First Night · Chapter 7
Sourceसप्तमो ऽध्यायः सꣳभाष्य लोमशꣳ तस्माज् जगाम नारदो मुनिः । पुष्प-भद्रा-नदी-तीरम् अतीव सुमनोहरम् ॥१॥ यत्रास्ते शृङ्ग-कूटश् च शुद्ध-स्फटिक-सन्निभिः । नाना-वृक्ष-समायुक्तैस् त्रिभिर् अन्यैः सरोवरैः ॥२॥ हꣳसकारण्डवाकीर्णैर् भ्रमरैर् ध्वनि-सुन्दरैः । पुꣳस्-कोकिल-निनादैश् च सन्ततꣳ सुमनोहरैः ॥३॥ शैत्य-सौगन्ध्य-मान्ध्यैश् च वायुभिः सुरभी-कृतैः । समाधि-युक्तो यत्रास्ते मार्कण्डेयो महा-मुनिः ॥४॥ स मुनिर् नारदꣳ दृष्ट्वा भक्त्या च प्रणनाम च । पप्रच्छ कुशलꣳ शान्तꣳ शान्तः सत्त्व-गुणाश्रयः ॥५॥ मार्कण्डेयो उवाच— अद्य मे सफलꣳ जन्म जीवनꣳ चातिसार्थकम् । ममाश्रमे पुण्य-राशिर् ब्रह्म-पुत्रश् च नारदः ॥६॥ अहो देवर्षि-प्रवरो दीप्तमान् ब्रह्म-तेजसा । क्व यासि कुत आयासि किꣳ ते मनसि वर्तते ॥७॥ मानसꣳ प्राणिनाम् एव सर्व-कर्मैक-कारणम् । मनोनुरूपꣳ वाक्यꣳ च वाक्येन प्रस्फुटꣳ मनः ॥८॥ मुनेश् च वचनꣳ श्रुत्वा वीणा-पाणि स्वम् ईप्सितम् । उवाच सस्मितꣳ शान्तꣳ वचः सत्यꣳ सुधोपमम् ॥९॥ नारद उवाच— हे बन्धो यामि कैलासꣳ ज्ञानार्थꣳ ज्ञानिनाꣳ वरम् । द्रष्टुꣳ महा-देवꣳ च प्रणामꣳ कर्तुम् ईश्वरम् ॥१०॥ पूजाꣳ गृहीत्वा चेत्य् उक्त्वा प्रययौ नारदो मुनिः । मार्कण्डेयश् च शोकार्तः सद्विच्छेदः सुदारुणः ॥११॥ हिमालयꣳ च दुर्लघ्यꣳ विलघ्यꣳ चैव लीलया । स्वर्ग-मन्दाकिनी-तीरꣳ कैलासꣳ प्रययौ मुनिः ॥१२॥ ददर्श वट-वृक्षꣳ च योजनायतम् उच्छ्रितम् । शोभितꣳ शतकैः स्कन्धैः रक्त-पक्व-फलान्वितैः ॥१३॥ सुस्निग्धैः सुन्दरैः रम्यै रम्य-पक्षीन्द्र-सꣳकुलैः । सिद्धेन्द्रैश् च मुनीन्द्रैश् योगीन्द्रैः परिशोभितम् ॥१४॥ प्रणताꣳस् ताꣳश् च सꣳभाष्य पार्वती-काननꣳ ययौ । सुन्दरꣳ वर्तुलाकारꣳ चतुर्-योजनम् ईप्सितम् ॥१५॥ शोभितꣳ सुन्दरै रम्यैः सप्तभिश् च सरोवरैः । शश्वन्-मधुकरासक्त-पद्म-राजि-विराजितैः ॥१६॥ नील-रक्तोत्पल-दल-पटलैः परिशोभितैः । पुष्पोद्यानैश् च शतकैः पुष्पितैः सुमनोहरैः ॥१७॥ मल्लिका-मालती-कुन्द-यूथिका-माधवी-लता । केतकी-चम्पकाशोक-मन्दारक-विराजिका ॥१८॥ नाग-पुन्नाग-कुटजपाटलाज्ञिण्ट्ज्ञिज्ज्ञिका । विष्णु-क्रान्ता च तुलसी शोफली सप्तला तथा ॥१९॥ एतेषाꣳ च समूहैश् च पुष्प-वल्ली-विराजितैः । आम्रैर् आम्रातकैस् तालनारिकेलैः पियालकैः ॥२०॥ खर्जूरैश् च गुवाकैश् च पलासैर् जम्बुभिस् तथा । दाडिम्बैश् चापि जम्बीरैर् निम्बैश् चैव वटैस् तथा ॥२१॥ करञ्जैर् वदरीभिश् च परितः श्री-फलोज्ज्वलैः । कदम्बानाꣳ कदम्बैश् च तिन्तिण्डीनाꣳ कदम्बकैः ॥२२॥ अश्वत्थैः सरलैः शालैः शाल्मलीनाꣳ समूहकैः । वट-शाखोटकैः कुन्दैः शꣳगुभिः सप्त-पर्णकैः ॥२३॥ पिच्छिलैः पर्ण-शालैश् च गम्भारिभिश् च वल्गुकैः । हिङ्गुलैर् अञ्जनैर् वल्कैर् भूर्ज-पत्रैः सपत्रकैः ॥२४॥ अन्यैश् च दुर्लभैर् वन्यैः पुष्प-पत्रैर् विराजितम् । कल्प-वृक्षैः पारिजातैश् चारु-चन्दन-पल्लवैः ॥२५॥ सुस्निग्ध-स्थल-पद्मैश् च चित्रितैर् भूमि-चम्पकैः । अन्यैश् च दुर्लभैर् वन्यैः पुष्प-पत्रैर् विभूषितम् ॥२६॥ सिꣳहेन्द्रैः शरभेन्द्रैश् च गजेन्द्रैर् गण्डकेन्द्रैः । शार्दूलेन्द्रैश् च महिषैर् अश्वैश् च वन्य-शूकरैः ॥२७॥ शल्लकैर् बल्लकैर् मर्कैः कूटैश् च शशकैः शकैः । कृष्ण-सारैश् च हरिणैश् चमरी-चामरोज्ज्वलम् ॥।२८॥ पुꣳस्-कोकोल-कुलानाꣳ च गानैश् च विराजितम् । मत्तानाꣳ पल्लव-स्थानाꣳ माधवेषु मनोहरम् ॥२९॥ शुकानाꣳ राज-हꣳसानाꣳ मयूराणाꣳ च पुत्रकैः । क्षेम-करी-खञ्जनानाꣳ राजिभिश् च मनोहरम् ॥३०॥ हरित्-पीत-रक्त-कृष्ण-सुपक्व-फल-पत्रकैः । सुस्निग्धाक्षत-पत्रैश् च नूतनैर् अभिभूषितम् ॥३१॥ हिꣳसा-भयादि-रहितꣳ सर्वेषाꣳ पशु-पक्षिणाꣳ । परस्परꣳ च सुप्रीतꣳ हिꣳस्राणाꣳ क्षुद्र-जन्तुभिः ॥३२॥ तत्र क्रीडा-स्थलꣳ रम्यꣳ पार्वती-परमेशयोः । मुनीन्द्रैर् इन्द्र-नीलैश् च पद्म-रागैः परिष्कृतम् ॥३३॥ क्रोशायतꣳ परिमितꣳ वर्तुलꣳ चन्द्र-विम्बवत् । अम्लान-रम्भा-स्तम्भानाꣳ लक्ष-लक्षैश् च वेष्टितम् ॥३४॥ चित्रितꣳ सूक्ष्म-सूत्राक्तैर् नूतनैर् अभिभूषितम् । नूतनाक्षत-पत्रैश् च ललितैः परिशोभितम् ॥३५॥ रक्त-पीतासितैः स्निग्धैर् अम्लानैः सुमनोहरैः । परितः परितः शश्वन् मालाजालैर् विभूषितम् ॥३६॥ शय्या-भूतꣳ सुतल्पैश् च स्निग्ध-चम्पक-चन्दनैः । पुष्प-चन्दन-युक्तेन वायुना सुरभी-कृतम् ॥३७॥ कस्तूरी-कुङ्कमासक्त-सुगन्धि-चन्दनैः सितैः । मार्जितꣳ चित्रितꣳ चित्रैः परितो रङ्ग-वस्तुभिः ॥३८॥ दृष्ट्वा तद् अद्भुतꣳ शीघ्रꣳ प्रययौ स्वर्-णदीꣳ मुनिः । शुद्ध-स्फटिक-सꣳकासाꣳ सर्व-पाप-विनाशिनीम् ॥३९॥ भवाब्धिघोर-तरणे तरणीꣳ नित्यनूतनाम् । कृष्ण-पाद-प्रसूताꣳ च जगत्-पूज्याꣳ पति-व्रताꣳ ॥४०॥ स्नाट्वा कृष्णꣳ च सꣳपूज्य परमात्मानम् ईश्वरम् । प्रकृतेः परिमिष्टꣳ च निर्लिप्तꣳ निर्गुणꣳ परम् ॥४१॥ साक्षिणꣳ कर्मणाम् एव ब्रह्म ज्योतिः सनातनम् । प्रययौ पुरतो रम्यꣳ राज-मार्गꣳ ददर्श सः ॥४२॥ मणिभिः स्फटिकाकारैर् अमलैर् बहु-मूल्यकैः । परिष्कृतꣳ च सर्वत्र निर्मितꣳ विश्व-कर्मणा ॥४३॥ सताꣳ पुण्यवताꣳ दृष्टम् अदृष्टꣳ कृत-पापिनाम् । धनुः शतꣳ परिमितꣳ चित्र-राजि-विराजितम् ॥४४॥ दध्यꣳ सर्वाश्रमान्तꣳ च प्रख्यात् कोटि-गुणोत्तरम् । रथꣳ ददर्श पुरतो मनोयायि मनोहरम् ॥४५॥ अमूल्य-रत्न-निर्माण-विमाण-सार-सुन्दरम् । धनुर् लक्षꣳ परिमितꣳ परितो वर्तुलाकृतम् ॥४६॥ ऊर्ध्व-स्थितम् ऊर्ध्व-गꣳ च सहस्र-चक्र-सꣳयुतम् । धनुर् लक्षो ऽपि सूतꣳ च वह्नि-शुद्धाꣳशुकान्वितम् ॥४७॥ हीरासार-विनिर्माणꣳ सुचारु-कलशोज्ज्वलम् । रत्न-प्रदीप-दीप्ताढ्यꣳ रत्न-दर्पण-भूषितम् ॥४८॥ मुक्ताशुक्ति-निबद्धैश् च शोभितꣳ श्वेत-चामरैः । माणिक्य-सार-हारेण मणि-राजैर् विराजितम् ॥४९॥ पारिजाट-प्रसूतानाꣳ मायाजालैः परिष्कृतम् । ग्रीष्म-मध्याह्न-मार्तण्डꣳ सहस्र-सदृशोज्ज्वलम् ॥५०॥ ईश्वरेच्छा-विनिर्माणꣳ काम-पुरꣳ च कामिनाम् । सर्व-भोग-समाविष्टꣳ कल्प-वृक्ष-परꣳ वरम् ॥५१॥ ससक्त-चित्रितै रम्यै रति-मन्दिर-सुन्दरैः । गोलोकाद् आगतꣳ पूर्वꣳ क्रीडार्थꣳ शङ्करस्य च ॥५२॥ विवाहे परिनिष्पन्ने पार्वती-परमेशयोः । रथꣳ दृष्ट्वा च प्रययौ कियद् दूरꣳ महा-मुनिः ॥५३॥ अतीव रम्यꣳ रुचिरꣳ ददर्श शङ्कराश्रमम् । रत्नेन्द्र-सार-निर्माणꣳ शिविरैः शत-कोटिभिः ॥५४॥ मितैस् तस्मात् शत-गुणैस् तत्र सुन्दर-मन्दिरैः । युक्तꣳ रत्न-कपाटैश् च रत्न-धातु-विचित्रितैः ॥५५॥ परम-स्तम्भ-सोपानैर् वज्र-मिश्रैर् विभूषितम् । ददर्श शिविरꣳ शम्भोः परिखाभिस् त्रिभिर् युतम् ॥५६॥ दुर्लघ्याभिरा-मित्राणाꣳ सुगम्याभिः सताम् अहो । प्रकारैश् च त्रिभिर् युक्तꣳ धनुर् लक्षोच्छ्रितꣳ सुत ॥५७॥ सम्मितꣳ सप्तभिर् द्वारैर् नाना-रक्षक-रक्षितैः । धनुः-शत-सहस्रꣳ च चतुरस्रꣳ च सम्मितम् ॥५८॥ अमूल्य-रत्न-निर्माणꣳ चतुः-शाला-शतैर् युतम् । अतीव रम्यꣳ पुरतो पुर-द्वारꣳ ददर्श सः ॥५९॥ पुरतो रत्न-भित्तौ च कृत्रिमꣳ च सुशोभितम् । पुण्यꣳ वृन्दावनꣳ रम्यꣳ तन्-मध्ये रास-मण्डलम् ॥६०॥ सर्वत्र राधा-कृष्णꣳ च प्रत्येकꣳ रति-मन्दिरे । रम्यꣳ कुञ्ज-कुटीराणाꣳ सहस्रꣳ सुमनोहरम् ॥६१॥ सुगन्धि पुष्प-शय्यानाꣳ सहस्रꣳ चन्दनोक्षितम् । द्वार-पालꣳ च तत्रैव मणि-भद्रꣳ भयꣳकरम् ॥६२॥ त्रि-शूल-पट्टिश-धरꣳ व्याघ्र-चर्माम्बरꣳ परम् । तꣳ सꣳभाष्य विलोक्यैवꣳ द्वितीय-द्वारम् ईप्सितम् ॥६३॥ जगाम च मुनि-श्रेष्ठो ददर्श चित्रम् उत्तमम् । कदम्बानाꣳ समूहꣳ च तन्-मूलꣳ च मनोहरम् ॥६४॥ रत्न-भित्ति-समायुक्तꣳ कालिन्दी-कूलम् उत्तमम् । स्नातꣳ गोपी-समूहꣳ च नग्न-सर्वाङ्गम् अद्भुतम् ॥६५॥ कदम्बाग्रे च श्री-कृष्णꣳ वस्त्र-पुञ्ज-करꣳ परम् । तत्रैव शूल-हस्तꣳ च महा-कालꣳ ददर्श च ॥६६॥ कृपालुꣳ द्वार-पालꣳ तꣳ सꣳभाष्य नारदो मुनिः । प्रययौ शीघ्र-गामी स तृतीय-द्वारम् उत्तमम् ॥६७॥ ददर्श तत्र पुरतः कृत्रिमꣳ वट-मूलकम् । गोपानाꣳ च समूहꣳ च पीतम्बर-धरꣳ परम् ॥६८॥ बाल-क्रीडाꣳ च कुर्वन्तꣳ तन्-मध्ये कृष्णम् उत्तमम् । ब्राह्मणीभिः प्रदत्तम् च भुक्तवन्तꣳ सुपायसम् ॥६९॥ कुर्वन्तꣳ च समाधानꣳ मुनेः वाम-करेण च । गृहीत्वा तद्-अनुज्ञाꣳ च चतुर्थꣳ द्वारम् ईप्सितम् ॥७०॥ प्रययौ ब्रह्म-पुत्रश् च ददर्श चित्रम् उत्तमम् । गोवर्धनꣳ पर्वतꣳ च तत्र कृष्ण-कर-स्थितम् ॥७१॥ गोकुलꣳ गोकुल-स्थानाꣳ गोपीनाꣳ चैव रक्षणम् । व्याकुलꣳ गोकुलꣳ भीतꣳ शक्र-वृष्टि-भयेन च ॥७२॥ अभयꣳ दत्तवन्तꣳ च कृष्णꣳ दक्ष-करेण च । नन्दिनꣳ द्वार-पालꣳ च शूल-हस्तꣳ च सस्मितम् ॥७३॥ विलोक्य प्रययौ विप्रः पञ्चमꣳ द्वाऋअम् उत्तमम् । नाना-कृतिम-चित्राढ्यꣳ वीर-भद्रान्वितꣳ परम् ॥७४॥ तत्रैव नीप-मूलꣳ च यमुनाकुलम् एव च । कालीय-दमनꣳ तत्र कृतिमꣳ च ददर्श ःअ ॥७५॥ तद् दृष्ट्वा सस्मितस् तुष्टः षष्ट-द्वाऋअꣳ जगाम सः । द्वारे नियुक्तꣳ बालꣳ च शूल-हस्तꣳ चतुर्-भुजम् ॥७६॥ रत्न-सिꣳहासन-स्थꣳ च सस्मितꣳ स्व-गणाधिपम् । ददर्श चित्रꣳ तत्रैव मथुरा-गमनꣳ हरेः ॥७७॥ गोपिकानाꣳ विलापꣳ च यशोदा-नन्दयोस् तथा । व्याकुलꣳ गोकुलꣳ चापि रथ-स्थꣳ शरणꣳ हरिम् ॥७८॥ अक्रूरꣳ च तथा नन्दꣳ निरानन्दꣳ शुचाकुलम् । तद् दृष्ट्वा सप्तम-द्वारꣳ द्वार-पालꣳ ददर्श सः ॥७९॥ चित्रꣳ कौतुक-युक्तꣳ च मथुरायाः प्रवेशनम् । सबलꣳ गोप-सहितꣳ श्री-कृष्णꣳ प्रकृतेः परम् ॥८०॥ मथुरा-नागरीभिश् च बालकैर् वानिरर्गलैः । वीक्षन्तꣳ सादरꣳ सर्वैर् नगर-स्थैर् मनोहरम् ॥८१॥ धनुर् भङ्गꣳ तथा शꣳभोः कꣳसादि-निधनादिकम् । सभार्यꣳ वसुदेवꣳ च निगडान् मुक्तम् ईप्सितम् ॥८२॥ द्वारे नियुक्तꣳ देवेशꣳ गणेशꣳ गण-सꣳयुतम् । ध्यान-स्थꣳ च विभान्तꣳ च शुद्ध-स्फटिक-मालया ॥८३॥ जपन्तꣳ परमꣳ शुद्धꣳ ब्रह्म-ज्योतिः सनातनम् । निर्लिप्तꣳ निर्गुणꣳ कृष्णꣳ परमꣳ प्रकृतेः परम् ॥८४॥ दृष्ट्वा तꣳ च सुर-श्रेष्ठꣳ मुनि-श्रेष्ठो ऽपि नारदः । साम-वेदोक्त-स्तोत्रेण पुष्टाव परमेश्वरम् । साश्रु-नेत्रः पुलकितो भक्ति-नम्रात्मकꣳधरः ॥८५॥ अथ गणपति-स्तोत्रम् भो गणेश सुर-श्रेष्ठ लम्बोदर परात् पर । हेरम्ब मङ्गलारम्भ गज-वक्त्र त्रि-लोचन ॥८६॥ मुक्तिद शुभद श्रीद श्रीधर-स्मरणे रत । परमानन्द परम पार्वती-नन्दन स्वयम् ॥८७॥ सर्वत्र पूज्य सर्वेश जगत्-पूज्य महा-मते । जगद्-गुरो जगन्-नाथ जगद्-ईश नमो ऽस्तु ते॥८८॥ यत्-पूजा सर्व-परतो यः स्तुतः सर्व-योगिभिः । यः पूजितः सुरेन्द्रैश् च मुनीन्द्रैस् तꣳ नमाम्य् अहम् ॥८९॥ परमाराधनेनैव कृष्णस्य परमात्मनः । पुण्यकेन व्रतेनैव यꣳ प्राप पार्वती सती ॥९०॥ तꣳ नमामि सुर-श्रेष्ठꣳ सर्व-श्रेष्ठꣳ गरिष्ठकम् । ज्ञानि-श्रेष्ठꣳ वरिष्ठꣳ च तꣳ नमामि गणेश्वरम् ॥९१॥ इत्य् एवम् उक्त्वा देवर्षिस् तत्रैवान्तर् दधे विभुः । नारदः प्रययौ शीघ्रम् ईश्वराभ्यन्तरꣳ मुदा ॥९२॥ इदꣳ लम्बोदर-स्तोत्रꣳ नारदेन कृतꣳ पुरा । पूजा-काले पठेन् नित्यꣳ जयस् तस्य पदे पदे ॥९३॥ सꣳकल्पितꣳ पठेद् यो हि वर्षम् एकꣳ सुसꣳयतः । विशिष्ट-पुत्रꣳ लभते परꣳ कृष्ण-परायणम् ॥९४॥ यशस्विनꣳ च विद्वाꣳसꣳ धनिनꣳ चिर-जीविनम् । विघ्न-नाशो भवेत् तस्य महैश्वर्यꣳ यशो ऽमलम् । इहैव च सुखꣳ भक्त्यान्ते याति हरेः पदम् ॥९५॥ इति श्री-नारद-पञ्च-रात्रे ज्ञानामृत-सारे प्रथमैक-रात्रे गणपति-स्तोत्रꣳ नाम सप्तमोऽध्यायः ॥७॥ …
