Skip to main content

Second Night · Chapter 2

Chapter 2

Unit 17 of 60Second Night · Chapter 2Second Night · Chapter 21 source entries

Second Night · Chapter 2

Source

द्वितीयो ऽध्यायः अथ भक्ति-ज्ञान-निरूपणम् श्री-महादेव उवाच— हरि-भक्ति-प्रदꣳ ज्ञानꣳ ज्ञानꣳ पञ्च-विधेषु च । विदुषाꣳ वाञ्छिता मुक्तिः सततꣳ परमा सताम् ॥१॥ सा च श्री-कृष्ण-भक्तेश् च कलाꣳ नार्हति षोडशीम् । श्री-कृष्ण-भक्त-सङ्गेन भक्तिर् भवती नैष्ठिकी ॥२॥ अनिमित्ता च सुखदा हरि-दास्य-प्रदा शुभा । यथा वृक्ष-लतानाꣳ च नवीनः कोमलाङ्कुरः ॥३॥ वर्धते मेघ-वर्षेण शुष्कः सूर्य-करेण च । तथैव भक्तालापेन भक्ति-वृक्ष-नवाङ्कुरः ॥४॥ वर्धते शुष्कताꣳ याति चाभक्तालाप-मात्रतः । तस्माद् भक्तैः सहालापꣳ कुरुते पण्डितः सदा ॥५॥ यात्य् एवाभक्त-सꣳसर्गाद् दुष्टात् सर्पाद् यथा नरः । आलापाद् गात्र-सꣳस्पर्शात् शयनात् सह-भोजनात् ॥६॥ सञ्चरन्ति च पापानि तैल-विन्दुम् इवाम्भसा । सꣳसर्ग-जा गुणा दोषा भवन्त्य् एव हि जीविनाम् ॥७॥ तस्मात् सताꣳ हि सꣳसर्गꣳ सन्तो वाञ्छन्ति सꣳततम् । मुने सꣳसर्ग-जो दोषो वस्तूनाꣳ प्रभवेद् इह ॥८॥ हीन-धातु-प्रसङ्गेन स्वर्ण-दोषः प्रजायते । तस्माच् च हीन-सꣳसर्गꣳ न वाञ्छन्ति मनीषिणः ॥९॥ तस्माद् वैष्णव-सꣳसर्गꣳ कुर्वन्ति वैष्णवाः सदा । कुर्वन्ति वैष्णवाः शश्वत् षड्-विधꣳ भजनꣳ हरेः ॥१०॥ स्मरनꣳ कीर्तनꣳ चैव वन्दनꣳ पाद-सेवनꣳ । पूजनꣳ सततꣳ भक्त्या परꣳ स्वात्म-निवेदनम् ॥११॥ गृह्णाति भक्तो भक्त्या च कृष्ण-मन्त्रश् च वैष्णवात् । अवैष्णवाद् गृहीत्वा च हरि-भक्तिर् न वर्धते ॥१२॥ चाण्डलाद् अपि पापी स श्री-कृष्ण-विमुखो नरः । निष्फलꣳ तद्-धर्म-कर्म नाधिकारी स कर्मणाम् ॥१३॥ शश्वद् अशुचिः पापिष्ठो निन्दाꣳ कृत्वा हसत्य् अपि । भगवन्तꣳ भागवतम् आत्मानꣳ नैव मन्यते ॥१४॥ गुरु-मुखात् कृष्ण-मन्त्रो यस्य कर्णे विशेद् अहो । तꣳ वैष्णवꣳ महा-पूतꣳ प्रवदन्ति पुरा-विदः ॥१५॥ मन्त्र-ग्रहण-मात्रेण नरो नारायणानुजः । पुरुषाणाꣳ शतꣳ सार्धꣳ स्वात्मानꣳ च समुद्धरेत् ॥१६॥ माता-महानाꣳ शतकꣳ सोदरꣳ मातरꣳ सुतम् । भृत्यꣳ कलत्रꣳ बन्धुश् च शिष्य-वर्गाꣳस् तथैव च ॥१७॥ यदा नारायण-क्षेत्रे मन्त्रꣳ गृह्णाति वैष्णवात् । विष्णुः पुꣳसाꣳ सहस्रꣳ च लीलया च समुद्धरेत् ॥१८॥ मया श्री-कृष्ण-मन्त्रश् च कृष्णालये मुने पुरा । गोलोके विरजा-तीरे नीरे क्षीर-निभे ऽमले ॥१९॥ शत-लक्ष-जपꣳ कृत्वा पुण्ये वृन्दावने वने । श्री-कृष्णानुग्रहेणैव मन्त्रः सिद्धो बभूव मे ॥२०॥ ब्रह्म-भालोद्भवो ऽहꣳ च सर्वादि-सर्गतो मुने । प्राप्तꣳ मृत्युञ्जयꣳ ज्ञानꣳ कृष्णाच् च परमात्मनः ॥२१॥ सिद्धो मृत्युञ्जयो ऽहꣳ नित्य-नूतन-विग्रहः । ब्रह्मणः पतनेनैव निमेषो मे यथा हरेः ॥२२॥ एवꣳ तेषाꣳ पार्षदानाꣳ नास्ति मृत्युर् यथा हरेः । यस्मिन् देहे लभेन् मन्त्रꣳ वैष्णवो वैष्णवाद् अपि ॥२३॥ पूर्व-कर्माश्रितꣳ देहꣳ त्यक्त्वा स पार्षदो भवेत् । पञ्च-वक्त्रेण सततꣳ तन्-नाम-गुण-कीर्तनम् ॥२४॥ करोमि भार्यया सार्धꣳ पुत्राभ्याꣳ चापि नारद । तद् दिनꣳ दुर्दिनꣳ मन्ये मेघाच् छन्नꣳ न दुर्दिनम् ॥२५॥ यद् दिनꣳ कृष्ण-सꣳलाप-कथा-पीयुष-वर्जितम् । तꣳ क्षणꣳ निष्फलꣳ मन्ये श्री-कृष्ण-कीर्तनꣳ विना ॥२६॥ आयुर् हरति कालश् च पुꣳसाꣳ तत्-कीर्तनेन च । तꣳ क्षणꣳ मङ्गलꣳ मन्ये सर्व-हर्ष-करꣳ परम् ॥२७॥ तस्मात् पापाः पलायन्ते वैनतेयाद् इवोरगाः । ब्रह्मणापि पुरा लब्धस् तस्मात् तन्-मन्त्र एव च ॥२८॥ पद्म-नाभ-नाभि-पद्मे शत-लक्षꣳ जजाप स । तदाललाप ज्ञानꣳ च निर्मलꣳ सृष्टि-कारणम् ॥२९॥ अनिमादिक-सिद्धिꣳ च चकार तत्-प्रभावतः । सृष्टिꣳ च विविधाꣳ कृत्वा विधाता च बभूव सः ॥३०॥ बरꣳ तस्मै ददौ कृष्णो मत्-समत्वꣳ भवेति च । शेषस् तत्-कलया पूर्वꣳ बभूव कश्यपात्मजः ॥३१॥ तस्मात् सम्प्राप तन्-मन्त्रꣳ सिद्धः कोटि-जपेन च । सहस्र-शिरसस् तस्य मस्तकस्यैक-देशतः ॥३२॥ विश्वꣳ सर्षपवत् सर्पस्यैकदेशे यथा मुने । कूर्मस् तत्-कलया पूर्वꣳ बभूवायोनिजः स्वयम् ॥