७२ ॥ प्राप्य कान्तां गुरुर्हृष्टः स्वगृहं मुदितो ययौ । ततो देवास्ततो दैत्या ययुः स्वान्स्वान्गृहान्प्रति ॥ ७३ ॥ ब्रह्मा स्वसदनं प्राप्तः कैलासं चापि शङ्करः । बृहस्पतिस्तु सन्तुष्टः प्राप्य भार्यां मनोरमाम् ॥ ७४ ॥ ततः कालेन कियता तारासूत सुतं शुभम् । सुदिने शुभनक्षत्रे तारापतिसमं गुणैः ॥ ७५ ॥ दृष्ट्वा पुत्रं गुरुर्जातं चकार विधिपूर्वकम् । जातकर्मादिकं सर्वं प्रहृष्टेनान्तरात्मना ॥ ७६ ॥ श्रुतं चन्द्रमसा जन्म पुत्रस्य मुनिसत्तमाः । दूतं च प्रेषयामास गुरुं प्रति महामतिः ॥ ७७ ॥ न चायं तव पुत्रोऽस्ति मम वीर्यसमुद्भवः । कथं त्वं कृतवान्कामं जातकर्मादिकं विधिम् ॥ ७८ ॥ तच्छ्रुत्वा वचनं तस्य दूतस्य च बृहस्पतिः । उवाच मम पुत्रो मे सदृशो नात्र संशयः ॥ ७९ ॥ पुनर्विवादः सञ्जातो मिलिता देवदानवाः । युद्धार्थमागतास्तेषां समाजः समजायत ॥ ८० ॥ तत्रागतः स्वयं ब्रह्मा शान्तिकामः प्रजापतिः । निवारयामास मुखे संस्थितान्युद्धदुर्मदान् ॥ ८१ ॥ तारां पप्रच्छ धर्मात्मा कस्यायं तनयः शुभे । सत्यं वद वरारोहे यथा क्लेशः प्रशाम्यति ॥ ८२ ॥ तमुवाचासितापाङ्गी लज्जमानाप्यधोमुखी । चन्द्रस्येति शनैरन्तर्जगाम वरवर्णिनी ॥ ८३ ॥ जग्राह तं सुतं सोमः प्रहृष्टेनान्तरात्मना । नाम चक्रे बुध इति जगाम स्वगृहं पुनः ॥ ८४ ॥ ययौ ब्रह्मा स्वकं धाम सर्वे देवाः सवासवाः । यथागतं गतं सर्वैः सर्वशः प्रेक्षकैर्जनैः ॥ ८५ ॥ कथितेयं बुधोत्पत्तिर्गुरुक्षेत्रे च सोमतः । यथा श्रुता मया पूर्वं व्यासात्सत्यवतीसुतात् ॥ ८६ ॥
ṛṣaya ūcuḥ ko'sau purūravā rājā korvaśī devakanyakā | kathaṃ kaṣṭaṃ ca samprāptaṃ tena rājñā mahātmanā || 1 || sarvaṃ kathānakaṃ brūhi lomaharṣaṇajādhunā | śrotukāmā vayaṃ sarve tvanmukhābjacyutaṃ rasam || 2 || amṛtādapi miṣṭā te vāṇī sūta rasātmikā | na tṛpyāmo vayaṃ sarve sudhayā ca yathāmarāḥ || 3 || sūta uvāca śṛṇudhvaṃ munayaḥ sarve kathāṃ divyāṃ manoramām | vakṣyāmyahaṃ yathābuddhyā śrutāṃ vyāsavarottamāt || 4 || gurostu dayitā bhāryā tārā nāmeti viśrutā | rūpayauvanayuktā sā cārvaṅgī madavihvalā || 5 || gataikadā vidhordhāma yajamānasya bhāminī | dṛṣṭā ca śaśinātyarthaṃ rūpayauvanaśālinī || 6 || kāmāturastadā jātaḥ śaśī śaśimukhīṃ prati | sāpi vīkṣya vidhuṃ kāmaṃ jātā madanapīḍitā || 7 || tāvanyonyaṃ premayuktau smarārtau ca babhūvatuḥ | tārā śaśī madonmattau kāmabāṇaprapīḍitau || 8 || remāte madamattau tau parasparaspṛhānvitau | dināni katicittatra jātāni ramamāṇayoḥ || 9 || bṛhaspatistu duḥkhārtastārāmānayituṃ gṛham | preṣayāmāsa śiṣyaṃ tu nāyātā sā vaśīkṛtā || 10 || punaḥ punaryadā śiṣyaṃ parāvartata candramāḥ | bṛhaspatistadā kruddho jagāma svayameva hi || 11 || gatvā somagṛhaṃ tatra vācaspatirudāradhīḥ | uvāca śaśinaṃ kruddhaḥ smayamānaṃ madānvitam || 12 || kiṃ kṛtaṃ kila śītāṃśo karma dharmavigarhitam | rakṣitā mama bhāryeyaṃ sundarī kena hetunā || 13 || tava deva guruścāhaṃ yajamāno'si sarvathā | gurubhāryā kathaṃ mūḍha bhuktā kiṃ rakṣitāthavā || 14 || brahmahā hemahārī ca surāpo gurutalpagaḥ | mahāpātakino hyete tatsaṃsargī ca pañcamaḥ || 15 || mahāpātakayuktastvaṃ durācāro'tigarhitaḥ | na devasadanārho'si yadi bhukteyamaṅganā || 16 || muñcemāmasitāpāṅgīṃ nayāmi sadanaṃ mama | nocedvakṣyāmi duṣṭātman gurudārāpahāriṇam || 17 || ityevaṃ bhāṣamāṇaṃ tamuvāca rohiṇīpatiḥ | guruṃ krodhasamāyuktaṃ kāntāvirahaduḥkhitam || 18 || induruvāca krodhātte tu durārādhyā brāhmaṇāḥ krodhavarjitāḥ | pūjārhā dharmaśāstrajñā varjanīyāstato'nyathā || 19 || āgamiṣyati sā kāmaṃ gṛhaṃ te varavarṇinī | atraiva saṃsthitā bālā kā te hānirihānagha || 20 || icchayā saṃsthitā cātra sukhakāmārthinī hi sā | dināni katicitsthitvā svecchayā cāgamiṣyati || 21 || tvayaivodāhṛtaṃ pūrvaṃ dharmaśāstramataṃ tathā | na strī duṣyati cāreṇa na vipro vedakarmaṇā || 22 || ityuktaḥ śaśinā tatra gururatyantaduḥkhitaḥ | jagāma svagṛhaṃ tūrṇaṃ cintāviṣṭaḥ smarāturaḥ || 23 || dināni katicittatra sthitvā cintāturo guruḥ | yayāvatha gṛhaṃ tasya tvaritaścauṣadhīpateḥ || 24 || sthitaḥ kṣatrā niṣiddho'sau dvāradeśe ruṣānvitaḥ | nājagāma śaśī tatra cukopāti bṛhaspatiḥ || 25 || ayaṃ me śiṣyatāṃ yāto gurupatnīṃ tu mātaram | jagrāha balato'dharmī śikṣaṇīyo mayādhunā || 26 || uvāca vācaṃ kopāttu dvāradeśasthito bahiḥ | kiṃ śeṣe bhavane manda pāpācāra surādhama || 27 || dehi me kāminīṃ śīghraṃ nocecchāpaṃ dadāmyaham | karomi bhasmasānnūnaṃ na dadāsi priyāṃ mama || 28 || sūta uvāca krūrāṇi caivamādīni bhāṣaṇāni bṛhaspateḥ | śrutvā dvijapatiḥ śīghraṃ nirgataḥ sadanādbahiḥ || 29 || tamuvāca hasansomaḥ kimidaṃ bahu bhāṣase | na te yogyāsitāpāṅgī sarvalakṣaṇasaṃyutā || 30 || kurūpāṃ ca svasadṛśīṃ gṛhāṇānyāṃ striyaṃ dvija | bhikṣukasya gṛhe yogyā nedṛśī varavarṇinī || 31 || ratiḥ svasadṛśe kānte nāryāḥ kila nigadyate | tvaṃ na jānāsi mandātman kāmaśāstravinirṇayam || 32 || yatheṣṭaṃ gaccha durbuddhe nāhaṃ dāsyāmi kāminīm | yacchakyaṃ kuru tatkāmaṃ na deyā varavarṇinī || 33 || kāmārtasya ca te śāpo na māṃ bādhitumarhati | nāhaṃ dade guro kāntāṃ yathecchasi tathā kuru || 34 || sūta uvāca ityuktaḥ śaśinā cejyaścintāmāpa ruṣānvitaḥ | jagāma tarasā sadma krodhayuktaḥ śacīpateḥ || 35 || dṛṣṭvā śatakratustatra guruṃ duḥkhāturaṃ sthitam | pādyārghyācamanīyādyaiḥ pūjayitvā susaṃsthitaḥ || 36 || papraccha paramodārastaṃ tathāvasthitaṃ gurum | kā cintā te mahābhāga śokārto'si mahāmune || 37 || kenāpamānito'si tvaṃ mama rājye guruśca me | tvadadhīnamidaṃ sarvaṃ sainyaṃ lokādhipaiḥ saha || 38 || bahmā viṣṇustathā śambhurye cānye devasattamāḥ | kariṣyanti ca sāhāyyaṃ kā cintā vada sāmpratam || 39 || gururuvāca śaśināpahṛtā bhāryā tārā mama sulocanā | na dadāti sa duṣṭātmā prārthito'pi punaḥ punaḥ || 40 || kiṃ karomi sureśāna tvameva śaraṇaṃ mama | sāhāyyaṃ kuru deveśa duḥkhito'smi śatakrato || 41 || indra uvāca mā śokaṃ kuru dharmajña dāso'smi tava suvrata | ānayiṣyāmyahaṃ nūnaṃ bhāryāṃ tava mahāmate || 42 || preṣite cenmayā dūte na dāsyati madākulaḥ | tato yuddhaṃ kariṣyāmi devasainyaiḥ samāvṛtaḥ || 43 || ityāśvāsya guruṃ śakro dūtaṃ vaktṛvicakṣaṇam | preṣayāmāsa somāya vārtāśaṃsinamadbhutam || 44 || sa gatvā śaśilokaṃ tu tvaritaḥ suvicakṣaṇaḥ | uvāca vacanenaiva vacanaṃ rohiṇīpatim || 45 || preṣito'haṃ mahābhāga śakreṇa tvāṃ vivakṣayā | kathitaṃ prabhuṇā yacca tadbravīmi mahāmate || 46 || dharmajño'si mahābhāga nītiṃ jānāsi suvrata | atriḥ pitā te dharmātmā na nidyaṃ kartumarhasi || 47 || bhāryā rakṣyā sarvabhūtairyathāśakti hyatandritaiḥ | tadarthe kalahaḥ kāmaṃ bhavitā nātra saṃśayaḥ || 48 || yathā tava tathā tasya yatnaḥ syāddārarakṣaṇe | ātmavatsarvabhūtāni cintaya tvaṃ sudhānidhe || 49 || aṣṭāviṃśatisaṃkhyāste kāminyo dakṣajāḥ śubhāḥ | gurupatnīṃ kathaṃ bhoktuṃ tvamicchasi sudhānidhe || 50 || svarge sadā vasantyetā menakādyā manoramāḥ | bhuṃkṣva tāḥ svecchayā kāmaṃ muñca patnīṃ gurorapi || 51 || īśvarā yadi kurvanti jugupsitamahantayā | ajñāstadanuvartante tadā dharmakṣayo bhavet || 52 || tasmānmuñca mahābhāga guroḥ patnīṃ manoramām | kalahastvannimitto'dya surāṇāṃ na bhavedyathā || 53 || sūta uvāca somaḥ śakravacaḥ śrutvā kiñcitkrodhasamākulaḥ | bhaṅgyā prativacaḥ prāha śakradūtaṃ tadā śaśī || 54 || indurāvāca dharmajño'si mahābāho devānāmadhipaḥ svayam | purodhāpi ca te tādṛgyuvayoḥ sadṛśī matiḥ || 55 || paropadeśe kuśalā bhavanti bahavo janāḥ | durlabhastu svayaṃ kartā prāpte karmaṇi sarvadā || 56 || bārhaspatyapraṇītaṃ ca śāstraṃ gṛhṇanti mānavāḥ | ko virodho'tra deveśa kāmayānāṃ bhajanstriyam || 57 || svakīyaṃ balināṃ sarvaṃ durbalānāṃ na kiñcana | svīyā ca parakīyā ca bhramo'yaṃ mandacetasām || 58 || tārā mayyanuraktā ca yathā na tu tathā gurau | anuraktā kathaṃ tyājyā dharmato nyāyatastathā || 59 || gṛhārambhastu raktāyāṃ viraktāyāṃ kathaṃ bhavet | virakteyaṃ yadā jātā cakame'nujakāminīm || 60 || na dāsye'haṃ varārohāṃ gaccha dūta vada svayam | īśvaro'si sahasrākṣa yadicchasi kuruṣva tat || 61 || sūta uvāca ityuktaḥ śaśinā dūtaḥ prayayau śakrasannidhim | indrāyācaṣṭa tatsarvaṃ yaduktaṃ śītaraśminā || 62 || turāṣāḍapi tacchrutvā krodhayukto babhūva ha | senodyogaṃ tathā cakre sāhāyyārthaṃ gurorvibhuḥ || 63 || śukrastu vigrahaṃ śrutvā gurudveṣāttato yayau | mā dadasveti taṃ vākyamuvāca śaśinaṃ prati || 64 || sāhāyyaṃ te kariṣyāmi mantraśaktyā mahāmate | bhavitā yadi saṃgrāmastava