Skip to main content

Fifth Night · Chapter 2

Chapter 2

Unit 51 of 60Fifth Night · Chapter 2Fifth Night · Chapter 21 source entries

Fifth Night · Chapter 2

Source

द्वितीयो ऽध्यायः मुद्रा-निरूपणम् श्री-महादेव उवाच— अथोच्यते वश्य-विधिः पुरोक्त-दशार्णतो ऽष्त-दश-वर्णतश् च । स्मृत्यैतयोः सर्व-जगत्-प्रियत्वꣳ मनुर् मनु-ज्ञस्य सदा विधत्ते ॥१॥ फुल्लैर् वन्य-प्रसूनैर् अमुम् अरुणतरैर् अर्चयित्वा दिनादौ नित्यꣳ नित्य-क्रियायाꣳ रतम् अथ दिन-मध्योक्त-कॢप्त्या मुकुन्दम् । अष्टोपेतꣳ सहस्रꣳ दश-लिपि-मनु-वर्यꣳ जपेद् यः स मन्त्री कुर्याद् वश्यान्य-वश्यꣳ स्व-सुख-मुख-भुवाꣳ मन्त्रवन् मण्डलानि ॥२॥ जाति-प्रसूनैर् वर-गोप-वेषꣳ क्रीडा-रतꣳ रक्त-हयारि-पुष्पैः । नीलोत्पलैर् गीत-रतꣳ पुरो ऽवदृष्ट्वा नृपादीन् वशयेत् क्रमेण ॥३॥ सित-कुसुम-समेतैस् तण्डुलैर् आज्य-सिक्तैर् दश-शतम् अथ हुत्वा नित्यशः सप्त-वारम् । कच-भुवि च ललाटे भस्म तद् धारयन्ना- वशयति युवतीꣳ स्त्री तत्-प्रतिꣳ सा तदैव ॥४॥ ताम्बुल-वस्त्र-कुसुमाञ्जन-चन्दनाढ्यꣳ जप्त्वा सहस्रमयमन्यतरेण मन्वोः । यस्मै ददाति मुनिवित् स जनो ऽस्य साक्सात् स्यात् किङ्करो न खलु तत्र विचारणियाम् ॥५॥ राज-द्वारे व्यवहारे सभायाꣳ द्यूते वादे चाष्ट-युक्तꣳ शतꣳ च । जप्त्वा वाचꣳ प्रथमाम् ईरयेद् यो वर्तेतासौ तत्र तरोपरिष्टात् ॥६॥ आसीनꣳ सुर-मथनꣳ कदम्ब-मूले गायन्तꣳ मधुरतरꣳ व्रजाङ्गानिभिः । स्मृत्वाग्नौ मधु-मिलितैर् मयूर-केध्मैर् हुत्वासौ वशयति मन्त्रवित् त्रि-लोकीम् ॥७॥ रासम् अध्यगतम् अच्युतꣳ स्मरन् यो जपेत् दश-शतꣳ दशाक्षरम् । नितयशो झटिति मासतो नरो वाञ्छिताम् अतिवहेत् स कन्यकाम् ॥८॥ तङ्ग-कुब्जम् अधिरूढम् अच्युतꣳ या विचिन्त्य दिनशः सहस्रकम् । साष्टकꣳ जपति सा हि मण्डलात् वाञ्छितꣳ वतम् उपैति कन्यका ॥९॥ नृत्यन्तꣳ व्रज-सुन्दरी-जन-कराम्भोजालि-सꣳग्राहितꣳ ध्यात्वाष्टादश-वर्णकꣳ मनु-वरꣳ लक्षꣳ जपेन् मन्त्रवित् । लाजानाम् अथवा मधु-द्रुततरैर् हुत्वायुतꣳ चुर्णिकैर् उद्वोढु प्रजपेच् च तावद् अचिराद् आकाꣳक्षिताꣳ कन्यकाम् ॥१०॥ अष्टादशालक्षणेन द्विज-तरुजैस् त्रिमध्वक्तैर् अयुतम् । कुशैस् तिलैर् वा सिततण्डुलैर् अशयितुꣳ द्विजान् जुहुयात् ॥ जुहुयात् कृतमानभरैर् वशयेन् नृपतोन्कुसुमैः कुरुण्टकजैः । विषैक्षुरसैर् अपि पाटलजैर् इतरान् अपि तद्वद् अथोवशयेत् ॥११॥ अभिनवैः कमलैर् अरुणोत्लपैः समधुरैर् अपि चम्पक-पाटलैः । प्रतिहुनेद् अयुतꣳ क्रमशो ऽअचिराद् वशयितुꣳ सुखजादिवरङ्गनाः ॥१२॥ हयारिकुसुमैर् नवैस् त्रिमधुराप्लुतैर् नित्यशः सहस्रमुषिरासवꣳ प्रतिहुनेन् निशीथे बुधः । सुगर्वितधियꣳ हठात् झटिति वारयोषाम् असौ । करोति निजीकङ्करी स्मरशिलीमुखैर् अद्दिताम् ॥१३॥ पटसꣳयुतैस् त्रिमधुराद्रभवैर् अपि सर्षपैर् दज़शतत्रितयम् । निशि जुह्वतो ऽस्य शची-दयितो ऽप्य् अवशो वशीभवति किन्त्व् अपरे ॥