३३॥ अनन्तस् तत्-पृष्ठ-देशे गजेन्द्रे मशको यथा । वाय्व्-आधारश् च कूर्मश् च जलाधारः समीरणः ॥३४॥ महज्-जलꣳ महा-विष्णोः प्रत्येकꣳ लोम-कूपतः । महा-विष्णुर् जलाधारः सर्वाधारो महज्-जलम् ॥३५॥ शून्याश्रयꣳ निराधारꣳ परम् एतन् महज्-जलम् । तस्मिन् महज्-जले शेते बभूव कलया हरेः ॥३६॥ महज्-जलꣳ महा-वायुर् बभूव कलया हरेः । राधा-गर्भोद्भवो डिम्भः स च डिम्भोद्भवः पुरा ॥३७॥ बभञ्ज डिम्भः सहसा गोलोकात् प्रेरितस् तथा । भूत्वा द्वि-खण्डꣳ पतितो डिम्भो मग्नो जलार्णवे ॥३८॥ बालश् च शेते तोये पर्यङ्के च यथा नृपः । महा-विष्णोश् च लोम्नाꣳ च विवरेषु पृथक् पृथक् ॥३९॥ ब्रह्माण्डानि च प्रत्येकम् असꣳख्यानि च नारद । पृथक् पृथक् जलꣳ व्याप्तꣳ प्रतिलोम्नश् च कूपतः ॥४०॥ वायुस् तद्-ऊर्ध्वꣳ प्रत्येकꣳ तद्-ऊर्ध्वꣳ कमठस् तथा । शेषः कमठ-पृष्ठे च सहस्र-मित-मस्तकः ॥४१॥ मस्तकस्यैक-देशे च डिम्भः सर्षपवन् मुने । डिम्भान्तरे च ब्रह्माण्डम् अनित्यꣳ कृत्रिमꣳ च तत् ॥४२॥ डिम्भान्तरे च ब्रह्माण्ड-निर्माण-क्रमम् ईप्सितम् । सद्भिर् ज्ञातꣳ श्रुति-द्वारा साक्षाद् दृष्टꣳ मया मुने ॥४३॥ एवꣳ च सप्त-पातालꣳ यथैवाट्ठालिका-गृहम् । प्रययुः परिनिर्माणꣳ क्रमेण च पृथक् पृथक् ॥४४॥ अतलꣳ वितलꣳ चैव सुतलꣳ च तलातलम् । रसातलꣳ महातलꣳ पातालꣳ परिकीर्तितम् ॥४५॥ वितलꣳ सुन्दरꣳ शुद्धꣳ निर्माणꣳ स्वर्गवन् मुने । सद्-रत्न-रचितꣳ सर्वम् ईश्वरेच्छा-विनिर्मितम् ॥४६॥ पातालाधस् तलꣳ कृष्णꣳ गभीरꣳ च भयानकम् । डिम्भाधरꣳ तज्-जलꣳ च डिम्भाढः शेष एव च ॥४७॥ अतलोपरि तोयꣳ च तोयोपरि वसुन्धरा । काञ्चनी भूमि-सꣳयुक्ता सप्त-द्वीप-मनोहरा ॥४८॥ सप्त-सागर-सꣳयुक्ता वन-शैल-सरिद्युता । वर्त्तुला चन्द्र-विम्भाभा जल-मध्ये ऽब्ज-पत्रवत् ॥४९॥ जम्बु-द्वीपश् च तन्-मध्ये लवणोदेन वेष्ठितः । लवणोद-समुद्रश् च लक्ष-योजन-प्रस्थकः ॥५०॥ दैर्ध्यꣳ तस्माद् दश-गुणो ग्रामस्य परिखा यथा । उपद्वीपैर् बहुतरैः शोभायुक्तैः समन्वितः ॥५१॥ जम्बु-द्वीपे जम्बु-वृक्षो विस्तीर्णो ऽतिविचित्रकः । श्याम-वर्णꣳ पक्व-फलꣳ गजेन्द्र-निभम् एव च ॥५२॥ सुमेरु-शिखरो यत्र कैलासः शङ्करालयः । रत्नाकरो हिम-गिरिर् द्वीप-मध्ये मनोहरः ॥५३॥ मेरोश् चाष्टसु शृङ्गेषु विचित्राविष्कृतेषु च । यत्राष्ट-लोक-पालानाम् आश्रमाणि च नारद ॥५४॥ इन्द्रो वह्निः पितृ-पतिनैर् ऋतो वरुणो मरुत् । कुवेर ईशः पतयः पूर्वादीनाꣳ दिशाꣳ क्रमात् ॥५५॥ एतेषाम् आलयꣳ शुद्धꣳ रमणीयꣳ मनोहरम् । पूर्वस्माद् एव प्रत्येकꣳ क्रमेण च पृथक् पृथक् ॥५६॥ ऊर्ध्वꣳ शृङ्गो ऽतिविस्तीर्णो ब्रह्म-लोकस् तद्-अग्रतः । ब्रह्म-लोकोर्ध्व-डिम्भश् च विश्वꣳ डिम्भान्तरꣳ तथा ॥५७॥ ऊर्ध्व-शृङ्गे षष्ट-लोके ब्रह्म-लोकस् तद्-ऊर्ध्वतः । भूर्-लोको ऽपि भुवर्-लोकः स्वर्-लोकश् च तथैव च ॥५८॥ जन-लोको महर्-लोकः सत्य-लोकश् च मध्यतः । चतुर्-युगे सत्य-लोके पूर्णो धर्मश् च सन्ततम् ॥५९॥ ब्रह्म-लोकस्य वामे च ध्रुव-लोकस् तथैव च । विश्वꣳ च ब्रह्म-लोकान्तꣳ स्रष्टा सृष्टञ्च कृत्रिमम् ॥६०॥ जम्बु-द्वीपश् च कथितो यथा दृष्टो मया मुने । सरित्-शैलैर् बहु-विधैः काननैः कन्दरैर् युतः ॥६१॥ यत्र भारत-वर्षꣳ च सर्वेषाम् ईप्सितꣳ वरम् । कर्म-क्षेत्रꣳ सताꣳ सद्भिः प्रशस्यꣳ पुण्यदꣳ परम् ॥६२॥ आविर्भावो ऽत्र कृष्णस्य यत्र वृन्दावनꣳ वनम् । अन्य-स्थाने सुखꣳ जन्म निष्फलꣳ च गतागतम् ॥६३॥ भारते च क्षणꣳ जन्म सार्थकꣳ शुभ-कर्म-जम् । अनेक-जन्म-पुण्येन साधूनाꣳ जन्म भारते ॥६४॥ कृष्णानुग्रहतो विद्वान् लब्ध्वा च जन्म भारते । न भजेत् कृष्ण-पादाब्जꣳ तद् अत्यन्त-विडम्बनम् ॥६५॥ असार्थकꣳ तस्य जन्म वृथा तद्-गर्भ-यातना । निष्फलꣳ तच्-छरीरꣳ च नश्वरꣳ व्यर्थ-जीवनम् ॥६६॥ जीवन् मृतो हि पापी स चाण्डालाद् अधमो ऽशुचिः । भुङ्क्ते नित्यम् अभक्ष्यꣳ चाप्य् अनिवेद्यꣳ हरेर् अहो ॥६७॥ विण्-मूत्र-कॢप्त-भक्ष्यꣳ च नित्यꣳ भुङ्ग्क्ते च शूकरः ॥ नहि कॢप्तम् अभक्ष्यꣳ च भुङ्ग्क्ते स शूकराधमः ॥६८॥ अभक्ष्यꣳ ब्राह्मणानाꣳ तद् अनिवेद्यꣳ हरेर् अहो । अन्नꣳ विष्ठा जलꣳ मूत्रꣳ यद् विष्णोर् अनिवेदितम् ॥६९॥ नित्यꣳ पादोदकꣳ भुङ्क्ते नैवेद्यꣳ च हरेर् द्विज । तन्-मन्त्र-ग्रहणꣳ कृत्वा जीवन्-मुक्तो हि भारते ॥७०॥ तस्यैव पाद-रजसा सद्यः पूता वसुन्धरा । सर्वान्य् एव हि तीर्थानि पवित्राणि च नारद ॥७१॥ स एव शुद्धः सर्वेषु सद्यो मुक्तो मही-तले । पदे पदे ऽश्व-मेधस्य लभते निश्चितꣳ फलम् ॥७२॥ एवꣳ भृत्यस्य रक्षार्थꣳ कृष्णो दत्वा सुदर्शनम् । तथापि सुस्थो न प्रीतस् तꣳ त्यक्तुम् अक्षमः क्षणम् ॥७३॥ एवꣳ भूतो दया-सिन्धुर् भक्तानुग्रह-कातरः । अतः सन्तो हि तꣳ त्यक्त्वा न सेवन्ते सुरान्तरम् ॥७४॥ जम्बु-द्वीपश् च कथितः स्वर्गान् मेरु-क्रमेण च । अन्येषाम् अपि द्वीपानाꣳ श्रूयताम् अनुवर्त्तनम् ॥७५॥ जम्बु-द्वीपात् परः प्लक्षस् ततो ऽपि द्वि-गुण-क्रमात् । वृतश् चेक्षुरसादेन पूर्वस्माद् द्वि-गुणेन च ॥७६॥ पूर्वस्माद् द्वि-गुणैर् युक्तः सरिच्-छैल-वनादिकैः । नाना-विध-भोगाद् युक्तः शुद्धो ऽतिसुन्दरः ॥७७॥ तत्र क्रीडन्ति तत्र-स्था जरा-रोगादि-वर्जिताः । न तत्र कर्मणो जन्म भुङ्क्ते कर्म पुरातनम् ॥७८॥ भुक्त्वा शुभाशुभꣳ कर्म स्वर्गꣳ वा नरकꣳ पुनः । व्रजन्ति ते क्रमेणैव मूढाः प्राक्तनतो मुने ॥७९॥ प्लक्ष-द्वीपात् परः शाक-द्वीपो हि सुन्दरो मुने । पूर्वस्माद् द्वि-गुणो युक्तः सुरोद-द्वि-गुणेन च ॥८०॥ शाक-द्वीपत् कुश-द्वीपो द्वि-गुणः सुमनोहरः । पूर्वस्माद् द्वि-गुणेनैव घृतोदेन समावृतः ॥८१॥ कुश-द्वीपाच् च द्वि-गुणो वक-द्वीपो महा-मुने । वृतो दधि-समुद्रेण क्रमात् तद्-द्विगुणेन च ॥८२॥ वक-द्वीपाच् च द्वि-गुणः शाल्मलि-द्वीप एव च । पूर्वस्माद् द्वि-गुणेनैव क्षीरोदेन समावृतः ॥८३॥ श्वेत-द्वीपश् च क्षीरोदे चोपद्वीपो मनोहरः । तत्रैव भगवान् विष्णुः सेवितः सिन्धु-कन्यया ॥८४॥ नारायणाꣳशो वैकुण्ठः शुद्धः सत्त्व-गुणाश्रयः । श्यामश् चतुर्-भुजः शान्तो वन-माला-विभूषितः ॥८५॥ चतुर्-भुजैः श्याम-वर्णैः पार्षदैः परिवारितः । ब्रह्मादिभिस् तूयमानो मुनिभिः सनकादिभिः ॥८६॥ सुखदो मोक्षदः श्रीमान् प्रदाता सर्व-सम्पदाम् । द्वीपश् च वर्तुलाकारो विशुद्धश् चन्द्र-विम्बवत् ॥८७॥ योजनायुत-विस्तीर्णो दैर्ध्यꣳ च तत्-समः सदा । अमूल्य-रत्न-निर्माणो बभूव स्वेच्छया हरेः ॥८८॥ आत्मानꣳ मन्यते तुच्छꣳ विश्व-कर्मा निरीक्ष्य यम् । समावृतꣳ पार्षदानाꣳ शिविरैर् लक्ष-कोटिभिः ॥८९॥ उद्यानैः कल्प-वृक्षाणाꣳ सꣳसक्तꣳ शत-कोटिभिः । शत-कोटिभिर् अष्टाभिः काम-धेनुभिर् आवृतम् ॥९०॥ पुष्पोद्यानैर् आवृतैश् च सरोभिः शत-कोटिभिः । गन्धर्वैर् नर्तकैः सिद्धैर् योगेन्द्रैर् अप्सरो-गणैः ॥९१॥ तस्माद् द्वीपाच् च द्वि-गुणः क्रौञ्च-द्वीपो मनोहरः । पूर्वस्माद् द्वि-गुणेनैव जलोदेन समावृतः ॥९२॥ सप्त-द्वीपाश् च कथिताः सरित्-सागर-काननाः । शैलैर् बहु-विधैर् युक्ताः सुन्दरैः कन्दरोदरैः ॥९३॥ तत्-परा काञ्चनी भूमिः सर्व-सत्त्व-विवर्जिता । तेजः-स्वरूपा परमा प्रज्वलन्ती दिवानिशम् ॥९४॥ एवꣳ डिम्भोदर-स्थꣳ च विश्वꣳ विश्व-सृजा कृतम् । डिम्भस् तल्-लोम-कूपे च महा-विष्णुश् च नारद ॥९५॥ यावन्ति लोम-कूपाण्य् अविष्कृतानि हरेर् अहो । तावन्त्य् एव हि विश्वानि चासꣳख्यानि च नारद ॥९६॥ जले शेते महा-विष्णुर् जलꣳ तत्-प्रतिलोमसु । जलोपरि महा-वायुर् वायोर् उपरि कच्छपः ॥९७॥ कच्छपोपरि शेषश् च गजेन्द्र-मशको यथा । सहस्रम् ऊर्ध्वꣳ शेषस्य मस्तकस्यैक-देशतः ॥९८॥ विश्वाधारश् च डिम्भश् च शूर्पे च सर्षपो यथा । स एव च महा-विष्णुः कृष्णस्य परमात्मनः ॥९९॥ षोडशाꣳशो भगवतः परस्य प्रकृतेः परेः । ब्रह्मादि-स्तम्ब-पर्यन्तꣳ सर्वꣳ मिथ्यैव नारद । भज सत्यꣳ परꣳ ब्रह्म राधेशꣳ त्रि-गुणात् परम् ॥१००॥ इति श्री-नारद-पञ्च-रात्रे ज्ञानामृत-सारे द्वितीय-रात्रे भक्ति-ज्ञान-निरूपणꣳ नाम द्वितीयो ऽध्यायः ॥२॥ …