saptamo 'dhyāyaḥ saṁbhāṣya lomaśaṁ tasmāj jagāma nārado muniḥ | puṣpa-bhadrā-nadī-tīram atīva sumanoharam ||1|| yatrāste śṛṅga-kūṭaś ca śuddha-sphaṭika-sannibhiḥ | nānā-vṛkṣa-samāyuktais tribhir anyaiḥ sarovaraiḥ ||2|| haṁsakāraṇḍavākīrṇair bhramarair dhvani-sundaraiḥ | puṁs-kokila-ninādaiś ca santataṁ sumanoharaiḥ ||3|| śaitya-saugandhya-māndhyaiś ca vāyubhiḥ surabhī-kṛtaiḥ | samādhi-yukto yatrāste mārkaṇḍeyo mahā-muniḥ ||4|| sa munir nāradaṁ dṛṣṭvā bhaktyā ca praṇanāma ca | papraccha kuśalaṁ śāntaṁ śāntaḥ sattva-guṇāśrayaḥ ||5|| mārkaṇḍeyo uvāca— adya me saphalaṁ janma jīvanaṁ cātisārthakam | mamāśrame puṇya-rāśir brahma-putraś ca nāradaḥ ||6|| aho devarṣi-pravaro dīptamān brahma-tejasā | kva yāsi kuta āyāsi kiṁ te manasi vartate ||7|| mānasaṁ prāṇinām eva sarva-karmaika-kāraṇam | manonurūpaṁ vākyaṁ ca vākyena prasphuṭaṁ manaḥ ||8|| muneś ca vacanaṁ śrutvā vīṇā-pāṇi svam īpsitam | uvāca sasmitaṁ śāntaṁ vacaḥ satyaṁ sudhopamam ||9|| nārada uvāca— he bandho yāmi kailāsaṁ jñānārthaṁ jñānināṁ varam | draṣṭuṁ mahā-devaṁ ca praṇāmaṁ kartum īśvaram ||10|| pūjāṁ gṛhītvā cety uktvā prayayau nārado muniḥ | mārkaṇḍeyaś ca śokārtaḥ sadvicchedaḥ sudāruṇaḥ ||11|| himālayaṁ ca durlaghyaṁ vilaghyaṁ caiva līlayā | svarga-mandākinī-tīraṁ kailāsaṁ prayayau muniḥ ||12|| dadarśa vaṭa-vṛkṣaṁ ca yojanāyatam ucchritam | śobhitaṁ śatakaiḥ skandhaiḥ rakta-pakva-phalānvitaiḥ ||13|| susnigdhaiḥ sundaraiḥ ramyai ramya-pakṣīndra-saṁkulaiḥ | siddhendraiś ca munīndraiś yogīndraiḥ pariśobhitam ||14|| praṇatāṁs tāṁś ca saṁbhāṣya pārvatī-kānanaṁ yayau | sundaraṁ vartulākāraṁ catur-yojanam īpsitam ||15|| śobhitaṁ sundarai ramyaiḥ saptabhiś ca sarovaraiḥ | śaśvan-madhukarāsakta-padma-rāji-virājitaiḥ ||16|| nīla-raktotpala-dala-paṭalaiḥ pariśobhitaiḥ | puṣpodyānaiś ca śatakaiḥ puṣpitaiḥ sumanoharaiḥ ||17|| mallikā-mālatī-kunda-yūthikā-mādhavī-latā | ketakī-campakāśoka-mandāraka-virājikā ||18|| nāga-punnāga-kuṭajapāṭalājñiṇṭjñijjñikā | viṣṇu-krāntā ca tulasī śophalī saptalā tathā ||19|| eteṣāṁ ca samūhaiś ca puṣpa-vallī-virājitaiḥ | āmrair āmrātakais tālanārikelaiḥ piyālakaiḥ ||20|| kharjūraiś ca guvākaiś ca palāsair jambubhis tathā | dāḍimbaiś cāpi jambīrair nimbaiś caiva vaṭais tathā ||21|| karañjair vadarībhiś ca paritaḥ śrī-phalojjvalaiḥ | kadambānāṁ kadambaiś ca tintiṇḍīnāṁ kadambakaiḥ ||22|| aśvatthaiḥ saralaiḥ śālaiḥ śālmalīnāṁ samūhakaiḥ | vaṭa-śākhoṭakaiḥ kundaiḥ śaṁgubhiḥ sapta-parṇakaiḥ ||23|| picchilaiḥ parṇa-śālaiś ca gambhāribhiś ca valgukaiḥ | hiṅgulair añjanair valkair bhūrja-patraiḥ sapatrakaiḥ ||24|| anyaiś ca durlabhair vanyaiḥ puṣpa-patrair virājitam | kalpa-vṛkṣaiḥ pārijātaiś cāru-candana-pallavaiḥ ||25|| susnigdha-sthala-padmaiś ca citritair bhūmi-campakaiḥ | anyaiś ca durlabhair vanyaiḥ puṣpa-patrair vibhūṣitam ||26|| siṁhendraiḥ śarabhendraiś ca gajendrair gaṇḍakendraiḥ | śārdūlendraiś ca mahiṣair aśvaiś ca vanya-śūkaraiḥ ||27|| śallakair ballakair markaiḥ kūṭaiś ca śaśakaiḥ śakaiḥ | kṛṣṇa-sāraiś ca hariṇaiś camarī-cāmarojjvalam |||28|| puṁs-kokola-kulānāṁ ca gānaiś ca virājitam | mattānāṁ pallava-sthānāṁ mādhaveṣu manoharam ||29|| śukānāṁ rāja-haṁsānāṁ mayūrāṇāṁ ca putrakaiḥ | kṣema-karī-khañjanānāṁ rājibhiś ca manoharam ||30|| harit-pīta-rakta-kṛṣṇa-supakva-phala-patrakaiḥ | susnigdhākṣata-patraiś ca nūtanair abhibhūṣitam ||31|| hiṁsā-bhayādi-rahitaṁ sarveṣāṁ paśu-pakṣiṇāṁ | parasparaṁ ca suprītaṁ hiṁsrāṇāṁ kṣudra-jantubhiḥ ||32|| tatra krīḍā-sthalaṁ ramyaṁ pārvatī-parameśayoḥ | munīndrair indra-nīlaiś ca padma-rāgaiḥ pariṣkṛtam ||33|| krośāyataṁ parimitaṁ vartulaṁ candra-vimbavat | amlāna-rambhā-stambhānāṁ lakṣa-lakṣaiś ca veṣṭitam ||34|| citritaṁ sūkṣma-sūtrāktair nūtanair abhibhūṣitam | nūtanākṣata-patraiś ca lalitaiḥ pariśobhitam ||35|| rakta-pītāsitaiḥ snigdhair amlānaiḥ sumanoharaiḥ | paritaḥ paritaḥ śaśvan mālājālair vibhūṣitam ||36|| śayyā-bhūtaṁ sutalpaiś ca snigdha-campaka-candanaiḥ | puṣpa-candana-yuktena vāyunā surabhī-kṛtam ||37|| kastūrī-kuṅkamāsakta-sugandhi-candanaiḥ sitaiḥ | mārjitaṁ citritaṁ citraiḥ parito raṅga-vastubhiḥ ||38|| dṛṣṭvā tad adbhutaṁ śīghraṁ prayayau svar-ṇadīṁ muniḥ | śuddha-sphaṭika-saṁkāsāṁ sarva-pāpa-vināśinīm ||39|| bhavābdhighora-taraṇe taraṇīṁ nityanūtanām | kṛṣṇa-pāda-prasūtāṁ ca jagat-pūjyāṁ pati-vratāṁ ||40|| snāṭvā kṛṣṇaṁ ca saṁpūjya paramātmānam īśvaram | prakṛteḥ parimiṣṭaṁ ca nirliptaṁ nirguṇaṁ param ||41|| sākṣiṇaṁ karmaṇām eva brahma jyotiḥ sanātanam | prayayau purato ramyaṁ rāja-mārgaṁ dadarśa saḥ ||42|| maṇibhiḥ sphaṭikākārair amalair bahu-mūlyakaiḥ | pariṣkṛtaṁ ca sarvatra nirmitaṁ viśva-karmaṇā ||43|| satāṁ puṇyavatāṁ dṛṣṭam adṛṣṭaṁ kṛta-pāpinām | dhanuḥ śataṁ parimitaṁ citra-rāji-virājitam ||44|| dadhyaṁ sarvāśramāntaṁ ca prakhyāt koṭi-guṇottaram | rathaṁ dadarśa purato manoyāyi manoharam ||45|| amūlya-ratna-nirmāṇa-vimāṇa-sāra-sundaram | dhanur lakṣaṁ parimitaṁ parito vartulākṛtam ||46|| ūrdhva-sthitam ūrdhva-gaṁ ca sahasra-cakra-saṁyutam | dhanur lakṣo 'pi sūtaṁ ca vahni-śuddhāṁśukānvitam ||47|| hīrāsāra-vinirmāṇaṁ sucāru-kalaśojjvalam | ratna-pradīpa-dīptāḍhyaṁ ratna-darpaṇa-bhūṣitam ||48|| muktāśukti-nibaddhaiś ca śobhitaṁ śveta-cāmaraiḥ | māṇikya-sāra-hāreṇa maṇi-rājair virājitam ||49|| pārijāṭa-prasūtānāṁ māyājālaiḥ pariṣkṛtam | grīṣma-madhyāhna-mārtaṇḍaṁ sahasra-sadṛśojjvalam ||50|| īśvarecchā-vinirmāṇaṁ kāma-puraṁ ca kāminām | sarva-bhoga-samāviṣṭaṁ kalpa-vṛkṣa-paraṁ varam ||51|| sasakta-citritai ramyai rati-mandira-sundaraiḥ | golokād āgataṁ pūrvaṁ krīḍārthaṁ śaṅkarasya ca ||52|| vivāhe pariniṣpanne pārvatī-parameśayoḥ | rathaṁ dṛṣṭvā ca prayayau kiyad dūraṁ mahā-muniḥ ||53|| atīva ramyaṁ ruciraṁ dadarśa śaṅkarāśramam | ratnendra-sāra-nirmāṇaṁ śiviraiḥ śata-koṭibhiḥ ||54|| mitais tasmāt śata-guṇais tatra sundara-mandiraiḥ | yuktaṁ ratna-kapāṭaiś ca ratna-dhātu-vicitritaiḥ ||55|| parama-stambha-sopānair vajra-miśrair vibhūṣitam | dadarśa śiviraṁ śambhoḥ parikhābhis tribhir yutam ||56|| durlaghyābhirā-mitrāṇāṁ sugamyābhiḥ satām aho | prakāraiś ca tribhir yuktaṁ dhanur lakṣocchritaṁ suta ||57|| sammitaṁ saptabhir dvārair nānā-rakṣaka-rakṣitaiḥ | dhanuḥ-śata-sahasraṁ ca caturasraṁ ca sammitam ||58|| amūlya-ratna-nirmāṇaṁ catuḥ-śālā-śatair yutam | atīva ramyaṁ purato pura-dvāraṁ dadarśa saḥ ||59|| purato ratna-bhittau ca kṛtrimaṁ ca suśobhitam | puṇyaṁ vṛndāvanaṁ ramyaṁ tan-madhye rāsa-maṇḍalam ||60|| sarvatra rādhā-kṛṣṇaṁ ca pratyekaṁ rati-mandire | ramyaṁ kuñja-kuṭīrāṇāṁ sahasraṁ sumanoharam ||61|| sugandhi puṣpa-śayyānāṁ sahasraṁ candanokṣitam | dvāra-pālaṁ ca tatraiva maṇi-bhadraṁ bhayaṁkaram ||62|| tri-śūla-paṭṭiśa-dharaṁ vyāghra-carmāmbaraṁ param | taṁ saṁbhāṣya vilokyaivaṁ dvitīya-dvāram īpsitam ||63|| jagāma ca muni-śreṣṭho dadarśa citram uttamam | kadambānāṁ samūhaṁ ca tan-mūlaṁ ca manoharam ||64|| ratna-bhitti-samāyuktaṁ kālindī-kūlam uttamam | snātaṁ gopī-samūhaṁ ca nagna-sarvāṅgam adbhutam ||65|| kadambāgre ca śrī-kṛṣṇaṁ vastra-puñja-karaṁ param | tatraiva śūla-hastaṁ ca mahā-kālaṁ dadarśa ca ||66|| kṛpāluṁ dvāra-pālaṁ taṁ saṁbhāṣya nārado muniḥ | prayayau śīghra-gāmī sa tṛtīya-dvāram uttamam ||67|| dadarśa tatra purataḥ kṛtrimaṁ vaṭa-mūlakam | gopānāṁ ca samūhaṁ ca pītambara-dharaṁ param ||68|| bāla-krīḍāṁ ca kurvantaṁ tan-madhye kṛṣṇam uttamam | brāhmaṇībhiḥ pradattam ca bhuktavantaṁ supāyasam ||69|| kurvantaṁ ca samādhānaṁ muneḥ vāma-kareṇa ca | gṛhītvā tad-anujñāṁ ca caturthaṁ dvāram īpsitam ||70|| prayayau brahma-putraś ca dadarśa citram uttamam | govardhanaṁ parvataṁ ca tatra kṛṣṇa-kara-sthitam ||71|| gokulaṁ gokula-sthānāṁ gopīnāṁ caiva rakṣaṇam | vyākulaṁ gokulaṁ bhītaṁ śakra-vṛṣṭi-bhayena ca ||72|| abhayaṁ dattavantaṁ ca kṛṣṇaṁ dakṣa-kareṇa ca | nandinaṁ dvāra-pālaṁ ca śūla-hastaṁ ca sasmitam ||73|| vilokya prayayau vipraḥ pañcamaṁ dvāṛam uttamam | nānā-kṛtima-citrāḍhyaṁ vīra-bhadrānvitaṁ param ||74|| tatraiva nīpa-mūlaṁ ca yamunākulam eva ca | kālīya-damanaṁ tatra kṛtimaṁ ca dadarśa