१४॥ अखण्द-बिल्वजैः फलसमित् प्रसवच् छदनैर् मधुद्रुततरैर् हवनात् । कमलैः सिताक्षतयुतैश् च पृथक् कमलताꣳ चिराय वशयेद् अचिरात् ॥१५॥ अपहृत्य गोपवनिताम्बरजातꣳ हृदयैः कदम्बम् अधिरूढम् अच्युतम् । प्रजपन् महानिशि सहस्रम् आनयेत् द्रुतम् उर्वशीम् अपि हठात् दशाहुतः ॥१६॥ बहुना किम् अत्र कथितेन मन्त्रयोर् अनयोः दृङ् न हि परो वशीकृतौ । अपि तृप्तिकर्मणि विदग्धयोषिताꣳ कुसुमायुधास्त्रमयवर्षिणोर् इह ॥१७॥ वन्दे कुन्देनुगौरꣳ तरुणम् अरुणपाथोजपत्राभनेत्रꣳ शङ्खꣳ चक्रꣳ गदाब्जे निजभजपरिधैरायतैर् आदधानम् । दिव्यैर् भूषाङ्गरागैर् नवनलिनलसन् मालया च प्रदीप्तꣳ द्योतत्पीताꣳबराढ्य्मुनिभिर् अभिवृतꣳ पङ्कजस्थꣳ मुकुन्दम् ॥१८॥ एवꣳ ध्यात्वा पुमाꣳसꣳ स्फुटहृदयसरोजासनासीनम् आद्य सान्द्राम्भोजच्छविꣳ वा द्रुतकनकनिभꣳ यो जपेद् अर्कलक्षꣳ । मन्वोर् एकꣳ हि सम्यग्वशम् अपि च हुनेद् अर्कसाहस्रम् इध्मैः क्षीरिद्रुत्थैः पयोभिःसमधुघृतसितेनाथवा पायसेन ॥१९॥ ततो लोकाध्यक्षꣳ ध्रुवचितिसदानन्दवपुषम् हृदा पाथोजाविर्भवति मिरसꣳहारमिहिरम् । निजैक्येन ध्यायन् मनुम् अमलचेताः प्रतिदिनꣳ त्रिसाहस्रꣳ जप्येत् प्रयजतु च साहाह्नविधिना ॥२०॥ विधिꣳ यो ऽमुꣳ भक्त्या भजति नियतꣳ सुस्थिरमतिर् भवाम्बोधिꣳ भीमꣳ विषम् अविषयग्राहनिकरैः । तरङ्गैर् उत्तुङ्गैर् जनिमृतिसमाख्यैः प्रविततꣳ समत्तोर्यानल्पꣳ व्रजति परमꣳ धाम स हरेः ॥२१॥ गृणꣳस् तस्य नामानि शृण्वस् तदीयाः कथा सꣳस्मरꣳस् तस्य रूपाणि नित्यम् । स्मरꣳस् तत्पदाम्भोरुहꣳ भक्तिनम्रः स पूज्यो बुधैर् नित्ययुक्तः स एव ॥२२॥ वक्ष्ये मनुद्वयम् अथातिरहस्यम् अन्यत् सꣳक्षेपतो भुवनमोहननामधेयम् । ब्रह्मेन्द्रवामनयनेन्दुभिरादमो ऽन्यस् तत्पूर्वको विषहृषीकयुतश् च ङे ऽन्तः ॥२३॥ नमो ऽस्तु सम्मोहननारदो मुनिश् छन्दस् तु गायत्रम् उदीरितꣳ बुधैः । त्रैलोक्य-सम्मोहन-विष्णोर् एतयोः स्याद् देवता वच्म्य् अधुना षड्-अङ्गम् ॥२४॥ अक्लीबकलादीर्घः सकलैस् तद् अपि च कलामसारूढैः । उक्तꣳ पूर्ववद् आसनविन्यासान्तꣳ समाचरेद् अथ तु ॥२५॥ करयो शाखासु तले विन्यस्य षडङ्गानि चाꣳगुलीषु शरान् । मनुपटितमातृकावत्णैर् विन्यस्याङ्गानि विन्यसेच् च शरान् ॥२६॥ विषहृषीकयुतेशान् ङेहृत्करशाखाभिन्नमान्तिकान् । शोषेण मोहनसन्दीपनतापनमादनकादिकान् क्रमशः ॥२७॥ पञ्चैते सम्प्रोक्ता ह्राꣳह्रीꣳक्लीꣳच्लुत्सआदिकरणाः । सम्मोहनम् अथ जगताꣳ ध्यायेत् पुरुषोत्तमꣳ समाहितधीः ॥२८॥ दिव्यतरु द्यानोद्यद् रुचिरमहाकल्पपादपाधस्तात् । मणिमयभूतलविलसद् भद्रपयो जन्मपीठनिष्ठस्य ॥२९॥ विश्वप्राणिप्रोद्यत् प्रद्योतनसद्युतेः सुपर्णस्य । आसीनम् उन्नताꣳशो विद्रुमभङ्गाङ्गम् अङ्गजोन्मथितम् ॥३०॥ चक्रगदाꣳकुशपाशान् सुमनोबाणेक्षुचापकमलगदाः । दधतꣳ स्वदोर्भिर् अरुणायतविशालघूर्णिता क्षियुगललोलम् ॥