Skip to main content

First Night · Chapter 6

Chapter 6

Unit 6 of 60First Night · Chapter 6First Night · Chapter 61 source entries

First Night · Chapter 6

Source

षष्ठो ऽध्यायः श्री-शुक उवाच— सनत्-कुमारो वैकुण्ठꣳ ब्रह्म-लोकꣳ च ब्रह्मणि ?wहत्?। गते ब्रह्मन् किꣳ चकार भगवान् नारदो मुनिः ॥१॥ व्यासो उवाच— मुनिस् तयोश् च गतयोः स रुरोद सरित्-तटे । इतस् ततश् च बभ्राम मद्-वियोग-शुचास्पद ॥२॥ स्व-मानसे समालोक्य मुनि-श्रेष्ठः स उन्मनाः । ध्यायमानो हरि-पदꣳ शिवꣳ द्रष्टुꣳ समुत्सुकः ॥३॥ प्रणम्य पितरꣳ भक्त्या कुमारꣳ भ्रातरꣳ तथा । जगाम तपस-स्थानात् कैलासाभिमुखे मुनिः ॥४॥ स्नात्वा च कृत-मालायाꣳ सꣳपूज्य परमेश्वरम् । भुक्त्वा फलꣳ जलꣳ पीत्वा प्रययौ गन्ध-मादनम् ॥५॥ ददर्श ब्राह्मणꣳ तत्र वट-मूले मनोहरे । कटमस्तम् ध्यायमानꣳ श्री-कृष्ण-चरणाम्बुजम् ॥६॥ दीर्गꣳ नग्नꣳ गौराङ्गꣳ दीर्घ-लोमभिर् आवृतम् । निमीलिताक्षꣳ सानन्दꣳ सानन्दाश्रु-समन्वितम् ॥७॥ पाद्मे पद्मेश-शेषादि-सुर-पूजित-वन्दिते । श्री-पाद-पद्मे शोभाढ्ये शश्वत्-सꣳन्यस्त-मानसम् ॥८॥ बाह्य-ज्ञान-परित्यक्तꣳ योग-ज्ञान-विशारदम् । शिवस्य शिष्यꣳ सद्-भक्तꣳ योगीन्द्राणाꣳ गुरोर् गुरोः ॥९॥ हृत्-पद्मे पद्म-नाभꣳ च परमात्मानम् ईश्वरम् । प्रदीप-कलिकाकारꣳ ब्रह्म-ज्योतिः-सनातनम् ॥१०॥ साक्षि-स्वरूपꣳ परमꣳ भगवन्तम् अधोक्षजम् । पश्यन्तꣳ सस्मितꣳ कृष्णꣳ पुलकाङ्कित-विग्रहम् ॥११॥ सद्-भावोद्रिक्त-चित्तꣳ च सद्-भावꣳ पुरुषोत्तमे । दृष्ट्वा महर्षि-प्रवरꣳ देवर्षि-विस्मयम् ययौ ॥१२॥ इतस् ततश् च बभ्राम ददर्श स्वाश्रमꣳ मुनेः । अतीव सुरहः-स्थानꣳ रम्यꣳ रम्यꣳ नवꣳ नवम् ॥१३॥ सुस्निग्धꣳ सुन्दरꣳ शुद्धꣳ परꣳ स्वच्छꣳ सरोवरम् । श्वेत-रक्तोत्पल-दलैः कमलैः कमनीयकम् ॥१४॥ गुञ्जदिन्दिन्द-वरैर् ?wहत्? मकरन्दोदरैस् तथा । व्याकुलैः सꣳकुलैः शश्वद्-राजितैश् च विराजितम् ॥१५॥ वन्यैर् वृक्षैर् बहु-विधैः फल-शाखा-सुशोभितैः । करञ्जकैश् च करजैर् बिम्बैः शाखोटिकैस् तथा ॥१६॥ तिन्तिडीभिः कपित्थैश् च वट-शिꣳशपा-चन्दनैः । मन्दारैः सिन्धु-वारैश् च ताडि-पत्रैः सुशोभनैः ॥१७॥ गुवाकैर् नारिकेतैश् च खर्जुरैः पनसैस् तथा । तालैः शालैः पियालैश् च हिन्तालैर् वकुलैर् अपि ॥१८॥ आम्रैर् आम्रातकैश् चैव जम्बीरैर् दाडिमैस् तथा । श्री-फलैर् वदरीभिश् च जम्बुभिर् नागरङ्गकैः ॥१९॥ सुपक्व-फल-शोभाड्यैः सुस्निग्धैः सुमनोहरैः । तरुणैस् तरु-राजैस् च नाना-जातिभिर् ईप्सितम् ॥२०॥ मल्लिका-मालती-कुन्द-केतकी-कुसुमैः शुभैः । माधवीनाꣳ लता-जालैश् चर्चितꣳ चारु-चम्पकैः ॥२१॥ कदम्बानाꣳ कदम्बैश् च स्वच्छैः श्वेतैश् च पुष्पितैः । नागेश्वराणाꣳ वृन्दैश् च दीप्तꣳ मन्दारकैर् वरैः ॥२२॥ हꣳस-कारण्ड-वकुलैः पुꣳस्-कोकिल-कुलैस् तथा । सन्ततꣳ कूजितꣳ शुद्धꣳ सुव्यक्तꣳ सुमनोहरम् ॥२३॥ शार्दूलैः शरभैः सिꣳहैर् गण्डकैर् महिषैः परम् । मनोहरैः कृष्ण-सारैश् चमरभिर् भाव-भूषितम् ॥२४॥ महा-मुनि-प्रभावेन हिꣳसा-दोष-विवर्जितम् । दस्यु-चौर-हिꣳस्र-जन्तु-भय-शोक-विवर्जितम् ॥२५॥ सुपुण्यदꣳ तीर्थ-वरꣳ भारते सुप्रशꣳसितम् । सिद्ध-स्थलꣳ सिद्धिदꣳ तꣳ मन्त्र-सिद्धि-करꣳ परꣳ ॥२६॥ दृष्ट्वाश्रमꣳ मुनि-श्रेष्ठो जगाम मुनि-सꣳसदि । आसने च समासीनꣳ ध्यान-हीनꣳ ददर्श तम् ॥२७॥ समुत्तस्थौ स वेगेन दृष्ट्वा देवर्षि-पुङ्गवम् । दत्वामलꣳ फलꣳ मूलꣳ सꣳभाषाꣳ स चकार ह ॥२८॥ प्रश्नꣳ चकार स मुनि-वीणा-पाणिꣳ नारदम् । सस्मितः सस्मितꣳ शुद्धꣳ शुद्ध-वꣳश-समुद्भवम् ॥२९॥ सद्-भाग्योपस्थितꣳ दीप्तꣳ ज्वलन्तꣳ ब्रह्म-तेजसा । अतिथिꣳ ब्राह्मण-वरꣳ ब्रह्म-पुत्रꣳ च पूजितꣳ ॥३०॥ मुनिर् उवाच— किꣳ नाम भवतो विप्र क्व यासीति क्व चागतः । क्व ते पिता स को वापि क्व वासः कुत्र सꣳभवः ॥३१॥ माꣳ वा ममाश्रमꣳ वापि पूतꣳ कर्तुम् इहागतः । मूर्तिमद्-ब्रह्म-तेजो हि मम भाग्याद् उपस्थितः ॥३२॥ अथ वैष्णव-दर्शन-फलम् न ह्य् अम्मयानि तीर्थानि न देवा मृच्छितामयाः । ते पुनन्त्य् उरुकालेन वैष्णवो दर्शनेन च ॥३३॥ सद्यः पूतानि तीर्थानि सद्यः पूता स-सागरा । स-शैल-कानन-द्वीपा पाद-स्पर्शाद् वसुन्धरा ॥३४॥ धन्यो ऽहꣳ कृत-कृत्यो ऽहꣳ सफलꣳ मम जीवनम् । सहसोपस्थितो गेहे ब्राह्मणो वैष्णवो ऽतिथिः ॥३५॥ पूजितो वैष्णवो येन विश्वꣳ च तेन पूजितम् । आश्रमꣳ वस्तु-सहितꣳ सर्वꣳ तुभ्यꣳ निवेदितम् ॥३६॥ फलानि च सुपक्वानि भुङ्क्ष्व भोगानि साम्प्रतम् । सुवासितम् पिब स्वादु शीतलꣳ निर्मलꣳ जलम् ॥३७॥ दुग्धꣳ च सुरभी-दत्तꣳ रम्यꣳ मधुरितꣳ मधु । परिपक्वꣳ फल-रसꣳ पिब स्वादु मुहुर् मुहुः ॥३८॥ सुख-बीज्ये सुतल्पे च शयनꣳ कुरु सुन्दरे । सुशीत-वात-सौगन्ध्य-पूतेन सुरभी-कृते ॥३९॥ अथातिथि-पूजन-फलम् अतिथिर् यस्य पुष्टो हि तस्य पुष्टो हरिः स्वयम् । हरौ तुष्टे गुरुस् तुष्टो गुरौ तुष्टे जगत्-त्रयम् ॥४०॥ अधिष्ठातातिथिर् गेहे सन्ततꣳ सर्व-देवताः । तीर्थान्य् एतानि सर्वाणि पुण्यानि च व्रतानि च ॥४१॥ तपाꣳसि यज्ञाः सत्यꣳ च शीलꣳ धर्मः सुकर्म च । अपूजितैर् अतिथिभिर् सार्धꣳ सर्वे प्रयान्ति ते ॥४२॥ अथातिथि-विमुखे दोषाः अतिथिर् यस्य भग्नाशो गृहात् प्रतिनिवर्तते । पितरस् तस्य देवाश् च पुण्यꣳ धर्म-व्रताशनाः ॥४३॥ यमः प्रतिष्ठा लक्ष्मीश् चाभीष्ट-देवो गुरुस् तथा । निराशाः प्रतिगच्छन्ति त्यक्त्वा पापꣳ च पूरुषम् ॥४४॥ स्त्री-घ्नैश् चैव कृत-घ्नैश् च ब्रह्म-घ्नैर् गुरु-तल्प-गैः । विश्वास-घातिभिर् दुष्टैर् मित्र-द्रोहिभिर् एव च ॥४५॥ सत्य-घ्नैश् च कृत-घ्नैश् च पापिभिः स्थापिभिस् तथा । दानापहारिभिश् चैव कन्या-विक्रियिभिस् तथा ॥४६॥ सीमापहारिभिश् चैव मिथ्या-साक्षि-प्रदातृभिः । ब्रह्म-स्वहारिभिश् चैव तथा स्थाप्यस्वहारिभिः ॥४७॥ वृष-वाहैर् देवलैश् च तथैव ग्राम-याजिभिः । शूद्रान्न-भोजिभिश् चैव शूद्र-श्राद्धाह-भोजिभिः ॥४८॥ श्री-कृष्ण-विमुखैर् विप्रैर् हिꣳस्रैर् नर-विघातिभिः । गुराव् अभक्तै रोगार्तैः शश्वन्-मिथ्या-प्रवादिभिः ॥४९॥ विप्र-स्त्री-गामिभिः शूद्रैर् मातृ-गामिभिर् एव च । अश्वत्थ-घातिभिश् चैव पत्नीभिः पति-घातिभिः ॥५०॥ पितृ-मातृ-घातिभिश् च शरणागत-घातिभिः । ब्राह्मण-क्षत्र-विट्-शूद्रैः शिला-स्वर्णापहारिभिः ॥५१॥ तुल्यो भवति विप्रेन्द्रातिथिर् एव त्व् अनर्चितः । इत्य एवम् उक्त्वा मुनिः पूजयाम् आस नारदम् । मिष्टꣳ च भोजयाम् आस शाययाम् आस भक्तितः ॥५२॥ श्री-नारद उवाच— नारदो ऽहꣳ मुनि-श्रेष्ठ ब्राह्मणो ब्रह्मणः सुतः । तपः-स्थलाद् आगतो ऽहꣳ यामि कैलासम् ईप्सितम् ॥५३॥ आत्मानꣳ पावनꣳ कर्तुꣳ त्वाꣳ च द्रष्टुम् इहागतः । पुनन्ति प्राणिनः सर्वे विष्णु-भक्त-प्रदर्शनात् ॥५४॥ को भवान् ध्यान-पूतश् च नग्नश् च कट-मस्तकः । किꣳ ध्यायसे महा-भाग श्रेष्ठ-देवश् च को गुरुह् ॥५५॥ मुनिर् उवाच— जीव-मुक्तो भवान् एव पुनासि भुवन-त्रयम् । यस्य तत्र कुले जन्म तस्य तत्-तद्-वचोमनः ॥५६॥ पुत्रे यशसि तोये च कवित्वेन च विद्यया । प्रतिश्ह्ठायाꣳ च ज्ञायेत सर्वेषाꣳ मानसꣳ नृणाम् ॥५७॥ विधाता जगताꣳ ब्रह्मा ब्रह्मैकतान-मानसः । तत्-पुत्रो ऽसि महाख्यातो देवर्षि-प्रवरो महान् ॥५८॥ लोमशो ऽ हꣳ महा-भाग जगत्-पावन-पावन । नग्नोऽल्पायुर् विवेकी च वाससा किꣳ प्रयोजनम् ॥५९॥ वृक्ष-मूले निवासे मे छत्रेण किꣳ गृहेण च । रौद्र-वृष्टि-वारणार्थꣳ साꣳप्रतꣳ कट-मस्तकः ॥६०॥ जल-बुद्बुद-विद्युद्वत्-त्रैलोक्यꣳ कृत्रिमꣳ द्विज । ब्रह्मादि-तृण-पर्यन्तꣳ सर्वꣳ मिथ्याइव स्वप्नवत् ॥६१॥ किꣳ कलत्रेण पुत्रेण धनेन सꣳपदा श्रिया । किꣳ वित्तेन च रूपेण जीवनाल्पायुषा मुने ॥६२॥ इन्द्रस्य पतनेनैव लोमकोत्पाटनꣳ मम । मनोश् च पतनꣳ तत्र मायया किꣳ प्रयोजनम् ॥६३॥ सर्व-लोमकोत्पाटनेन केशौघोत्पाटनेन च । अल्पायुषो मम मुने मरणꣳ निश्चितꣳ भवेत् ॥६४॥ ध्याये श्री-पाद-पद्मꣳ तत्-पाद्म-पद्मेश-वन्दितम् । परस्य प्रकृतेस् तस्य कृष्णस्य परमात्मनः ॥६५॥ तस्य मे ऽभीष्ट-देवस्य सर्वेषाꣳ कारणस्य च । गुरुर् मे जगताꣳ नाथो योगीन्द्राणाꣳ गुरुः शिवः ॥६६॥ मत्-कण्ठे कवचꣳ यस्य मद्-गुरुः कथयिष्यति । गुरोर् निषेधो यत्रास्ते तद् वक्तुꣳ कः क्षमो भुवि ॥६७॥ गुरोश् च वचनꣳ यो हि पालनꣳ न करोति च । गुरूक्तम् उक्त्वा पापी स ब्रह्म-हत्याꣳ लभेद् ध्रुवम् ॥६८॥ स्व-गुरुꣳ शिव-रूपꣳ च तद्-भिन्नꣳ मन्यते हि यः । ब्रह्म-हत्याꣳ लभेत् सो ऽपि विघ्नस् तस्य पदे पदे ॥६९॥ अकर्तव्यꣳ तु कर्तव्यꣳ पालनीयꣳ गुरोर् वचः । अपालने सर्व-विघ्नꣳ लभते नात्र सꣳशयः ॥७०॥ आशिषा पाद-रजसा चोच्छिष्टालिङ्गेन च । मुच्यते सर्व-पापेभ्यो जीवन्-मुक्तो भवेन् नरः ॥७१॥ स्व-गुरुꣳ शङ्करꣳ पश्य गच्छ कैलासम् ईप्सितम् । मुच्यते विघ्न-पापेभ्यो गुरोश् चरण-दर्शनात् ॥७२॥ इति श्री-नारद-पञ्च-रात्रे ज्ञानामृत-सारे प्रथ्मैक-रात्रे लोमश-नारद-सꣳवादे षष्ठो ऽध्यायः ॥६॥ …

