Skip to main content

Third Night · Chapter 15

Chapter 15

Unit 38 of 60Third Night · Chapter 15Third Night · Chapter 151 source entries

Third Night · Chapter 15

Source

पञ्चदशो’ध्यायः अथ पूजा-होम-विधिः श्री-व्यास उवाच— वक्ष्ये’क्षय-धनावाप्त्यै प्रतिपत्तिꣳ श्रियः पतेः । सुगुप्ताꣳ धन-नाथाद्यैर् धन्यैर् या क्रियते सदा ॥१॥ द्वारवत्याꣳ सहस्रार्क-भास्वरैर् भवनोत्तमैः । अनल्पैः कल्प-वृक्षैश् च परीते मण्डपोत्तमे ॥२॥ ज्वलद्-रत्न-मय-स्तम्भ-द्वार-तोरण-कुड्यके । फुल्ल-स्रग्-उल्लसच्-चित्र-वितानालम्बि-मौक्तिके ॥३॥ पद्म-राग-स्थली-राजद्-रत्न-नद्योश् च मध्यतः । अनारत-गलद्-रत्न-सुधस्य स्वस्-तरोर् अधः ॥४॥ रत्न-प्रदीपावलिभिः प्रदीपित-दिग्-अन्तरे । उद्यद्-आदित्य-सङ्काशे मणि-सिꣳहासनाम्बुजे ॥५॥ समासीनो’च्युतो ध्येयो द्रुत-हाटक-सꣳनिभः । समानोदित-चन्द्रार्क-तडित्-कोटि-सम-द्युतिः ॥६॥ सर्वाङ्ग-सुन्दरः सौम्यः सर्वाभरण-भूषितः । पीत-वासाश् चक्र-शङ्ख-गदा-पद्मोज्ज्वलद्-भुजः ॥७॥ अनारतोच्छ्लद्-रत्न-धारौध-कलशꣳ स्पृशन् । वाम-पादाम्बुजाग्रेण मुष्णता पल्लव-च्छविम् ॥८॥ रुक्मिणी-सत्यभामे’स्य मूर्ध्नि-रत्नौघ-धारया । सिञ्चन्त्यौ दक्ष-वाम-स्थे स्व-दोः-स्थ-कलशोत्थया ॥९॥ नाग्नजिती सुनन्दा च दिशन्त्या कलशौ तयोः । ताभ्याꣳ च दक्ष-वाम-स्थे मित्रविन्दा-सुलक्ष्मणे ॥१०॥ रत्न-द्यासमुद्धृत्य रत्न-पूर्णौ घटौ तयोः । जाम्बवती-सुशीला च दिशन्त्यौ दक्ष-वाम-गे ॥११॥ बहिः षोडश-साहस्र-सङ्ख्याताः परितः स्त्रियः । ध्येयाः सकल-रत्नाउघ-धारयुक् कलशोज्ज्वला ॥१२॥ तद् बहिश् चाष्ट-निधयः पूरयन्तओ धनैर् धराम् । तद्-बहिर् वृष्णयः सर्वे पुरोवच् च सुरादयः ॥१३॥ ध्यात्वैवꣳ परमात्मानꣳ विꣳसत्य्-अर्णꣳ मनुꣳ जपेत् । चतुर्-लक्षꣳ हुनेद् आज्यैश् चत्वारिꣳशत्-सहस्रकम् ॥१४॥ शक्ति-श्री-पूर्वको’ष्टादशार्णो विꣳशति-वर्णकः । मत्रेणानेन सदृशो मनुर् नहि जगत् त्रये ॥१५॥ ऋषिर् ब्रह्मा च गायत्री-च्छन्दः कृष्णस् तु देवता । पूर्वोक्तवद् एवास्य बीज-शक्त्य्-आदि-कल्पना ॥१६॥ कल्पः सनत्-कुमारोक्तो मन्त्रस्यास्योच्यते’धुना । पीठ-न्यासादिकꣳ कृत्वा पूर्वोक्त-क्रमतः सुधीः ॥१७॥ कर-द्वन्द्वाङ्गुलि-तलेष्व् अङ्ग-षट्कꣳ प्रविन्यसेत् । मन्त्रेण व्यापकꣳ कृत्वा मातृकाꣳ मनु-सम्पुटाम् ॥१८॥ सꣳहार-सृष्टि-मार्गेण दश-तत्त्वानि विन्यसेत् । पुनश् च व्यापकꣳ कृत्वा मन्त्र-वर्णास् तनौ न्यसेत् ॥१९॥ मूर्ध्नि भाले भ्रुवोर् मध्ये नेत्रयोः कर्णयोर् नसोः । आनने चिबुके कण्ठे दोर्-मूले हृदि तन्दुके ॥२०॥ नाभौ लिङ्गे तथाधारे कट्योर् जान्वोश् च जङ्घयोः । गुल्फयोः पादयोर् न्यसेत् सृष्टिर् एषा समीरिता ॥२१॥ स्थितिर् हृद्-आदिकꣳ सान्ता सꣳहृतिश् चरणादिका । विधायैवꣳ पञ्च-कृत्वः स्थित्य्-अन्तꣳ मूर्ति-पञ्जरम् ॥२२॥ सृष्टि-स्थिती च विन्यस्य षड्-अङ्ग-न्यासम् आचरेत् । गुणाग्नि-वेद-करण-करणाक्ष्य्-अक्षरैर् मनोः ॥२३॥ मुद्राꣳ बद्द्वा किरीटाख्याꣳ दिग्-बन्धꣳ पूर्ववच् चरेत् । ध्यात्वा जप्त्वार्चयेद् देहे मूर्ति-पञ्जर-पूर्वकम् ॥