ḥa ||75|| tad dṛṣṭvā sasmitas tuṣṭaḥ ṣaṣṭa-dvāṛaṁ jagāma saḥ | dvāre niyuktaṁ bālaṁ ca śūla-hastaṁ catur-bhujam ||76|| ratna-siṁhāsana-sthaṁ ca sasmitaṁ sva-gaṇādhipam | dadarśa citraṁ tatraiva mathurā-gamanaṁ hareḥ ||77|| gopikānāṁ vilāpaṁ ca yaśodā-nandayos tathā | vyākulaṁ gokulaṁ cāpi ratha-sthaṁ śaraṇaṁ harim ||78|| akrūraṁ ca tathā nandaṁ nirānandaṁ śucākulam | tad dṛṣṭvā saptama-dvāraṁ dvāra-pālaṁ dadarśa saḥ ||79|| citraṁ kautuka-yuktaṁ ca mathurāyāḥ praveśanam | sabalaṁ gopa-sahitaṁ śrī-kṛṣṇaṁ prakṛteḥ param ||80|| mathurā-nāgarībhiś ca bālakair vānirargalaiḥ | vīkṣantaṁ sādaraṁ sarvair nagara-sthair manoharam ||81|| dhanur bhaṅgaṁ tathā śaṁbhoḥ kaṁsādi-nidhanādikam | sabhāryaṁ vasudevaṁ ca nigaḍān muktam īpsitam ||82|| dvāre niyuktaṁ deveśaṁ gaṇeśaṁ gaṇa-saṁyutam | dhyāna-sthaṁ ca vibhāntaṁ ca śuddha-sphaṭika-mālayā ||83|| japantaṁ paramaṁ śuddhaṁ brahma-jyotiḥ sanātanam | nirliptaṁ nirguṇaṁ kṛṣṇaṁ paramaṁ prakṛteḥ param ||84|| dṛṣṭvā taṁ ca sura-śreṣṭhaṁ muni-śreṣṭho 'pi nāradaḥ | sāma-vedokta-stotreṇa puṣṭāva parameśvaram | sāśru-netraḥ pulakito bhakti-namrātmakaṁdharaḥ ||85|| atha gaṇapati-stotram bho gaṇeśa sura-śreṣṭha lambodara parāt para | heramba maṅgalārambha gaja-vaktra tri-locana ||86|| muktida śubhada śrīda śrīdhara-smaraṇe rata | paramānanda parama pārvatī-nandana svayam ||87|| sarvatra pūjya sarveśa jagat-pūjya mahā-mate | jagad-guro jagan-nātha jagad-īśa namo 'stu te||88|| yat-pūjā sarva-parato yaḥ stutaḥ sarva-yogibhiḥ | yaḥ pūjitaḥ surendraiś ca munīndrais taṁ namāmy aham ||89|| paramārādhanenaiva kṛṣṇasya paramātmanaḥ | puṇyakena vratenaiva yaṁ prāpa pārvatī satī ||90|| taṁ namāmi sura-śreṣṭhaṁ sarva-śreṣṭhaṁ gariṣṭhakam | jñāni-śreṣṭhaṁ variṣṭhaṁ ca taṁ namāmi gaṇeśvaram ||91|| ity evam uktvā devarṣis tatraivāntar dadhe vibhuḥ | nāradaḥ prayayau śīghram īśvarābhyantaraṁ mudā ||92|| idaṁ lambodara-stotraṁ nāradena kṛtaṁ purā | pūjā-kāle paṭhen nityaṁ jayas tasya pade pade ||93|| saṁkalpitaṁ paṭhed yo hi varṣam ekaṁ susaṁyataḥ | viśiṣṭa-putraṁ labhate paraṁ kṛṣṇa-parāyaṇam ||94|| yaśasvinaṁ ca vidvāṁsaṁ dhaninaṁ cira-jīvinam | vighna-nāśo bhavet tasya mahaiśvaryaṁ yaśo 'malam | ihaiva ca sukhaṁ bhaktyānte yāti hareḥ padam ||95|| iti śrī-nārada-pañca-rātre jñānāmṛta-sāre prathamaika-rātre gaṇapati-stotraṁ nāma saptamo'dhyāyaḥ ||7|| …
English translation
CHAPTER VII
Sri Vyasa said :—Thus addressing Lomaéa Muni, Narada went to the beautiful banks of the Puspabhadr river, (1)
Where there is the purecrystal like mountain §rngakita having within it three other tanks overgrown with various trees, (2)
And frequented by swans, K4randavas, made very lovely by the humming of the be male cuckoos. (3)
Sweetly scented by soft cooling breeze, Muni Markandeya was absorbed in deep medi
Then that peaceful Muni, endowed with Narada Muni there, bowed down to him asked about his welfare. (5)
and other aquatic birds, es and the cooing of the
and where the great tation. (4)
Sattva guna, seeing with devotion and humbly
Markandeya Muni said :—Today my birth has become successful and my-life, too, has become blessed whon Narada Muni, the son of Brahma, the store of all punyams, has coine to my hermitage. (6)
O Devargsi: Narada Muni ! Endowed with the glory of Brahman, . where are you going alone and with what Purpose ? (7)
It is the mind of every being that is the sole cause (impellar)
of all actions ; and this mind blooms and expands when words are; uttered as the mind thinks, (8)
Hearing this, Narada smiled and spoke true, peaceful, nectarlike words that he wanted to express, (9)
Narada said :—‘O Friend! I will g0 tothe Mount Kailasato see the God Mahadeva, the best of the Jnadnins to get wisdom from him, to ask him questions and salute him by falling prostrate before His Holy Feet. (10)
Thus saying, the Muni Narada accepted the worship offered by him and departed. Markandeya Muni became distressed with:
On the Highest Knowledge 49
sorrow at the separation from Narada ; for the separation from a Sadhu is very intolerable, (11)
Narada Muni crossed easily the insurmountable mountain. Himalayas and reached the mountain Kailasa situated on the banks of the celestial river Mandakini. (12)
There he saw the great banian tree having hundred branches