dvitīyo 'dhyāyaḥ atha bhakti-jñāna-nirūpaṇam śrī-mahādeva uvāca— hari-bhakti-pradaṁ jñānaṁ jñānaṁ pañca-vidheṣu ca | viduṣāṁ vāñchitā muktiḥ satataṁ paramā satām ||1|| sā ca śrī-kṛṣṇa-bhakteś ca kalāṁ nārhati ṣoḍaśīm | śrī-kṛṣṇa-bhakta-saṅgena bhaktir bhavatī naiṣṭhikī ||2|| animittā ca sukhadā hari-dāsya-pradā śubhā | yathā vṛkṣa-latānāṁ ca navīnaḥ komalāṅkuraḥ ||3|| vardhate megha-varṣeṇa śuṣkaḥ sūrya-kareṇa ca | tathaiva bhaktālāpena bhakti-vṛkṣa-navāṅkuraḥ ||4|| vardhate śuṣkatāṁ yāti cābhaktālāpa-mātrataḥ | tasmād bhaktaiḥ sahālāpaṁ kurute paṇḍitaḥ sadā ||5|| yāty evābhakta-saṁsargād duṣṭāt sarpād yathā naraḥ | ālāpād gātra-saṁsparśāt śayanāt saha-bhojanāt ||6|| sañcaranti ca pāpāni taila-vindum ivāmbhasā | saṁsarga-jā guṇā doṣā bhavanty eva hi jīvinām ||7|| tasmāt satāṁ hi saṁsargaṁ santo vāñchanti saṁtatam | mune saṁsarga-jo doṣo vastūnāṁ prabhaved iha ||8|| hīna-dhātu-prasaṅgena svarṇa-doṣaḥ prajāyate | tasmāc ca hīna-saṁsargaṁ na vāñchanti manīṣiṇaḥ ||9|| tasmād vaiṣṇava-saṁsargaṁ kurvanti vaiṣṇavāḥ sadā | kurvanti vaiṣṇavāḥ śaśvat ṣaḍ-vidhaṁ bhajanaṁ hareḥ ||10|| smaranaṁ kīrtanaṁ caiva vandanaṁ pāda-sevanaṁ | pūjanaṁ satataṁ bhaktyā paraṁ svātma-nivedanam ||11|| gṛhṇāti bhakto bhaktyā ca kṛṣṇa-mantraś ca vaiṣṇavāt | avaiṣṇavād gṛhītvā ca hari-bhaktir na vardhate ||12|| cāṇḍalād api pāpī sa śrī-kṛṣṇa-vimukho naraḥ | niṣphalaṁ tad-dharma-karma nādhikārī sa karmaṇām ||13|| śaśvad aśuciḥ pāpiṣṭho nindāṁ kṛtvā hasaty api | bhagavantaṁ bhāgavatam ātmānaṁ naiva manyate ||14|| guru-mukhāt kṛṣṇa-mantro yasya karṇe viśed aho | taṁ vaiṣṇavaṁ mahā-pūtaṁ pravadanti purā-vidaḥ ||15|| mantra-grahaṇa-mātreṇa naro nārāyaṇānujaḥ | puruṣāṇāṁ śataṁ sārdhaṁ svātmānaṁ ca samuddharet ||16|| mātā-mahānāṁ śatakaṁ sodaraṁ mātaraṁ sutam | bhṛtyaṁ kalatraṁ bandhuś ca śiṣya-vargāṁs tathaiva ca ||17|| yadā nārāyaṇa-kṣetre mantraṁ gṛhṇāti vaiṣṇavāt | viṣṇuḥ puṁsāṁ sahasraṁ ca līlayā ca samuddharet ||18|| mayā śrī-kṛṣṇa-mantraś ca kṛṣṇālaye mune purā | goloke virajā-tīre nīre kṣīra-nibhe 'male ||19|| śata-lakṣa-japaṁ kṛtvā puṇye vṛndāvane vane | śrī-kṛṣṇānugraheṇaiva mantraḥ siddho babhūva me ||20|| brahma-bhālodbhavo 'haṁ ca sarvādi-sargato mune | prāptaṁ mṛtyuñjayaṁ jñānaṁ kṛṣṇāc ca paramātmanaḥ ||21|| siddho mṛtyuñjayo 'haṁ nitya-nūtana-vigrahaḥ | brahmaṇaḥ patanenaiva nimeṣo me yathā hareḥ ||22|| evaṁ teṣāṁ pārṣadānāṁ nāsti mṛtyur yathā hareḥ | yasmin dehe labhen mantraṁ vaiṣṇavo vaiṣṇavād api ||23|| pūrva-karmāśritaṁ dehaṁ tyaktvā sa pārṣado bhavet | pañca-vaktreṇa satataṁ tan-nāma-guṇa-kīrtanam ||24|| karomi bhāryayā sārdhaṁ putrābhyāṁ cāpi nārada | tad dinaṁ durdinaṁ manye meghāc channaṁ na durdinam ||25|| yad dinaṁ kṛṣṇa-saṁlāpa-kathā-pīyuṣa-varjitam | taṁ kṣaṇaṁ niṣphalaṁ manye śrī-kṛṣṇa-kīrtanaṁ vinā ||26|| āyur harati kālaś ca puṁsāṁ tat-kīrtanena ca | taṁ kṣaṇaṁ maṅgalaṁ manye sarva-harṣa-karaṁ param ||27|| tasmāt pāpāḥ palāyante vainateyād ivoragāḥ | brahmaṇāpi purā labdhas tasmāt tan-mantra eva ca ||28|| padma-nābha-nābhi-padme śata-lakṣaṁ jajāpa sa | tadālalāpa jñānaṁ ca nirmalaṁ sṛṣṭi-kāraṇam ||29|| animādika-siddhiṁ ca cakāra tat-prabhāvataḥ | sṛṣṭiṁ ca vividhāṁ kṛtvā vidhātā ca babhūva saḥ ||30|| baraṁ tasmai dadau kṛṣṇo mat-samatvaṁ bhaveti ca | śeṣas tat-kalayā pūrvaṁ babhūva kaśyapātmajaḥ ||31|| tasmāt samprāpa tan-mantraṁ siddhaḥ koṭi-japena ca | sahasra-śirasas tasya mastakasyaika-deśataḥ ||32|| viśvaṁ sarṣapavat sarpasyaikadeśe yathā mune | kūrmas tat-kalayā pūrvaṁ babhūvāyonijaḥ svayam ||33|| anantas tat-pṛṣṭha-deśe gajendre maśako yathā | vāyv-ādhāraś ca kūrmaś ca jalādhāraḥ samīraṇaḥ ||34|| mahaj-jalaṁ mahā-viṣṇoḥ pratyekaṁ loma-kūpataḥ | mahā-viṣṇur jalādhāraḥ sarvādhāro mahaj-jalam ||35|| śūnyāśrayaṁ nirādhāraṁ param etan mahaj-jalam | tasmin mahaj-jale śete babhūva kalayā hareḥ ||36|| mahaj-jalaṁ mahā-vāyur babhūva kalayā hareḥ | rādhā-garbhodbhavo ḍimbhaḥ sa ca ḍimbhodbhavaḥ purā ||37|| babhañja ḍimbhaḥ sahasā golokāt preritas tathā | bhūtvā dvi-khaṇḍaṁ patito ḍimbho magno jalārṇave ||38|| bālaś ca śete toye paryaṅke ca yathā nṛpaḥ | mahā-viṣṇoś ca lomnāṁ ca vivareṣu pṛthak pṛthak ||39|| brahmāṇḍāni ca pratyekam asaṁkhyāni ca nārada | pṛthak pṛthak jalaṁ vyāptaṁ pratilomnaś ca kūpataḥ ||40|| vāyus tad-ūrdhvaṁ pratyekaṁ tad-ūrdhvaṁ kamaṭhas tathā | śeṣaḥ kamaṭha-pṛṣṭhe ca sahasra-mita-mastakaḥ ||41|| mastakasyaika-deśe ca ḍimbhaḥ sarṣapavan mune | ḍimbhāntare ca brahmāṇḍam anityaṁ kṛtrimaṁ ca tat ||42|| ḍimbhāntare ca brahmāṇḍa-nirmāṇa-kramam īpsitam | sadbhir jñātaṁ śruti-dvārā sākṣād dṛṣṭaṁ mayā mune ||43|| evaṁ ca sapta-pātālaṁ yathaivāṭṭhālikā-gṛham | prayayuḥ parinirmāṇaṁ krameṇa ca pṛthak pṛthak ||44|| atalaṁ vitalaṁ caiva sutalaṁ ca talātalam | rasātalaṁ mahātalaṁ pātālaṁ parikīrtitam ||45|| vitalaṁ sundaraṁ śuddhaṁ nirmāṇaṁ svargavan mune | sad-ratna-racitaṁ sarvam īśvarecchā-vinirmitam ||46|| pātālādhas talaṁ kṛṣṇaṁ gabhīraṁ ca bhayānakam | ḍimbhādharaṁ taj-jalaṁ ca ḍimbhāḍhaḥ śeṣa eva ca ||47|| atalopari toyaṁ ca toyopari vasundharā | kāñcanī bhūmi-saṁyuktā sapta-dvīpa-manoharā ||48|| sapta-sāgara-saṁyuktā vana-śaila-saridyutā | varttulā candra-vimbhābhā jala-madhye 'bja-patravat ||49|| jambu-dvīpaś ca tan-madhye lavaṇodena veṣṭhitaḥ | lavaṇoda-samudraś ca lakṣa-yojana-prasthakaḥ ||50|| dairdhyaṁ tasmād daśa-guṇo grāmasya parikhā yathā | upadvīpair