२४॥ अथवा ह्ये’र्चयेद् विष्णुꣳ तद्-अर्थꣳ यन्त्रम् उच्यते । गोमयेनोपलिप्योर्वीꣳ तत्र पीठꣳ निधापयेत् ॥२५॥ विलिप्य गन्ध-पङ्केन लिखेद् अष्ट-दलाम्बुजम् । कर्णिकायाꣳ तु षट्-कोणꣳ स-साध्यꣳ तत्र मन्मथम् ॥२६॥ शिष्टैस् तꣳ सप्तदशभिर् अक्षरैर् वेष्टयेत् स्मरम् । प्राग्-रक्षो’निल-कोणेषु श्रियꣳ शिष्टेषु सꣳविदम् ॥२७॥ षड्-अक्षरꣳ सन्धिषु च केशरेषु त्रिशस् त्रिशः । विलिखेत् स्मर-गायत्रीꣳ माला-मन्त्रꣳ दलाष्टके ॥२८॥ षड्शः सꣳलिख्य तद्-बाह्ये वेष्टयेन् मातृकाक्षरैः । भू-बिम्बꣳ च लिखेद् बाह्ये श्री-माये दिग्-विदिक्ष्व् अपि ॥२९॥ एतद्-यन्त्रꣳ हाटकादि-पट्टेष्व् आलिख्य पूर्ववत् । साधितꣳ धारयेद् यो वै सो’र्च्येत त्रदशैर् अपि ॥३०॥ स्याद् गायत्री काम-देव-पुष्प-बाणौ च ङे’न्तकौ । विद्महे-धीमहि-युतौ तन् नो’ङ्गः प्रचोदयात् ॥३१॥ जप्याज् जपादौ गोपाल-मनूनाꣳ जन-रञ्जनीम् । नत्य्-अन्ते काम-देवाय ङे’न्तꣳ सर्व-जन-प्रियम् ॥३२॥ उक्त्वा सर्व-जनान्ते तु सꣳमोहन-पदꣳ तथा । ज्वल ज्वल प्रज्वलेति प्रोक्तो सर्व-जनस्य च ॥३३॥ हृदयꣳ च मम ब्रूयात् वशꣳ कुरु-युगꣳ शिरः । प्रोक्तो मदन-मन्त्रो’ष्त-चत्वारिꣳशद्भिर् अक्षरैः ॥३४॥ जपादौ मार-बीजाद्यो जगत्-त्रय-वशीकरः । भू-गृहꣳ चतुरस्रꣳ स्यात् कोण-वज्राद्य्-अलङ्कृतम् ॥३५॥ पीठꣳ पूर्ववद् अभ्यर्च्य मूर्ति-सङ्कल्प्य पौरषीम् । तत्रावाह्याच्युतꣳ भक्त्या सकलीकृत्य पूजयेत् ॥३६॥ आसनादि भूषणान्तꣳ पुनर् न्यास-क्रमात् यजेत् । सृष्टि-स्थिती षड्-अङ्गꣳ च किरीटꣳ कुण्डल-द्वयम् ॥३७॥ चक्र-शङ्ख-गदा-पद्म-माला-श्रीवत्स-कौस्तुभान् । गन्धाक्षत-प्रसूनैश् च मूलेनाभ्यर्च्य पूर्ववत् ॥३८॥ आदौ वह्नि-पुर-द्वन्द्व-कोणेष्व् अङ्गानि पूजयेत् । सहृच्-छिरः शिखावर्मनेत्रमन्त्रम् इति क्रमात् ॥३९॥ वासुदेवः सङ्कर्षणः प्रद्य्म्नश् चानिरुद्धकः । अग्न्य्-आदि-दल-मूलेषु शान्तिः श्रीश् च सरस्वती ॥४०॥ रतिश् च दिग्-दलेष्व् अर्च्यास् ततो’ष्तौ महिषीर् यजेत् । रुक्मिण्य्-आद्या दक्ष-सव्ये क्रमात् पत्राग्रकेषु च ॥४१॥ ततः षोडश-साहस्रꣳ सकृद् एवार्चयेत् प्रियाः । इन्द्रनील-मुकुन्दाद्यान् मकरानङ्ग-कच्छपान् ॥४२॥ पद्म-शङ्खादिकाꣳश् चापि निधीन् अष्टौ क्रमाद् यजेत् । तद् बहिश् चेन्द्र-वज्राद् ये आवृती सम्प्रपूजयेत् ॥४३॥ इति सप्तावृत्ति-वृतम् अभ्यर्च्याच्युतम् आदरात् । प्रीणयेद् दधि-खण्डाज्य-मिश्रेण तु पयो’न्धसा ॥४४॥ राजोपचारꣳ दत्त्वाथ स्तुत्वा नत्वा च केशवम् । उद्वासयेत् स्व-हृदये परिवार-गणैः सह ॥४५॥ न्यस्त्वात्मानꣳ समभ्यर्च्य तन्-मयः प्रजपेन् मनुम् । रत्नाभिषेक-ध्यानेज्या-विꣳशत्य्-अर्णाश्रितेरिता ॥४६॥ जप-होमार्चनैर् ध्यानैर् यो’मुꣳ प्रभजते मनुम् । तद् वेश्म पूर्यते रत्नैः स्वर्ण-धान्यैर् अनारतम् ॥४७॥ पृथ्वी पृथ्वी करे तस्य सवसस्य् अकुलाकुला । पुत्रैर् मित्रैः सुसम्पन्नः प्रयात्य् अन्ते पराꣳ गतिम् ॥४८॥ वह्नाव् अभ्यर्च्य गोविन्दꣳ शुक्ल-पुष्पैः स-तण्डुलैः । आज्याक्तैर् अयुतꣳ हुत्वा भस्म तन्-मूर्ध्नि धारयेत् ॥४९॥ तस्यान्नादि-समृद्धिः स्यात् तद्-वशे सर्व-योषितः । आज्यैर् लक्षꣳ हुनेद् रक्त-पद्मैर् वा मधुराप्लुतैः ॥५०॥ श्रिया तस्यैन्द्रम् ऐश्वर्यꣳ तृणलेशायते ध्रुवम् । शुक्लादि-वस्त्र-लाभाय शुक्लादि-कुसुमैर् हुनेत् ॥५१॥ त्रिमध्वक्तैर् दश-शतम् आज्याक्तैर् वाष्ट-सꣳयुतम् । क्षौद्र-सिक्तैः सितैः पुष्पैर् अष्टोत्तर-सहस्रकम् ॥५२॥ हुनेन् नित्यꣳ स षड्-मासान् पुरोधा नृपतेर् भवेत् । दशाष्टादश-वर्णोक्तꣳ जप-ध्यान-हुतादिकम् ॥५३॥ विदध्यात् कर्म चानेन ताभ्याम् अप्य् अत्र कीर्तितम् । वाग्-भावꣳ मार-बीजꣳ च कृष्णाय भुवन्श्वरी ॥५४॥ गोविन्दाय रमा गोपी-जन-वल्लभ ङे शिरः । चतिर्दश-स्वरोपेतः शुक्रः सन्दी तद् ऊर्ध्वतः ॥५५॥ द्वाविꣳशत्य्-अक्षरो मन्त्रो वाग्-ईशत्व-प्रदायकः । अष्टादशार्णवत् सर्वꣳ षड्-ऊष्यादिकम् अस्य तु ॥५६॥ पूजा च विꣳशत्य्-अर्णोक्ता प्रतिपत्तिस् तु कथ्यते । वामोर्ध्व-हस्ते दधतꣳ विद्या-सर्वस्व-पुस्तकम् ॥५७॥ अक्ष-मालाꣳ च दक्षोर्ध्वे स्फाटिकीꣳ मातृका-मयीम् । शब्द-ब्रह्म-मयꣳ वेत्थम् अधः पाणि-द्वयोर् इतम् ॥५८॥ बर्हि-बर्ह-कृतोत्तꣳसꣳ सर्वज्ञꣳ सर्व-वेदिभिः ॥५९॥ उपासितꣳ मुनि-गणैर् उपतिष्ठेद् धरिꣳ सदा । ध्यात्वैवꣳ प्रमदावेश-विलास-भवनेश्वरम् ॥६०॥ चतुर्लक्षꣳ जपेन् मन्त्रम् इमꣳ मन्त्री सुसꣳयतः । पालाश-पुष्पैः स्वाद्वक्तैश् चत्वारिꣳशत् सहस्रकम् ॥६१॥ जुहुयात् कर्मणानेन ततः सिद्धो भवेद् ध्रुवम् । यो’स्मिन् निष्णात-धीर् मन्त्री वर्तते बभ्रुगद्दवात् ॥६२॥ गद्य-पद्य-मयी वाणी तस्य गङ्गा-प्रवाहवत् । सर्व-वेदेषु शास्त्रेषु पुराणेषु च पण्डितः ॥६३॥ सम्पत्तिꣳ परमाꣳ लब्ध्वा चान्ते याति परꣳ पदम् । श्री-शक्ति-स्मर-कृष्णाय गोविन्दाय शिरो मनुः ॥६४॥ रव्य्-अर्णो ब्रह्म-गायत्री-कृष्ण-र्ष्य्-आदिर् अथास्य तु । बीजैस् त्रिवेद-युग्मार्णैर् अङ्ग-षट्कम् इहोदितम् ॥६५॥ विꣳशत्य्-अर्णोदित-जप-ध्यान-होमार्चन-क्रियाः । मन्त्रो’यꣳ सकलैश्वर्य-काङ्क्षिभिः सेव्यताम्बुधैः ॥६६॥ श्री-शक्ति-काम-पूर्वो’ङ्गजन्म-शक्ति-रमान्तकः । दशाक्षरः सरावादौ स्याच् चेच् छक्ति-रमा-युतः ॥६७॥ मन्त्रौ विकृतिर् अव्यर्णावाचक्राद्य्-अङ्गिनाव् इमौ । विꣳशत्य्-अर्णोक्त-यजन-विधौ ध्यायेद् अथाच्युतम् ॥६८॥ वरदाभय-हस्ताभ्याꣳ श्लिष्यन्तꣳ स्वाङ्कगे प्रिये । पद्मोत्पल-करे ताभ्याꣳ श्लिष्टꣳ चक्र-दरोज्ज्वलम् ॥६९॥ दश-लक्षꣳ जपेद् आज्यैस् तावत्-सहस्र-होमतः । सिद्धाव् इमौ मनू सर्व-सम्पत्-सौभाग्यदौ नृणाम् ॥७०॥ मार-शक्ति-रमा-पूर्वः शक्ति-श्री-मार-पूर्वकः । एतेषाꣳ मनु-वर्याणाम् अङ्ग-र्ष्यादि-दशार्णवत् ॥७१॥ शङ्ख-चक्र-धनुर्-बाण-पाशाङ्कुश-धरो’रुणः । वेणुꣳ धमन् धृतꣳ दोर्भ्याꣳ कृष्णो ध्येयो दिवाकरे ॥७२॥ आद्ये मनौ ध्यानम् एवꣳ द्वितीये विꣳशद्-अर्णवत् । दशार्णवत् तृतीये’ङ्ग-दिक्-पालाद्यैः समर्चना ॥७३॥ पञ्च-लक्षꣳ जपेत् तावद् अयुतꣳ पायसैर् हुनेत् । ततः सिध्यन्ति मनवो नृणाꣳ सम्पत्ति-कान्ति-दाः ॥७४॥ इति श्री-नारद-पञ्चरात्रे ज्ञानामृत-सारे तृतीय-रात्रे मन्त्र-पूजा-होम-विधि-विषयकः पञ्चदशो’ध्यायः ॥१५॥ समाप्तश् चेदꣳ तृतीय-रात्रम् … चतुर्थ-रात्रे