and one yojana high and with red ripe fruits. (f3)
There were on this tree-nice lovely birds and there were
Siddhendras, Yogindras, Munindras, underneath this tree, thus
enhancing the beauty thereof. (14) After saluting them and conversing with them, to the exceedingly beautiful Parvati forest, circular in shape,
Yojanas wide and coveted by all. (15) ovely tanks where bees incessantly
Narada went four
There were seven beautiful 1 were bizzing over the lotus tree. (16) There were blue and red lotuses and hundr
gardens. (17) ; Mallika, Malati, Kunda,
Campaka, Aéoka, Mandara, Vak
creepers were there. (18)
eds of lovely flower
Yuthika, Madhavilata, Ketaki, a and many other fruit trees and
Naga, Punnaga, Kutaja, Patala, Jhinti Jhiijhika, Aparajita,
Sephali, Tulasi, Saptala were also seen there. (19) Amrataka trees, Tala
y of the place. (20) Jambira, Neem,
At other places were mango trees, cocoanut, Piyala, trees enhancing the beaut,
Date, betelnut, Palasa Jambu, Pomegranate, banyan tree grew in abundance. (21)
At some places, there were seen Karanj Kadamba, Tintidi trees, (22)
At other places there were Asvattha, Deo: Sakotaka, Kunda, Sangu, Saptaparna, Gambhari, Valguka, Hingula, Anjana, Valka, trees. (23-24)
Various other wild flower trees a
a, Vadari, bright Bel, dar, Salmali, banyan,
Pichhila, Paruasal, and Bhurjapatra
nd ordinary trees were there.
v4 Narada Pajicaratram
30 ‘phere were seen also Kalpavrksas, Parijata trees and beautiful sandal wood trees. At other places there were nice cooling Sthala- ; padmas, variegated Bhimicampakas, and other rare trees with - nice flowers and leaves. (25-26) Lions, Sarabhas, elephants, Khadgindras, tigers, buffaloes, horses, wild boars were roaming at some places ; at others were seen Sallakas, bears, monkeys, hares. Kitas, Sakas black deer,
chamaris ; and they added beauty to the place. (27-28)
Male cuckoos were maddened at some places with the advent of the spring season and were cooing melodiously, sitting on the branches of trees ; at others there were Saka, Rajahamsas, peacoks Ksemankaris and Khanjanas making the place exceedingly
ovely. (29-30)
Again some places were adorned with ripened fruits and leaves of green, yellow, red, black and all sorts of coloursand other fresh lovely entire leaves. (31)
The birds and animals were free from any feelings of enmity or fear ; the ferocious animals and small ones were affectionate to one another and they passed their time in mutual love. (32)
Thus the sporting place of Parvati and Paramesvara were made exceedingly lovely and charming by the presence there of gems and jewels. Indranila, Padmaraga, etc. (33)
The width of this place istwo miles ; itis round like the Moon’s disc ; and lakhs of rows of (unfading) plantain trees were
encircling the place. (34) Those rows of plantain trees were quits fresh ; the plantain
leaves were entire soft and looked very beautiful. (35) The place was surrounded constantly by nice fresh garlands of red, yellow, and black colours. (36)
The bedding was nicely adorned with sweet campaka flowers and sandal pastes; by their contact, the air was made fragrant. (37)
The bedding was scented with musk, saffron perfumes and beautified with sandalpaste and variegated articles. (38)
On the Highest Knowledge 51
Seeing all these wonderful, he went quickly to the celestial river, looking crystal like and destroying all the sins. (39)
He bathed in that Ganges who serves as boat crossing this terrible ocean of Sathsara, who is young and fresh at all times, who comes out of the feet of Krsna, who is the celestial river, saluted by the whole world and who is chaste. He then worshipped Sri Krsna, higher than the highest, the Highest Deity, beyond all attributes, unattached, beyond Prakrti, the Supreme Soul, the
‘God. (40-41)
He is the Great Witness of all actions, Brahma. After worshipping. he started on beautiful highway before him. (42)
That road was built by Vigvakarma, erystal like gems and jewels; and it was quite c
foreigin dust and dirt. (43) r off, a beautiful chariot going with the speed of e virtuous saints and invisible to the
decked with pictures, the uals to onecrore times the