bahutaraiḥ śobhāyuktaiḥ samanvitaḥ ||51|| jambu-dvīpe jambu-vṛkṣo vistīrṇo 'tivicitrakaḥ | śyāma-varṇaṁ pakva-phalaṁ gajendra-nibham eva ca ||52|| sumeru-śikharo yatra kailāsaḥ śaṅkarālayaḥ | ratnākaro hima-girir dvīpa-madhye manoharaḥ ||53|| meroś cāṣṭasu śṛṅgeṣu vicitrāviṣkṛteṣu ca | yatrāṣṭa-loka-pālānām āśramāṇi ca nārada ||54|| indro vahniḥ pitṛ-patinair ṛto varuṇo marut | kuvera īśaḥ patayaḥ pūrvādīnāṁ diśāṁ kramāt ||55|| eteṣām ālayaṁ śuddhaṁ ramaṇīyaṁ manoharam | pūrvasmād eva pratyekaṁ krameṇa ca pṛthak pṛthak ||56|| ūrdhvaṁ śṛṅgo 'tivistīrṇo brahma-lokas tad-agrataḥ | brahma-lokordhva-ḍimbhaś ca viśvaṁ ḍimbhāntaraṁ tathā ||57|| ūrdhva-śṛṅge ṣaṣṭa-loke brahma-lokas tad-ūrdhvataḥ | bhūr-loko 'pi bhuvar-lokaḥ svar-lokaś ca tathaiva ca ||58|| jana-loko mahar-lokaḥ satya-lokaś ca madhyataḥ | catur-yuge satya-loke pūrṇo dharmaś ca santatam ||59|| brahma-lokasya vāme ca dhruva-lokas tathaiva ca | viśvaṁ ca brahma-lokāntaṁ sraṣṭā sṛṣṭañca kṛtrimam ||60|| jambu-dvīpaś ca kathito yathā dṛṣṭo mayā mune | sarit-śailair bahu-vidhaiḥ kānanaiḥ kandarair yutaḥ ||61|| yatra bhārata-varṣaṁ ca sarveṣām īpsitaṁ varam | karma-kṣetraṁ satāṁ sadbhiḥ praśasyaṁ puṇyadaṁ param ||62|| āvirbhāvo 'tra kṛṣṇasya yatra vṛndāvanaṁ vanam | anya-sthāne sukhaṁ janma niṣphalaṁ ca gatāgatam ||63|| bhārate ca kṣaṇaṁ janma sārthakaṁ śubha-karma-jam | aneka-janma-puṇyena sādhūnāṁ janma bhārate ||64|| kṛṣṇānugrahato vidvān labdhvā ca janma bhārate | na bhajet kṛṣṇa-pādābjaṁ tad atyanta-viḍambanam ||65|| asārthakaṁ tasya janma vṛthā tad-garbha-yātanā | niṣphalaṁ tac-charīraṁ ca naśvaraṁ vyartha-jīvanam ||66|| jīvan mṛto hi pāpī sa cāṇḍālād adhamo 'śuciḥ | bhuṅkte nityam abhakṣyaṁ cāpy anivedyaṁ harer aho ||67|| viṇ-mūtra-kḷpta-bhakṣyaṁ ca nityaṁ bhuṅgkte ca śūkaraḥ || nahi kḷptam abhakṣyaṁ ca bhuṅgkte sa śūkarādhamaḥ ||68|| abhakṣyaṁ brāhmaṇānāṁ tad anivedyaṁ harer aho | annaṁ viṣṭhā jalaṁ mūtraṁ yad viṣṇor aniveditam ||69|| nityaṁ pādodakaṁ bhuṅkte naivedyaṁ ca harer dvija | tan-mantra-grahaṇaṁ kṛtvā jīvan-mukto hi bhārate ||70|| tasyaiva pāda-rajasā sadyaḥ pūtā vasundharā | sarvāny eva hi tīrthāni pavitrāṇi ca nārada ||71|| sa eva śuddhaḥ sarveṣu sadyo mukto mahī-tale | pade pade 'śva-medhasya labhate niścitaṁ phalam ||72|| evaṁ bhṛtyasya rakṣārthaṁ kṛṣṇo datvā sudarśanam | tathāpi sustho na prītas taṁ tyaktum akṣamaḥ kṣaṇam ||73|| evaṁ bhūto dayā-sindhur bhaktānugraha-kātaraḥ | ataḥ santo hi taṁ tyaktvā na sevante surāntaram ||74|| jambu-dvīpaś ca kathitaḥ svargān meru-krameṇa ca | anyeṣām api dvīpānāṁ śrūyatām anuvarttanam ||75|| jambu-dvīpāt paraḥ plakṣas tato 'pi dvi-guṇa-kramāt | vṛtaś cekṣurasādena pūrvasmād dvi-guṇena ca ||76|| pūrvasmād dvi-guṇair yuktaḥ saric-chaila-vanādikaiḥ | nānā-vidha-bhogād yuktaḥ śuddho 'tisundaraḥ ||77|| tatra krīḍanti tatra-sthā jarā-rogādi-varjitāḥ | na tatra karmaṇo janma bhuṅkte karma purātanam ||78|| bhuktvā śubhāśubhaṁ karma svargaṁ vā narakaṁ punaḥ | vrajanti te krameṇaiva mūḍhāḥ prāktanato mune ||79|| plakṣa-dvīpāt paraḥ śāka-dvīpo hi sundaro mune | pūrvasmād dvi-guṇo yuktaḥ suroda-dvi-guṇena ca ||80|| śāka-dvīpat kuśa-dvīpo dvi-guṇaḥ sumanoharaḥ | pūrvasmād dvi-guṇenaiva ghṛtodena samāvṛtaḥ ||81|| kuśa-dvīpāc ca dvi-guṇo vaka-dvīpo mahā-mune | vṛto dadhi-samudreṇa kramāt tad-dviguṇena ca ||82|| vaka-dvīpāc ca dvi-guṇaḥ śālmali-dvīpa eva ca | pūrvasmād dvi-guṇenaiva kṣīrodena samāvṛtaḥ ||83|| śveta-dvīpaś ca kṣīrode copadvīpo manoharaḥ | tatraiva bhagavān viṣṇuḥ sevitaḥ sindhu-kanyayā ||84|| nārāyaṇāṁśo vaikuṇṭhaḥ śuddhaḥ sattva-guṇāśrayaḥ | śyāmaś catur-bhujaḥ śānto vana-mālā-vibhūṣitaḥ ||85|| catur-bhujaiḥ śyāma-varṇaiḥ pārṣadaiḥ parivāritaḥ | brahmādibhis tūyamāno munibhiḥ sanakādibhiḥ ||86|| sukhado mokṣadaḥ śrīmān pradātā sarva-sampadām | dvīpaś ca vartulākāro viśuddhaś candra-vimbavat ||87|| yojanāyuta-vistīrṇo dairdhyaṁ ca tat-samaḥ sadā | amūlya-ratna-nirmāṇo babhūva svecchayā hareḥ ||88|| ātmānaṁ manyate tucchaṁ viśva-karmā nirīkṣya yam | samāvṛtaṁ pārṣadānāṁ śivirair lakṣa-koṭibhiḥ ||89|| udyānaiḥ kalpa-vṛkṣāṇāṁ saṁsaktaṁ śata-koṭibhiḥ | śata-koṭibhir aṣṭābhiḥ kāma-dhenubhir āvṛtam ||90|| puṣpodyānair āvṛtaiś ca sarobhiḥ śata-koṭibhiḥ | gandharvair nartakaiḥ siddhair yogendrair apsaro-gaṇaiḥ ||91|| tasmād dvīpāc ca dvi-guṇaḥ krauñca-dvīpo manoharaḥ | pūrvasmād dvi-guṇenaiva jalodena samāvṛtaḥ ||92|| sapta-dvīpāś ca kathitāḥ sarit-sāgara-kānanāḥ | śailair bahu-vidhair yuktāḥ sundaraiḥ kandarodaraiḥ ||93|| tat-parā kāñcanī bhūmiḥ sarva-sattva-vivarjitā | tejaḥ-svarūpā paramā prajvalantī divāniśam ||94|| evaṁ ḍimbhodara-sthaṁ ca viśvaṁ viśva-sṛjā kṛtam | ḍimbhas tal-loma-kūpe ca mahā-viṣṇuś ca nārada ||95|| yāvanti loma-kūpāṇy aviṣkṛtāni harer aho | tāvanty eva hi viśvāni cāsaṁkhyāni ca nārada ||96|| jale śete mahā-viṣṇur jalaṁ tat-pratilomasu | jalopari mahā-vāyur vāyor upari kacchapaḥ ||97|| kacchapopari śeṣaś ca gajendra-maśako yathā | sahasram ūrdhvaṁ śeṣasya mastakasyaika-deśataḥ ||98|| viśvādhāraś ca ḍimbhaś ca śūrpe ca sarṣapo yathā | sa eva ca mahā-viṣṇuḥ kṛṣṇasya paramātmanaḥ ||99|| ṣoḍaśāṁśo bhagavataḥ parasya prakṛteḥ pareḥ | brahmādi-stamba-paryantaṁ sarvaṁ mithyaiva nārada | bhaja satyaṁ paraṁ brahma rādheśaṁ tri-guṇāt param ||100|| iti śrī-nārada-pañca-rātre jñānāmṛta-sāre dvitīya-rātre bhakti-jñāna-nirūpaṇaṁ nāma dvitīyo 'dhyāyaḥ ||2|| …