pañcadaśo’dhyāyaḥ atha pūjā-homa-vidhiḥ śrī-vyāsa uvāca— vakṣye’kṣaya-dhanāvāptyai pratipattiṁ śriyaḥ pateḥ | suguptāṁ dhana-nāthādyair dhanyair yā kriyate sadā ||1|| dvāravatyāṁ sahasrārka-bhāsvarair bhavanottamaiḥ | analpaiḥ kalpa-vṛkṣaiś ca parīte maṇḍapottame ||2|| jvalad-ratna-maya-stambha-dvāra-toraṇa-kuḍyake | phulla-srag-ullasac-citra-vitānālambi-mauktike ||3|| padma-rāga-sthalī-rājad-ratna-nadyoś ca madhyataḥ | anārata-galad-ratna-sudhasya svas-taror adhaḥ ||4|| ratna-pradīpāvalibhiḥ pradīpita-dig-antare | udyad-āditya-saṅkāśe maṇi-siṁhāsanāmbuje ||5|| samāsīno’cyuto dhyeyo druta-hāṭaka-saṁnibhaḥ | samānodita-candrārka-taḍit-koṭi-sama-dyutiḥ ||6|| sarvāṅga-sundaraḥ saumyaḥ sarvābharaṇa-bhūṣitaḥ | pīta-vāsāś cakra-śaṅkha-gadā-padmojjvalad-bhujaḥ ||7|| anāratocchlad-ratna-dhāraudha-kalaśaṁ spṛśan | vāma-pādāmbujāgreṇa muṣṇatā pallava-cchavim ||8|| rukmiṇī-satyabhāme’sya mūrdhni-ratnaugha-dhārayā | siñcantyau dakṣa-vāma-sthe sva-doḥ-stha-kalaśotthayā ||9|| nāgnajitī sunandā ca diśantyā kalaśau tayoḥ | tābhyāṁ ca dakṣa-vāma-sthe mitravindā-sulakṣmaṇe ||10|| ratna-dyāsamuddhṛtya ratna-pūrṇau ghaṭau tayoḥ | jāmbavatī-suśīlā ca diśantyau dakṣa-vāma-ge ||11|| bahiḥ ṣoḍaśa-sāhasra-saṅkhyātāḥ paritaḥ striyaḥ | dhyeyāḥ sakala-ratnāugha-dhārayuk kalaśojjvalā ||12|| tad bahiś cāṣṭa-nidhayaḥ pūrayantao dhanair dharām | tad-bahir vṛṣṇayaḥ sarve purovac ca surādayaḥ ||13|| dhyātvaivaṁ paramātmānaṁ viṁsaty-arṇaṁ manuṁ japet | catur-lakṣaṁ huned ājyaiś catvāriṁśat-sahasrakam ||14|| śakti-śrī-pūrvako’ṣṭādaśārṇo viṁśati-varṇakaḥ | matreṇānena sadṛśo manur nahi jagat traye ||15|| ṛṣir brahmā ca gāyatrī-cchandaḥ kṛṣṇas tu devatā | pūrvoktavad evāsya bīja-śakty-ādi-kalpanā ||16|| kalpaḥ sanat-kumārokto mantrasyāsyocyate’dhunā | pīṭha-nyāsādikaṁ kṛtvā pūrvokta-kramataḥ sudhīḥ ||17|| kara-dvandvāṅguli-taleṣv aṅga-ṣaṭkaṁ pravinyaset | mantreṇa vyāpakaṁ kṛtvā mātṛkāṁ manu-sampuṭām ||18|| saṁhāra-sṛṣṭi-mārgeṇa daśa-tattvāni vinyaset | punaś ca vyāpakaṁ kṛtvā mantra-varṇās tanau nyaset ||19|| mūrdhni bhāle bhruvor madhye netrayoḥ karṇayor nasoḥ | ānane cibuke kaṇṭhe dor-mūle hṛdi tanduke ||20|| nābhau liṅge tathādhāre kaṭyor jānvoś ca jaṅghayoḥ | gulphayoḥ pādayor nyaset sṛṣṭir eṣā samīritā ||21|| sthitir hṛd-ādikaṁ sāntā saṁhṛtiś caraṇādikā | vidhāyaivaṁ pañca-kṛtvaḥ sthity-antaṁ mūrti-pañjaram ||22|| sṛṣṭi-sthitī ca vinyasya ṣaḍ-aṅga-nyāsam ācaret | guṇāgni-veda-karaṇa-karaṇākṣy-akṣarair manoḥ ||23|| mudrāṁ baddvā kirīṭākhyāṁ dig-bandhaṁ pūrvavac caret | dhyātvā japtvārcayed dehe mūrti-pañjara-pūrvakam ||24|| athavā hye’rcayed viṣṇuṁ tad-arthaṁ yantram ucyate | gomayenopalipyorvīṁ tatra pīṭhaṁ nidhāpayet ||25|| vilipya gandha-paṅkena likhed aṣṭa-dalāmbujam | karṇikāyāṁ tu ṣaṭ-koṇaṁ sa-sādhyaṁ tatra manmatham ||26|| śiṣṭais taṁ saptadaśabhir akṣarair veṣṭayet smaram | prāg-rakṣo’nila-koṇeṣu śriyaṁ śiṣṭeṣu saṁvidam ||27|| ṣaḍ-akṣaraṁ sandhiṣu ca keśareṣu triśas triśaḥ | vilikhet smara-gāyatrīṁ mālā-mantraṁ dalāṣṭake ||28|| ṣaḍśaḥ saṁlikhya tad-bāhye veṣṭayen mātṛkākṣaraiḥ | bhū-bimbaṁ ca likhed bāhye śrī-māye dig-vidikṣv api ||29|| etad-yantraṁ hāṭakādi-paṭṭeṣv ālikhya pūrvavat | sādhitaṁ dhārayed yo vai so’rcyeta tradaśair api ||30|| syād gāyatrī kāma-deva-puṣpa-bāṇau ca ṅe’ntakau | vidmahe-dhīmahi-yutau tan no’ṅgaḥ pracodayāt ||31|| japyāj japādau gopāla-manūnāṁ jana-rañjanīm | naty-ante kāma-devāya ṅe’ntaṁ sarva-jana-priyam ||32|| uktvā sarva-janānte tu saṁmohana-padaṁ tathā | jvala jvala prajvaleti prokto sarva-janasya ca ||33|| hṛdayaṁ ca mama brūyāt vaśaṁ kuru-yugaṁ śiraḥ | prokto madana-mantro’ṣta-catvāriṁśadbhir akṣaraiḥ ||34|| japādau māra-bījādyo jagat-traya-vaśīkaraḥ | bhū-gṛhaṁ caturasraṁ syāt koṇa-vajrādy-alaṅkṛtam ||35|| pīṭhaṁ pūrvavad abhyarcya mūrti-saṅkalpya pauraṣīm | tatrāvāhyācyutaṁ bhaktyā sakalīkṛtya pūjayet ||36|| āsanādi bhūṣaṇāntaṁ punar nyāsa-kramāt yajet | sṛṣṭi-sthitī ṣaḍ-aṅgaṁ ca kirīṭaṁ kuṇḍala-dvayam ||37|| cakra-śaṅkha-gadā-padma-mālā-śrīvatsa-kaustubhān | gandhākṣata-prasūnaiś ca mūlenābhyarcya pūrvavat ||38|| ādau vahni-pura-dvandva-koṇeṣv aṅgāni pūjayet | sahṛc-chiraḥ śikhāvarmanetramantram iti kramāt ||39|| vāsudevaḥ saṅkarṣaṇaḥ pradymnaś cāniruddhakaḥ | agny-ādi-dala-mūleṣu śāntiḥ śrīś ca sarasvatī ||40|| ratiś ca dig-daleṣv arcyās tato’ṣtau mahiṣīr yajet | rukmiṇy-ādyā dakṣa-savye kramāt patrāgrakeṣu ca ||41|| tataḥ ṣoḍaśa-sāhasraṁ sakṛd evārcayet priyāḥ | indranīla-mukundādyān makarānaṅga-kacchapān ||42|| padma-śaṅkhādikāṁś cāpi nidhīn aṣṭau kramād yajet | tad bahiś cendra-vajrād ye āvṛtī samprapūjayet ||43|| iti saptāvṛtti-vṛtam abhyarcyācyutam ādarāt | prīṇayed dadhi-khaṇḍājya-miśreṇa tu payo’ndhasā ||44|| rājopacāraṁ dattvātha stutvā natvā ca keśavam | udvāsayet sva-hṛdaye parivāra-gaṇaiḥ saha ||45|| nyastvātmānaṁ samabhyarcya tan-mayaḥ prajapen manum | ratnābhiṣeka-dhyānejyā-viṁśaty-arṇāśriteritā ||46|| japa-homārcanair dhyānair yo’muṁ prabhajate manum | tad veśma pūryate ratnaiḥ svarṇa-dhānyair anāratam ||47|| pṛthvī pṛthvī kare tasya savasasy akulākulā | putrair mitraiḥ susampannaḥ prayāty ante parāṁ gatim ||48|| vahnāv abhyarcya govindaṁ śukla-puṣpaiḥ sa-taṇḍulaiḥ | ājyāktair ayutaṁ hutvā bhasma tan-mūrdhni dhārayet ||49|| tasyānnādi-samṛddhiḥ syāt tad-vaśe sarva-yoṣitaḥ | ājyair lakṣaṁ huned rakta-padmair vā madhurāplutaiḥ ||50|| śriyā tasyaindram aiśvaryaṁ tṛṇaleśāyate dhruvam | śuklādi-vastra-lābhāya śuklādi-kusumair hunet ||51|| trimadhvaktair daśa-śatam ājyāktair vāṣṭa-saṁyutam | kṣaudra-siktaiḥ sitaiḥ puṣpair aṣṭottara-sahasrakam ||52|| hunen nityaṁ sa ṣaḍ-māsān purodhā nṛpater bhavet | daśāṣṭādaśa-varṇoktaṁ japa-dhyāna-hutādikam ||53|| vidadhyāt karma cānena tābhyām apy atra kīrtitam | vāg-bhāvaṁ māra-bījaṁ ca kṛṣṇāya bhuvanśvarī ||54|| govindāya ramā gopī-jana-vallabha ṅe śiraḥ | catirdaśa-svaropetaḥ śukraḥ sandī tad ūrdhvataḥ ||55|| dvāviṁśaty-akṣaro mantro vāg-īśatva-pradāyakaḥ | aṣṭādaśārṇavat sarvaṁ ṣaḍ-ūṣyādikam asya tu ||56|| pūjā ca viṁśaty-arṇoktā pratipattis tu kathyate | vāmordhva-haste dadhataṁ vidyā-sarvasva-pustakam ||57|| akṣa-mālāṁ ca dakṣordhve sphāṭikīṁ mātṛkā-mayīm | śabda-brahma-mayaṁ vettham adhaḥ pāṇi-dvayor itam ||58|| barhi-barha-kṛtottaṁsaṁ sarvajñaṁ sarva-vedibhiḥ ||59|| upāsitaṁ muni-gaṇair upatiṣṭhed dhariṁ sadā | dhyātvaivaṁ pramadāveśa-vilāsa-bhavaneśvaram ||60|| caturlakṣaṁ japen mantram imaṁ mantrī susaṁyataḥ | pālāśa-puṣpaiḥ svādvaktaiś catvāriṁśat sahasrakam ||61|| juhuyāt karmaṇānena tataḥ siddho bhaved dhruvam | yo’smin niṣṇāta-dhīr mantrī vartate babhrugaddavāt ||62|| gadya-padya-mayī vāṇī tasya gaṅgā-pravāhavat | sarva-vedeṣu śāstreṣu purāṇeṣu ca paṇḍitaḥ ||63|| sampattiṁ paramāṁ labdhvā cānte yāti paraṁ padam | śrī-śakti-smara-kṛṣṇāya govindāya śiro manuḥ ||64|| ravy-arṇo brahma-gāyatrī-kṛṣṇa-rṣy-ādir athāsya tu | bījais triveda-yugmārṇair aṅga-ṣaṭkam ihoditam ||65|| viṁśaty-arṇodita-japa-dhyāna-homārcana-kriyāḥ | mantro’yaṁ sakalaiśvarya-kāṅkṣibhiḥ sevyatāmbudhaiḥ ||66|| śrī-śakti-kāma-pūrvo’ṅgajanma-śakti-ramāntakaḥ | daśākṣaraḥ sarāvādau syāc cec chakti-ramā-yutaḥ ||67|| mantrau vikṛtir avyarṇāvācakrādy-aṅgināv imau | viṁśaty-arṇokta-yajana-vidhau dhyāyed athācyutam ||68|| varadābhaya-hastābhyāṁ śliṣyantaṁ svāṅkage priye | padmotpala-kare tābhyāṁ śliṣṭaṁ cakra-darojjvalam ||69|| daśa-lakṣaṁ japed ājyais tāvat-sahasra-homataḥ | siddhāv imau manū sarva-sampat-saubhāgyadau nṛṇām ||70|| māra-śakti-ramā-pūrvaḥ śakti-śrī-māra-pūrvakaḥ | eteṣāṁ manu-varyāṇām aṅga-rṣyādi-daśārṇavat ||71|| śaṅkha-cakra-dhanur-bāṇa-pāśāṅkuśa-dharo’ruṇaḥ | veṇuṁ dhaman dhṛtaṁ dorbhyāṁ kṛṣṇo dhyeyo divākare ||72|| ādye manau dhyānam evaṁ dvitīye viṁśad-arṇavat | daśārṇavat tṛtīye’ṅga-dik-pālādyaiḥ samarcanā ||73|| pañca-lakṣaṁ japet tāvad ayutaṁ pāyasair hunet | tataḥ sidhyanti manavo nṛṇāṁ sampatti-kānti-dāḥ ||74|| iti śrī-nārada-pañcarātre jñānāmṛta-sāre tṛtīya-rātre mantra-pūjā-homa-vidhi-viṣayakaḥ pañcadaśo’dhyāyaḥ ||15|| samāptaś cedaṁ tṛtīya-rātram … caturtha-rātre