the luminous Eternal his journey and saw a
of exceedingly valuable leared of any
He saw not fa mind, capable to be seen by th measuring one hundred Dhanus,
‘sinners, d whose length eg
end of all Agramas an breadth. (44-05) The chariot was built of invalu essence of all conveyances, measuring in circumference. (46) with thousand
It was exceedingly high, going high up in the air, wheels ; the charioteer was situate ! at a height of one lakh Dhanus
and it was covered with cloths pure as fire. (Note :—Dhanu—A of length equal to four hastas, one hasta—about 18
able gems and jewels, the all reund one Jakh Dhanus
measure inches). (47)
It was built of excellent diamonds, very brilliant with beautiful pitchers (vases), illumined by lamps made of gems and jewels, and beautified with jewel mirrors. (48) ;
And it was interspersed with pearls, pearl oysters, shells, beautified with white chowries (fans), and it was provided with garlands all made up of the most beautiful gems and. dems. (49)
62 , Narada Pajicaratrane
There were three garlands of Parijata flowers and it looked dazzling like thousands of suns in the summer noon. (50)
It was like a Kalpa vrkga, provided with all objects of enjoyments satisfying the desires of the passionate persons and built by the will of the Lord (Iévara). (51)
It was provided with nice pleasure temples joined to one other ; and the marriage ceremony of Parvati and Parameévara was performed here. it had been there already for Sankara who would hold his lovely pastimes there. (52)
And when the marriage was over. the great Muni Narada saw the chariot, and went aside to some distance. (53)
He saw the asrama of sankara built of very beautiful jewels and provided with one hundred koti camps (Sivira). (54)
There were, inthat 4$rama, hundreds of beautiful temples variegated with precious stones and metals and jewelled doors. (55)
Excellent pillars decked with diamonds and nice steps decorated the temples. The Asrama, the city of the Deva of the devas, was. surrounded by three encircling discus and three enclosure walls, insurmountable to the enemies, easily accessible to the saints, one lakh dhanus (nearly 85 miles) high. (56-57)
It had Seven entrance doors in succession and was guarded at each door by all soris of guards and watchmen. It was a square measuring four thousand dhanus each side. (58)
Narada Rsi saw before him the entrance door to that place, containing hundreds of square courts built of precious gems. (59)
There on a wall built of gems, he saw the paintings of the beautiful Sri Rasamandalam (a kind of dance practised by Krsna and the cowherds but particularly the Gopis, or cowherdesses of Vrndavana) in the holy and good looking Sri Vrndavana. (60)
In all the love temples (groves) there was the form of Sri Radha-Krsna and there were thousands of exceedingly lovely groves (kunjas) and cottages. (61)
There, in that gate, the Muni saw the terrible gate-keeper named
‘On the Highest Knowledge 53 . Manibhadra and he saw as well thousands flower beds, of scented with sandalpaste, and various other perfumes. (62)
He showed due respect to that gate-keeper wearing tiger-skin, and holding trident and pattisa. (63)
He then went to the second door where he saw the beautiful
carving of the Kadamba tree and its beautiful base. (64)
He saw that on ‘the banks of river Yamuna, built of precious
gems, Sri Gopis became entirely naked and were bathing freely and
at perfect case in the river. (65)
§ri Krsna stole away all their clothes an of the Kadamba tree. There he saw the gatewith trident in his hand. (66)
Sri Narada Muni then addressed duly the kind gate-man and ‘went quickly to the third door. (67)
He saw in front at the foot of the artificial V: wearing yellow clothes in the midst of the Gopas,
There Sri Krsna was represented as enacti (pastimes in His voy-hood) and He was eating t
d went up to the top keeper Mahakala,
ata tree Sri Krsna (68)
ng. His Balyalila
he Payasa (boiled
rice with ghee and sugar) presented by the Brahmana ladies. (69) He was at the same time answering objections by his left i
on, the Muni repaired to the fourth gate.
Obtaining permissi n raised
When he went there, he saw the Govardhana mountaii on the finger of Sri Krsna. (71)
