Skip to main content

Fourth Night · Chapter 3

Chapter 3

Unit 41 of 60Fourth Night · Chapter 3Fourth Night · Chapter 31 source entries

Fourth Night · Chapter 3

Source

तृतीयोऽध्यायः श्रीविष्णोर्नाम सहस्रम् श्रीमहादेव उवाच— बह्मत्यासहस्राणाꣳ पापꣳ शाम्येत् कथꣳचन । न पुनस्त्वय्यविज्ञाते कल्पकोटिशतैरपि ॥१॥ यस्मान्मया कृता स्पर्धा पवित्रꣳ स्यात्कथꣳ हरे । नश्यन्ति सर्वपापानि तन्माꣳ वद सुरेश्वर । तदाह देवो गोविन्दो मम प्रीत्या यथायथम् ॥२॥ श्रीभगवानुवाच— सदा नामसहस्रꣳ मे पावनꣳ मत्पदावहम् । तत्परोऽनुदिनꣳ शम्भो सर्वैश्वर्यꣳ यदीच्छसि ॥३॥ श्रीमहादेव उवाच— तमेव तपसा नित्यꣳ भजामि स्तौमि चिन्तये । तेनाद्वितीयमहिमो जगत्पूज्योऽस्मि पार्वति ॥४॥ श्रीपार्वत्युवाच— तन्मे कथय देवेश यथाहमपि शङ्कर । शर्वेश्वरी निरुपमा तव स्याꣳ सदृशी प्रभो ॥५॥ श्रीमहादेव उवाच— साधु साधु त्वया पृष्टो विष्णोर्भगवतः शिवे । नाम्नाꣳ सहस्रꣳ वक्ष्यामि मुख्यꣳ त्रैलोक्यमङ्गलम् ॥६॥ नमोनारायणाय पुरुषोत्तमाय च महात्मने । विशुद्धसद्माधिष्ठाय महाहꣳसाय धीमहि ॥७॥ विनियोगः—ओꣳ अस्य श्रीविष्णोः सहस्रनाममन्त्रस्य महादेव ऋषिः । अनुष्टुप् छन्दः । परमात्मा देवता । सूर्यकोटिप्रतीकाश इति बीजम् । गङ्गा तीर्थोत्तमा शक्तिः । प्रपन्नाशनिपञ्जर इति कीलम् । दिव्यास्त्र इत्यस्त्रम् । शर्वपापक्षयार्थꣳ सर्वाभीष्टसिद्ध्यर्थꣳ श्रीविष्णोर्नाम सहस्रꣳ जपे विनियोगः । ऋष्यादिन्यासः— ओꣳ महादेवाय ऋषये नमः शिरसि ॥इ॥ अनुष्टुप् छन्दसे नमः मुखे ॥इइ॥ परमात्मदेवतायै नमः हृदि ॥इइइ॥ सूर्यकोटिप्रतीकाशबीजाय नमः गुह्ये ॥इव्॥ गङ्गातीर्थोत्तमशक्तयेनमपादयोः ॥व्॥ प्रपन्नाशनिपञ्जरकीलकाय नमः नाभौ ॥वि॥ विनियोगाय नमः सर्वाङ्गे ॥विइ॥ करन्यासः— ओꣳ वासुदेवꣳ परꣳ ब्रह्मा इत्यङ्गुष्ठाभ्याꣳ नमः ॥इ॥ ओꣳ मूलप्रकृतिरिति तर्जनीभ्याꣳ नमः ॥इइ॥ ओꣳ भूमहावराह इति मध्यमाभ्याꣳ नमः ॥इइइ॥ ओम्ꣳ सूर्यवꣳशध्वजो राम अनामिकाभ्याꣳ नमः ॥इव्॥ ओꣳ ब्रह्मादिकमलादिगदासूर्यकेशवमिति कनिष्ठिकाभ्याꣳ नमः ॥व्॥ शेष इति करतलपृष्ठाभ्याꣳ नमः ॥वि॥ इति करन्यासः । हृदयादिषडङ्गन्यासः— ओꣳ वासुदेवꣳ परꣳ ब्रह्म इति हृदयाय नमः ॥इ॥ ओꣳ मूलप्रकृति शिरसे स्वाहा ॥इइ॥ ओꣳ भूमहावराह इति शिखायै वषट् ॥इइइ॥ ओꣳ सूर्यवꣳशध्वजो रामः कवचाय हुꣳ ॥इव्॥ ओꣳ ब्रह्मादिकमलादिगदासूर्य केशवः नेत्रत्रयाय वौषट् ॥व्॥ ओꣳ दिव्यास्त्र इत्यस्त्राय फट् ॥वि॥ इति हृदयादिषडङ्गन्यासः ॥८॥ विष्णुꣳ भास्वत्किरीटाङ्गदवलयगणाकल्पहारोदराङ्घ्रि श्रोर्णीभूषꣳसुवक्षोमणिमकरमहाकुण्डलꣳ मण्डिताꣳसꣳ । हस्तोद्यच्चक्रशङ्खाम्बुजगदममलꣳ पीतकौशेयवासो विद्युद्भासꣳ समुद्यद्दिनकरसदृशꣳ पद्महस्तꣳ नमामि ॥९॥ ओꣳ वासुदेवः परꣳ ब्रह्म परमात्मा परात्परम् । परꣳ धाम परꣳ ज्योतिः परꣳ तत्वꣳ परꣳ पदम् ॥१०॥ परꣳ शिवꣳ परो ध्येयः परꣳ ज्ञानꣳ परा गतिः । परमार्थः परꣳ श्रेयः परानन्दः परोदयः ॥११॥ परो व्यक्तः परꣳ व्योम परार्धः परमेश्वरः । निरामयो निर्विकारो निर्विकल्पो निराश्रयः ॥१२॥ निरञ्जनो निरालम्बो निर्लेपो निरवग्रहः । निर्गुणो निष्कलोऽनन्तोऽचिन्त्योऽसावचलोऽच्युतः ॥१३॥ अतीन्द्रियोऽमितोऽरोध्योऽनीहोऽनीशोऽव्ययोऽक्षयः । सर्वज्ञः सर्वगः सर्वः सर्वदः सर्वभावनः ॥१४॥ सर्वः शम्भुः सर्वसाक्षी पूज्यः सर्वस्य सर्वदृक् । सर्वशक्तिः सर्वसारः सर्वात्मा सर्वतोमुखः ॥१५॥ सर्वावासः सर्वरूपः सर्वादिः सर्वदुःखहा । सर्वार्थः सर्वतोभद्रः सर्वकारणकारणम् ॥१६॥ सर्वातिशायकः सर्वाध्यक्षः सर्वेश्वरेश्वरः । षड्विꣳशको महाविष्णुर्महागुह्यो महाहरिः ॥१७॥ नित्योदितो नित्ययुक्तो नित्यानन्दः सनातनः । मायापतिर्योगपतिः कैवल्यपतिरात्मभूः ॥१८॥ जन्ममृत्युजरातीतः कालातीतो भवातिगः । पूर्णः सत्यः शुद्धबुद्धस्वरूपो नित्यचिन्मयः ॥१९॥ योगिप्रियो योगमयो भवबन्धैकमोचकः । पुराणः पुरुषः प्रत्यक् चैतन्यꣳ पुरुषोत्तमः ॥२०॥ वेदान्तवेद्योदुर्ज्ञेयस्तापत्रयविवर्जितः । ब्रह्मविद्याश्रयोऽलङ्घ्यः स्वप्रकाशः स्वयꣳप्रभः ॥२१॥ सर्वोपय उदासीनः प्रणवः सर्वतः समः । सर्वानवद्यो दुष्पापस्तुरीयस्तमसः परः ॥२२॥ कूटस्थः सर्वसꣳष्लिष्टो वाङ्ममनोगोचरातिगः । सꣳकर्षणः सर्वहरः कालः सर्वभयङ्करः ॥२३॥ अनुल्लङ्घ्यः सर्वगतिर्महारुद्रो दूरासदः । मूलप्रकृतिरानन्दः प्रज्ञाता विश्वमोहनः ॥२४॥ महामायो विश्वबीजꣳ परशक्तिसुखैकभुक् । सर्वकाम्योऽनन्तशीलः सर्वभूतवशङ्करः ॥२५॥ अनिरुद्धः सर्वजीवो हषीकेशो मनःपतिः । निरुपाधिः प्रियो हꣳसोऽक्षरः सर्वनियोजकः ॥२६॥ ब्रह्मा प्राणेश्वरः सर्वभूतभृद्देहनायकः । क्षेत्रज्ञः प्रकृतिस्वामी पुरुषो विश्वसूत्रधृक् ॥२७॥ अन्तर्यामी विधामा’न्तःसाक्षी त्रिगुण ईश्वरः । योगी मृग्यः पद्मनाभः शेषशायी श्रियः पतिः ॥२८॥ श्रीसत्योपास्यपादाब्जोऽनन्तः श्रीःश्रीनिकेतनः । नित्यवक्षःस्थलस्थश्रीः श्रीनिधिः श्रीधरो हरिः ॥२९॥ रम्यश्रीर्निश्चयश्रीदो विष्णुः क्षीराब्धिमन्दिरः । कौस्तुभोद्भासितोरस्को माधवो जगदार्तिहा ॥३०॥ श्रीवत्सवक्षो निःसीमः कल्याणगुणभाजनम् । पीताम्बरो जगन्नाथो जगद्धाता जगत्पिता ॥३१॥ जगद्बन्धुर्जगत्स्रष्टा जगत्कर्ता जगन्निधिः । जगदेकस्फुरद्वीर्यो नाहꣳवादी जगन्मयः ॥३२॥ सर्वाश्चर्यमयः सर्वसिद्धार्थः सर्ववीरजित् । सर्वामोघोद्यमो ब्रह्मरुद्राद्युत्कृष्टचेतनः ॥३३॥ शम्भो पितामहो ब्रह्मपिता शक्राद्यधीश्वरः । सर्वदेवप्रियः सर्वदेववृत्तिरनुत्तमः ॥३४॥ सर्वदेवैकशरणꣳ सर्वदेवैकदैवतम् । यज्ञभुग् यज्ञफलदो यज्ञेशो यज्ञभावनः ॥३५॥ यज्ञत्राता यज्ञपमान् वनमाली द्विजप्रियः । द्विजैकमानदोऽहिस्रः कुलदेवोऽसुरान्तकः ॥३६॥ सर्वदुष्टान्तकृत् सर्वसज्जनानन्दपालकः । सर्वलोकैकजठरः सर्वलोकैकमण्डलः ॥३७॥ सृष्टिस्थित्यन्तकृच्चक्री शार्ङ्गधन्वा गदाधरः । शङ्खभृन्नन्दकीपद्मपाणिर्गरुडवाहनः ॥३८॥ अनिर्देश्यवपुः सर्वः सर्वलोकैकपावनः । अनन्तकीर्तिर्निःश्रीशः पौरुषः सर्वमङ्गलः ॥३९॥ सर्यकोटिप्रतीकाशो यमकोटिविनाशनः । ब्रह्मकोटिजगत्स्रष्टा वायुकोटिमहाबलः ॥४०॥ कोटीन्दुजगदानन्दी शम्भुकोटिमहेश्वरः । कुबेरकोटिलक्ष्मीवान् शत्रुकोटिविनाशन ॥४१॥ कन्दर्पकोटिलावण्यो दुर्गकोटिविमर्द्धनः । समुद्रकोटिगम्भीरस्तीर्थकोटिसमाह्वयः ।४२॥ हिमवत्कोटिनिष्कम्पः कोटिब्रह्माण्डविग्रहः । कोट्यश्वमेधपापघ्नो यज्ञकोटिसमार्चनः ॥४३॥ सुधाकोटिस्वास्थ्यहेतुः कामधुक्कोटिकामदः । ब्रह्मविद्याकोटिरूपः शिपिविष्टः शुचिश्रवाः ॥४४॥ विश्वम्भरस्तीर्थपादः पुण्यश्रवणकीर्तनः । आदिदेवो जगज्जैत्रो मुकुन्दः कालनेमिहा ॥४५॥ वैकुण्ठोऽनन्तमाहात्म्यो महायोगीश्वरेश्वरः । नित्यतृप्तो न सद्भावो निःशङ्को नरकान्तकः ॥४६॥ दीनानाथैकशरणꣳ विश्वैकव्यसनापहा । जगत्क्षमाकृतो नित्यो कृपालुः सज्जनाश्रयः ॥४७॥ योगेश्वरः सदोदीणो वृद्धिक्षयविवर्जितः । अधोक्षजो विश्वरेता प्रजापतिसभाधिपः ॥४८॥ शक्रब्रह्मार्चितपदः शम्भुब्रह्मोर्ध्वधामगः । सूर्यसोमेक्षणो विश्वभोक्ता सर्वस्य पारगः ॥४९॥ जगत्सेतुर्धर्मसेतुर्धीरोऽरिष्टधुरन्धरः । निर्ममोऽखिललोकेशो निःसङ्गोऽद्भुतभोगवान् ॥५०॥ रम्यमायो विश्वविश्वो विश्वक्सेनो नगोत्तमः । सर्वाश्रेयः पतिर्देव्या सर्वभूषणभूषितः ॥५१॥ सर्वलक्षणलक्षण्यः सर्वदैत्येन्द्रदर्पहा । समस्तदेवसर्वज्ञः सर्वदैवतनायकः ॥५२॥ समस्तदेवतादुर्गः प्रपन्नाशनिपञ्जरः । समस्तदेवकवचꣳ सर्वदेवशिरोमणिः ॥५३॥ समस्तभयनिर्भिन्नो भगवान् विष्टरश्रवाः विभुः सर्वहितोदर्को हतारिः सुगतिप्रदः ॥५४॥ सर्वदैवतजीवेशो बाह्मणादिनियोजकः । ब्रह्मशम्भुपरार्धाढ्यी ब्रह्मजेष्ठ्यः शिशुःस्वराट् ॥५५॥ विराट् भक्तपराधीनः स्तुत्यः सर्वार्थसाधकः । सर्वार्थकर्ता कृत्यज्ञः स्वार्थकृत्यसदोज्झितः ॥५६॥ सदा नवः सदा भद्रः सदा शान्तः सदा शिवः । सदा प्रियः सदा तुष्टः सदा पुष्टः सदार्चितः ॥५७॥ सदा पूतः पावनाग्रो वेदगुह्यो वृषाकपिः । सहस्रनामा त्रियुगश्चतुमूर्तिश्चतुर्भुजः ॥५८॥ भूतभव्यभवन्नाथो महापुरुषपूर्वजः । नारायणो मञ्जकेशः सर्वयोगविनिस्मृतः ॥५९॥ वेदसारो यज्ञसारः सामसारस्तपोनिधिः । साध्यश्रेष्ठः पुराणर्षिनिष्ठाशान्तिपरायणः ॥६०॥ शिवस्त्रिशूलविध्वꣳसी श्रीकण्ठैकवरप्रदः । नरकृष्णो हरिर्धर्मनन्दनो धर्मजीवनः ॥६१॥ आदिकर्ता सर्वसत्यः सर्वस्त्रीरत्नदर्पहा । त्रिकालो जितकन्दर्प उर्वशीदृङ्मुनीश्वरः ॥६२॥ आद्यः कविर्हयग्रीवः सर्ववागीश्वरेश्वरः । सर्वदेवमयो ब्रह्म गुरुर्वाग्मीश्वरीपतिः ॥६३॥ अनन्तविद्याप्रभवो मूलाविद्याविनाशकः । सर्वार्हणो जगज्जाढ्यनाशको मधुसूदन ॥६४॥ अनन्तमन्त्रकोटीशः शब्दब्रह्मैकपावकः । आदिविद्वान् वेदकर्तावेदात्मा श्रुतिसागरः ॥६५॥ ब्रह्मार्थवेदाभरणः सर्वविज्ञानजन्मभूः । विद्याराजो ज्ञानराजो ज्ञानसिन्धुरखण्डधीः ॥६६॥ मत्स्यदेवो महाशृङ्गो जगद्बीजवहित्रधृक् । लीलाव्याप्तानिलाम्भोधिश्चतुर्वेदप्रवर्तकः ॥६७॥ आदिकूर्मोऽखिलाधारस्तृणीकृतजगद्भवः । अमरीकृतदेवौघः पीयूषोत्पत्तिकारणम् ॥६८॥ आत्माधारो धराधारो यज्ञाङ्गो धरणीधरः । हिरण्याक्षहरः पृथ्वीपतिः श्राद्धादिकल्पकः ॥६९॥ समस्तपितृभीतिघ्नः समस्तपितृजीवनम् । हव्यकव्यैकभुग्भव्यो गुणभव्यैकदायकः ॥७०॥ लोमान्तलीनजलधिः क्षोभिताशेषसागरः । महावराहो यज्ञघ्नध्वꣳसनो याज्ञिकाश्रयः ॥७१॥ नरसिꣳहो दिव्यसिꣳहः सर्वारिष्टार्तिदुःखहा । एकवीरोद्भुतबलो यन्त्रमन्त्रैकभञ्जनम् ॥७२॥ ब्रह्मादिदुःसहज्योतिर्युगान्ताग्न्यतिभीषणः । कोटिवज्राधिकनखो गजदुष्प्रेक्षमूर्तिधृक् ॥७३॥ मातृचक्रप्रमथनो महामातृगणेश्वरः । अचिन्त्यो मोघवीर्याढ्यः समस्तासुरघस्मरः ॥७४॥ हिरण्यकशिपुच्छेदी कालः सꣳकर्षणः पतिः । कृतान्तवाहनः सद्यः समस्तभयनाशनः ॥७५॥ सर्वविघ्नान्तकः सर्वसिद्धिदः सर्वपूरकः । समस्तपातकध्वꣳसी सिद्धमन्त्राधिकाह्वयः ॥७६॥ भैरवेशो हरार्तिघ्नः कालकल्पो दुरासदः । दैत्यगर्भस्राविनामा स्फुटद्ब्रह्माण्डवर्जितः ॥७७॥ स्मृतिमात्राखिलत्राता भूतरूपो महाहरिः । ब्रह्मचर्मशिरःपट्टा दिक्पालोऽर्धाङ्गभूषणः ॥७८॥ द्वादशार्कशिरोदामा रुद्रशीर्षेकनूपुरः । योगिनीग्रस्तगिरिजारतो भैरवतर्जकः ॥७९॥ वीरचक्रेश्वरोऽत्युग्रो यमारिः कालसꣳवरः । क्रोधेश्वरो रुद्रचण्डीपरिवादी सुदुष्टभाक् ॥८०॥ सर्वाक्षः सर्वमृत्युश्च मृत्युर्मृत्युनिवर्तकः । असाध्यः सर्वरोगघ्नः सर्वदुर्ग्रहसौम्यकृत् ॥८१॥ गणेशकोटिदर्पघ्नो दुःसहोऽशेषगोत्रहा । देवदानवदुर्धर्षो जगद्भक्ष्यप्रदः पिता ॥८२॥ समस्तदुर्गतित्राता जगद्भक्षकभक्षकः । उग्रेशोऽसुरमार्जारः कालमूषकभक्षकः ॥८३॥ अनन्तायुधदोर्डण्डो नृसिꣳहो वीरभद्रजित् । योगिनीचक्रगुह्येशः शक्रारिः पशुमाꣳसभुक् ॥८४॥ रुद्रो नारायणो मेषरूपशङ्करवाहनः । मेषरूपी शिवत्राता दुष्टशक्तिसहस्रभुक् ॥८५॥ तुलसीबल्लभो वीरोऽचिन्त्यमायोऽखिलेष्टदः । महाशिवः शिवारुद्रो भैरवैककपालभृत् ॥८६॥ भिल्लोचक्रेश्वरः शक्रो दिव्यमोहनरूपधृक् । गौरीसौभाग्यदो मायानिधिर्मायाभयापहः ॥८७॥ ब्रह्मतेजोमयो ब्रह्म श्रीमयश्च त्रयीमयः । सुब्रह्मण्यो बलिध्वꣳसी वामनोऽदितिदुःखहा ॥८८॥ उपेन्द्रो नृपर्तिर्विष्णुः कश्यपान्वयमण्डनः । बलिस्वाराज्यदः सर्वदेवविप्रात्मदोऽच्युतः ॥८९॥ उरुक्रमस्तीर्थपादस्त्रिदशश्च त्रिविक्रमः । व्योमपादः स्वपादान्तःपवित्रितजगत्त्रयः ॥९०॥ ब्रह्मेशाद्यभिवन्द्याङ्घ्रिर्दुतकर्माद्रिधारणः । अचिन्त्याद्भुतविस्तारो विश्ववृक्षो महाबलः ॥९१॥ बहुमूर्धा पराङ्गछिद्भृगुपत्नीशिरोहरः । पापस्तेय सदापुण्यो दैत्येशो नित्यखण्डकः ॥९२॥ पूरिताखिलदेवेशो विश्वार्थैकावतारकृत् । अमरो नित्यगुप्तात्मा भक्तचिन्तामणिः सदा ॥९३॥ वरदः कार्तवीर्यादिराजराज्यप्रदोऽनघः । विश्वश्लाघ्योऽमिताचारो दत्तात्रेयो मुनीश्वरः ॥९४॥ परशक्तिसमायुक्तो योगानन्दमदोन्मदः । समस्तेन्द्रारितेजोहृत् परमानन्दपादपः ॥९५॥ अनसूयागर्भरत्नो भोगमोक्षसुखप्रदः । जमदग्निकुलादित्यो रेणुकाद्भुतशक्तिहृत् ॥९६॥ मातृहत्याधनिर्लेपः स्कन्दजिद्विप्रराज्यदः । सर्वक्षत्रान्तकृद्धीरदर्पहा कार्तवीर्यजित् ॥९७॥ योगी योगावतारश्च योगीशो योगतत्परः । परमानन्ददाता च शिवाचार्ययशःप्रदः ॥९८॥ भीमः परशुरामश्च शिवाचार्यैकविश्वभूः । शिवाखिलज्ञानकोषो भीष्माचार्योऽग्निदैवतः ॥९९॥ द्रोणाचार्यगुरुर्विश्वजैत्रधन्वा कृतान्तकृत् । अद्वितीयतमोमूर्तिब्रह्मचर्यैकदक्षिणः ॥१००॥ मनुश्रेष्ठः सताꣳ सेतुर्महीयान् वृषभो विराट् । आदिराजः क्षितिपिता सर्वरत्नैकदोहकृत् ॥१०१॥ पृथुजन्माद्येकदक्षो ह्रीः श्रीः कीर्ति स्वयꣳ धृतिः । जगद्वत्तिप्रदञ्चकवर्तिश्रेष्ठो दुरस्त्रधृक् ॥१०२॥ सनकादिमुनिप्रापद् भगवद्भक्तिवर्धनः । वर्णाश्रमादिधर्माणाꣳ कर्ता वक्ता प्रवर्तकः ॥१०३॥ सूर्यवꣳशध्वजो रामो राघवः सद्गुणार्णवः । काकुस्थवीरताधर्मोराजधर्मधुरन्धरः ॥१०४॥ नित्यसुस्थाशयः सर्वभद्रग्राही शुभैकदृक् । नवरत्नꣳ रत्ननिधिः सर्वाध्यक्षो महानिधिः ॥१०५॥ सर्वश्रेष्ठाश्रयः सर्वशस्त्रास्त्रग्रामवीर्यवान् । जगद्वशी दाशरथिः सर्वरत्नाश्रयो नृपः ॥१०६॥ धर्मः समस्तधर्मस्थो धर्मद्रष्टाखिलार्तिहृत् । अतीन्द्रो ज्ञानविज्ञानपारदृश्वा क्षमाम्बुधिः ॥१०७॥ सर्वप्रकृष्टः शिष्टेष्टो हर्षशोकाद्यनाकुलः । पित्राज्ञात्यक्तसाम्राज्यः सपत्नोदयनिर्भयः ॥१०८॥ गुहादेशार्पितैश्चर्यः शिवस्पर्द्धाजटाधरः । चित्रकूटाप्तरत्नाद्रिजगदीशो रणेचरः ॥१०९॥ यथेष्टामोघशस्त्रास्त्रो देवेन्द्रतनयाक्षिहा । ब्रह्मेम्द्रादिनतैषीको मारीचघ्नो विराधहा ॥११०॥ ब्रह्मशापहताशेषदण्डकारण्यपावनः । चतुर्दशसहस्राग्र्यरक्षोध्नैकशरैकभृत् ॥१११॥ खरारिस्त्रिशिरोहन्ता दूषणघ्नो जनार्दनः । जटायुषोऽग्निगतिदो कबन्धस्वर्गदायकः ॥११२॥ लीलाधनुः कोट्यापास्तदुन्दुभ्यस्थिमहाचयः । सप्ततालव्यथाकृष्टध्वजपातालदानवः ॥११३॥ सुग्रीवे राज्यदो धीमान् मनसैवाभयप्रदः । हनूमद्रुद्रमुख्येशः समस्तकपिदेहभृत् ॥११४॥ अग्निदैवत्यबाणैकव्याकुलीकृतसागरः । सम्लिच्छकोटिबाणैकशुष्कनिर्दग्धसागरः ॥११५॥ सनागदैत्यधामैकव्याकुलीकृतसागरः । समुद्राद्भुतपूर्वैकबद्धसेतुर्यशोनिधिः ॥११६॥ असाध्यसाधको लङ्कासमूलोत्कर्षदक्षिणः । वरदृप्तजनस्थानपौलस्त्यकुलकृन्तनः ॥११७॥ रावणघ्नः प्रहस्तच्छित् कुम्भकर्णभिदुग्रहा । रावणैकमुखच्छेता निःशङ्ककेन्द्रैकराज्यदः ॥११८॥ स्वर्गास्वर्गत्वविच्छेदी देवेन्द्रादिन्द्रताहरः । रक्षोदेवत्वहृद्धर्मा धर्महर्म्यः पुरुष्टुतः ॥११९॥ नातिमात्रदशास्यारिर्दत्तराज्यविभीषणः । सुधासृष्टिमृताशेषस्वसैन्यजीवनैककृत् ॥१२०॥ देवब्राह्मयमणनामैकधाता सर्वामरार्चितः । ब्रह्मसूर्येन्द्ररुद्रादिवन्द्योऽर्चितसताꣳ प्रियः ॥१२१॥ अयोध्याखिलराजाग्र्यः सर्वभूतमनोहरः । स्वाम्यतुल्यकृपादत्तो हीनोत्कृष्टैकसत्प्रियः ॥१२२॥ स्वपक्षादिन्यायदर्शी हीनार्थोधिकसाधकः । बाधव्याजानुचितकृत्तावकोऽखिलतुष्टिकृत् ॥१२३॥ पार्वत्यधिकयुक्तात्मा प्रियात्यवक्तः सुरारिजित् । साक्षात्कुशलवत्सद्मेन्द्राग्निनातोऽपराजितः ॥१२४॥ कोशलेन्द्रो वीरबाहुः सत्यार्थत्यक्तसोदरः । यशोदानन्दनो नन्दी धरणीमण्डलोदयः ॥१२५॥ ब्रह्मादिकाम्यसान्निध्यसनाथीकृतदैवतः । ब्रह्मलोकाप्तचाण्डालाद्यशेषप्राणिसार्थपः ॥१२६॥ स्वर्णीतगर्दभश्वादिचिरायोध्याबलैककृत् । रामाद्वितीयः सौमित्रिलक्ष्मणप्रहतेन्द्रजित् ॥१२७॥ विष्णुभक्ताशिवाꣳहः क्षित्पादुकाराज्यनिर्वृतः । भरतोऽसह्यगन्धर्वकोटिध्नो लवणान्तकः ॥१२८॥ शत्रुघ्नो वैद्यराडायुर्वेदगर्भैषधीपतिः । नित्यानित्यकरो धन्वन्तरिर्यज्ञो जगद्धरः ॥१२९॥ सूर्यविघ्नः सुराजीवो दक्षिणेशो द्विजप्रियः । छिन्नमूर्धोपदेशार्कतनूजकृतमैत्रिकः ॥१३०॥ शेषाङ्गस्थापितनरः कपिलः कर्दमात्मजः । योगात्मकध्यानभङ्गसगरात्मजभस्मकृत् ॥१३१॥ धर्मो विश्वेन्द्रसुरभीपतिः शुद्धात्मभावितः । शम्भुत्रिपुरदाहैकस्थैर्यविश्वरथोद्धतः ॥१३२॥ विश्वात्माशेषरुद्रार्थशिरश्छेदाक्षताकृतिः । वाजपेयादिनामाग्निर्वेदधर्मपरायणः ॥१३३॥ श्वेतद्वीपपतिः साङ्ख्यप्रणेता सर्वसिद्धिराट् । विश्वप्रकाशितध्यानयोगो मोहतमिस्रहा ॥१३४॥ भक्तशम्भुजितो दैत्यामृतवापीसमस्तपः । महाप्रलयविश्वैकोऽद्वितीयोऽखिलदैत्यराट् ॥१३५॥ शेषदेवः सहस्राक्षः सहस्राङ्घ्रिशिरोभुजः । फणी फणिफणाकारयोजिताब्ध्यम्बुदक्षितिः ॥१३६॥ कालाग्निरुद्रजनको मुसलास्त्रो हलायुधः । नीलाम्बरो वारुणीशो मनोवाक्कायदोषहा ॥१३७॥ स्वसन्तोषतृप्तिमात्रः पातितैकदशाननः । बलिसꣳयमनो घोरो रौहिणेयः प्रलम्बहा ॥१३८॥ मुष्टिकध्नो द्विविदहा कालिन्दीभेदनो बलः । रेवतीरमणः पूर्वभक्तिरेवाच्युताग्रजः ॥१३९॥ देवकीवसुदेवोत्थोऽदितिकश्यपनन्दनः । वार्ष्णेयः सात्वताꣳ श्रेष्ठः शौरिर्यदुकुलोद्बहः ॥१४०॥ नराकृतिः पूर्णब्रह्म सव्यसाची परन्तपः । ब्रह्मादिकामनानित्यजगत्पर्वेतशैशवः ॥१४१॥ पूतनाघ्नः शकटभिद्यमलार्जुनभञ्जनः । वत्सासुरारिः केशिघ्नो धेनुकारिर्गवीश्वरः ॥१४२॥ दामोदरो गोपदेवो यशोदानन्दकारकः । कालीयमनर्दनः सर्वगोपगोपीजनप्रियः ॥१४३॥ लीलागोवर्धनधरो गोविन्दो गोकुलोत्सवः । अरिष्टमथनः कामोन्मत्तगोपीविमुक्तिदः ॥१४४॥ सद्यः कुवलयापीडघाती चाणूरमर्दनः । कꣳसारिरुग्रसेनादिराज्यस्थाय्यरिहाऽमरः ॥१४५॥ सुधर्माङ्कितभूलोको जरासन्धबलान्तकः । त्यक्तभक्तजरासन्धभीमसेनयशःप्रदः ॥१४६॥ सान्दीपनिमृतापत्यदाता कालान्तकादिजित् । रुक्मिणीरमणो रुक्मिशासनो नरकान्तकृत् ॥१४७॥ समस्तनरकत्राता सर्वभूपतिकोटिजित् । समस्तसुन्दरीकान्तोऽसुरारिर्गरुडध्वजः ॥१४८॥ एकाकी जितरुद्रार्कमरुदापोऽखिलेश्वरः । देवेन्द्रदर्पहा कल्पद्रुमालङ्कृतभूतलः ॥१४९॥ बाणबाहुसहस्रच्छित्स्कन्धादिगणकोटिजित् । लीलाजितमहादेवो महादेवैकपूजितः ॥१५०॥ इन्द्रार्थार्जुननिर्मत्सुर्जयदः पाण्डवैकधृक् । काशीराजशिरश्छेत्ता रुद्रशक्त्येकमर्दनः ॥१५१॥ विश्वेश्वरप्रसादाढ्यः काशीराजसुतार्दनः । शम्भुप्रतिज्ञापाता च स्वयम्भुगणपूजकः ॥१५२॥ काशीशगणकोटिघ्नो लोकशिक्षाद्विजार्चकः । शिवतीव्रतपोवश्यः पुरा शिववरप्रदः ॥१५३॥ गयासुरप्रतिज्ञाधृक् स्वाꣳशशङ्करपूजकः । शिवकन्याव्रतपतिः कृष्णरूपशिवारिहा ॥१५४॥ महालक्ष्मीवपुर्गौरीत्राणो देवलवातहा । विनिद्रमुचकुन्दैकब्रह्मास्त्रयुवनाश्वहृत् ॥१५५॥ अक्रूरोऽक्रूमुख्यैकभक्तस्वच्छन्दमुक्तिदः । सबालस्त्रीजलक्रीडामृतवापीकृतार्णवः ॥१५६॥ यमुनापतिरानीतपरिणीतद्विजात्मकः । श्रीदामशꣳकुभक्तार्थभूम्यानीतेन्द्रभैरवः ॥१५७॥ दुर्वृत्तशिशुपालैकमुक्तिकोद्धारकेश्वरः । आचाण्डालादिकꣳ प्राप्य द्वारकानिधिकोटिकृत् ॥१५८॥ ब्रह्मास्त्रदग्धगर्भस्थपरीक्षिज्जीवनैककृत् । परिणीतद्विजसुतानेतार्जुनमदापहः ॥१५९॥ गूढमुद्राकृतिग्रस्तभीष्माद्यखिलगौरवः । पार्थार्थखण्डिताशेषदिव्यास्त्रः पार्थमोहभृत् ॥१६०॥ ब्रह्मशापच्छलध्वस्तयादवो विभवावहः । अनङ्गो जितगौरीशो रतिकान्तः सदेप्सितः ॥१६१॥ पुष्पेषुर्विश्वविजयी स्मरः कामेश्वरीपतिः । उषापतिर्विश्वहेतुर्विश्वतृप्तोऽधिपूरुषः ॥१६२॥ चतुरात्मा चतुर्वर्णश्चतुर्वेदविधायकः चतुर्विश्वैकविश्वात्मा सर्वोत्कृष्टासु कोटिषु ॥१६३॥ आश्रयात्मा पुराणर्षिर्व्यासः शास्त्रसहस्रकृत् । महाभारतनिर्माता कवीन्द्रो वादरायणः ॥१६४॥ कृष्णद्वैपायनः सर्वपुरुषार्थकबोधकः । वेदान्तकर्ता ब्रह्मैकव्यञ्जकः पुरुवꣳशकृत् ॥१६५॥ बुद्धो ध्यानजिताशेषदेवदेवो जगत्प्रियः । निरायुधो जगज्जैत्रः श्रीघनो दुष्टमोहनः ॥१६६॥ दैत्यवेदवहिष्कर्तविदार्थश्रुतिगोपकः । शुद्धोदनिर्नष्टदिष्टः सुखदः सदसत्पतिः ॥१६७॥ यथायोग्याखिलकृपः सर्वशून्योऽखिलेष्टदः । चतुष्कोटिपृथक्तत्त्वꣳ प्रज्ञापारमितेश्वरः ॥१६८॥ पाषण्डश्रुतिमार्गेण पाषण्डश्रुतिगोपकः । कल्की विष्णुयशःपूतः कलिकालविलोपकः ॥१६९॥ समस्तम्लेच्छहस्तघ्नः सर्वशिष्टद्विजातिकृत् । सत्यप्रवर्तको देवद्विजदीर्घक्षुधापहः ॥१७०॥ अश्वगवादिवेदेन पृथ्वीदुर्गतिनाशनः । सद्यःक्ष्मानन्तलक्ष्मीकृत् नष्टनिःशेषधर्मकृत् ॥१७१॥ अनन्तस्वर्गयागैकहेमपूर्णाखिलद्विजः । असाध्यैकजगच्छास्ता विश्ववन्द्यो जयध्वजः ॥१७२॥ आत्मातत्त्वाधिपः कर्तृश्रेष्ठो विधिरुमापतिः । भर्तुः श्रेष्ठः प्रजेशाग्र्यो मरीचिजनकाग्रणीः ॥१७३॥ कश्यपो देवराडिन्द्रः प्रह्लादो दैत्यराट् शशी । नक्षत्रेशो रविस्तेजः श्रेष्ठः शुक्रः कवीश्वरः ॥१७४॥ महर्षिराट् भृगुर्विष्णुरादित्येशो बलिः स्वराट् । वायुर्वह्नि शुचिश्रेष्ठः शङ्करो रुद्रराट् गुरुः ॥१७५॥ विद्वत्तमश्चित्ररथो गन्धर्वाग्र्यो वसूत्तमः । वर्णादिरग्र्या स्त्री गौरी शक्त्याग्र्या श्रीश्च नारदः ॥१७६॥ देवर्षिराट् पाण्डवाग्र्योऽर्जुनो नारदवादराट् । पवनः पवनेशानो वरुणो यादसाम्पतिः ॥१७७॥ गङ्गातीर्थोत्तमोद्धृतꣳ छत्रकाग्र्यꣳ बरौषधम् । अन्नꣳ सुदर्शनास्त्राग्र्यो वज्रप्रहरणोत्तमम् ॥१८७॥ उच्चैःश्रवा वाजिराज ऐरावत इभेश्वरः । अरुन्धत्येकपत्नीशो ह्यश्वत्थोऽशेषवृक्षराट् ॥१७९॥ अध्यात्मविद्याविद्यात्मा प्रणवश्छन्दसाꣳ वरः । मेरुर्गिरिपतिर्मार्गो मासाग्र्यः कालसत्तमः ॥१८०॥ दिनाद्यात्मा पर्वसिद्धिः कपिलः सामवेदराट् । तार्क्षः खगेन्द्रऋत्वग्र्यो वसन्तः कल्पपादपः ॥१८१॥ दातृश्रेष्ठः कामधेनुरार्तिघ्नाग्र्यः सुरोत्तमः । चिन्तामणिर्गुरुश्रेष्ठो माता हिततमः पिता ॥१८२॥ सिꣳहो मृगेन्द्रो नागेन्द्रो वासुकिर्भूधरो नृपः । वणशो ब्राह्मणश्चान्तःकरणाग्र्यꣳ नमो नमः ॥१८३॥ इत्येतद्वासुदेवस्य विष्णोर्नामसहस्रकम् । सर्वापराधशमनꣳ परꣳ भक्तिविवर्द्धनम् ॥१८४॥ अक्षयब्रह्मालोकादिसर्वार्थाप्त्येकसाधनम् । विष्णुलोकैकसोपानꣳ सर्वदुःखविनाशनम् ॥१८५॥ समस्तसुखदꣳ सत्यꣳ परꣳ निर्वाणदायकम् । कामक्रोधादिनिःशेषमनोमलविशोधनम् ॥१८६॥ शान्तिदꣳ पावनꣳ नृणाꣳ महापातकिनामपि । सर्वेषाꣳ प्राणिनामाशु सर्वाभीष्टफलप्रदम् ॥१८७॥ सर्वविघ्नप्रशमनꣳ सर्वारिष्टविनाशनम् । घोरदुःस्वप्नशमनꣳ तीव्रदारिद्र्यनाशनम् ॥१८८॥ तापत्रयापहꣳ गुह्यꣳ धनधान्ययशस्करम् । सर्वैश्वर्यप्रदꣳ सर्वसिद्धिदꣳ सर्वकामदम् ॥१८९॥ तीर्थयज्ञतपोदानव्रतकोटिफलप्रदम् । अप्रज्ञजाड्यशमनꣳ सर्वविद्याप्रवर्तकम् ॥१९०॥ राज्यदꣳ राज्यकामानाꣳ रोगिणाꣳ सर्वरोगनुत् । बन्ध्यानाꣳ सुतदꣳ चाशु सर्वश्रेष्ठफलप्रदम् ॥१९१॥ अस्त्रग्रामविषध्वꣳसि ग्रहपीडाविनाशनम् । मङ्गल्यꣳ पुण्यमायुष्यꣳ श्रवणात् पठनाज्जपात् ॥१९२॥ सकृदस्याखिला वेदाः साङ्गा मन्त्राश्च कोटिशः । पुराणशास्त्रꣳ स्मृतयः पठिताः पाठितास्तथा ॥१९३॥ जप्त्वास्य श्लोकꣳ श्लोकार्धꣳ पादꣳ वा पठतः प्रिये । नित्यꣳ सिध्यति सर्वेषामचिरात्किसुतोऽखिलम् ॥१९४॥ प्राणेन सदृशꣳ सद्यः प्रत्यहꣳ सर्वकर्मसु । इद भद्रे त्वया गोप्यꣳ पाठ्यꣳ स्वार्थैकसिद्धये ॥१९५॥ नावैष्णवाय दात्यव्यꣳ विकल्पोपहतात्मने । भक्तिश्रद्धाविहीनाय विष्णुसामान्यदर्शिने ॥१९६॥ देयꣳ पुत्राय शिष्याय शुद्धाय हितकाम्यया । मत्प्रसादादृते नेदꣳ ग्रहिष्यन्त्यल्पमेधसः ॥१९७॥ कलौ सद्यः फलꣳ कल्पग्राममेष्यति नारदः । लोकानाꣳ भाग्यहीनानाꣳ येन दुःखꣳ विनश्यति ॥१९८॥ क्षेत्रेषु वैष्णवेष्वेतदार्यावत्ते भविष्यति । नास्ति विष्णोःपरꣳ सत्यꣳ नास्तिविष्णोः परꣳ पदम् ॥१९९॥ नास्ति विष्णोः परꣳ ज्ञानꣳ नास्ति मोक्षो ह्यवैष्णवः । नास्तिविष्णोः परोमन्त्रो नास्तिविष्णोःपरꣳ तपः ॥२००॥ नास्ति विष्णो परꣳ ध्यानꣳ नास्ति मन्त्रो ह्यवैष्णवः । किन्तस्य बहुभिर्मन्त्रैः किꣳ जपैर्बहुविस्तरैः ॥२०१॥ वाजपेयसहस्रैः किꣳ भक्तिर्यस्य जनार्दने । सर्वतीर्थमयो विष्णुः सर्वशास्त्रमयः प्रभुः ॥२०२॥ सर्वक्रतुमयो विष्णुः सत्यꣳ सत्यꣳ वदाम्यहम् । आब्रह्मसारसर्वस्वꣳ सर्वमेतन्मयोदितम् ॥२०३॥ श्री पार्वत्युवाच— धन्यास्म्यनुगृहीतास्मि कृतार्थास्मि जगद्गुरो । यन्मेदꣳ श्रुतꣳ स्तोत्रꣳ त्वद्रहस्यꣳ सदुर्लभम् ॥२०४॥ अहो वत महत्कष्टꣳ समस्त सुखदे हरौ । विद्यमानेऽपि सर्वेशे मूढाः क्लिश्यन्ति सꣳसृतौ ॥२०५॥ यमुद्दिश्यसदा नाथो महेशोऽपि दिगम्बरः । जटिलो भस्मलिप्ताङ्गस्तपस्वी वीक्षितो जनैः ॥२०६॥ अतोऽधिको न देवोऽस्ति लक्ष्मीकान्तान्मधुद्विषः । यत्तत्त्वꣳ चिन्तयते नित्यꣳ त्वया योगीश्वरेण हि ॥२०७॥ अतःपरꣳ किमधिकꣳ पदꣳ श्रीपुरुषोत्तमात् । तमविज्ञाय तान् मूढा यजन्ते ज्ञानमानिनः ॥२०८॥ मुषितास्मि त्वया नाथ चिरꣳ यदयमीश्वरः । प्रकाशितो न मे यस्य दत्ताद्या दिव्यशक्तयः ॥२०९॥ अहो सर्वेश्वरो विष्णुः सर्वदेवोत्तमोत्तमः । भवदादिगुरुमूढैः सामान्य इव लक्ष्यते ॥२१०॥ महीयसाꣳ हि माहात्म्यꣳ भजमानान् भजन्ति चेत् । द्विषतोऽपि तथा पापानुपेक्ष्यन्ते क्षमालयाः ॥२११॥ मयापि बाल्ये स्वपितुः प्रज्ञा दृष्टा बुभुक्षिताः । दुःखादशक्ताः स्वꣳ पोष्टुꣳ श्रिया नाध्यासिताः पुरा ॥२१२॥ त्वया सꣳवर्धिताभिश्च प्रजाभिर्विबुधादयः । विससद्भिः स्वशक्त्याद्याः समुहृन्मित्रबान्धवाः ॥२१३॥ त्वया विना क्व देवत्वꣳ क्व धैर्यꣳ क्व परिग्रहः । सर्वꣳ भवन्ति जीवन्तो यातनाः शिरसि स्थिताः ॥२१४॥ नामृते नैव धर्मार्थौ कामो मोक्षोऽपि दुर्लभः । क्षुधितानाꣳ दुर्गतानाꣳ कुतो योगसमाधयः ॥२१५॥ मा च सꣳसारसारैका सर्वलोकैकपालिका । वश्या सा कमला यस्य त्यक्त्वा त्वामपि शङ्करः ॥२१६॥ श्रिया धर्मेण शौर्येण रूपेणार्जवसम्पदा । सर्वातिशयवीर्येण सम्पूर्णस्य महात्मनः ॥२१७॥ कस्तेन तुल्यतामेति देवदेवेन विष्णुना । यग्याꣳशाꣳशकभागेन विना सर्वꣳ विलीयते ॥२१८॥ जगदेतत्तथा प्राहुर्दोषायैतद्विमोहिताः । नास्य जन्म जरा मृत्युर्नाप्राप्यꣳ वार्थमेव वा ॥२१९॥ तथापि कुरुते धर्मान् पालनाय सताꣳ कृते । विज्ञापय महादेवꣳ प्रणम्यैकꣳ महेश्वरम् ॥२२०॥ अवधार्य तथा साहꣳ कान्त कामद शाश्वत । कामाद्यासक्तचित्तत्वात् किꣳ तु सर्वेश्वर प्रभो ॥२२१॥ त्वन्मयत्वात्प्रसादाद्वा शक्नोमि पठितुꣳ न चेत् । विष्णोः सहस्रनामैतत्प्रत्यहꣳ वृषभध्वज । नाम्नैकेन तु येन स्यात्तत्फलꣳ ब्रूहि मे प्रभो ॥२२२॥ श्री महादेव उवाच— राम रामेति रामेति रामरामो मनोरमे । सहस्रनामभिस्तुल्यꣳ रामनाम वरानने ॥२२३॥ अथ सर्वाणि तीर्थानि जलञ्चैव प्रयागजम् । विष्णोर्नामसहस्रस्य कलाꣳ नार्हन्ति षोडशीम् ॥२२४॥ इति श्रीनारदपञ्चरात्रे ज्ञानामृतसारे चतुर्थरात्रे पार्वतीशिवसꣳवादे श्रीविष्णोनामसहस्रꣳ तृतीयोऽध्यायः ॥३॥ …