English translation

CHAPTER XV

Other secret matters regarding Sri Krgna, the husband of Kamala for attaining undying wealth and on mantra, Puja and Homa.

Sri Vyasa said:—To attain undying wealth, I will now describe very secret rhatters and rules regarding Sri Krsna, as showing His mercy. Here Kuvera and others are necessarily worshipped. qi)

There are in the city of Dvarakd, many houses shining like thousand suns and sufficient lots of Kalpavrksa trees, interspersed in the hall built of precious gems and stones. (2)

The dazzling jewel pillar in that city and on the outside smiling sweet garlands of flowers and clothes adorned with various gems and jewels are looking exceedingly beautiful’ (3)

Close by the Padmaraga country, a river all of gems is flowing and there the gems are constantly coming out. Consequently the ladies there for the bath are being troubled with the bindings of their clothing being constantly loosened. (4)

It was looking very grand when all sides were illuminated with rows of lamps, all made of gems and jewels ; and the rays of the

rising Sun and on the throne also, all built of jewels and gems. (5)

There on the throne, was sitting Sri Krsna of the golden

colour and shining like millions of rising moons, suns, and lightnings. (6)

All the parts of His body were all beautiful without any defect, He looked polite and modest and was adorned with all

ornaments. He was wearing yellow robe and there were conchshell, discus, club and lotus in His hands. (7)

The Third Night, ch, XV 229

n His left foot, touching

Invoking Him ought to be done 0 g and built of gems and

with its fore part the jar always shinin jewels. (8)

re fetching water in that jar and

Rukmini and Satyabhama we: g water on His

were standing on His right and left side and pourin head and inaugurating Him. (9)

Nagnajiti and Sunanda, and Mitrabinda an behind them. (10)

From that. jewel river Jambuvati and S them, filling with water the jar already containing 8°

d Sulaksana were

sila were following ms and

jewels. (1)

On the outer court sixteen thousan meditation and desirous of inaugurating from the jars field with gems and jewels.

d women were merged in i Krsna with water

(12)

On the outside court, the Vrsni people got astanid sorts of gems) in full quantities with them and, coming forward, were distributing them to those who were begging wealth. (13) hest Spirit, the devotee, devotee bas to times with ghee

his (special

Thus meditating Sri Krsna, the Hig ghould commence making japams. Here the perform homa and japam forty thousand (clarified butter). (14)

The eighteen letered mantra with Srim an giddhis of the three worlds. (15)

The Rsi (Seer) of this mantra is B Gayatri, the Devata is Sri Krgna and Vv thought of as before. (16) ;

Now is being stated the mantra, decla the pitha nyasa etc., should be performed before. (17)

The Sadanga nyisa on the two ny’sa are to be first performed ; then ma performed with the above mantra. (18)

According to the rules of Samhara and Srsti_ nyasa,

d Hrim is for ail the

rahm4, the chanda is jja and Sakti should be

at Kumara ;

red by Sani er as stated

in due ord

hands ; and the Vyapaka trka samputa is to be

arrange

230 Narada Pajicaratrans

ten tattvas in proper positions on the body and then Iccate the mantra varnas within the body. (19)

Perform ny4sa as in sristi nyasa, on head, forehead, between the eye brows, eyes, ears, nose, face, cheeks, arms, breast, lips (beak), navel, organ of gene:ation, waist. things, shanks, heels and feet. (20-21)