ṣaṣṭho 'dhyāyaḥ śrī-śuka uvāca— sanat-kumāro vaikuṇṭhaṁ brahma-lokaṁ ca brahmaṇi ?what?| gate brahman kiṁ cakāra bhagavān nārado muniḥ ||1|| vyāso uvāca— munis tayoś ca gatayoḥ sa ruroda sarit-taṭe | itas tataś ca babhrāma mad-viyoga-śucāspada ||2|| sva-mānase samālokya muni-śreṣṭhaḥ sa unmanāḥ | dhyāyamāno hari-padaṁ śivaṁ draṣṭuṁ samutsukaḥ ||3|| praṇamya pitaraṁ bhaktyā kumāraṁ bhrātaraṁ tathā | jagāma tapasa-sthānāt kailāsābhimukhe muniḥ ||4|| snātvā ca kṛta-mālāyāṁ saṁpūjya parameśvaram | bhuktvā phalaṁ jalaṁ pītvā prayayau gandha-mādanam ||5|| dadarśa brāhmaṇaṁ tatra vaṭa-mūle manohare | kaṭamastam dhyāyamānaṁ śrī-kṛṣṇa-caraṇāmbujam ||6|| dīrgaṁ nagnaṁ gaurāṅgaṁ dīrgha-lomabhir āvṛtam | nimīlitākṣaṁ sānandaṁ sānandāśru-samanvitam ||7|| pādme padmeśa-śeṣādi-sura-pūjita-vandite | śrī-pāda-padme śobhāḍhye śaśvat-saṁnyasta-mānasam ||8|| bāhya-jñāna-parityaktaṁ yoga-jñāna-viśāradam | śivasya śiṣyaṁ sad-bhaktaṁ yogīndrāṇāṁ guror guroḥ ||9|| hṛt-padme padma-nābhaṁ ca paramātmānam īśvaram | pradīpa-kalikākāraṁ brahma-jyotiḥ-sanātanam ||10|| sākṣi-svarūpaṁ paramaṁ bhagavantam adhokṣajam | paśyantaṁ sasmitaṁ kṛṣṇaṁ pulakāṅkita-vigraham ||11|| sad-bhāvodrikta-cittaṁ ca sad-bhāvaṁ puruṣottame | dṛṣṭvā maharṣi-pravaraṁ devarṣi-vismayam yayau ||12|| itas tataś ca babhrāma dadarśa svāśramaṁ muneḥ | atīva surahaḥ-sthānaṁ ramyaṁ ramyaṁ navaṁ navam ||13|| susnigdhaṁ sundaraṁ śuddhaṁ paraṁ svacchaṁ sarovaram | śveta-raktotpala-dalaiḥ kamalaiḥ kamanīyakam ||14|| guñjadindinda-varair ?what? makarandodarais tathā | vyākulaiḥ saṁkulaiḥ śaśvad-rājitaiś ca virājitam ||15|| vanyair vṛkṣair bahu-vidhaiḥ phala-śākhā-suśobhitaiḥ | karañjakaiś ca karajair bimbaiḥ śākhoṭikais tathā ||16|| tintiḍībhiḥ kapitthaiś ca vaṭa-śiṁśapā-candanaiḥ | mandāraiḥ sindhu-vāraiś ca tāḍi-patraiḥ suśobhanaiḥ ||17|| guvākair nāriketaiś ca kharjuraiḥ panasais tathā | tālaiḥ śālaiḥ piyālaiś ca hintālair vakulair api ||18|| āmrair āmrātakaiś caiva jambīrair dāḍimais tathā | śrī-phalair vadarībhiś ca jambubhir nāgaraṅgakaiḥ ||19|| supakva-phala-śobhāḍyaiḥ susnigdhaiḥ sumanoharaiḥ | taruṇais taru-rājais ca nānā-jātibhir īpsitam ||20|| mallikā-mālatī-kunda-ketakī-kusumaiḥ śubhaiḥ | mādhavīnāṁ latā-jālaiś carcitaṁ cāru-campakaiḥ ||21|| kadambānāṁ kadambaiś ca svacchaiḥ śvetaiś ca puṣpitaiḥ | nāgeśvarāṇāṁ vṛndaiś ca dīptaṁ mandārakair varaiḥ ||22|| haṁsa-kāraṇḍa-vakulaiḥ puṁs-kokila-kulais tathā | santataṁ kūjitaṁ śuddhaṁ suvyaktaṁ sumanoharam ||23|| śārdūlaiḥ śarabhaiḥ siṁhair gaṇḍakair mahiṣaiḥ param | manoharaiḥ kṛṣṇa-sāraiś camarabhir bhāva-bhūṣitam ||24|| mahā-muni-prabhāvena hiṁsā-doṣa-vivarjitam | dasyu-caura-hiṁsra-jantu-bhaya-śoka-vivarjitam ||25|| supuṇyadaṁ tīrtha-varaṁ bhārate supraśaṁsitam | siddha-sthalaṁ siddhidaṁ taṁ mantra-siddhi-karaṁ paraṁ ||26|| dṛṣṭvāśramaṁ muni-śreṣṭho jagāma muni-saṁsadi | āsane ca samāsīnaṁ dhyāna-hīnaṁ dadarśa tam ||27|| samuttasthau sa vegena dṛṣṭvā devarṣi-puṅgavam | datvāmalaṁ phalaṁ mūlaṁ saṁbhāṣāṁ sa cakāra ha ||28|| praśnaṁ cakāra sa muni-vīṇā-pāṇiṁ nāradam | sasmitaḥ sasmitaṁ śuddhaṁ śuddha-vaṁśa-samudbhavam ||29|| sad-bhāgyopasthitaṁ dīptaṁ jvalantaṁ brahma-tejasā | atithiṁ brāhmaṇa-varaṁ brahma-putraṁ ca pūjitaṁ ||30|| munir uvāca— kiṁ nāma bhavato vipra kva yāsīti kva cāgataḥ | kva te pitā sa ko vāpi kva vāsaḥ kutra saṁbhavaḥ ||31|| māṁ vā mamāśramaṁ vāpi pūtaṁ kartum ihāgataḥ | mūrtimad-brahma-tejo hi mama bhāgyād upasthitaḥ ||32|| atha vaiṣṇava-darśana-phalam na hy ammayāni tīrthāni na devā mṛcchitāmayāḥ | te punanty urukālena vaiṣṇavo darśanena ca ||33|| sadyaḥ pūtāni tīrthāni sadyaḥ pūtā sa-sāgarā | sa-śaila-kānana-dvīpā pāda-sparśād vasundharā ||34|| dhanyo 'haṁ kṛta-kṛtyo 'haṁ saphalaṁ mama jīvanam | sahasopasthito gehe brāhmaṇo vaiṣṇavo 'tithiḥ ||35|| pūjito vaiṣṇavo yena viśvaṁ ca tena pūjitam | āśramaṁ vastu-sahitaṁ sarvaṁ tubhyaṁ niveditam ||36|| phalāni ca supakvāni bhuṅkṣva bhogāni sāmpratam | suvāsitam piba svādu śītalaṁ nirmalaṁ jalam ||37|| dugdhaṁ ca surabhī-dattaṁ ramyaṁ madhuritaṁ madhu | paripakvaṁ phala-rasaṁ piba svādu muhur muhuḥ ||38|| sukha-bījye sutalpe ca śayanaṁ kuru sundare | suśīta-vāta-saugandhya-pūtena surabhī-kṛte ||39|| athātithi-pūjana-phalam atithir yasya puṣṭo hi tasya puṣṭo hariḥ svayam | harau tuṣṭe gurus tuṣṭo gurau tuṣṭe jagat-trayam ||40|| adhiṣṭhātātithir gehe santataṁ sarva-devatāḥ | tīrthāny etāni sarvāṇi puṇyāni ca vratāni ca ||41|| tapāṁsi yajñāḥ satyaṁ ca śīlaṁ dharmaḥ sukarma ca | apūjitair atithibhir sārdhaṁ sarve prayānti te ||42|| athātithi-vimukhe doṣāḥ atithir yasya bhagnāśo gṛhāt pratinivartate | pitaras tasya devāś ca puṇyaṁ dharma-vratāśanāḥ ||43|| yamaḥ pratiṣṭhā lakṣmīś cābhīṣṭa-devo gurus tathā | nirāśāḥ pratigacchanti tyaktvā pāpaṁ ca pūruṣam ||44|| strī-ghnaiś caiva kṛta-ghnaiś ca brahma-ghnair guru-talpa-gaiḥ | viśvāsa-ghātibhir duṣṭair mitra-drohibhir eva ca ||45|| satya-ghnaiś ca kṛta-ghnaiś ca pāpibhiḥ sthāpibhis tathā | dānāpahāribhiś caiva kanyā-vikriyibhis tathā ||46|| sīmāpahāribhiś caiva mithyā-sākṣi-pradātṛbhiḥ | brahma-svahāribhiś caiva tathā sthāpyasvahāribhiḥ ||47|| vṛṣa-vāhair devalaiś ca tathaiva grāma-yājibhiḥ | śūdrānna-bhojibhiś caiva śūdra-śrāddhāha-bhojibhiḥ ||48|| śrī-kṛṣṇa-vimukhair viprair hiṁsrair nara-vighātibhiḥ | gurāv abhaktai rogārtaiḥ śaśvan-mithyā-pravādibhiḥ ||49|| vipra-strī-gāmibhiḥ śūdrair mātṛ-gāmibhir eva ca | aśvattha-ghātibhiś caiva patnībhiḥ pati-ghātibhiḥ ||50|| pitṛ-mātṛ-ghātibhiś ca śaraṇāgata-ghātibhiḥ | brāhmaṇa-kṣatra-viṭ-śūdraiḥ śilā-svarṇāpahāribhiḥ ||51|| tulyo bhavati viprendrātithir eva tv anarcitaḥ | itya evam uktvā muniḥ pūjayām āsa nāradam | miṣṭaṁ ca bhojayām āsa śāyayām āsa bhaktitaḥ ||52|| śrī-nārada uvāca— nārado 'haṁ muni-śreṣṭha brāhmaṇo brahmaṇaḥ sutaḥ | tapaḥ-sthalād āgato 'haṁ yāmi kailāsam īpsitam ||53|| ātmānaṁ pāvanaṁ kartuṁ tvāṁ ca draṣṭum ihāgataḥ | punanti prāṇinaḥ sarve viṣṇu-bhakta-pradarśanāt ||54|| ko bhavān dhyāna-pūtaś ca nagnaś ca kaṭa-mastakaḥ | kiṁ dhyāyase mahā-bhāga śreṣṭha-devaś ca ko guruh ||55|| munir uvāca— jīva-mukto bhavān eva punāsi bhuvana-trayam | yasya tatra kule janma tasya tat-tad-vacomanaḥ ||56|| putre yaśasi toye ca kavitvena ca vidyayā | pratiśhṭhāyāṁ ca jñāyeta sarveṣāṁ mānasaṁ nṛṇām ||57|| vidhātā jagatāṁ brahmā brahmaikatāna-mānasaḥ | tat-putro 'si mahākhyāto devarṣi-pravaro mahān ||58|| lomaśo ' haṁ mahā-bhāga jagat-pāvana-pāvana | nagno'lpāyur vivekī ca vāsasā kiṁ prayojanam ||59|| vṛkṣa-mūle nivāse me chatreṇa kiṁ gṛheṇa ca | raudra-vṛṣṭi-vāraṇārthaṁ sāṁprataṁ kaṭa-mastakaḥ ||60|| jala-budbuda-vidyudvat-trailokyaṁ kṛtrimaṁ dvija | brahmādi-tṛṇa-paryantaṁ sarvaṁ mithyāiva svapnavat ||61|| kiṁ kalatreṇa putreṇa dhanena saṁpadā śriyā | kiṁ vittena ca rūpeṇa jīvanālpāyuṣā mune ||62|| indrasya patanenaiva lomakotpāṭanaṁ mama | manoś ca patanaṁ tatra māyayā kiṁ prayojanam ||63|| sarva-lomakotpāṭanena keśaughotpāṭanena ca | alpāyuṣo mama mune maraṇaṁ niścitaṁ bhavet ||64|| dhyāye śrī-pāda-padmaṁ tat-pādma-padmeśa-vanditam | parasya prakṛtes tasya kṛṣṇasya paramātmanaḥ ||65|| tasya me 'bhīṣṭa-devasya sarveṣāṁ kāraṇasya ca | gurur me jagatāṁ nātho yogīndrāṇāṁ guruḥ śivaḥ ||66|| mat-kaṇṭhe kavacaṁ yasya mad-guruḥ kathayiṣyati | guror niṣedho yatrāste tad vaktuṁ kaḥ kṣamo bhuvi ||67|| guroś ca vacanaṁ yo hi pālanaṁ na karoti ca | gurūktam uktvā pāpī sa brahma-hatyāṁ labhed dhruvam ||68|| sva-guruṁ śiva-rūpaṁ ca tad-bhinnaṁ manyate hi yaḥ | brahma-hatyāṁ labhet so 'pi vighnas tasya pade pade ||69|| akartavyaṁ tu kartavyaṁ pālanīyaṁ guror vacaḥ | apālane sarva-vighnaṁ labhate nātra saṁśayaḥ ||70|| āśiṣā pāda-rajasā cocchiṣṭāliṅgena ca | mucyate sarva-pāpebhyo jīvan-mukto bhaven naraḥ ||71|| sva-guruṁ śaṅkaraṁ paśya gaccha kailāsam īpsitam | mucyate vighna-pāpebhyo guroś caraṇa-darśanāt ||72|| iti śrī-nārada-pañca-rātre jñānāmṛta-sāre prathmaika-rātre lomaśa-nārada-saṁvāde ṣaṣṭho 'dhyāyaḥ ||6|| …