cendreṇa māriṣa || 65 || śaṅkarastu tadākarṇya gurudārābhimarśanam | guruśatruṃ bhṛguṃ matvā sāhāyyamakarottadā || 66 || saṃgrāmastu tadā vṛtto devadānavayordrutam | bahūni tatra varṣāṇi tārakāsuravatkila || 67 || devāsurakṛtaṃ yuddhaṃ dṛṣṭvā tatra pitāmahaḥ | haṃsārūḍho jagāmāśu taṃ deśaṃ kleśaśāntaye || 68 || rākāpatiṃ tadā prāha muñca bhāryāṃ guroriti | nocedviṣṇuṃ samāhūya kariṣyāmi tu saṃkṣayam || 69 || bhṛguṃ nivārayāmāsa brahmā lokapitāmahaḥ | kimanyāyamatirjātā saṅgadoṣānmahāmate || 70 || niṣedhayāmāsa tato bhṛgustaṃ cauṣadhīpatim | muñca bhāryāṃ guroradya pitrāhaṃ preṣitastava || 71 || sūta uvāca dvijarājastu tacchrutvā bhṛgorvacanamadbhutam | dadau ca tatpriyāṃ bhāryāṃ gurorgarbhavatīṃ śubhām || 72 || prāpya kāntāṃ gururhṛṣṭaḥ svagṛhaṃ mudito yayau | tato devāstato daityā yayuḥ svānsvāngṛhānprati || 73 || brahmā svasadanaṃ prāptaḥ kailāsaṃ cāpi śaṅkaraḥ | bṛhaspatistu santuṣṭaḥ prāpya bhāryāṃ manoramām || 74 || tataḥ kālena kiyatā tārāsūta sutaṃ śubham | sudine śubhanakṣatre tārāpatisamaṃ guṇaiḥ || 75 || dṛṣṭvā putraṃ gururjātaṃ cakāra vidhipūrvakam | jātakarmādikaṃ sarvaṃ prahṛṣṭenāntarātmanā || 76 || śrutaṃ candramasā janma putrasya munisattamāḥ | dūtaṃ ca preṣayāmāsa guruṃ prati mahāmatiḥ || 77 || na cāyaṃ tava putro'sti mama vīryasamudbhavaḥ | kathaṃ tvaṃ kṛtavānkāmaṃ jātakarmādikaṃ vidhim || 78 || tacchrutvā vacanaṃ tasya dūtasya ca bṛhaspatiḥ | uvāca mama putro me sadṛśo nātra saṃśayaḥ || 79 || punarvivādaḥ sañjāto militā devadānavāḥ | yuddhārthamāgatāsteṣāṃ samājaḥ samajāyata || 80 || tatrāgataḥ svayaṃ brahmā śāntikāmaḥ prajāpatiḥ | nivārayāmāsa mukhe saṃsthitānyuddhadurmadān || 81 || tārāṃ papraccha dharmātmā kasyāyaṃ tanayaḥ śubhe | satyaṃ vada varārohe yathā kleśaḥ praśāmyati || 82 || tamuvācāsitāpāṅgī lajjamānāpyadhomukhī | candrasyeti śanairantarjagāma varavarṇinī || 83 || jagrāha taṃ sutaṃ somaḥ prahṛṣṭenāntarātmanā | nāma cakre budha iti jagāma svagṛhaṃ punaḥ || 84 || yayau brahmā svakaṃ dhāma sarve devāḥ savāsavāḥ | yathāgataṃ gataṃ sarvaiḥ sarvaśaḥ prekṣakairjanaiḥ || 85 || kathiteyaṃ budhotpattirgurukṣetre ca somataḥ | yathā śrutā mayā pūrvaṃ vyāsātsatyavatīsutāt || 86 ||
English translation
1-86. The Risis said “O Suta! Who is that King Pururava? and who is the Deva girl Urvas'i? And how did that high-souled King Pururava conne into trouble? O son of Lomaharsana! Kindly describe now all these to me. We are now desirous to hear sweet words from the lotus of your mouth. O Suta! Your words are sweeter and more full of juice than nectar even; so we are not satiated by hearing them as gods are not satiated with the drink of nectar.”