tṛtīyo'dhyāyaḥ śrīviṣṇornāma sahasram śrīmahādeva uvāca— bahmatyāsahasrāṇāṁ pāpaṁ śāmyet kathaṁcana | na punastvayyavijñāte kalpakoṭiśatairapi ||1|| yasmānmayā kṛtā spardhā pavitraṁ syātkathaṁ hare | naśyanti sarvapāpāni tanmāṁ vada sureśvara | tadāha devo govindo mama prītyā yathāyatham ||2|| śrībhagavānuvāca— sadā nāmasahasraṁ me pāvanaṁ matpadāvaham | tatparo'nudinaṁ śambho sarvaiśvaryaṁ yadīcchasi ||3|| śrīmahādeva uvāca— tameva tapasā nityaṁ bhajāmi staumi cintaye | tenādvitīyamahimo jagatpūjyo'smi pārvati ||4|| śrīpārvatyuvāca— tanme kathaya deveśa yathāhamapi śaṅkara | śarveśvarī nirupamā tava syāṁ sadṛśī prabho ||5|| śrīmahādeva uvāca— sādhu sādhu tvayā pṛṣṭo viṣṇorbhagavataḥ śive | nāmnāṁ sahasraṁ vakṣyāmi mukhyaṁ trailokyamaṅgalam ||6|| namonārāyaṇāya puruṣottamāya ca mahātmane | viśuddhasadmādhiṣṭhāya mahāhaṁsāya dhīmahi ||7|| viniyogaḥ—oṁ asya śrīviṣṇoḥ sahasranāmamantrasya mahādeva ṛṣiḥ | anuṣṭup chandaḥ | paramātmā devatā | sūryakoṭipratīkāśa iti bījam | gaṅgā tīrthottamā śaktiḥ | prapannāśanipañjara iti kīlam | divyāstra ityastram | śarvapāpakṣayārthaṁ sarvābhīṣṭasiddhyarthaṁ śrīviṣṇornāma sahasraṁ jape viniyogaḥ | ṛṣyādinyāsaḥ— oṁ mahādevāya ṛṣaye namaḥ śirasi ||i|| anuṣṭup chandase namaḥ mukhe ||ii|| paramātmadevatāyai namaḥ hṛdi ||iii|| sūryakoṭipratīkāśabījāya namaḥ guhye ||iv|| gaṅgātīrthottamaśaktayenamapādayoḥ ||v|| prapannāśanipañjarakīlakāya namaḥ nābhau ||vi|| viniyogāya namaḥ sarvāṅge ||vii|| karanyāsaḥ— oṁ vāsudevaṁ paraṁ brahmā ityaṅguṣṭhābhyāṁ namaḥ ||i|| oṁ mūlaprakṛtiriti tarjanībhyāṁ namaḥ ||ii|| oṁ bhūmahāvarāha iti madhyamābhyāṁ namaḥ ||iii|| omṁ sūryavaṁśadhvajo rāma anāmikābhyāṁ namaḥ ||iv|| oṁ brahmādikamalādigadāsūryakeśavamiti kaniṣṭhikābhyāṁ namaḥ ||v|| śeṣa iti karatalapṛṣṭhābhyāṁ namaḥ ||vi|| iti karanyāsaḥ | hṛdayādiṣaḍaṅganyāsaḥ— oṁ vāsudevaṁ paraṁ brahma iti hṛdayāya namaḥ ||i|| oṁ mūlaprakṛti śirase svāhā ||ii|| oṁ bhūmahāvarāha iti śikhāyai vaṣaṭ ||iii|| oṁ sūryavaṁśadhvajo rāmaḥ kavacāya huṁ ||iv|| oṁ brahmādikamalādigadāsūrya keśavaḥ netratrayāya vauṣaṭ ||v|| oṁ divyāstra ityastrāya phaṭ ||vi|| iti hṛdayādiṣaḍaṅganyāsaḥ ||8|| viṣṇuṁ bhāsvatkirīṭāṅgadavalayagaṇākalpahārodarāṅghri śrorṇībhūṣaṁsuvakṣomaṇimakaramahākuṇḍalaṁ maṇḍitāṁsaṁ | hastodyaccakraśaṅkhāmbujagadamamalaṁ pītakauśeyavāso vidyudbhāsaṁ samudyaddinakarasadṛśaṁ padmahastaṁ namāmi ||9|| oṁ vāsudevaḥ paraṁ brahma paramātmā parātparam | paraṁ dhāma paraṁ jyotiḥ paraṁ tatvaṁ paraṁ padam ||10|| paraṁ śivaṁ paro dhyeyaḥ paraṁ jñānaṁ parā gatiḥ | paramārthaḥ paraṁ śreyaḥ parānandaḥ parodayaḥ ||11|| paro vyaktaḥ paraṁ vyoma parārdhaḥ parameśvaraḥ | nirāmayo nirvikāro nirvikalpo nirāśrayaḥ ||12|| nirañjano nirālambo nirlepo niravagrahaḥ | nirguṇo niṣkalo'nanto'cintyo'sāvacalo'cyutaḥ ||13|| atīndriyo'mito'rodhyo'nīho'nīśo'vyayo'kṣayaḥ | sarvajñaḥ sarvagaḥ sarvaḥ sarvadaḥ sarvabhāvanaḥ ||14|| sarvaḥ śambhuḥ sarvasākṣī pūjyaḥ sarvasya sarvadṛk | sarvaśaktiḥ sarvasāraḥ sarvātmā sarvatomukhaḥ ||15|| sarvāvāsaḥ sarvarūpaḥ sarvādiḥ sarvaduḥkhahā | sarvārthaḥ sarvatobhadraḥ sarvakāraṇakāraṇam ||16|| sarvātiśāyakaḥ sarvādhyakṣaḥ sarveśvareśvaraḥ | ṣaḍviṁśako mahāviṣṇurmahāguhyo mahāhariḥ ||17|| nityodito nityayukto nityānandaḥ sanātanaḥ | māyāpatiryogapatiḥ kaivalyapatirātmabhūḥ ||18|| janmamṛtyujarātītaḥ kālātīto bhavātigaḥ | pūrṇaḥ satyaḥ śuddhabuddhasvarūpo nityacinmayaḥ ||19|| yogipriyo yogamayo bhavabandhaikamocakaḥ | purāṇaḥ puruṣaḥ pratyak caitanyaṁ puruṣottamaḥ ||20|| vedāntavedyodurjñeyastāpatrayavivarjitaḥ | brahmavidyāśrayo'laṅghyaḥ svaprakāśaḥ svayaṁprabhaḥ ||21|| sarvopaya udāsīnaḥ praṇavaḥ sarvataḥ samaḥ | sarvānavadyo duṣpāpasturīyastamasaḥ paraḥ ||22|| kūṭasthaḥ sarvasaṁṣliṣṭo vāṅmamanogocarātigaḥ | saṁkarṣaṇaḥ sarvaharaḥ kālaḥ sarvabhayaṅkaraḥ ||23|| anullaṅghyaḥ sarvagatirmahārudro dūrāsadaḥ | mūlaprakṛtirānandaḥ prajñātā viśvamohanaḥ ||24|| mahāmāyo viśvabījaṁ paraśaktisukhaikabhuk | sarvakāmyo'nantaśīlaḥ sarvabhūtavaśaṅkaraḥ ||25|| aniruddhaḥ sarvajīvo haṣīkeśo manaḥpatiḥ | nirupādhiḥ priyo haṁso'kṣaraḥ sarvaniyojakaḥ ||26|| brahmā prāṇeśvaraḥ sarvabhūtabhṛddehanāyakaḥ | kṣetrajñaḥ prakṛtisvāmī puruṣo viśvasūtradhṛk ||27|| antaryāmī vidhāmā’ntaḥsākṣī triguṇa īśvaraḥ | yogī mṛgyaḥ padmanābhaḥ śeṣaśāyī śriyaḥ patiḥ ||28|| śrīsatyopāsyapādābjo'nantaḥ śrīḥśrīniketanaḥ | nityavakṣaḥsthalasthaśrīḥ śrīnidhiḥ śrīdharo hariḥ ||29|| ramyaśrīrniścayaśrīdo viṣṇuḥ kṣīrābdhimandiraḥ | kaustubhodbhāsitorasko mādhavo jagadārtihā ||30|| śrīvatsavakṣo niḥsīmaḥ kalyāṇaguṇabhājanam | pītāmbaro jagannātho jagaddhātā jagatpitā ||31|| jagadbandhurjagatsraṣṭā jagatkartā jagannidhiḥ | jagadekasphuradvīryo nāhaṁvādī jaganmayaḥ ||32|| sarvāścaryamayaḥ sarvasiddhārthaḥ sarvavīrajit | sarvāmoghodyamo brahmarudrādyutkṛṣṭacetanaḥ ||33|| śambho pitāmaho brahmapitā śakrādyadhīśvaraḥ | sarvadevapriyaḥ sarvadevavṛttiranuttamaḥ ||34|| sarvadevaikaśaraṇaṁ sarvadevaikadaivatam | yajñabhug yajñaphalado yajñeśo yajñabhāvanaḥ ||35|| yajñatrātā yajñapamān vanamālī dvijapriyaḥ | dvijaikamānado'hisraḥ kuladevo'surāntakaḥ ||36|| sarvaduṣṭāntakṛt sarvasajjanānandapālakaḥ | sarvalokaikajaṭharaḥ sarvalokaikamaṇḍalaḥ ||37|| sṛṣṭisthityantakṛccakrī śārṅgadhanvā gadādharaḥ | śaṅkhabhṛnnandakīpadmapāṇirgaruḍavāhanaḥ ||38|| anirdeśyavapuḥ sarvaḥ sarvalokaikapāvanaḥ | anantakīrtirniḥśrīśaḥ pauruṣaḥ sarvamaṅgalaḥ ||39|| saryakoṭipratīkāśo yamakoṭivināśanaḥ | brahmakoṭijagatsraṣṭā vāyukoṭimahābalaḥ ||40|| koṭīndujagadānandī śambhukoṭimaheśvaraḥ | kuberakoṭilakṣmīvān śatrukoṭivināśana ||41|| kandarpakoṭilāvaṇyo durgakoṭivimarddhanaḥ | samudrakoṭigambhīrastīrthakoṭisamāhvayaḥ |42|| himavatkoṭiniṣkampaḥ koṭibrahmāṇḍavigrahaḥ | koṭyaśvamedhapāpaghno yajñakoṭisamārcanaḥ ||43|| sudhākoṭisvāsthyahetuḥ kāmadhukkoṭikāmadaḥ | brahmavidyākoṭirūpaḥ śipiviṣṭaḥ śuciśravāḥ ||44|| viśvambharastīrthapādaḥ puṇyaśravaṇakīrtanaḥ | ādidevo jagajjaitro mukundaḥ kālanemihā ||45|| vaikuṇṭho'nantamāhātmyo mahāyogīśvareśvaraḥ | nityatṛpto na sadbhāvo niḥśaṅko narakāntakaḥ ||46|| dīnānāthaikaśaraṇaṁ viśvaikavyasanāpahā | jagatkṣamākṛto nityo kṛpāluḥ sajjanāśrayaḥ ||47|| yogeśvaraḥ sadodīṇo vṛddhikṣayavivarjitaḥ | adhokṣajo viśvaretā prajāpatisabhādhipaḥ ||48|| śakrabrahmārcitapadaḥ śambhubrahmordhvadhāmagaḥ | sūryasomekṣaṇo viśvabhoktā sarvasya pāragaḥ ||49|| jagatseturdharmaseturdhīro'riṣṭadhurandharaḥ | nirmamo'khilalokeśo niḥsaṅgo'dbhutabhogavān ||50|| ramyamāyo viśvaviśvo viśvakseno nagottamaḥ | sarvāśreyaḥ patirdevyā sarvabhūṣaṇabhūṣitaḥ ||51|| sarvalakṣaṇalakṣaṇyaḥ sarvadaityendradarpahā | samastadevasarvajñaḥ sarvadaivatanāyakaḥ ||52|| samastadevatādurgaḥ prapannāśanipañjaraḥ | samastadevakavacaṁ sarvadevaśiromaṇiḥ ||53|| samastabhayanirbhinno bhagavān viṣṭaraśravāḥ vibhuḥ sarvahitodarko hatāriḥ sugatipradaḥ ||54|| sarvadaivatajīveśo bāhmaṇādiniyojakaḥ | brahmaśambhuparārdhāḍhyī brahmajeṣṭhyaḥ śiśuḥsvarāṭ ||55|| virāṭ bhaktaparādhīnaḥ stutyaḥ sarvārthasādhakaḥ | sarvārthakartā kṛtyajñaḥ svārthakṛtyasadojjhitaḥ ||56|| sadā navaḥ sadā bhadraḥ sadā śāntaḥ sadā śivaḥ | sadā priyaḥ sadā tuṣṭaḥ sadā puṣṭaḥ sadārcitaḥ ||57|| sadā pūtaḥ pāvanāgro vedaguhyo vṛṣākapiḥ | sahasranāmā triyugaścatumūrtiścaturbhujaḥ ||58|| bhūtabhavyabhavannātho mahāpuruṣapūrvajaḥ | nārāyaṇo mañjakeśaḥ sarvayogavinismṛtaḥ ||59|| vedasāro yajñasāraḥ sāmasārastaponidhiḥ | sādhyaśreṣṭhaḥ purāṇarṣiniṣṭhāśāntiparāyaṇaḥ ||60|| śivastriśūlavidhvaṁsī śrīkaṇṭhaikavarapradaḥ | narakṛṣṇo harirdharmanandano dharmajīvanaḥ ||61|| ādikartā sarvasatyaḥ sarvastrīratnadarpahā | trikālo jitakandarpa urvaśīdṛṅmunīśvaraḥ ||62|| ādyaḥ kavirhayagrīvaḥ sarvavāgīśvareśvaraḥ | sarvadevamayo brahma gururvāgmīśvarīpatiḥ ||63|| anantavidyāprabhavo mūlāvidyāvināśakaḥ | sarvārhaṇo jagajjāḍhyanāśako madhusūdana ||64|| anantamantrakoṭīśaḥ śabdabrahmaikapāvakaḥ | ādividvān vedakartāvedātmā śrutisāgaraḥ ||65|| brahmārthavedābharaṇaḥ sarvavijñānajanmabhūḥ | vidyārājo jñānarājo jñānasindhurakhaṇḍadhīḥ ||66|| matsyadevo mahāśṛṅgo jagadbījavahitradhṛk | līlāvyāptānilāmbhodhiścaturvedapravartakaḥ ||67|| ādikūrmo'khilādhārastṛṇīkṛtajagadbhavaḥ | amarīkṛtadevaughaḥ pīyūṣotpattikāraṇam ||68|| ātmādhāro dharādhāro yajñāṅgo dharaṇīdharaḥ | hiraṇyākṣaharaḥ pṛthvīpatiḥ śrāddhādikalpakaḥ ||69|| samastapitṛbhītighnaḥ samastapitṛjīvanam | havyakavyaikabhugbhavyo guṇabhavyaikadāyakaḥ ||70|| lomāntalīnajaladhiḥ kṣobhitāśeṣasāgaraḥ | mahāvarāho yajñaghnadhvaṁsano yājñikāśrayaḥ ||71|| narasiṁho divyasiṁhaḥ sarvāriṣṭārtiduḥkhahā | ekavīrodbhutabalo yantramantraikabhañjanam ||72|| brahmādiduḥsahajyotiryugāntāgnyatibhīṣaṇaḥ | koṭivajrādhikanakho gajaduṣprekṣamūrtidhṛk ||73|| mātṛcakrapramathano mahāmātṛgaṇeśvaraḥ | acintyo moghavīryāḍhyaḥ samastāsuraghasmaraḥ ||74|| hiraṇyakaśipucchedī kālaḥ saṁkarṣaṇaḥ patiḥ | kṛtāntavāhanaḥ sadyaḥ samastabhayanāśanaḥ ||75|| sarvavighnāntakaḥ sarvasiddhidaḥ sarvapūrakaḥ | samastapātakadhvaṁsī siddhamantrādhikāhvayaḥ ||76|| bhairaveśo harārtighnaḥ kālakalpo durāsadaḥ | daityagarbhasrāvināmā sphuṭadbrahmāṇḍavarjitaḥ ||77|| smṛtimātrākhilatrātā bhūtarūpo mahāhariḥ | brahmacarmaśiraḥpaṭṭā dikpālo'rdhāṅgabhūṣaṇaḥ ||78|| dvādaśārkaśirodāmā rudraśīrṣekanūpuraḥ | yoginīgrastagirijārato bhairavatarjakaḥ ||79|| vīracakreśvaro'tyugro yamāriḥ kālasaṁvaraḥ | krodheśvaro rudracaṇḍīparivādī suduṣṭabhāk ||80|| sarvākṣaḥ sarvamṛtyuśca mṛtyurmṛtyunivartakaḥ | asādhyaḥ sarvarogaghnaḥ sarvadurgrahasaumyakṛt ||81|| gaṇeśakoṭidarpaghno duḥsaho'śeṣagotrahā | devadānavadurdharṣo jagadbhakṣyapradaḥ pitā ||82|| samastadurgatitrātā jagadbhakṣakabhakṣakaḥ | ugreśo'suramārjāraḥ kālamūṣakabhakṣakaḥ ||83|| anantāyudhadorḍaṇḍo nṛsiṁho vīrabhadrajit | yoginīcakraguhyeśaḥ śakrāriḥ paśumāṁsabhuk ||84|| rudro nārāyaṇo meṣarūpaśaṅkaravāhanaḥ | meṣarūpī śivatrātā duṣṭaśaktisahasrabhuk ||85|| tulasīballabho vīro'cintyamāyo'khileṣṭadaḥ | mahāśivaḥ śivārudro bhairavaikakapālabhṛt ||86|| bhillocakreśvaraḥ śakro divyamohanarūpadhṛk | gaurīsaubhāgyado māyānidhirmāyābhayāpahaḥ ||87|| brahmatejomayo brahma śrīmayaśca trayīmayaḥ | subrahmaṇyo balidhvaṁsī vāmano'ditiduḥkhahā ||88|| upendro nṛpartirviṣṇuḥ kaśyapānvayamaṇḍanaḥ | balisvārājyadaḥ sarvadevaviprātmado'cyutaḥ ||89|| urukramastīrthapādastridaśaśca trivikramaḥ | vyomapādaḥ svapādāntaḥpavitritajagattrayaḥ ||90|| brahmeśādyabhivandyāṅghrirdutakarmādridhāraṇaḥ | acintyādbhutavistāro viśvavṛkṣo mahābalaḥ ||91|| bahumūrdhā parāṅgachidbhṛgupatnīśiroharaḥ | pāpasteya sadāpuṇyo daityeśo nityakhaṇḍakaḥ ||92|| pūritākhiladeveśo viśvārthaikāvatārakṛt | amaro nityaguptātmā bhaktacintāmaṇiḥ sadā ||93|| varadaḥ kārtavīryādirājarājyaprado'naghaḥ | viśvaślāghyo'mitācāro dattātreyo munīśvaraḥ ||94|| paraśaktisamāyukto yogānandamadonmadaḥ | samastendrāritejohṛt paramānandapādapaḥ ||95|| anasūyāgarbharatno bhogamokṣasukhapradaḥ | jamadagnikulādityo reṇukādbhutaśaktihṛt ||96|| mātṛhatyādhanirlepaḥ skandajidviprarājyadaḥ | sarvakṣatrāntakṛddhīradarpahā kārtavīryajit ||97|| yogī yogāvatāraśca yogīśo yogatatparaḥ | paramānandadātā ca śivācāryayaśaḥpradaḥ ||98|| bhīmaḥ paraśurāmaśca śivācāryaikaviśvabhūḥ | śivākhilajñānakoṣo bhīṣmācāryo'gnidaivataḥ ||99|| droṇācāryagururviśvajaitradhanvā kṛtāntakṛt | advitīyatamomūrtibrahmacaryaikadakṣiṇaḥ ||100|| manuśreṣṭhaḥ satāṁ seturmahīyān vṛṣabho virāṭ | ādirājaḥ kṣitipitā sarvaratnaikadohakṛt ||101|| pṛthujanmādyekadakṣo hrīḥ śrīḥ kīrti svayaṁ dhṛtiḥ | jagadvattipradañcakavartiśreṣṭho durastradhṛk ||102|| sanakādimuniprāpad bhagavadbhaktivardhanaḥ | varṇāśramādidharmāṇāṁ kartā vaktā pravartakaḥ ||103|| sūryavaṁśadhvajo rāmo rāghavaḥ sadguṇārṇavaḥ | kākusthavīratādharmorājadharmadhurandharaḥ ||104|| nityasusthāśayaḥ sarvabhadragrāhī śubhaikadṛk | navaratnaṁ ratnanidhiḥ sarvādhyakṣo mahānidhiḥ ||105|| sarvaśreṣṭhāśrayaḥ sarvaśastrāstragrāmavīryavān | jagadvaśī dāśarathiḥ sarvaratnāśrayo nṛpaḥ ||106|| dharmaḥ samastadharmastho dharmadraṣṭākhilārtihṛt | atīndro jñānavijñānapāradṛśvā kṣamāmbudhiḥ ||107|| sarvaprakṛṣṭaḥ śiṣṭeṣṭo harṣaśokādyanākulaḥ | pitrājñātyaktasāmrājyaḥ sapatnodayanirbhayaḥ ||108|| guhādeśārpitaiścaryaḥ śivasparddhājaṭādharaḥ | citrakūṭāptaratnādrijagadīśo raṇecaraḥ ||109|| yatheṣṭāmoghaśastrāstro devendratanayākṣihā | brahmemdrādinataiṣīko mārīcaghno virādhahā ||110|| brahmaśāpahatāśeṣadaṇḍakāraṇyapāvanaḥ | caturdaśasahasrāgryarakṣodhnaikaśaraikabhṛt ||111|| kharāristriśirohantā dūṣaṇaghno janārdanaḥ | jaṭāyuṣo'gnigatido kabandhasvargadāyakaḥ ||112|| līlādhanuḥ koṭyāpāstadundubhyasthimahācayaḥ | saptatālavyathākṛṣṭadhvajapātāladānavaḥ ||113|| sugrīve rājyado dhīmān manasaivābhayapradaḥ | hanūmadrudramukhyeśaḥ samastakapidehabhṛt ||114|| agnidaivatyabāṇaikavyākulīkṛtasāgaraḥ | samlicchakoṭibāṇaikaśuṣkanirdagdhasāgaraḥ ||115|| sanāgadaityadhāmaikavyākulīkṛtasāgaraḥ | samudrādbhutapūrvaikabaddhaseturyaśonidhiḥ ||116|| asādhyasādhako laṅkāsamūlotkarṣadakṣiṇaḥ | varadṛptajanasthānapaulastyakulakṛntanaḥ ||117|| rāvaṇaghnaḥ prahastacchit kumbhakarṇabhidugrahā | rāvaṇaikamukhacchetā niḥśaṅkakendraikarājyadaḥ ||118|| svargāsvargatvavicchedī devendrādindratāharaḥ | rakṣodevatvahṛddharmā dharmaharmyaḥ puruṣṭutaḥ ||119|| nātimātradaśāsyārirdattarājyavibhīṣaṇaḥ | sudhāsṛṣṭimṛtāśeṣasvasainyajīvanaikakṛt ||120|| devabrāhmayamaṇanāmaikadhātā sarvāmarārcitaḥ | brahmasūryendrarudrādivandyo'rcitasatāṁ priyaḥ ||121|| ayodhyākhilarājāgryaḥ sarvabhūtamanoharaḥ | svāmyatulyakṛpādatto hīnotkṛṣṭaikasatpriyaḥ ||122|| svapakṣādinyāyadarśī hīnārthodhikasādhakaḥ | bādhavyājānucitakṛttāvako'khilatuṣṭikṛt ||123|| pārvatyadhikayuktātmā priyātyavaktaḥ surārijit | sākṣātkuśalavatsadmendrāgnināto'parājitaḥ ||124|| kośalendro vīrabāhuḥ satyārthatyaktasodaraḥ | yaśodānandano nandī dharaṇīmaṇḍalodayaḥ ||125|| brahmādikāmyasānnidhyasanāthīkṛtadaivataḥ | brahmalokāptacāṇḍālādyaśeṣaprāṇisārthapaḥ ||126|| svarṇītagardabhaśvādicirāyodhyābalaikakṛt | rāmādvitīyaḥ saumitrilakṣmaṇaprahatendrajit ||127|| viṣṇubhaktāśivāṁhaḥ kṣitpādukārājyanirvṛtaḥ | bharato'sahyagandharvakoṭidhno lavaṇāntakaḥ ||128|| śatrughno vaidyarāḍāyurvedagarbhaiṣadhīpatiḥ | nityānityakaro dhanvantariryajño jagaddharaḥ ||129|| sūryavighnaḥ surājīvo dakṣiṇeśo dvijapriyaḥ | chinnamūrdhopadeśārkatanūjakṛtamaitrikaḥ ||130|| śeṣāṅgasthāpitanaraḥ kapilaḥ kardamātmajaḥ | yogātmakadhyānabhaṅgasagarātmajabhasmakṛt ||131|| dharmo viśvendrasurabhīpatiḥ śuddhātmabhāvitaḥ | śambhutripuradāhaikasthairyaviśvarathoddhataḥ ||132|| viśvātmāśeṣarudrārthaśiraśchedākṣatākṛtiḥ | vājapeyādināmāgnirvedadharmaparāyaṇaḥ ||133|| śvetadvīpapatiḥ sāṅkhyapraṇetā sarvasiddhirāṭ | viśvaprakāśitadhyānayogo mohatamisrahā ||134|| bhaktaśambhujito daityāmṛtavāpīsamastapaḥ | mahāpralayaviśvaiko'dvitīyo'khiladaityarāṭ ||135|| śeṣadevaḥ sahasrākṣaḥ sahasrāṅghriśirobhujaḥ | phaṇī phaṇiphaṇākārayojitābdhyambudakṣitiḥ ||136|| kālāgnirudrajanako musalāstro halāyudhaḥ | nīlāmbaro vāruṇīśo manovākkāyadoṣahā ||137|| svasantoṣatṛptimātraḥ pātitaikadaśānanaḥ | balisaṁyamano ghoro rauhiṇeyaḥ pralambahā ||138|| muṣṭikadhno dvividahā kālindībhedano balaḥ | revatīramaṇaḥ pūrvabhaktirevācyutāgrajaḥ ||139|| devakīvasudevottho'ditikaśyapanandanaḥ | vārṣṇeyaḥ sātvatāṁ śreṣṭhaḥ śauriryadukulodbahaḥ ||140|| narākṛtiḥ pūrṇabrahma savyasācī parantapaḥ | brahmādikāmanānityajagatparvetaśaiśavaḥ ||141|| pūtanāghnaḥ śakaṭabhidyamalārjunabhañjanaḥ | vatsāsurāriḥ keśighno dhenukārirgavīśvaraḥ ||142|| dāmodaro gopadevo yaśodānandakārakaḥ | kālīyamanardanaḥ sarvagopagopījanapriyaḥ ||143|| līlāgovardhanadharo govindo gokulotsavaḥ | ariṣṭamathanaḥ kāmonmattagopīvimuktidaḥ ||144|| sadyaḥ kuvalayāpīḍaghātī cāṇūramardanaḥ | kaṁsārirugrasenādirājyasthāyyarihā'maraḥ ||145|| sudharmāṅkitabhūloko jarāsandhabalāntakaḥ | tyaktabhaktajarāsandhabhīmasenayaśaḥpradaḥ ||146|| sāndīpanimṛtāpatyadātā kālāntakādijit | rukmiṇīramaṇo rukmiśāsano