३१॥ मनिमयकुण्डलकिरीटहाराङ्गदकङ्कणोर्मिररानाद्यैः । अरुणैर् माल्यविलेपैश् चोद्दीप्तꣳ पीतवस्त्रपरिधानꣳ ॥३२॥ निजवामोरुनिषणाꣳ श्लिषयन्तीꣳ वामहस्तघृतनलिनीम् । क्लिद्यद् योनिꣳ कमलामोदनदनव्याकुलाङ्गलताम् ॥३३॥ सुरुचिरभूषणमाल्यानुलेपनाꣳ सुसितवसनपरिवीताम् । निजसुखकमलव्यापृतचटुलायितनयनमधुकराꣳ तरुणीम् ॥३४॥ श्लिष्यन्तꣳ वामभुजादण्डेन दृढꣳ धृतेक्षुचापेन । तज्जनितपरमनिर्वुतिनिर्भरऋदयꣳ चराचरैकगुरुम् ॥३५॥ सुरदितिभुजगगुह्मकगन्धर्वाद्यङ्गनाजनसहस्रैः । मदमम्मथालसाङ्गैर् अभिवीतꣳ दिव्यभूषणोल्लसितैः ॥३६॥ आत्माभेदतयेत्थꣳ ध्यात्वैकाक्षरम् अथाष्टादशार्णम् । प्रजपेद् दिनकरलक्षꣳ त्रिमधुरसिक्तैश् च किꣳशुकप्रसवैः ॥३७॥ जुहुयाद् अर्कसहस्रꣳ विमलैः सलिलैश् च तर्पयेत् तावत् । विꣳशत्यर्णꣳ प्रोक्तꣳ मन्त्रꣳ दिनशो ऽमुम् अर्चयेद् भक्त्या ॥३८॥ पीठावन्दोवक्ष्यान्तराजयसिरोसुनाभिः पूजावपुम् । हरिम् आवाह्य स्कन्धे तस्यार्घाद्यैः समभ्यर्च्य भूषान्तैः ॥३९॥ अङ्गानि प्राणाꣳश् च न्यसेत् क्रमतः किरीटम् अपि शिरसि श्रवसोश् च । कुण्डले हरिप्रमुणामि प्रहराणि पाणिषु च ॥४०॥ श्रीवत्सकुअस्तुभौ च स्तनयोर् मूर्ध्नि गले च वनमालाम् । पीतवासनꣳ नितम्बो वामाꣳशो श्रियम् अपि स्वबीजेन ॥४१॥ इष्ट्वाथकर्णिकायाम् अङ्गानि विदिशासु दिक्षु शरान् । कोनेषु पञ्चमꣳ वै पुनर् अग्न्यादिदलेषु शक्तयः पूज्याः ॥४२॥ लक्ष्मीः सरस्वती च स्वर्णावदातनिभे अतिप्रीत्यौ । कीर्तिः कान्तिश् च सिते तुष्टिः पुष्टिर् मरकतप्रितमे ॥४३॥ दिव्याङ्गरागभूषणमाल्यदुकूलैर् अलꣳकृताङ्गताः । स्मरनानाः स्मरार्ता घृतचामरचारुकरतला एताः ॥४४॥ लोकेशा बहिरर्च्याः कथितार्चा मनुद्वयोद्भूताः । प्रायः पुरुषोत्तमविधिरयसैरसनोच्यते बहुमत्त्वात् ॥४५॥ त्रैलोक्यमोहनायेत्य् उक्त्वा विद्मह इति स्मरायेति ततः । धीमहि तन् नो चान्ते विष्णुस् तद् अनु प्रचोदयाद् गायत्री ॥४६॥ जप्यैषा तु जपादौ हरितहली श्रीकरी च जपहरणैः । प्रोक्षयितृशुद्धिवधये ऽर्च्यान्यात्मयागभूद्रव्याणि ॥४७॥ मन्वोर् एकेन शतꣳ प्रतर्पयेन् मोहनीप्रसूनद्युतेर् यः । तोयैर् दिनशः प्रातः स तु लभते वाञ्छितान् पक्षात् कामान् ॥४८॥ हुत्वायुतꣳ हुतशेषꣳ पाताज्येन तावद् अतिजप्तेन । भोजयेत् स्वसभिकꣳ रमणीꣳ मनो ऽर्पिताꣳ स्ववशताꣳ नेतुम् ॥४९॥ अष्टादशार्णविहिता विधयः कार्ये वश्यकृतास् ताभ्याम् । मन्वोर् अनयोः सदृशोः नहि जातस्त्रिलोकवश्यकर्मणि कश्चित् ॥५०॥ अत्रैकस् तु जपादव् अथवा कृष्णः सवेणुगीतिध्येयः । अरुणनूपुराङ्गवेशः कन्दर्पो वा प्रसूनचापेषु धारी च ॥५१॥ यस् त्व् एकतरꣳ मनुम् एतयोर् विमलधीः सदा भजति मन्त्री । स द्राम्नुद्रान्विततया तथा सिद्धिꣳ विप्राणाम् अतितराम् एति ॥५२॥ इति श्री-नारद-पञ्चरात्रे ज्ञानमृतसारे पञ्चमरात्रे मुद्रानिरूपणे द्वितीयो ऽध्यायः ॥२॥ …

dvitīyo 'dhyāyaḥ mudrā-nirūpaṇam śrī-mahādeva uvāca— athocyate vaśya-vidhiḥ purokta-daśārṇato 'ṣta-daśa-varṇataś ca | smṛtyaitayoḥ sarva-jagat-priyatvaṁ manur manu-jñasya sadā vidhatte ||1|| phullair vanya-prasūnair amum aruṇatarair arcayitvā dinādau nityaṁ nitya-kriyāyāṁ ratam atha dina-madhyokta-kḷptyā mukundam | aṣṭopetaṁ sahasraṁ daśa-lipi-manu-varyaṁ japed yaḥ sa mantrī kuryād vaśyānya-vaśyaṁ sva-sukha-mukha-bhuvāṁ mantravan maṇḍalāni ||2|| jāti-prasūnair vara-gopa-veṣaṁ krīḍā-rataṁ rakta-hayāri-puṣpaiḥ | nīlotpalair gīta-rataṁ puro 'vadṛṣṭvā nṛpādīn vaśayet krameṇa ||3|| sita-kusuma-sametais taṇḍulair ājya-siktair daśa-śatam atha hutvā nityaśaḥ sapta-vāram | kaca-bhuvi ca lalāṭe bhasma tad dhārayannā- vaśayati yuvatīṁ strī tat-pratiṁ sā tadaiva ||4|| tāmbula-vastra-kusumāñjana-candanāḍhyaṁ japtvā sahasramayamanyatareṇa manvoḥ | yasmai dadāti munivit sa jano 'sya sāksāt syāt kiṅkaro na khalu tatra vicāraṇiyām ||5|| rāja-dvāre vyavahāre sabhāyāṁ dyūte vāde cāṣṭa-yuktaṁ śataṁ ca | japtvā vācaṁ prathamām īrayed yo vartetāsau tatra taropariṣṭāt ||6|| āsīnaṁ sura-mathanaṁ kadamba-mūle gāyantaṁ madhurataraṁ vrajāṅgānibhiḥ | smṛtvāgnau madhu-militair mayūra-kedhmair hutvāsau vaśayati mantravit tri-lokīm ||7|| rāsam adhyagatam acyutaṁ smaran yo japet daśa-śataṁ daśākṣaram | nitayaśo jhaṭiti māsato naro vāñchitām ativahet sa kanyakām ||8|| taṅga-kubjam adhirūḍham acyutaṁ yā vicintya dinaśaḥ sahasrakam | sāṣṭakaṁ japati sā hi maṇḍalāt vāñchitaṁ vatam upaiti kanyakā ||9|| nṛtyantaṁ vraja-sundarī-jana-karāmbhojāli-saṁgrāhitaṁ dhyātvāṣṭādaśa-varṇakaṁ manu-varaṁ lakṣaṁ japen mantravit | lājānām athavā madhu-drutatarair hutvāyutaṁ curṇikair udvoḍhu prajapec ca tāvad acirād ākāṁkṣitāṁ kanyakām ||10|| aṣṭādaśālakṣaṇena dvija-tarujais trimadhvaktair ayutam | kuśais tilair vā sitataṇḍulair aśayituṁ dvijān juhuyāt || juhuyāt kṛtamānabharair vaśayen nṛpatonkusumaiḥ kuruṇṭakajaiḥ | viṣaikṣurasair api pāṭalajair itarān api tadvad athovaśayet ||11|| abhinavaiḥ kamalair aruṇotlapaiḥ samadhurair api campaka-pāṭalaiḥ | pratihuned ayutaṁ kramaśo 'acirād vaśayituṁ sukhajādivaraṅganāḥ ||12|| hayārikusumair navais trimadhurāplutair nityaśaḥ sahasramuṣirāsavaṁ pratihunen niśīthe budhaḥ | sugarvitadhiyaṁ haṭhāt jhaṭiti vārayoṣām asau | karoti nijīkaṅkarī smaraśilīmukhair additām ||13|| paṭasaṁyutais trimadhurādrabhavair api sarṣapair daZaśatatritayam | niśi juhvato 'sya śacī-dayito 'py avaśo vaśībhavati kintv apare ||14|| akhaṇda-bilvajaiḥ phalasamit prasavac chadanair madhudrutatarair havanāt | kamalaiḥ sitākṣatayutaiś ca pṛthak kamalatāṁ cirāya vaśayed acirāt ||15|| apahṛtya gopavanitāmbarajātaṁ hṛdayaiḥ kadambam adhirūḍham acyutam | prajapan mahāniśi sahasram ānayet drutam urvaśīm api haṭhāt daśāhutaḥ ||16|| bahunā kim atra kathitena mantrayor anayoḥ dṛṅ na hi paro vaśīkṛtau | api tṛptikarmaṇi vidagdhayoṣitāṁ kusumāyudhāstramayavarṣiṇor iha ||17|| vande kundenugauraṁ taruṇam aruṇapāthojapatrābhanetraṁ śaṅkhaṁ cakraṁ gadābje nijabhajaparidhairāyatair ādadhānam | divyair bhūṣāṅgarāgair navanalinalasan mālayā ca pradīptaṁ dyotatpītāṁbarāḍhymunibhir abhivṛtaṁ paṅkajasthaṁ mukundam ||18|| evaṁ dhyātvā pumāṁsaṁ sphuṭahṛdayasarojāsanāsīnam ādya sāndrāmbhojacchaviṁ vā drutakanakanibhaṁ yo japed arkalakṣaṁ | manvor ekaṁ hi samyagvaśam api ca huned arkasāhasram idhmaiḥ kṣīridrutthaiḥ payobhiḥsamadhughṛtasitenāthavā pāyasena ||19|| tato lokādhyakṣaṁ dhruvacitisadānandavapuṣam hṛdā pāthojāvirbhavati mirasaṁhāramihiram | nijaikyena dhyāyan manum amalacetāḥ pratidinaṁ trisāhasraṁ japyet prayajatu ca sāhāhnavidhinā ||20|| vidhiṁ yo 'muṁ bhaktyā bhajati niyataṁ susthiramatir bhavāmbodhiṁ bhīmaṁ viṣam aviṣayagrāhanikaraiḥ | taraṅgair uttuṅgair janimṛtisamākhyaiḥ pravitataṁ samattoryānalpaṁ vrajati paramaṁ dhāma sa hareḥ ||21|| gṛṇaṁs tasya