Hearing this Suta said O Munis! I am now telling you, as far as my intelligence goes, what I heard from the mouth of S'ri Vyasa. Now hear that beautiful divine incident.
Once on a time the exceedingly beautiful dear wife of Brihaspati, named Tara, full of youth and beauty, of the most beautiful limbs and intoxicated with pride went to the house of Chandra Deva (the Moon), the yajaman (Employer of priest Brihaspati at any sacrifice) of Brihaspati. Seeing Tara of beautiful face like Moon, the Moon became very passionate; Tara also fell amorous at the sight of Moon. Thus both of them became very much passionately attached to each other. Then they, the Moon and Tara, being smitten by the arrows of Cupid and intoxicated with amorous passions began their sexual intercourse with reciprocal feelings of passionate love. Some days passed in this state. Brihaspati, then, being distressed with the pang of separation from his wife, sent his pupil to bring back Tara; but Tara was then submissive of Chandra and therefore refused to come. Brihaspati sent over and over again his pupil and when Chandra Deva returned the messenger, Brihaspati became very angry and went personally to Chandra's house and spoke angrily to the Moon who was puffed up with arrogance and somewhat smiling “O Moon! Why are you committing this vicious act, contrary to Dharma? Why are you keeping my beautiful wife in your house? I am your Guru; you are my client; O stupid! why are you enjoying your Guru's wife and keeping her in custody in your house? Do you
not know that he who kills a Brahman, who steals gold, who drinks, who goes to wife of one's Guru are Mahapatakis (great sinners) and those who keep company of these are the fifth Mahapatakis? Therefore if you had enjoyed my wife, you are exceedingly vicious, blameable and a Mahapataki (great sinner); you are not fit to live amongst the Devas. O wicked one! Now I say that even now you better forsake Tara, who is of a blue colour and whose look is askance; I won't go from here without having Tara. And if you do not give back Tara, then you are certainly with her and undoubtedly I will curse you. When Brihaspati said so, Chandra, the husband of Rohini, spoke to his Guru Deva, who was very angry, sorry and afflicted at the separation from his beloved wife, thus In this world, the Brahmins that know the Dharma S'astras, that are devoid of anger, are fit to be worshipped; and those that are not so, they are objects of disrespect and not to be worshipped by all for their anger. O sinless one! The beautiful one will surely go to your house; what harm is there to you, if she waits here for a few days?
She is staying here of her own accord to enjoy pleasures and will go back of her own will. One word more You gave out before this opinion of the Dharma S'astras that as a Brahman though guilty of committing vicious deeds, becomes pure again by the practice of Karmas as enjoined in the Vedas, so a woman, too, though guilty of adultery, becomes pure again when she is again in the period of her menstruation. At these words of Chandra Deva, Brihaspati, the Guru of the Devas, became exceedingly sorry and anxious and went back immediately to his own house, with a grievous heart, full of amorous feelings. After staying in his own house for some days Brihaspati, worn out with anxiety, came again quickly to the house of Chandra; but, no sooner he was to enter the gate, he was stopped by the door-keepers; he became very angry and stopped at the gate way. And when he saw that Chandra did not make his appearance, he became exceedingly angry and thought“Oh! What a wonder is this? this irreligious Chandra, being my disciple, has done this vicious act and took by violence the wife of his Guru, who is reckoned as the mother; and I will now teach him a good lesson.”