narakāntakṛt ||147|| samastanarakatrātā sarvabhūpatikoṭijit | samastasundarīkānto'surārirgaruḍadhvajaḥ ||148|| ekākī jitarudrārkamarudāpo'khileśvaraḥ | devendradarpahā kalpadrumālaṅkṛtabhūtalaḥ ||149|| bāṇabāhusahasracchitskandhādigaṇakoṭijit | līlājitamahādevo mahādevaikapūjitaḥ ||150|| indrārthārjunanirmatsurjayadaḥ pāṇḍavaikadhṛk | kāśīrājaśiraśchettā rudraśaktyekamardanaḥ ||151|| viśveśvaraprasādāḍhyaḥ kāśīrājasutārdanaḥ | śambhupratijñāpātā ca svayambhugaṇapūjakaḥ ||152|| kāśīśagaṇakoṭighno lokaśikṣādvijārcakaḥ | śivatīvratapovaśyaḥ purā śivavarapradaḥ ||153|| gayāsurapratijñādhṛk svāṁśaśaṅkarapūjakaḥ | śivakanyāvratapatiḥ kṛṣṇarūpaśivārihā ||154|| mahālakṣmīvapurgaurītrāṇo devalavātahā | vinidramucakundaikabrahmāstrayuvanāśvahṛt ||155|| akrūro'krūmukhyaikabhaktasvacchandamuktidaḥ | sabālastrījalakrīḍāmṛtavāpīkṛtārṇavaḥ ||156|| yamunāpatirānītapariṇītadvijātmakaḥ | śrīdāmaśaṁkubhaktārthabhūmyānītendrabhairavaḥ ||157|| durvṛttaśiśupālaikamuktikoddhārakeśvaraḥ | ācāṇḍālādikaṁ prāpya dvārakānidhikoṭikṛt ||158|| brahmāstradagdhagarbhasthaparīkṣijjīvanaikakṛt | pariṇītadvijasutānetārjunamadāpahaḥ ||159|| gūḍhamudrākṛtigrastabhīṣmādyakhilagauravaḥ | pārthārthakhaṇḍitāśeṣadivyāstraḥ pārthamohabhṛt ||160|| brahmaśāpacchaladhvastayādavo vibhavāvahaḥ | anaṅgo jitagaurīśo ratikāntaḥ sadepsitaḥ ||161|| puṣpeṣurviśvavijayī smaraḥ kāmeśvarīpatiḥ | uṣāpatirviśvaheturviśvatṛpto'dhipūruṣaḥ ||162|| caturātmā caturvarṇaścaturvedavidhāyakaḥ caturviśvaikaviśvātmā sarvotkṛṣṭāsu koṭiṣu ||163|| āśrayātmā purāṇarṣirvyāsaḥ śāstrasahasrakṛt | mahābhāratanirmātā kavīndro vādarāyaṇaḥ ||164|| kṛṣṇadvaipāyanaḥ sarvapuruṣārthakabodhakaḥ | vedāntakartā brahmaikavyañjakaḥ puruvaṁśakṛt ||165|| buddho dhyānajitāśeṣadevadevo jagatpriyaḥ | nirāyudho jagajjaitraḥ śrīghano duṣṭamohanaḥ ||166|| daityavedavahiṣkartavidārthaśrutigopakaḥ | śuddhodanirnaṣṭadiṣṭaḥ sukhadaḥ sadasatpatiḥ ||167|| yathāyogyākhilakṛpaḥ sarvaśūnyo'khileṣṭadaḥ | catuṣkoṭipṛthaktattvaṁ prajñāpāramiteśvaraḥ ||168|| pāṣaṇḍaśrutimārgeṇa pāṣaṇḍaśrutigopakaḥ | kalkī viṣṇuyaśaḥpūtaḥ kalikālavilopakaḥ ||169|| samastamlecchahastaghnaḥ sarvaśiṣṭadvijātikṛt | satyapravartako devadvijadīrghakṣudhāpahaḥ ||170|| aśvagavādivedena pṛthvīdurgatināśanaḥ | sadyaḥkṣmānantalakṣmīkṛt naṣṭaniḥśeṣadharmakṛt ||171|| anantasvargayāgaikahemapūrṇākhiladvijaḥ | asādhyaikajagacchāstā viśvavandyo jayadhvajaḥ ||172|| ātmātattvādhipaḥ kartṛśreṣṭho vidhirumāpatiḥ | bhartuḥ śreṣṭhaḥ prajeśāgryo marīcijanakāgraṇīḥ ||173|| kaśyapo devarāḍindraḥ prahlādo daityarāṭ śaśī | nakṣatreśo ravistejaḥ śreṣṭhaḥ śukraḥ kavīśvaraḥ ||174|| maharṣirāṭ bhṛgurviṣṇurādityeśo baliḥ svarāṭ | vāyurvahni śuciśreṣṭhaḥ śaṅkaro rudrarāṭ guruḥ ||175|| vidvattamaścitraratho gandharvāgryo vasūttamaḥ | varṇādiragryā strī gaurī śaktyāgryā śrīśca nāradaḥ ||176|| devarṣirāṭ pāṇḍavāgryo'rjuno nāradavādarāṭ | pavanaḥ pavaneśāno varuṇo yādasāmpatiḥ ||177|| gaṅgātīrthottamoddhṛtaṁ chatrakāgryaṁ barauṣadham | annaṁ sudarśanāstrāgryo vajrapraharaṇottamam ||187|| uccaiḥśravā vājirāja airāvata ibheśvaraḥ | arundhatyekapatnīśo hyaśvattho'śeṣavṛkṣarāṭ ||179|| adhyātmavidyāvidyātmā praṇavaśchandasāṁ varaḥ | merurgiripatirmārgo māsāgryaḥ kālasattamaḥ ||180|| dinādyātmā parvasiddhiḥ kapilaḥ sāmavedarāṭ | tārkṣaḥ khagendraṛtvagryo vasantaḥ kalpapādapaḥ ||181|| dātṛśreṣṭhaḥ kāmadhenurārtighnāgryaḥ surottamaḥ | cintāmaṇirguruśreṣṭho mātā hitatamaḥ pitā ||182|| siṁho mṛgendro nāgendro vāsukirbhūdharo nṛpaḥ | vaṇaśo brāhmaṇaścāntaḥkaraṇāgryaṁ namo namaḥ ||183|| ityetadvāsudevasya viṣṇornāmasahasrakam | sarvāparādhaśamanaṁ paraṁ bhaktivivarddhanam ||184|| akṣayabrahmālokādisarvārthāptyekasādhanam | viṣṇulokaikasopānaṁ sarvaduḥkhavināśanam ||185|| samastasukhadaṁ satyaṁ paraṁ nirvāṇadāyakam | kāmakrodhādiniḥśeṣamanomalaviśodhanam ||186|| śāntidaṁ pāvanaṁ nṛṇāṁ mahāpātakināmapi | sarveṣāṁ prāṇināmāśu sarvābhīṣṭaphalapradam ||187|| sarvavighnapraśamanaṁ sarvāriṣṭavināśanam | ghoraduḥsvapnaśamanaṁ tīvradāridryanāśanam ||188|| tāpatrayāpahaṁ guhyaṁ dhanadhānyayaśaskaram | sarvaiśvaryapradaṁ sarvasiddhidaṁ sarvakāmadam ||189|| tīrthayajñatapodānavratakoṭiphalapradam | aprajñajāḍyaśamanaṁ sarvavidyāpravartakam ||190|| rājyadaṁ rājyakāmānāṁ rogiṇāṁ sarvaroganut | bandhyānāṁ sutadaṁ cāśu sarvaśreṣṭhaphalapradam ||191|| astragrāmaviṣadhvaṁsi grahapīḍāvināśanam | maṅgalyaṁ puṇyamāyuṣyaṁ śravaṇāt paṭhanājjapāt ||192|| sakṛdasyākhilā vedāḥ sāṅgā mantrāśca koṭiśaḥ | purāṇaśāstraṁ smṛtayaḥ paṭhitāḥ pāṭhitāstathā ||193|| japtvāsya ślokaṁ ślokārdhaṁ pādaṁ vā paṭhataḥ priye | nityaṁ sidhyati sarveṣāmacirātkisuto'khilam ||194|| prāṇena sadṛśaṁ sadyaḥ pratyahaṁ sarvakarmasu | ida bhadre tvayā gopyaṁ pāṭhyaṁ svārthaikasiddhaye ||195|| nāvaiṣṇavāya dātyavyaṁ vikalpopahatātmane | bhaktiśraddhāvihīnāya viṣṇusāmānyadarśine ||196|| deyaṁ putrāya śiṣyāya śuddhāya hitakāmyayā | matprasādādṛte nedaṁ grahiṣyantyalpamedhasaḥ ||197|| kalau sadyaḥ phalaṁ kalpagrāmameṣyati nāradaḥ | lokānāṁ bhāgyahīnānāṁ yena duḥkhaṁ vinaśyati ||198|| kṣetreṣu vaiṣṇaveṣvetadāryāvatte bhaviṣyati | nāsti viṣṇoḥparaṁ satyaṁ nāstiviṣṇoḥ paraṁ padam ||199|| nāsti viṣṇoḥ paraṁ jñānaṁ nāsti mokṣo hyavaiṣṇavaḥ | nāstiviṣṇoḥ paromantro nāstiviṣṇoḥparaṁ tapaḥ ||200|| nāsti viṣṇo paraṁ dhyānaṁ nāsti mantro hyavaiṣṇavaḥ | kintasya bahubhirmantraiḥ kiṁ japairbahuvistaraiḥ ||201|| vājapeyasahasraiḥ kiṁ bhaktiryasya janārdane | sarvatīrthamayo viṣṇuḥ sarvaśāstramayaḥ prabhuḥ ||202|| sarvakratumayo viṣṇuḥ satyaṁ satyaṁ vadāmyaham | ābrahmasārasarvasvaṁ sarvametanmayoditam ||203|| śrī pārvatyuvāca— dhanyāsmyanugṛhītāsmi kṛtārthāsmi jagadguro | yanmedaṁ śrutaṁ stotraṁ tvadrahasyaṁ sadurlabham ||204|| aho vata mahatkaṣṭaṁ samasta sukhade harau | vidyamāne'pi sarveśe mūḍhāḥ kliśyanti saṁsṛtau ||205|| yamuddiśyasadā nātho maheśo'pi digambaraḥ | jaṭilo bhasmaliptāṅgastapasvī vīkṣito janaiḥ ||206|| ato'dhiko na devo'sti lakṣmīkāntānmadhudviṣaḥ | yattattvaṁ cintayate nityaṁ tvayā yogīśvareṇa hi ||207|| ataḥparaṁ kimadhikaṁ padaṁ śrīpuruṣottamāt | tamavijñāya tān mūḍhā yajante jñānamāninaḥ ||208|| muṣitāsmi tvayā nātha ciraṁ yadayamīśvaraḥ | prakāśito na me yasya dattādyā divyaśaktayaḥ ||209|| aho sarveśvaro viṣṇuḥ sarvadevottamottamaḥ | bhavadādigurumūḍhaiḥ sāmānya iva lakṣyate ||210|| mahīyasāṁ hi māhātmyaṁ bhajamānān bhajanti cet | dviṣato'pi tathā pāpānupekṣyante kṣamālayāḥ ||211|| mayāpi bālye svapituḥ prajñā dṛṣṭā bubhukṣitāḥ | duḥkhādaśaktāḥ svaṁ poṣṭuṁ śriyā nādhyāsitāḥ purā ||212|| tvayā saṁvardhitābhiśca prajābhirvibudhādayaḥ | visasadbhiḥ svaśaktyādyāḥ samuhṛnmitrabāndhavāḥ ||213|| tvayā vinā kva devatvaṁ kva dhairyaṁ kva parigrahaḥ | sarvaṁ bhavanti jīvanto yātanāḥ śirasi sthitāḥ ||214|| nāmṛte naiva dharmārthau kāmo mokṣo'pi durlabhaḥ | kṣudhitānāṁ durgatānāṁ kuto yogasamādhayaḥ ||215|| mā ca saṁsārasāraikā sarvalokaikapālikā | vaśyā sā kamalā yasya tyaktvā tvāmapi śaṅkaraḥ ||216|| śriyā dharmeṇa śauryeṇa rūpeṇārjavasampadā | sarvātiśayavīryeṇa sampūrṇasya mahātmanaḥ ||217|| kastena tulyatāmeti devadevena viṣṇunā | yagyāṁśāṁśakabhāgena vinā sarvaṁ vilīyate ||218|| jagadetattathā prāhurdoṣāyaitadvimohitāḥ | nāsya janma jarā mṛtyurnāprāpyaṁ vārthameva vā ||219|| tathāpi kurute dharmān pālanāya satāṁ kṛte | vijñāpaya mahādevaṁ praṇamyaikaṁ maheśvaram ||220|| avadhārya tathā sāhaṁ kānta kāmada śāśvata | kāmādyāsaktacittatvāt kiṁ tu sarveśvara prabho ||221|| tvanmayatvātprasādādvā śaknomi paṭhituṁ na cet | viṣṇoḥ sahasranāmaitatpratyahaṁ vṛṣabhadhvaja | nāmnaikena tu yena syāttatphalaṁ brūhi me prabho ||222|| śrī mahādeva uvāca— rāma rāmeti rāmeti rāmarāmo manorame | sahasranāmabhistulyaṁ rāmanāma varānane ||223|| atha sarvāṇi tīrthāni jalañcaiva prayāgajam | viṣṇornāmasahasrasya kalāṁ nārhanti ṣoḍaśīm ||224|| iti śrīnāradapañcarātre jñānāmṛtasāre caturtharātre pārvatīśivasaṁvāde śrīviṣṇonāmasahasraṁ tṛtīyo'dhyāyaḥ ||3|| …