nāmāni śṛṇvas tadīyāḥ kathā saṁsmaraṁs tasya rūpāṇi nityam | smaraṁs tatpadāmbhoruhaṁ bhaktinamraḥ sa pūjyo budhair nityayuktaḥ sa eva ||22|| vakṣye manudvayam athātirahasyam anyat saṁkṣepato bhuvanamohananāmadheyam | brahmendravāmanayanendubhirādamo 'nyas tatpūrvako viṣahṛṣīkayutaś ca ṅe 'ntaḥ ||23|| namo 'stu sammohananārado muniś chandas tu gāyatram udīritaṁ budhaiḥ | trailokya-sammohana-viṣṇor etayoḥ syād devatā vacmy adhunā ṣaḍ-aṅgam ||24|| aklībakalādīrghaḥ sakalais tad api ca kalāmasārūḍhaiḥ | uktaṁ pūrvavad āsanavinyāsāntaṁ samācared atha tu ||25|| karayo śākhāsu tale vinyasya ṣaḍaṅgāni cāṁgulīṣu śarān | manupaṭitamātṛkāvatṇair vinyasyāṅgāni vinyasec ca śarān ||26|| viṣahṛṣīkayuteśān ṅehṛtkaraśākhābhinnamāntikān | śoṣeṇa mohanasandīpanatāpanamādanakādikān kramaśaḥ ||27|| pañcaite samproktā hrāṁhrīṁklīṁclutsaādikaraṇāḥ | sammohanam atha jagatāṁ dhyāyet puruṣottamaṁ samāhitadhīḥ ||28|| divyataru dyānodyad ruciramahākalpapādapādhastāt | maṇimayabhūtalavilasad bhadrapayo janmapīṭhaniṣṭhasya ||29|| viśvaprāṇiprodyat pradyotanasadyuteḥ suparṇasya | āsīnam unnatāṁśo vidrumabhaṅgāṅgam aṅgajonmathitam ||30|| cakragadāṁkuśapāśān sumanobāṇekṣucāpakamalagadāḥ | dadhataṁ svadorbhir aruṇāyataviśālaghūrṇitā kṣiyugalalolam ||31|| manimayakuṇḍalakirīṭahārāṅgadakaṅkaṇormirarānādyaiḥ | aruṇair mālyavilepaiś coddīptaṁ pītavastraparidhānaṁ ||32|| nijavāmoruniṣaṇāṁ śliṣayantīṁ vāmahastaghṛtanalinīm | klidyad yoniṁ kamalāmodanadanavyākulāṅgalatām ||33|| surucirabhūṣaṇamālyānulepanāṁ susitavasanaparivītām | nijasukhakamalavyāpṛtacaṭulāyitanayanamadhukarāṁ taruṇīm ||34|| śliṣyantaṁ vāmabhujādaṇḍena dṛḍhaṁ dhṛtekṣucāpena | tajjanitaparamanirvutinirbharaṛdayaṁ carācaraikagurum ||35|| suraditibhujagaguhmakagandharvādyaṅganājanasahasraiḥ | madamammathālasāṅgair abhivītaṁ divyabhūṣaṇollasitaiḥ ||36|| ātmābhedatayetthaṁ dhyātvaikākṣaram athāṣṭādaśārṇam | prajaped dinakaralakṣaṁ trimadhurasiktaiś ca kiṁśukaprasavaiḥ ||37|| juhuyād arkasahasraṁ vimalaiḥ salilaiś ca tarpayet tāvat | viṁśatyarṇaṁ proktaṁ mantraṁ dinaśo 'mum arcayed bhaktyā ||38|| pīṭhāvandovakṣyāntarājayasirosunābhiḥ pūjāvapum | harim āvāhya skandhe tasyārghādyaiḥ samabhyarcya bhūṣāntaiḥ ||39|| aṅgāni prāṇāṁś ca nyaset kramataḥ kirīṭam api śirasi śravasoś ca | kuṇḍale haripramuṇāmi praharāṇi pāṇiṣu ca ||40|| śrīvatsakuastubhau ca stanayor mūrdhni gale ca vanamālām | pītavāsanaṁ nitambo vāmāṁśo śriyam api svabījena ||41|| iṣṭvāthakarṇikāyām aṅgāni vidiśāsu dikṣu śarān | koneṣu pañcamaṁ vai punar agnyādidaleṣu śaktayaḥ pūjyāḥ ||42|| lakṣmīḥ sarasvatī ca svarṇāvadātanibhe atiprītyau | kīrtiḥ kāntiś ca site tuṣṭiḥ puṣṭir marakatapritame ||43|| divyāṅgarāgabhūṣaṇamālyadukūlair alaṁkṛtāṅgatāḥ | smaranānāḥ smarārtā ghṛtacāmaracārukaratalā etāḥ ||44|| lokeśā bahirarcyāḥ kathitārcā manudvayodbhūtāḥ | prāyaḥ puruṣottamavidhirayasairasanocyate bahumattvāt ||45|| trailokyamohanāyety uktvā vidmaha iti smarāyeti tataḥ | dhīmahi tan no cānte viṣṇus tad anu pracodayād gāyatrī ||46|| japyaiṣā tu japādau haritahalī śrīkarī ca japaharaṇaiḥ | prokṣayitṛśuddhivadhaye 'rcyānyātmayāgabhūdravyāṇi ||47|| manvor ekena śataṁ pratarpayen mohanīprasūnadyuter yaḥ | toyair dinaśaḥ prātaḥ sa tu labhate vāñchitān pakṣāt kāmān ||48|| hutvāyutaṁ hutaśeṣaṁ pātājyena tāvad atijaptena | bhojayet svasabhikaṁ ramaṇīṁ mano 'rpitāṁ svavaśatāṁ netum ||49|| aṣṭādaśārṇavihitā vidhayaḥ kārye vaśyakṛtās tābhyām | manvor anayoḥ sadṛśoḥ nahi jātastrilokavaśyakarmaṇi kaścit ||50|| atraikas tu japādav athavā kṛṣṇaḥ saveṇugītidhyeyaḥ | aruṇanūpurāṅgaveśaḥ kandarpo vā prasūnacāpeṣu dhārī ca ||51|| yas tv ekataraṁ manum etayor vimaladhīḥ sadā bhajati mantrī | sa drāmnudrānvitatayā tathā siddhiṁ viprāṇām atitarām eti ||52|| iti śrī-nārada-pañcarātre jñānamṛtasāre pañcamarātre mudrānirūpaṇe dvitīyo 'dhyāyaḥ ||2|| …