Thereby the cows and the Gopik were saved from the rains caused by of the fear and anxiety. (72)
And Sri Krsna raised his right hand, there isno feartothem. Then Narada saw the gateman smiling and with trident in his hand. (73)
He then went to the fifth gate guarded by Virabhadra and saw there various paintings. (74)
He saw Kaliyadamana, the foot 0} mountain), the banks of the Yamuna an
as, in fact, the village Gokula Indra ; thus they were freed
thus making sign that Nand!
f the Kadamba tree (or the d various other things. (75)
Then he became very glad and went tothe sixth gate where he saw the gateman Ekbala, with four hands and trident in his
hand. (76) There he saw the Ganadhipa sitting, with smiling countenance
and also the advent of Hari into the city Muttra (Mathura). (77) He saw the Gopikaés, Yasoda, and Nanda giving vent to their
sorrows and the whole Gokula, presenting a very anxious sight 5.
and he saw also the protector §ri Krsna on the chariot. (78)
Seeing Akrura, sorrowful from bereavement, Nanda and others” the Muni arrived at the seventh gate. (79)
He saw Sri Krsna, entering into Mathura with Baladeva and: Gopa and various other amusement pictures. (80)
The boys and the whole people of Mathura were incessantly. seeing Him with eager affection. (81)
He saw the breaking of the bow of Mahadeva, the slaying of Kathsa and the freeing of Vasudeva and Devaki from the prison. (82)
There he saw Ganesa. shining with Brahma Jyoti (the light of Brahman, muttering his mantra, beyond attributes, unattached, beyond Prakrti, eternal, most holy, having a garland of pure crystals, the lord of the Devas and in mediation. He was the guard there. (83-84) r
The munindra Narada became delighted to see Ganega and. began to shed tears of joy and chant hymns to him with devotion according to the Sima Vedas. (85)
Narada said :—Oh GaneSa ! the chief of the Devas, with belly protruding, higher than the highest, O Heramba (boastful
, hero), maker Of the auspicious beginning, elephant faced and three eyed. (86)
Thou art the giver of liberation, the bestower of auspiciousness, wealth and prosperity, ever ready to remeber Sri Krsna, the receptacle of highest bliss, and the son of Parvati. (87)
Fit to be worshipped by all, the Lord of all. fit to be worshipped by the whole world, O highly intelligent one ! the Guru of the world, the Lord of the world, I salute Thee. (88)
On the Highest Knowledge 55 a first, before that of all other Devas,
Thy worship is performe Surendras and Munindras, I salute
worshipped by all the Y ogis, Thee. (89) The chaste Parvati got Thee as son! by worshipping incess+
antly Sri Krsna, the highest spirit, and by performing vows.
I salute Thee. (90)
I salute Thee again and again, of all, the most heavy one, the highest
Ganeéa. (91)
the chief of the Devas, the chief Jnanin, and liberal minded
ns, Narada quickly entered into the inner
apartment of isvara ; and Ganeéga vanished also from there. (92) He who recites daily during the time of worship this hymna of
Narada, gets every where success and victory. (93)
resolve (Sankalpa) he who
becomes extremely devoted
lified with highest attri-
Thus chanting hym:
Firmly concentrated and making recites this with devotion for one year, to Sri Krsna and obtains a son qua! butes. (94)
He gets a good son, long lived, wealthy, learned and well celebrated. All his obstacles disappear and he gets in this world property, unalloyed fame, constants bliss and in the next world the
region of Hari. (95)
he first night in Sri tering into Ganesa.,
Here ends the seventh chapter of t Narada Pafcaratram, on Narada’s ep Kailaga and the chanting of hymns to
Complete chapter-aligned witnesses. Sanskrit/IAST is the GGM complete amended text, version 1.1, based on Vijñānānanda’s 1997 edition; the displayed Devanagari is transliterated directly from that proofread IAST witness. English is Swami Vijñānānanda’s complete translation, printed pages 48–55 (scan pages 65–72). It was extracted with Tesseract 5 English OCR from the 200 ppi published scan, with chapter boundaries controlled against the printed contents. No unsupported verse-by-verse equivalence is asserted.