standing on the entrance gate way Brihaspati began to speak aloud “O stupid, vicious, vilest of the Devas! Why do you now sleep in your inner room? Do return quickly my wife; else I will curse you at once. In case you do not bring me back my wife at once, I will now reduce you to ashes.” Hearing these foul words of Brihaspati, Chandra Deva the king of the Dvijas, quickly came out of the house and said smiling “O Brahmin! Why are you spending your stock of words for nothing? That all-auspicious lady, of a blue colour and looking askance, is not fit for you; therefore take another comparatively uglier woman for your use. Exceedingly youthful and lovely woman like her is not fit for a beggar's house. O stupid one! I see, you don't know anything about the Kama S'astra (the book that dwells on amorous passion); those wise men who are skilled in this S'astra assign for the women, their lovers equivalent to their beauty in matters of amorous dealings. So, O stupid man! go away wherever you like. I won't give you back your wife. Do whatever lies in your power. I won't return your wife. When you have become passionate, your curse won't affect me in any way. This I say finally unto you “O Guru! I will not give you back your wife; do what you wish.” Thus spoken by Chandra, Brihaspati became vary anxious and angry; he then went away quickly to the Indra's house.
Seeing Guru Deva morose and sorry, the very liberal minded Indra Deva worshipped him duly with padya, arghya, and Achamaniya and asked “O highly fortunate one! Why do you look so anxious? O great Muni! Why are you grievous and sorry? You are my Guru; is it that you are insulted by any one in my kingdom; say freely. All the Regents of the several quarters (the Lokapalas) and all the Deva armies are under your command. Brahma, Visnu, and Mahes'var and other Devas are ready to lend you every assistance, no doubt. So say what is the cause of your anxiety?” Hearing these words of Indra, Brihaspati said “Chandra has stolen my beautiful-eyed wife. I asked for her, again and again, but that wicked soul is not returning me my wife at all. O Lord of the Devas! What am I to do now? You are my help and guide. O S'atakratu! You are the lord of the Devas; therefore I pray to you with a very grievous heart, help me in this
matter.” Hearing this, Indra said “O knower of Dharma! Do not be sorry. O Suvrata! I am your servant. O highly intelligent one! Surely I will bring you back your wife. I will send a messenger and even then if Chandra, mad with pride, do not return your wife, I will wage war with him and fight against him, with all our Deva armies.” Thus consoling Brihaspati, Indra sent a very clever man, who was a good speaker and wonderful in his capabilities, to Chandra. The clever and wise messenger went to the Chandra Loka (the region of the Moon) and spoke to Chandra, the husband of Rohini, thus “O Mahabhaga! Indra has sent me to you to communicate his message to you. So O intelligent one! I will tell you what he has ordered me; hear.” He said “O highly fortunate one! You know well Dharma and Niti S'astra (the science of morals); the more so, because the virtuous Maharsi Atri is your father. Therefore, O Suvrata! You ought not to commit such blameable act. See, all beings should protect their own wives always without remaining idle to the best of their powers; therefore, no doubt, quarrels would ensue necessarily on that point. O Sudhanidhi! as far as this point of protecting one's wife is concerned, your Guru Deva ought also to do his best. You ought to consider all persons like your own self.
O Sudhakara! You have got twenty-eight exceedingly beautiful wives, who are the daughters of Daksa; why then do you desire to enjoy the wife of your Guru? The beautiful Apsaras (celestial nymphs) Menaka and others are always residing in the Heavens; you can enjoy them to your heart's content; leave off the wife of your Guru. In case any powerful man commits an unworthy act out of egoism, the illiterate ones would follow them; so the Dharma will decline. Therefore, O highly lucky one! Do such as does not lead, for nothing, quarrels amongst the gods and leave your Guru's wife, even beautiful.” Hearing these words from the messenger, the Moon (Chandra Deva) became somewhat angry and, making gestures, replied to the messenger, as if to Indra, thus
O mighty armed one! As you yourself are the lord of the Devas and the knower of Dharma, so your priest, too, has become like you; the
head of both of you are the same. You will find many that can show their learning and give advice to others, but you will find always very rare such persons as will act themselves to their own advices when occasion arises and wants them to fulfil their own words. O Lord of the Devas! All the persons take the opinion of the S'astras framed by Brihaspati then why the quarrel would ensue with me and the Devas when I an enjoying, according to his dictates, a woman who is herself willing? See also, that the rule in this world is might is right; all things go to the powerful man who can take by force; nothing falls to the lot of the weak; moreover this woman is mine and that woman is of another, this false notion comes to those whose brains are weak. When Tara, is so much attached to me and is not at all attached to Brihaspati, the above rule applicable to me all the more; how then can I quit the lady so much attached to me, according to the laws of Dharma and the morals? You can see also, that happiness reigns in that family where the wife is according to the will of the husband; how, then, can the household happiness exist when the lady of the house is always dissatisfied? Therefore the household happiness of the Guru is impossible as Tara is dissatified with Brihaspati since he enjoyed the wife of his younger brother Samvarta. Then the result comes to this, O thousand eyed one! How have you come to be thousand eyed! However that may be, you are the lord of the Devas; you can do whatever you like. O messenger! go and tell your lord of the Devas all that I have spoken; I will not return by any means that beautiful Tara.