English translation

CHAPTER II ON MUDRAS -

i" Sri Mahadeva said :—Now I will speak on the method of Vasikarana (the act of subduing or overcoming a perscn; one of the various Tantric processes by which an enemy or recalcitrant party may be brought under one’s power) of the aforesaid ten lettered mantra and the eighteen lettered mantra. If one remembers this

according to rulings, the sidhakas (practitioners) are loved by all people. qa) :

Note :—The ten lettered mantra : Klim, Glaum, Klim, Syamalabgaya namah or Balavapuse Krsnaya Svaha.

75 Sloka, 1st chapter, 5th night.

The Eighteen-lettered mantra:—Om Srim Klim, Govindaya Gopijanavallabhaya Srim, Srim, Srim.

ai fi ata fe ara aa aaae ae ata

123 4 5 67 8 9 10111213 1415 16 17 18

66 Sloka, Ist Chapter, 5th night.

After worshipping Sri Krsna in the morning with full nee forest flowers and after doing the daily mid-day duties to Sr" Visnu. if any body repeats the above ten-lettered mantra ay thousand and eight times he can bring all the people cf the wor under his control for his own happiness. (2)

If one worships with Jati flowers or Raktahayari flowers oF blue lotuses Sri Krsna in the garb of a Gopa, and playing (and, as it were, afraid) and sees Him in meditation and utters the mantra kings, etc. come under his control. (3) a

One should undertake to perform the Vasi karana Kriya (process of bringing under one’s control) of the females and their husbands after making Homa one thousand times with white flowers. rice and ghee, and from the next day, daily perform homa seven times, and then hold the ashes of the homa on his forehead. (4)

286 Narada P4jficaratram

After making japam duly of the aforesaid two mantras one thousand times with betels, cloths, flowers, black eye paint and sandal paste, if one throws the above materials on any body’s limbs, he immediately becomes the slave of the above mentioned man. There is no doubt in this. (5)

If the sidhakas or devotees make Japam one hundred and eight times the above mantra in the royal court, in business places, in assemblies, in gambling and in argumentation and then speak out. they come out superior to all. (6)

Remembering Sri Krsna as seated under the Kadamba tree near its stem and singing melodiously with the ladies of Braja and enchanting to the minds of the Devas, if any devotee performs homa with the plumes of peacocks immersed in ghee and throws them in the Homa Fire, he can bring the three worlds under his control. (7)

Rembering Sri Krsna in the centre of the Rasa Lila, if any body makes japam daily one thousand times of the above mentioned ten-lettered mantra, he can marry within one month a lady whom he chooses. (8)

Again if any woman meditates Acyuta Deva in His Full State and glory (i.e., stationed on high haunch backs) one thousand and eight times, she would be married to a husband whom she chooses. (9)

If one, knowing the mantra, meditates Sri Krsna as embraced by the arms of Braja ladies and mutters the ten-lettered mantra one lakh times and performs homa with 1aja (fried rice) or with ghee and honey mixed, ten-thousands of times. he is soon married with the lady whom he likes. (10)