English translation

CHAPTER II

Sri Mahadeva said :—Out of the five-fold knowledge, the one giving devotion to Hari is termed the second knowledge. The learned and the Sadhus desire Mukti (final liberation, from the body) as the highest. (1)

But that Mukti is equal not to even one Kala (digit) out of the sixteen Kalas of devotion to Krsna. That single-minded

extreme devotion arises from the company of the devotees of Sri Krsna. (2)

It arises out of no sepecific cause, bestows bliss, pure, and

gives servitude of Hari, as the young soft sprouts arise of trees and plants. (3)

As the little sprouts of trees grow from rains and become dry by Contact with the intense heat of the Sun, so the new sprouts of Bhakti (devotion) appear by conversation with the devotees of Sri Hari. (4)

That sprout grows by conversing with the bhaktas and withers.

by talking with those that are no bhaktas. For this reason, the Pandits always talk with Bhaktas. (5)

The conversations with persons who are not devotees, touching their bodies and sleeping and eating with them bring on sins ; and one should fly away from them~as men run away, ing the contact with poisonous snakes. (6)

Thereby all the sins spread all over the body, as oil spreads by

contact with water; so due to the company of the Jivas, merits and demerits occur. (7)

leav-

It is, for this reason, that the Sadhus always long for the company of good persons. O Muni! In this world sins become Strong due to bad company. (8)

The defect arises even in gold by the contact of other base metals. So the intelligent do not like the low companies. (9)

Second Night, Ch, 1I 107

So the Vaisnavas always long for the company of the Vaisnavas. The Vaisnavas worship Hari in six ways. (10)

Always remembering, Hari with devotion, singing His names, adoring, Him, serving his lotus feet, worshipping Him and. surrendering one’s self to Him. (11)

A Bhakta should take with devotion the Krsna-mantra from a Vaisnava. If the mantra be taken from a non-Vaisnava, Hari bhakti (devotion to Hari) does not grow. (12)

One who is averse to Sri Krsna is more sinful than a cindala ; all his dharmas and karmas (religion and actions) are fruitless ; he is not fit to do any karma (work) (13) rsna and

The unholy sinful man who always blames Sri Kr: ata, (the

laughs, does not know any thing of Bhagavan, Bhagav: Bhagavat Purana) and his own self. (14)

The Pandits, knowing the Puranas, call him : whose ear, Krgna mantra enters as his Guru, from a sp! Preceptor. (15)

No sooner the mantra is taken, the human bein, . equal to the younger brother of Narayana ; and he delivers his own self as well as that of his hundred generations. (16) ;

He delivers hundred generations on his mother’s father’s pe he delivers as well his brothers, mother, sons, servants, wife, friends and disciples. (17)

a Vignava in ritual

g becomes

a Nardyana-kgetra from a_

If the mantra be taken in easily. his thousand

Vaisnava, Bhagavan Visnu delivers generations. (18)

O Muni! Formerly I performed japam of Sri Kpsna-mantra on the milk-white clear waters of the Viraja river in Goloka, the abode of Krgua. (19)

After muttering (repeating japam) one hundred (100,00000) I attained siddhi (perfecticn) in mantra by t SriKrgna. (20)

O Muni! In the beginning of creation, I was produced from the forehead of Brahma and have obtained the Mrtyuiijaya knowledge from Sri Krsna the Supreme Spirit. (21)

lakh times he grace of

108 Narada Pdjjcaratram

Now Iam perfect and have, conquered death; and always I possess new body. In the twinkling of My eye, Brahma dies ‘ (the longevity of Brahma is equal to the twinkling of My eye), Similarly in the twinkling of the eyes of Hari, Brahma dies. (22)

Again like Hari, His Parsadas (attendants) do not die. The bodies in which the Vaisnavas take the mantra from the Vaisnavas, are due to their previous karmas ; hence they quit their bodies and, then, attain the positions of Parsadas. With my five faces, I always recite the praises of the name of Sri Hari. (23-24)

O Narada! My wife and two sons always do the same thing that I do. A cloudy day I do not call a bad day ; but that day I certainly call a bad day, when I do not find any occasion to talk about the nectar like praises of Sri Krsna ; and I consider that moment also to be fruitless, when there is no samkirtau, reciting the praises and singing the glories, of Sri Krsna- (25-26)

The life and time of a man pass very happily in singing

the praises of Lord Hari. That happy time becomes very auspicious, (27) ; The sins fly off from him, as the snakes fly away at the Sight of Vainateya. Brahma took, before. His mantra from Him. (28)

Sitting on His navel lotus, Brahma repeated His mantra one

hundred lakhs of times ; thereby He got the clear knowledge, how to create the universe, (29)

By virtue of that mantra, He acquired siddhis, anima, etc. and

he created all sorts of creations and got the name of Vidhata. (30) |

Krgna granted him the boon saying “let you become like

Mahadeva”. Sega before was born as the son of Kasyapa in His amsa part. (31)

‘ Sesa obtained mantra from Sri Krgna and repeated it koti times and became perfect in mantra. Thereby he had one thousand heads. O Muni! On one part of that head this whole universe is residing like a mustard seed. Kirma too, was born, before, of His Kala-part and came out of no womb. (32-33)

Ananta resides on his back, as a gnat rests on the back of an

Second Night, Ch, II 109

elephant. Kirma is supported on Vayu (air). And air rests on water. (34)

From every pore of the hairs on the body of Maha Visnu, the Great waters have come into existence, Maha Visnu, tests on waters. So this Great Water is the support of all. (35)

This water rest on space /.e., nothing, void, and on this water that has no support, rest Maha Visgu, who is born of Hari’s parts. (36)

The great Water and the great Vayu are created of Hari’s athga. In ancient days, a golden egg came out of the womb of Radhika, Maha Visnu was sprung out of that egg.

The egg, suddenly thrown from Goloka, broke in fell into the great ocean and submerged. (38)

As a king sleeps on a sofa, so that child Maha Visnu slept om the surface of the waters. And from each of the pores of that Maha Visnu, innumerable universes were created ; and separate

masses of water spread everywhere. (39-40)

there was a separate Vayu; and Karma and, on the back of Sesa consisting of thousand

(37) to two, and

On every sheet of waters, on every Vayu there was a separate every Kiirma there was a separate heads, (41)

O Muni; On one side of t like a mustard seed. Inside this egg, is the transien

universe. (42) O Muni! Inside the egg went on the formation, in due order,

of the universe. This the learned people know through the help

of the Vedas. But I have seen actually that creation. (43)

ilt, so the seven patalas are built separately,

he head of Sesa, an egg rests t artificial

As a palace is bu one by one. (44) Atala, Vitala, Sutala. Talatala,

are the seven Patalas. (45) O Muni! Vitala is very beautiful, sacred, fashioned like the

Heavens, intertwined with excellent jewels and created by the will of God. (46)

Rasiatala, Mahitala and Patala:

110 Narada Pajicaratram

The lower parts of Patala are very terrible and too deep. The egg rests on Waters and in the lower paris of the egg is Sega. (47) ;

On the top of Atala is waters ; on the top of the waters is this ‘golden world, beautified with seven islands. (48)

And surrounded by seven oceans. Forests, mountains, rivers exist everywhere. It is circular in size as if the Moon is reflected ; and it looks beautiful like the lotus leaves on waters. (49)

In its middle is situated Jambu dvipa surrounded by salt ocean, one lakh Yojanas wide. (50)

That ocean, like the moat (ditch) round a city, is ten lakhs of yojanas in length. Many beautiful peninsulas are there. (51)

Within the Jambudvipa, there is a very capacious and wonderful tree named Jambu tree, Its fruits are of a blue colour ; and, when ripe, each fruit looks like an elephant. (52)

There is the peak of the Sumeru Mount here and, in the central position, is the mountain Himdlaya, very beautiful and where many mines of precious stones and jewels occur, And there is also the Mount Kailiga, the abode of Mahadeva, here in this ‘Himalaya. (53)

O Narada! Ontheeight summits of the Mount Sumeru, very beautiful and variegated, live the eight Lokapalas. (54)

Indra, Fire, the Lords of the Pitrs, Nairrta, Varuna, Marut (wind), Kuvera, and Is4 reign respectively from the East, S. E, S, S. W,W,N.W.,N,N,B.) (55)

The abodes of the above Dikpilas (Regents of the respective quarters) are very pure, beautiful and decorated. (56)

The topmost peak of Sumeru is very wide ; in the conspicuous Position here is the Brahmaloka. Above Brahma loka is the Egg; and within the Egg is situated the entire universe. (57)