When Chandra spoke thus, the messenger went back to Indra and communicated to him all that Chandra Deva had spoken. Hearing this, Indra became angry and ordered all the Deva forces to be ready at once. Hearing this news of war, S'ukracharya, out of enmity to Brihaspati, went to Chandra and spoke thus “O highly intelligent one! never return Tara; in case if war ensues between you and Indra, I will help you by my Mantra-S'akti.” On the other hand, Bhagavan S'ankara, hearing of the vicious act of Chandra's, taking his Guru's wife, and knowing that S'ukracharya was the enemy of Brihaspati, came to the assistance of the Devas. The great war.
then, ensued between the Devas like the terrific war of Tarakasura; it continued for many years. Then the grandfather Brahma, seeing the great havoc in the lives of the Devas and Asuras, came there on his vahan Hamsa, to secure peace and talked to Chandra “Quit the Guru's wife; if not, I will call Visnu and destroy all of you party.” He also desisted the son of Bhrigu, S'ukracharya, saying “O highly intelligent one! why has this wicked idea possessed your mind? Is it due to the bad association?” Then S'ukracharya also told Chandra, the lord of the medicinal plants, not to wage war and said “Better quit you now the Guru's wife. Your father Maharsi Atri has sent me to you for this purpose.” Chandra, then, hearing the strange words of S'ukracharya, returned to Brihaspati his wife Tara, though she was not satisfied with him and became herself pregnant.
Brihaspati returned with joy to his house, accompanied by his wife; the Devas and Danavas went away to their respective places. Brahma went to Brahmaloka and S'ankara went to Kailas'a.
Brihaspati began to pass his time happily with his beautiful wife; Some days went away when the wife of Brihaspati, Tara, gave birth to an all-auspicious son, having all the qualities of Chandra, on an auspicious day and under the influence of an auspicious star; seeing this new-born child, Brihaspati gladly performed the natal ceremonies of the child. Hearing that a son is born to him, Chandra sent a messenger to Brihaspati saying that “That the child is not his; but it is born out of the semen of mine; why, then, have you performed the natal ceremonies out of your own will?” Hearing these words of Chandra's messenger, Brihaspati said “No, this child is mine, no doubt, as he resembles quite like me.” When Brihaspati said this, war again ensued. The Devas and Danavas met each other again in battle field; and councils of war were held. Then, for the preservation of peace, Prajapati Brahma went there; and before all desisted the Devas; and Danavas, mad for war, and ready to fight against each other. Brahma, then, asked Tara “O auspicious one! say truly whose child is this? O beautiful one! if you say truly, then this war resulting in the loss of so many lives, will cease.” The
handsome Tara, looking askance, lowered her head with shame and gently spoke to Brahma “This is the Chandra's child” and went inside. Chandra Deva, then, became very glad and took the child, put down its name as Budha and carried it, to his own house. Bhagavan Brahma, Indra and the other Devas went back to their respective places. All the spectators went also to their own places whence they came. O Munis! I have now described the birth of Budha, as the son of Chandra and in the womb of Brihaspati's wife, as I heard it from the mouth of Vyasa Deva, the son of Satyavati.
Thus ends the eleventh chapter of the 1st Skandha on the birth of Budha in the Mahapurana S'ri Mad Devi Bhagavatam of 18,000 verses by Maharsi Veda Vyas.
Complete chapter-aligned witnesses. Sanskrit Wikisource page 24708, revision 75553 (2016-08-03T06:05:02Z). English is Swami Vijñanananda’s complete 1921–23 public-domain translation, controlled against the archival OCR and its chapter page at https://sacred-texts.com/hin/db/bk01ch11.htm. Historic spelling and transliteration are lightly normalized; no verse-by-verse alignment is asserted.