If one performs homa, repeating the eighteen (18) lettered mantra with Ku§a grass. tila, or white rice. kings come under his control; and if one performs homa wlth sugar cane juice, his countries come under his control. (11)

If one performs homa, ten thousand times with fresh lotus and red lotus and sweet fruits or with champaka flowers, one gets

The Fourth Night, Ch, II 287

‘within a very short time powers to bring the fairest ladies, able to give, pleasures, uuder his control. (12)

If one performs home ceremony with honey from latest fresh flowers and the roots of Usira plant mixed together one thousand times during the midnight, then if the lady be entirely devoted to her husband, she can be brought to bebave like a public lady (prostitute) and a slave and thus brought under one’s control in amorous affairs. (13)

If Homa be performed three thousand times with mustard and honey in the night time. even the wife Saci of Indra comes under his control unconsciously as his wife. Nothing more need be said of other women. (14)

If homa be performed ten thousand times wit and Samidha fuel and flowers and leaves and honey with lotuses and atap rice, the goddess Laksmi Devi comes under_ his control within a very short time. (15)

h entire Bel fruit

If one meditates Sri Krsna within one’s heart as having stolen

the clothings of the Gopikas and ascended on the Kadamba tree and if one makes Japam of the aforesaid mantra one thousand times in the midnight the public, ladies like Urvasi come under control suddenly within ten days. (16)

What more need be said than this—there is no other mantra superior to this as far as subjugating (vasikarana) others is cons cerned. The love lorn ladies being struck with the arrows of cupid come to satisfy the devotees using these two mantras. (17)

_I bow down to Sri Krsna the Bestower of Mukti (freedom) seated in the lotus seat, wearing yellow clothes, surrounded by the Munis, fair as Kund flower and the moon, young and emitting rays, is lotus like eyes holding conchshell; discus, club, and lotus, wearing beautiful ornaments and having powders and scents on his body, and beautiful with garlands of flesh flowers. (18) he lotus of your heart, of the n colour., Thus thinking, ve mentioned two mantras

Meditate Him thus as sitting int nature of Purusa, and with a golde whoever makes japam of any of the abo

288 Narada Paficaratram

twelve lakhs of times and performs homa twelve thousand beat with samidha fuel and with honey, ghee, and sugar or united with payasa, then everything comes under his control. (19)

Then think that Sri Krsna has risen within your heart, the Ruler of all the Lokas and of a blissful body. Then make japam three thousand times according to rules every evening with your heart pure. (20)

He who constantly worships with devotion and according fo rules becomes of a healthy mind and gets himself freed from this terrible ocean of world infested with terrible crocodiles in the shape of wordly things women, lands and money and various other dangers and goes to the highest region of Sri Hari. (21)

Whoever takes His name, hears His Lila, remember His various. incarnations and becomes humble and lowly in spirit with devotion, gets worship from the sages. Now I will disclose another secret of the above two mantras in the matter of subjugating others, (22)

“Klim Hrsikesaya namah” “att gitar aq” is the mantra that enchants and captivates others. The Rsi of this mantra is Narada ; Gayatri is the Chandas ; Visnu is the Devata ; its application is to enchant the three worlds. Now the Sadanga puja ofthe above is being mentioned. (23-24)

Klim Trailokya mohanaya vidmahe ; Kamadevaya dhimahi, Tanno, Visnuh pracodayat.

Now act according to the rules above mentioned after arranging your seat with the seed words sa, Ja, va uttered long (@a&) with their parts but without their neuter gender (artafas). (25)

After arranging for Sadanga pija (six limbed worship) in the

two hands and on the fingers. cover the mantras with matrka letters. Thus the Sara (arrow) of the limb worship (angapija is

drawn. (26) If hands and fingers be touched with “Hrsikesaya namah”

|; ji |

Mt The Fifth Night, Ch, II 289

uttered, the Kriyds (acts) Sosana, mohana, sandipana, tapana, madana come respectively within the circle of worship. (27)

The five mantras (1) Hram, (2) Hrim, (3) Klim, (4) Chur, (5) Sam are said to enchant the world (Jagat Mohan mantras). Then meditate with heart absorbed, the Purusottamam. Bs

Who sitting in the garden of Kalpavrksas at the root of va Maha Kalpa tree, is looking beautiful with ornaments of gems an Jewels in His body. (29)

Who is manifesting His Lila (sport), seated in His full state on the highest pinnacle of glory in the hearts of all beings. (30)

Who is holding in His hands discus, club, goad, bow and arrow, and lotus, and Who with wide eyes awake is looking at ees beauty of His own Body. (31)

Who looks brilliant with coronet, earrings, all full of ee necklaces, armlets, garlands and tinkling bells in His Hfcel en paste in His body ; and who is looking wonderful in His yellow robes. (32) E

Who is holding Laksmi Devi by His left arm, and, ene Her, has made Her sit on His left thigh, and for whom almo this whole universe seems mad. (33)

pastes and

Whose excellent ornaments and garlands and (looking

upper garment are enchanting the eyes of the on-lookers, like bees). (34) a

Holding rod in His left hand and holding bow and arr! a He has become the one and only Guru of the universe, move aa and immoveable, and He is tracing the people to save themse. from the Great Delusion and to attain Peace. (35) Tek