Make Sthiti nyasa five times in the heart etc., and Sambrti nyasa five times on feet etc. and meditate five times. Thus sthityanta-Murti-Panjara-nydsa (up to the end of sthiti) are per formed. (22)

After performing srsji and sthitinydsa, the Sadanga nydasa is to be performed. The mantras tobe used here are the three lettered, four, five, seven, or eleven lettered mantras. @3)

Making Kirita mudra, make digbandhana as before and meditate as stated before. Then worship the Body in Murti Panjara. (24)

Or in case of worshipping Visnu. the mantra will be as follows. Plaster the earth with cow-dung and locate pitha (place of worship raised) in this. (25)

After applying sandalpaste and other necessary things, draw the eight petalled, lotus, and within the Karnika (pericarp) draw the hexagonal figure, and try your best to invoke therein the Deva Manmatha (Kama Deva). (26)

And encircle it well with seventeen letters and on the east, south-west (nairrit) and south-east (agni) corners write clearly the seed mantra of Sri (i.e. Srim). (27)

And within the sandhi (connecting link) and Kesgara (the filament of a flower) write three times each the six-lettered mantra and on the sight petals write the Kama gdyatri mala. (28)

On the outer door (court) write vija mantra six times eachy encircle it with matrka letters and on all sides of the petals on the outside, mark the image of the earth (bhaibimba). (29)

F Whoever writing this mantra on a gold plate practises Sadhana or holds it (on his body) and keeps it, he is worshipped. by the Gods even who are worshipped by all, (30)

The Thi, . e "rd Night, Ch. XV 235

: Devaya Vidmahe, puspabauaya Dhimahi, O Kama calle ad direct our understandings to Him (goodness)—this is the Kama Gayatri. (3!)

pee Peat this Gayatri, and, before repeating the Gopala mantra, this ‘‘Janaranjanadyai Kama Devaya Sarvajanapriyaya

namah.’? (32)

jvala jvala

‘Uttering the above say ‘“Sarvajana Sammohana » Thus the

an prajvala hridayam mama Vasam Kuru Siva y eight lettered Kama mantra will be completed. (33-34)

Before the commencement of japam write down the seed of der control, on the

Kama mantra, that brings the three worl s un i ground and encircle it with square yantra and adorn it with eight vajras (asta vajra). (35)

Worship the pitha as before and make sankalpa with paurust mantra and invoke the Deva Acyuta with devotion. Thus the worship will now be duly effected in all actions (that follow) (36)

Make nydsa again from 4sana (seat) up 0 eae (ornaments) and worship as before with mula mantra the con shell, discus, club, lotus garlands, the sign §ri_ Vatsa,

etc. scents. flowers and rice. (37) e corners:

First worship properly the Anga Devatas in all th commencing from the South-East, etc, then purify head, tuft of hair on the head, coat of armour, eye» order. (39)

In this mantra Vasudeva, Samkargana, Pradyumn’ Agni etc., are located in the centre of the petals, ao

And Santi, Laksmi and Sarasvati aad Rati are located at een several petals presided by the quarters of the sky. Next the eight queens are to be worshipped. Rukmini and others will be seated on the ends of the leaves on the right and on the left side only. (41)

Next sixteen thousand queens are to be worshipped 3 after-

wards Indra, etc., Mukunda etc., Makarananda and tortcise etc., are to be worshipped. (42)

Aniruddha,

232 Narada Paficardtram

Afterwards Samkha, Padma and the eight Nidhis (treasures)

are worshipped in due order ; Indravajra and other attendants, is worshipped (next) on the outside. (43)

Thus when the Deva Acyuta with seven avaranas are worshipped with great love, perform tarpanam with water mixed with curd, milk, sugarcandy and ghee. (44)

Offer to Sri Kegava at royal offering ; sing hymns to Him and bow down to Him and then locate Sri Krsna with his relations etc. in your heart. (45)

After assigning the soul to its Proper place and worshipping it duly and making oneself one with it, repeat and make japam of the twenty-lettered mila-mantra after inst

alling with gems and meditating it. (46)

Whoever worships this mantra with japam, homa, puja

{worship), and meditation, gets his house always filled with gems, gold, and corns duly. (47)

The world comes under him; all the corns are under his

control and he is surrounded with sons and friends 3; and in the €nd he attains the best goal. (48)

Worship Govinda in Fire with white flowers and perform Homa ten thous on the head. (49)

» Tice and ghee; and times, and hold the ashes thereof

; He will thus have his food increa his control, and, in this matte Jakh times with ghee (or red

sed and all the women under

T, he will have to perform homa one lotus) with honey. (50)

He is to perform homa daily with honey and ghee three times

and with sugar and honey one thousand and eight times. Thus he will become the priest of a King. He is to mutter the ten-lettered

The Third Night, Ch. XV

233 and eighteen lettered mantra, to meditate and perform homa, etc, accordingly. (52-53)

Next the following mantras are to be muttered Aim, Klim Krsnaya brim govindaya ram Gopijana ballabhaya om svaha, forms the twenty two lettered mantra. The Sadanga, Rsis etc., of this mantra are like those of the eighteen-lettered mantra. (54-56)

For name, fame and acquisition of things, the twenty-lettered mantra ought to be worshipped ; and think here that the left hand is raised to hold the books, the par excellence of all wealth. (57)

With his right hand he is to hold the rosary and crystal beads

symbolising the mitrkas and then worship. (58) is of a blue colour,

Always worship Sri Hari singing, who ts made

‘wearing yellow robes, soft and beautiful, wearing ornamen ! of peacock feathers, omniscient and worshipped by the Munis who know all. Thus meditating, the devotee becomes the lord of the Jadies with regard to dress and enjoyments, -and houses,

etc. (59-60)

Make japam of this mantra of §ri Hari four lakh 7 The mantra knowing person should control himself we: ro perform homa forty thousand times with Palaga flowers

delicious fruits. (61-62)

s of times. and

e Aah nd By this act he will surely acquire siddhis (power 2 success).