English translation

CHAPTER VI

§ri Suka said :—Sanat-Kumara went to Vaikuntha and Brahma went to Brahmaloka. O Brahmana ! what did Muni ‘Narada do? (1)

Vyasa said :—When they went away, Narada wept and wept, wandering hither and thither on the banks of the river, (2)

He became sad, and absent-minded ; he then wanted to see the lotus feet of Sri Hari. (3)

He bowed down to his father Brahma and brother Sanatkumara and went from that Asrama towards Kailaéa. (4)

He bathed in the river Krtamala and worshipped Sri Krsna. He then took fruits, water and other edibles and went to the mountain Gandhamadana. (5)

There he saw a Brahmana, under 4 beautiful banyan tree, immersed in meditation of the lotus feet of Sri Krsna. (6)

He was very tall, naked, of a fair complexion and his body was covered with hairs. He was shedding tears of joy and his eyes were closed. (7)

His heart was wholly absorbed with the idea of the excellent ‘lotus feet of Sri Krsna worshipped and saluted by Brahma, Ananta cand the other Devas. (8)

He was so absorbed in introspection that he was completely unconscious to what occured before him. He was a disciple anda firm devotee of Sri Mahadeva, the Guru of the Gurus of Yogindras, expert in yoga. (9)

He was seeing in his heart- (Brahma Jyoti) in the form of a Supreme Soul, the Padmanabha (from whose das come out). (10)

He was seeing also Sri Krsna, smiling,

lotus the eternal Light of Brahma Flame, of the Highest God, the navel, the lotus

of a beautiful form

42 Narada Pajicardtram

(Vigraha) full of joy, the great Witness, Highest of all, Bhagavan. Adhoksaja (one who has got all one’s senses under control). (11)

Sri Narada Muni wondered on seeing the above Brahmana, the great Rsi, melted down with joy in meditation of Sri Krsna, the Highest Person and rapt with holy thoughts. (12)

He walked hither and thither and then sawa beautiful hermitage belonging to the Maharsi; it was very lovely and situated

in alovely place; there were new things adding novelty to the place, (13)

There was a tank of clear, cool water where white lotuses and

Kokanadas (red lotuses) were blowing and_ rendered the place charming, (14)

Busy bees were humming tavishingly, attracted by the sweet scent of the lotuses ; (15)

Various wild trees with fruits and branches adorned the place ; Karaja, Karanja, Vimba and Sakotaka trees were abundant. (16)

There were Tintidi, Kapitthya, Vata, Situsapa, Sandal, Mandara, Sindhuvara and beautiful Tdaditapatra trees all round. (17)

Gubaka, Coconut, Date, Panasa, Tala, Sala, Hintala, Piydla and Lakuca trees were there. (18)

There were Mango trees, Amratak, Jambira, Pomegranate, Bela, Plum, Jambu and Nagaranga trees’ And the place looked exceedingly beautiful with the ripe fruits and red colours of various trees. (19-20)

There abounded flower trees Mallika, Malati, Kunda, Ketaki. Madhavi creepers, and beautiful Campaka trees; white Kada-

mbas, Nagegvaras and Mandara flowers added romantic charm all around. (21-22)

Swans, Karandavas, male cuckoos, sounded their clear, pure voices incessantly and the whole place beautifully resounded with

their echoes. (23) \

On the Highest Knowledge 43 There used to wander tigers, Sarabhas, lions, gandakas, buffaloes, and beautiful Krgnasara bucks and camari cows. (24) By the powerful influence of the great Muni there were no feelings of envy or enmity etc. and stealing, dacoiting or fear from fierce animals or sorrow were not found there. (25) This Tritha yielding high merits is very famous in Bharatavarsa and is known as the place of siddhis (perfections). Mantras and

successes are realised here at once. (26) Seeing this, §ri Narada Rsi went to the Muni who was found

seated in his Asana but not in the meditative mood. (27)

The Devarsi on seeing Sri Narada, got up, cordially gave him welcome and offered him roots and fruits. (28)

Seeing Narada, born of a noble family, with lute in his hand, and of a pleasing countenance, asked him smiling. (29)

I think that the Muni Narada, burning with Brahmateja and looking brilliant with the light coming out of his body, the best of the Brahmanas, has come as a guest to my dgram as a result of my good fortune and he has been offered due worship and given a cordiai welcome. (30)

Lomaga Muni said:—O Brabmana! What is your name ? Whence are you coming ; and whither are you going 2. What is the name of your father ? where does he live and where is your birth place and what is your native village? (31)

Are you come to sanctify this agrama? J hope it is my good fortune that brings you here, the incarnate of Brahmateja the glory or lustre of Brahman that is supposed to surround a Brahmana). (32)

The Tirthas of water or the Devas made up of earth or stone take very long time to purify a thing ; but the sight of a Vaignava purifies that at once which was not purified by the above for a long

time. (33) The tirthas and the sea-girt earth with forests and islands are

purified at once by the touch of the feet of the Vaisnava’s (34)

44 Narada Paficardtram Iam blessed, indeed ! My birth and Karmas are blessed, as a Vaisnava Brahmana has come to my house all of a sudden. (35)

The whole universe has been worshipped by him who has

worshipped a Vaisnava. I give over to you this Agrama with all the articles, thereof. (36)

Now eat the nice ripe fruits and other edibles and drink scented, tasteful, cool and sparkling water. (37)

Drink cow’s pure milk and beautiful honey and the juice of ripe fruits as much as you can. (38)

Now sleep within this house on this beautiful soft bedding scented and cooled by cool breeze and scented with fragrants, (39)

Hari Himself is pleased with him who has pleased his guest ;

and Hari, being pleased, and Guru being pleased, the three worlds ‘become pleased. (40)

When a guest (Atithi) remains in a house, all the Devas reside \ with him in that house, Therefore where a guest is not worshipped, all the Tirthas, all Punyas (good merits), all the Vratas (vows) tapasya, sacrifices, truth, fame, good conduct, Dharma and righ-

teous acts all depart from there with the guest that goes back ‘disappointed. (41-42)