On the top peak of Sumeru are situated the six Lokas. The upper most Loka is Brahma-Loka ; within the middle. are situated

Bhurloka, Bhuvarloka, Svarloka Janarloka, Maharloka and Satyaloka. (58)

Second Night, Ch, II 111

Within the Satyaloka, Punyadharma always exists in the four “Yogas. : . On the left of Brahmaloka is Dhruvaloka. Brahma has created artifically the universe upto Brahmaloka. (59-60)

O Muni! I have told you about Jambu Dvipa as I saw. It is beautified with many rivers, mountains, forests. and caves. (61)

Here is situated Bharatavarga, coveted by all, excellent, the land of Karma, praised by all the saints, yielding punyam. (52)

In Vrindaban, that is within this Bharatavarsa, Krsna apeared. The birth in any other place, though a happy one, is considered to be full of troubles and of no use whatsoever ; it would be simply a case of coming and going, without any result whatsoever. (63)

The birth, for a moment even, in Bharatavarsa, due to good Karmas, is full of benefit ; for it is, after many births, that the births in Bhdratavarsa of saints take place. (64)

And if the learned man. getting his birth in Bharata, by the grace of Krsna, do not worship His lotus feet, what else can there

be more rediculous and distress2d. (65) oubles in the womb are

His birth is of no avail to him ; his tr Jess and his life passes in

in vain; his destructible body is fruit vain. (66)

He is dead while living, sinner, more vile and unholy than a candala, who eats daily without offering his food to Hari. (67)

A swine eats daily urine, and faeces, things worth not to be eaten. The above man is more wretched than a boar and eats daily uneatables to some extent and that is all. (68)

The thing that is not offered to Hari is not worth to be eaten by a Brahmana ; food, when not offered to Visnu, is like faeces ; and water is like urine. (69)

O Twice-born !_ He who daily eats the water used in washing tne feet of Hari and his naivedyam and takes His mantra, he

becomes liberated while living. (70)

112 Narada Paficardtram O Narada! The earth becomes instantaneously pure by the dust of his feet ; and the tirthas become sanctified. (71)

He becomes holy and liberated at once while on this earth 3.

and at every step ke derives the fruit of Asvamedha (horsesacrifice); there is no doubt in this. (72)

For guarding him, Krsna becomes not satisfied while he places. + SudarSana cakra at his disposal ; for He is unable to leave him - alone for a moment even. (73)

Such is He, the Ocean of mercy, and very eager always to show His favours to His devotee ?. Hence the saints do not worship any other Deva, quitting Him. (74)

Thus I have described to you from Heavens to Meru and Jambudvipa, Now bear of the other Dvipas. (75)

Next the Jambudvipa is Plaksa ‘dvipa. This is twice

Jambu dvipa and surrounded by Ikga samudra (ocean of Sugarcane Juice). (76)

The rivers, mountains, forests of that Plaksa dvipa are twice

these of Jambu. Various pleasures and amusements are there, very holy and beautiful. (77)

The people there, free from disease and old age, sport with all mental happiness. there, on account of Karmas, no birth takes Place ; only Karmas are enjoyed. (78)

O Muni! The stupid persons after enjoying their Karmas,

auspecious or inauspicious, go to Heavens of Hell - “according to their fate (adrsta). (79.

O Muni! next to Plaksa dvipa is the beautiful Saka dvipa.

This is twice the Plaksa dvipa ; and the ocean of wine is twice the ocean of Sugarcane Juice. (80)

Next to Saka dvipa is Kusa dvipa, very beautiful. It is twice

the preceding Dvipa and is surrounded by the ocean of ghee, twice the ocean of wine. (81)

O great Muni! next to Kuga Dvipa, is Vaka Dvipa, twice is large as Kuga ; it is surrounded by the ocean of curd, twice again as the ocean of ghee. (82)

”Sveta dvipa and very beautiful ; it is surrounded by ocean of clean

Second Night, Ch, IT 113

Salmali Dvipa again is twice as big as Vaka Dvipa ; it is surrounded by the ocean of milk, twice as big as the ocean of curd. (83)

Within this ocean of milk, there is an. Upadvipa (peninsula), very beautiful, named Sveta dvipa. Here Bhagavan Visnu resides, and is served by Laksmi, the daughter of ocean. (84)

Visnu is of Nardyana’s athéa (part) ; another name of His is Vaikuntha ; He is holy and the obode of Sattva gunas ; He is fourarmed and he is adorned with garland of forest flowers. (85)

He is surrounded by Parsadas (attendants) of blue colour, and of four arms ; adored by Sanaka etc., and other Munis and by Brahma and other Devas. (86)

He is the bestower of bliss and moksa ; he awards all wealth and Himself is endowed with beauty. And the island is like the dise of the Moon, pure and circular. (87)

Its length and breadth are one ayuta yojanas (10,000 yojanas). It is built by the will of Hari, of precious jewels and stones. (88)

And surrounded by one hundred Kotis of buildings of Pargadas. Seeing the workmanship of this dvipa, Visvakarma considers himself as very low and insignificant. (89)

Here is a garden containing one hundred Kotis of Kalpapadapas (trees yielding the fruits of all desires) and eight hundred Kotis of Kamadhenus. (cows yielding plenty). (90)

In the flower garden there are one hundred Kotis of tanks, rendered charming by Gondharvas, Nartakas (dancers), Siddhas, Yogindras, and Apsaras. (91)

Nant to Sveta dvipa is Kraufica dvipa. It is twice as big as

water ; twice as large as thé ocean of milk. (92)

Thus I have spoken to you about the seven dvipas full of rivers, oceans, and forests and very beautiful caves. (93)

Beyond this, there extends earthy regions, golden in colour, devoid of any life, full of splendour, day and night shining. (94)

114 Narada Pajicaratram

'" O Narada! That egg is Maha Vigsnu and within His pores, Brahma created the entire universe within the cavity of: the egg. (95)

As many pores are in Hari’s body, so many innumerable universes are created. (96)

Maha Vignu rests on waters. On each of His pores, there is water. Over water there is great air; over the air there is tortoise . (97)

Over the tortoise there is Sega, looking like a gnat over ap elephant. And on one side of the head of the thousand headed Sega, the egg, the support of the universe is resting like a mustard seed on a winnowing basket. (98-99)

And this Maha Visnu is one-sixteenth part of Krgna Bhagavan, the Supreme Spirit, who is beyond Prakrti. O Narada! all this universe, from Brahma down to a blade of grass, is false. Therefore worship that True One, the Highest Brahma, who is beyond the three gunas, the Lord of Radhika. (100)

Here ends the Second Chapter is the Second Night on _ Bhakti Jaana, on the nectar of Knowledge.

Complete chapter-aligned witnesses. Sanskrit/IAST is the GGM complete amended text, version 1.1, based on Vijñānānanda’s 1997 edition; the displayed Devanagari is transliterated directly from that proofread IAST witness. English is Swami Vijñānānanda’s complete translation, printed pages 106–114 (scan pages 123–131). It was extracted with Tesseract 5 English OCR from the 200 ppi published scan, with chapter boundaries controlled against the printed contents. No unsupported verse-by-verse equivalence is asserted.