English translation

CHAPTER Ill

THOUSAND NAMES OF LORD VISNU

€si Mahadeva said :—Even if sins incurred by thousand Brahmahatyas (killing Brahmanas) be explated somehow or other, the sin committed in not knowing. Thee cannot be explated in one hundred Koti Kalpas (i.e., ever). (1)

Let the pride shown by me in my acts be somehow sanctified, O ri Hari! Thereby all sins will be nullified. © Suresvara ! Say that to me. At this Govinda told Me truly, out of His genuine and real affection towards Me. (2)

§ri Bhagaviin said :—My thousand names are always sacred and lead to My feet. O Sambhu! If Thou desirest all lordships and powers, then be up and doing day by day. - (3)

& 7 Mahadeva said :—Daily I meditate Him and worship Him and praise Him. O Parvati! Thereby I am adored by the whole universe and have thus become glorified. (4)

§ri Parvati said :—O Lord of the Devas, O $amkara, O Lord ! Say that unto Me also, so that I may also become the Goddess of all, unequalled and like Thee. (5)

§:1 Mahadeva said :—Certainly Thou art t art best, for Thou hast asked about the thousand 1 ; §ri Visnu Bhagavan, which are pre-eminently supreme and auspicious to the three worlds. (6)

We meditate the Lord Narayana, the excell in Visuddhasthana (pure and holy sphere) and w (Parama Hamsa). We bow down to Him. (7)

Om. The Rsi of this mantra of the Thousand names of Gri Visnu is Mahadeva. Paramatma (the Highest Self) is the Devati ; ithe tens of millions of the rising Suns is the Vija of this mantra (the seed from which the whole manifestation is developed), the Ganges, the best. Tirtha (sacred place of pilgrimage), is the Sakti ; Prapannagani Pafijara is the Vija mantra ; Gangatirthottama Sakti prapannagani pafijara is the Kilakam (the pin of an axle)

obe praised, Thou ames of

lent Purusa, dwelling ho is Maha Hamsa

246 Narada Pajcardtram Vasudeva param Brahma, salutation to Angustha (the thumb). Mila Prakrti, salutation to the forefinger ; Bhimahavaraha, salutation to the middle finger; Siryavansadhwaja Rama, Salutation to the ting finger ; Brahmadi Kamaladi Gadasirya KeSavam this is the salutation to little finger ; Sesa is salution to the back of the palm, the hands. (8)

N. B.—Prapannagani is with thunderbolt held raised ; Pafijara is the cage ; here it is the body made up of ribs etc,

Divyastra (the divine weapon) Itiastram (thus this weapon) is Sarvapapa Kgayartham Sarvabhistasiddhartham Srivisnorndmasahasram Japeviniyogah (the application of the divine weapon is to

destroy all the sins and thusto yield or reap. the fruits Of all desires), (9) :

Now maditate :—I bow down to Sri Visnu, who is shining, whose hands are like lotuses, who is wearing crown studded with disdems, bracelets and armlets on the arms, wearing a necklace of pearls resembling a Kalpa, whose belly, feet and waist are all decorated with (proper) ornaments, whose breast is beautiful and whose shoulders are beautified with rings of gems, and whose earrings are of the shape of shark (a crocodile) and who is holding in His hands conch-shell, discus, club, and lotus, shining like pure rays, and who is wearing yellow, silken robe, aprearing like lightning and looking like the rising sun. So I meditate Visnu.

(See Sunskrit text),

These one thousand names of Vasudeva pacify all ills and increase the highest devotion. (184)

This devotion leads to the acquisition of Brama !oka ard all objects of desires and is a second step Jeading to Visnu loka; and it puts an end to all troubles and difficultties. (185)

It bestows all happiness and leads to Nirvana Mukti in Satyaloka. It destroys lust, anger and all other passions and removes totally the ignorance of mind. (186)

It bestows peace and quietude of mind ; it saves those who have committed Mahapatakas (greatest sins) and purifies them. It bestows quickly to all persons their objects of desires. (187)

2 a ee

The Fourth Night, Ch, Il 247

All obstacles are pacified ; all inauspiciousness are thwarted. All the most dreadful calamities are averted and the deepest depths

of poverty are destroyed. (188)

It removes the three-fold miseries of the universe. It is to be kept very secret. It yields wealth, grains, fame and all prosperities and all siddhis (successes and supernatural powers). It bestows all objects of desi:es. (189)

All the fruits of visitings the secred places of pilgrimage, performing yajfias (sacrifices), austerities, giving alms, and practising tens of millions of vratas (vows). It removes ignorance and inertia and is an incitement to acquire all knowledges. (190)

It gives kingdoms to those who want such ; it cures all diseases + fructifies the barrenness of women and yields the most excellent results. (191)

It removes entirely pains, arising from injuries, and poisons ; removes the diseases caused ty bad pla studying and repeating bring in all merits and auspiciousness promotes the longevity. (192) ;

If this be recited once, know as if all the Vedas are studied ; and millions of mantras with their branches are studied. It brings in results equivalent to reading Puranas, and Smrti Sistras. (193)

O Beloved! If one studies o quarter verse, after mattering them, soon one ac the siddhis and gets success everywhere. 194)

O Auspicious one ! Thou shouldst keep it secret in J] acts as if it is Thy prana and recite only for Thy own benefit. (195)

This ought not to be given to one who considers Vignu an ordinary being or who is devoid of faith and devotion or whose mind is doubtful or who is not devoted to Visnu. (196)

Tnis ought to- be given to the pure minded disciple for his, welfare or to one’s son. But the small minded people won’t accept this, until { be pleased. (197)

The Rsi Narada would expect in the Kali age, much good results from this. Thereby the miseries of the unfortunate pcople would be removed. (198)

due to weapons nets. Hearing, and

ne verse, or one half verse or one quires always all

248 Narada Pajicaratram

This would produce the best results in Vaisnava Ksetras (places of Vignu) in Arydvarta. There is no truth higher than Vignu, nor any station loftier than that of Visnu. (199)

There is no highest wisdom higher than Visnu; none who is not a Waisnava acquires mukti ; there is no mantra higher than that of Visnu ; there is no tapasya higher than Visnu. (200)

There is no higher meditation than that of Visnu ; there is no other non Visnu mantra greater than this. What need is there to dwell on the greatness and reciting of other mantras. (201)

What need is there to perform thousand Vajapeya sacrifices for him whose devotion is fixed towards Visnu ; for Visnu embraces all Tirthas and embodies all the Sastras. (202)

Verily I say this upto These, that Visnu embraces all the Yajiias (sacrifices). Thus I have expanded, in full, this quintessence of all this Brahma. (203)

Sri Paivati said :-I am highly favoured, blessed and think myself as having my objects all attained ; and Thou hast related to

me this stotra (praise) which is so very rare and at the same time SO secret. (204)

And the more wonder is this that though in Hari we find present all these qualities, the stupad men do not think Him, the Lord of all ; and thus suffer in this world. (205)

Tt is aiming Him that MaheSa, though the Lord of all, is seen by all people maked, wearing matted hairs, with ashes all over His body and practising ascerticism. (206)

No other Devata is superior to Him; He is the Lord of the goddess Laksmi and He is the slayer of Madhu ; Thou, though the Lord of the Yogis art always meditating on His Essence. (207)

Thus what other post is superior to that of Sri Purusottama, Those stupid perscns, who are self conceited, are ignorant of Him and worship others. (208)

O Lord ! Thou hast for ever imparted to me the real knowledge and thus captivated me ; for he, who has not Adya Sakti revealed in him, cannot realise that Sri Krsna is the great Lord, (202)

The Fourth Night, Ch. II 249

Visou is Igvara of all; He is superior to all the Devas and He is Thy First Guru; the stupid persons only consider Thee as ordinary. (210) a:

If people worship Him who worships the Great for His Glory, those, who are evilminded and vicious, tend tend to despise those great ones who are the receptacles, as it were of forgiveness. (71 1)

1, too, in my young age while in my father’s house shewed mercy to the hungry and poor people who were incapable to support their own hungry kinsmen. (212)

_ Thou hast showed great kindness towards Indra and other kindred subjects ; they are new wandering freely in this world with their friends relations, and acquaintances as their qualifications and strength permit. (213)

Devahood (the state of becoming @ Deva), patience and acquirements cannot exist without Thee ; therefore all the jivas do live in this world with extreme pain (because they forget Thee). (214)

Without Theu no one can aspire after D Moksa become hard to attain. How can Yoga, those who are hungry and unfortunate. (215)

O Sankara! That man has been forsaken by the Goddess Kamala, Who alone is the essence of this world and Who alone protects all these people (Lokas). (216) :

She has consigned all the wealth of this world to the Mahatmas (the high should persons) by virtue of Her Dharma, heroism and by Her form and beauty. (217)

So who can, in this world, be equal to Sri Krsna, the Deva of the Devas? For all merge in him, save those who are His parts. (218)

This world is fascinated by all sorts of evils. beyond birth, old age and death; and he has get nothing to get. (219)

Yct be works for the preservation of Religion (Dharma) and for the maintenance of the Sadhus. He puts that in manifestation

harma ; Kama and Samadhi come to

§ri Krsna is

250 Narada Paficaratram:

(i.e. incarnates Himself ) by bowing down only to Mahadeva. (220)

O Lord and Giver of all desires !I have heard with attention this stotra ; but O Lord! O Isvara of all if Owing to attachment to objects of desires, I be unable to receite the above with one mind and with one heart, all absorbed. (221)

I pray to three, to kindly mention o stotras, O Lord, O Vrsabhadhvaj to me the same effect that the w to me. (222)

Sri Mahadeva said:—o Beautiful One! * Rameti Rama names. (223)

ne verse of the above a! reciting which daily will yield hole thousand names would give

Rama _ Rameti Rama” this is equivalent to the thousand

Therefore all the tirthas and the water of the Pray is not equivalent to one sixteenth of this names. (224)

aga tirtha Visnu’s thousand

Here ends the Third Chapter of the Fourth Night on the thousand names of Visnu in Sri Narada Paficaratra Jnanaimrtasara (3).

Complete chapter-aligned witnesses. Sanskrit/IAST is the GGM complete amended text, version 1.1, based on Vijñānānanda’s 1997 edition; the displayed Devanagari is transliterated directly from that proofread IAST witness. English is Swami Vijñānānanda’s complete translation, printed pages 245–250 (scan pages 262–267). It was extracted with Tesseract 5 English OCR from the 200 ppi published scan, with chapter boundaries controlled against the printed contents. No unsupported verse-by-verse equivalence is asserted.