Also whence the atithi goes away disappointed, his Pitris, all the Devas, Punyas, Dharma, Vratas, food, self restraint, fame, Laksmi, the Ista Guru, leave his house and I abandon that sinful man. (43-44)

That man who does not worship a guest duly becomes like one who kills his wife, who is treacherous, who kills a Brahmana, who holds illegal interccourse with the wife of his Guru, who betrays who is wicked, who rebels against his friends, who murders truth, who is sinful, and who steals away a gift, whosells his daughter, who appropriates the boundaries of lands of others, who gives false evidence, who steals a Brahmana’s Property, who steals things Placed under one’s trust, who drives bulls, who is a Devala Brahmin, who isa Gramayaji (village priest), who eats the food of Sidras,

‘On the Highest Knowledge 45

and who cats the food on the Sraddha days of the Sidras, who is a Brahmana, opposed to Sri Krsna, who kills men, who is wicked and ferocious, who is void of devotion to his Guru, who is afflicted with diseases, who-speaks lies always, who is a Sidra, who goes to a Brahmana’s wife, who goes to his mother, who cuts Asvattha trees, who kills her husband, who kills his father and mother. who kills those who come under his protection, who isa Brahmana, Ksgatriya, Vaisya or Sadra that steals stone and gold. (45-51)

Thus saying, Loma$a Muni worshipped Narada with devotion and gave him sweets to eat and place to sleep. (52)

§ri Narada said :—““O Muni! Iam Narada, the chief of the Munis, Iam the son of Brahma ; I am coming froiy my place of asceticism and will go to Kailasa, desired by all. (57)

I have come here to see you and make my soul pure and holy ; as the sight of a Vaisnava sanctifies all the beings. (54)

Who are you, sanctified by your meditation, naked, and the hairs on your head twisted into straws? To whom belongs the Kavacam enclosed in jewel that hangs on your neck ? O Fortunate one! What do you meditate? Who is the highest and best Deva? Who is a Guru? Please tell me all this. (55)

The Lomasga Muni said :—You are Jivanmukta (liberated whilst living) ; you are sanctifying the three worlds ; the words and mind of a man become alike of the family in which he is born. (56)

The minds of all persons can be perceived by their sons, by their name and fame, by the water (abluations of various parts of body performed with water, libations of water to the deceased), by his poetic taste, by learning and by the good prestige that he weilds. (57)

Brahma. the creator of the world, is earnestly intent on meditating on Brahma; so you, His son, are the best of the Devarsis. ; (58)

O purifier of the world ! O fortunate one! My name is

46 Narada Pajicardtram

Lomaga ;Iam naked, for my longevity is short, andl am not inclined towards the enjoyment of senses; so what is the use of my clothings. (59)

I live under a tree which serves my umbrella ; what need have Ifora house? To prevent rain. heat, I am holding matted hairs on my head, (60)

These three worlds are the products of mere fancy transient like the bubble on the water or the lightning inthe sky. All the things from Brahma down to a blade of grass are all false. (61)

What is there the use in a wife, son, wealth, riches and beauty when the life is so short. (62)

My one hair falls off when one Indra dies; then one Manu also falls ; so why shall I be deluded ? (63)

Tam very short-lived ; when all my hairs will fall off and all my hairs will turn grey, I will die certainly. (64)

Imeditate on the lotus feet of Sri Krsna, the Paramatman, beyond Prakrti. Brahma, Laksmi Devi and Mahadeva all worship the same lotus feet. (55)

Sri Krsna, the Cause of all, is my Ista Deva (desired and beloved Deity) the Lord of the worlds. The Guru of the Yogindras, Bhagavan Siva is my Guru. (66)

My Guru will say to you about the Kavaca that you see on my neck. 1am ordered not to tell about this; and who is there in this world that can speak out what is forbidden to him to say. (67)

He who does not keep to his Guru’s commandments is a great sinner and reaps the furit of Brahmahatyaé (Brahminicide). (68)

He who considers his own Guru Deva as different from Siva, suffers the fruits of Brahmahatya and obstacles come to him at his every step. (69) oat

Even if a Guru’s commandment be such as ought not to be obeyed, that ought to be obeyed and carried out. If it be not

On the Highest Knowledge 47

obeyed, hindrances occur at every moment. There is no doubt in this. (70)

A man becomes freed of all sins and becomes a Jivanmukta, if, he gets Guru’s blessing, the dust of his holy feet ; and cats what had been left after being eaten by him. (71)

So go to Kailisa to see your own Guru Sankara, by the mere sight of whom, all men are freed of all their obstacles and sins. (72)

Here ends the 6th chapter of the first night on the dialogue between Lomasa Muni and Narada Muni.

——

Complete chapter-aligned witnesses. Sanskrit/IAST is the GGM complete amended text, version 1.1, based on Vijñānānanda’s 1997 edition; the displayed Devanagari is transliterated directly from that proofread IAST witness. English is Swami Vijñānānanda’s complete translation, printed pages 41–47 (scan pages 58–64). It was extracted with Tesseract 5 English OCR from the 200 ppi published scan, with chapter boundaries controlled against the printed contents. No unsupported verse-by-verse equivalence is asserted.