a oh Hie

Concentrating has intellect cn whatever branch of eS and

begins to practise, his words flow, like the Ganges, in aiea ai poetry. He is known as a great Pandita 10 all the

Puranas. (63) ' He get excellent wealth and, in the end, ve to ane am

place. He should utter the following mantra Srim, Hrim, © Krsnaya Govindaya namah. — (64) 4 to be Brahma Gayatri. Its Rei is

The letter Hrim is sai ganyasa is stated. (65)

Krsna and with eighteen letters its. Sadan y letters, one ought to

In the act of worshipping with twent pee d worship. The

perform japam meditation (dhyanam) homam an

234 Narada Paficaratram

devotees who want wealth and influence should adopt this mantra. (66)

Stim. Hrim, Klim angajanmasakti ramaya is said to be another ten-letters mantra. (67)

In worshipping, the said twenty-lettered mantra is to be meditated like the act of angapuja (worshipping the attendants). (68)

Now think the Deva Acyuta to be the Giver of boons and fearlessness and as embracing the ladies with hands, soft like lotuses, and holding the discus and thus meditate Him. (69)

Make japam ten lakhs of times and perform homa with the above mantra ‘one hundred thousand times. Thus men acquire siddhis, powers, wealth, happiness and fortune. (70)

There are three other mantras with Klim, Hrim and Stim prefixed. The Anga of this mantravarna, Rsi, etc., are the same as those of the aforesaid ten-lettered mantra. (71)

Sri Krsna holding conchshell, discuss, bow and arrow, noose, goad, of the colour of the rising Sun, and holding with His hand the flute, and, playing sweet notes on it, is to be meditated. (72)

To meditate on the Adi Ganas (the first and innermost circle of Devas, the) twenty lettered mantra is to be accepted and to worship the attendant deites and the ten Dikpalas (regents of the

quarters) in the third circle, the ten lettered mantra is to be. accepted. (73)

And muttered five lakhs of times and homa is to be performed with payasa fifty thousand times. Then the mantras giving wealth

and beauty to men are fructified (that is, give wealth and beauty). (74)

Note:—Where do Sri Krsna and the other Devas reside ? Have they forms ?

The Devas all exist perfectly manifest in their causal bodies in mental and buddhic planes. They become partially hidden, when they come down and assume the subtle bodies; but, then, we

The Third Night, Ch. XV 235 A more powers manifested inthem. The Devas are all real and rue.

The Devas have got forms which become visible to men in their hearts and in the Ajfia Cakra, if they believe and will to see. And these forms generally vanish, when the mind is translated to Sahasrara ; in the brain, the Great Holy Light then remaining alone, whence these Devas come out again. These Devas can assume. any form at will and can become visible in the same way that we generally see things here outside Us. It is to be noted that they can assume any form, whether of men, beasts, plants oF inert substances, as stones etc. On many an occasion, the devotee feels the presence of the Divinity, he is invoking, in photos, images, stones, air, water, fire, etc., in the form of pure, othereal light playing miraculously. Even he hears the Devas talk in a very soft whispering voice.

Sri Krsna lives in Vrindavan; in the heart. Aja and in Sahasrara, There is also the Vrindavanad in the celestial regions.

§ri Mahadeva lives in Kailasa where the three vital Ida, Pingala, and Susumna meet in Ajiia and in Sahasrara.

Brahm lives in the navel in the Manipura (solar) plexus: he devotees live a

He lives also in hama, higher

currents

The several minor Devatis and t s attendants of these Devas.

Human beings go after death to the Pitr Lokas, where the Fathers live; and live cheerfully there with the Pitrs; oF they go after death to the Devas and live there as their attendants, accor ding to their inclinations to the particular Devas and to their particular regions. Or they go to Heavens, svarloka and live as companions of Indra, Vayu-Agni, Varuna, etc. And if their Karmas be bad, they go to the lower regions, the Preta Loka, the lower astral or to hell, to expiate their Karmic effects.

The Devas possess organs, mental organs, Very powerful and far more generative than our physical organs. They can project their organs to an immense distance or contract them and reduce

236 Narada Pajicardtram

to potential zero point. They possess halos of various colours, extending to a long distance. They have eyes, ears, nose, mouth, belly, generative, organs, anus, and feet; but the actions of these are very fine, and manifest in causal or subtle planes and cannot be perceived by gross instruments of ours. But when our state here becomes finer, subtle, causal (as in sleep), we see them ina

fine, subtle, or causal state. The Devas can assume physical bodies too.

It is on great occasions of the birth-day anniversaiies of Sri Krsna, Sri Ramacandra, Sri Rama Krgna, Sri Gauranga, Sri Siva Ratri day, we see the luminous personages of the great souls in our mental eye. These moments are all observed as very sacred; Why? Because the births in ourselves, then, of Higher Minds are, indeed, a matter of joy, festivity, when Knowledge expands, love increases, and lower passions dwindle. And such births do occur

on those great occasions, conciously or unconsciously, to those that attend such festivities.

May our minds become pure, enlarged ; our strength increased, our falsehood and cowardice vanish, our love for God and all that are good increase, and ourselves become free and independent of lower passions, selfishness, and of everything of the sort.

Here ends the fifteenth adhy aya on mantra puja and homa in the Third Night jianamrtasara of Sri Narada Paiicaratram.

END OF THIRD NIGHT

Complete chapter-aligned witnesses. Sanskrit/IAST is the GGM complete amended text, version 1.1, based on Vijñānānanda’s 1997 edition; the displayed Devanagari is transliterated directly from that proofread IAST witness. English is Swami Vijñānānanda’s complete translation, printed pages 228–236 (scan pages 245–253). It was extracted with Tesseract 5 English OCR from the 200 ppi published scan, with chapter boundaries controlled against the printed contents. No unsupported verse-by-verse equivalence is asserted.