Who is intoxicating the Devas, Daityas, Serpents. ae Gandharvas and other people giving them their desired Boars and imparting them various mental passions and feelings and t adorning them. (26)

Who is Himself separate from all these and yet pect nnins

290 Narada Paficaratram this Divine Lila in the form of One Universal Soul. Meditate Him as before and then repeat the eighteen lettered mantra twelve lakhs

of times and perform homa with palasa flowers and honey twelve thousands of times. (37)

Then give peace offerings (tarpanam) in the clear water as Many times as last mentioned. Next worship Him daily with

twenty lettered mantra being filled with devotion

towards Him. (38)

Invoke Sri Hari in the pisha puja and offer Him arghya and various articles and ornaments and worship duly all his body, (giving him Victory and offering all the results to Him uttering Svaba). (39)

Infuse Prana Caitanya on all the limbs in due order, and

Provide ears, head and two hands with ornaments and thus increase the beauty of His Sri marti (Auspicious Form). (40)

Put-ornaments on His head and chest ; remember Srivatsa and Kaustubha, put garlands of forest flowers round his neck, yellow clothes round His waist and locate Laksmi Devi, His own Vija on His left. (41)

On all four sides and Perform the worshi Of the seat Io

four corners and within the Karnika ; p of angapaja and on the corners S,E.S.W. etc. tus (Pitha padma) worship the Saktis. (42)

Laksmi, Sarasvati of golden colours, very pleasing, Kirti

Kanti, of white colours, Tusti, Pusti, of emerald colours, etc. are the Saktis. (43)

Offer beautiful Pastes of the body (angaraga), ornaments, garlands, upper and lower garments, ornaments chamaras to them and make them be pleased, and then locate them. (44) _ On the outside of the lotus, several quarters (Lokapalas),.- Purusottama and therefore not unnecessarily. (45)

worship the Guardians of the Their worship resembles that of mentioned here as it will lengthen

Repeat this gayatri “Trailokya mahaniya Vidmahe Smaraya

The Fifth Night, Ch. If 291

‘Dhimahi tanno Visnuh pracodayat. We know the Enchanter of the three worlds; we mediiate on Smara, may Visnu send us to the meditation thereof. (46) . Make japam of this ; first offer Him duly all the material’s and worship the Saktis Haritahali and Srikari. These are

necessary. (47)

Whoever makes tarpanam to Sri Krsna, who looks like Mohiai flower, with water every day morning, repeating one hundred times the above mantra, he gets the desires of all his objects within one fortnight. (48)

Perform homa ceremony with ghee, etc, ten thousands of times and make japam the same number of times and eat the

remnant of havanam. Then ladies with become subservient. (49) are to be done as in the

In Vasikaran Kriya, similar things s equal

case of the eighteen lettered mantra. No other mantra i

to these two mantras in the act of Vasikaranam. (50)

In this, meditate in one case Sri Krsna, playing and sounding ith flowery

His pipe, and in the other case Meditate Kandarpa wii i bow in His hands of the colour of the rising Sun, and havio0g nipura, tinkling bells in His feet. (51)

Any clear minded devotee if he meditates any one of t mantras, aquires siddhi (success) like the Brahmanas- (52) Narada

hese

Here ends the Second Chapter on mudra in Sri Pajicaratra jitdnimrtasara in the Fifth Night.

CHAPTER III

ON THE MUDRAS AND ON THE SEVENFOLD OF SRI KRSNA AND THE ARRANGEMENTS THEREOF

Sri Mahadeva said :—Form the mantra :— add gikhi vama-

netra and Sagikhnada to Jayakrsna and yuga nirantaratma bhimi and their Saktis? (1)

The second mantra is formed thus :—To the letters of the tenlettered mantra and the caturthi’s ekavacana (singular) of mudita cetana and uparakta guru, maruta add Drsna. (2)

Sa, la, va, brim Srim are to be collected in due order and thus form the mantra. Muttering this mantra twelve and sixteen times, purify the body, (or thirty two, twelve and eight)? (3)

Is the mantra— @ a 4 @t aft ? The above verses are obcure.

The Rsi of this mantra is Nanda Narada, the chandas is Virat and the Devata is Sri Hari and its application is to enchant

the three world. Before the word Narada add ‘‘manda” with mukhavrtta. (4)

Add matnka letters before and after the eight, twelve, seven

and ten lettered mantras, Thus mantras will be formed for Popular from people. (5)

Next the blamaless devotee should purify his body by arranging within his body, the piace of worship and worshipping duly

with both his hands the sadaiga pija and angapaficaka puja of the ten-lettered mantra. (6)

Note of Sadaaga pija and ananga pancaka puja (See pages 41, 42 etc. the tenth chapter of the Gautamiya Tantra and other pages). ;

Add matrka letters before and after Klim af and touch the several parts of the body, Tepeating the above as in the ten tattvas and mirti pafijara mantras,

Complete chapter-aligned witnesses. Sanskrit/IAST is the GGM complete amended text, version 1.1, based on Vijñānānanda’s 1997 edition; the displayed Devanagari is transliterated directly from that proofread IAST witness. English is Swami Vijñānānanda’s complete translation, printed pages 285–292 (scan pages 302–309). It was extracted with Tesseract 5 English OCR from the 200 ppi published scan, with chapter boundaries controlled against the printed contents. No unsupported verse-by-verse equivalence is asserted.