Fourth Night · Chapter 8
Sourceअष्टमोऽध्यायः गोपालसहस्रनामस्तोत्रम् श्रीपार्वत्युवाच— भगवन् सर्वदेवेश देवदेव जगद्गुरो । कथितꣳ कवचꣳ दिव्यꣳ बालगोपालरूपिणम् ॥१॥ श्रुतꣳ मया तव मुखात् परꣳ कौतूहलꣳ मम । इदानीꣳ श्रोतुमिच्छामि गोपालस्य परात्मनः ॥२॥ सहस्रꣳ नाम्नाꣳ दिव्यानामशेषेणानुकीर्तय । तमेव शरणꣳ नाथ त्राहि माꣳ भक्तवत्सल ॥३॥ यदि स्नेहोऽस्ति देवेश माꣳ प्रति प्राणबल्लभ । केन प्रकाशितꣳ पूर्वꣳ कुत्र किꣳ वा कदा क्व नु । पिबतोऽच्युतपीयूषꣳ न मेऽत्रास्ति बिरामता ॥४॥ श्री महादेव उवाच— श्रीबालकृष्णस्य सहस्रनाम्नः स्तोत्रस्य कल्पाख्यसुरद्रुमस्य । व्यासो वदत्यखिलशास्त्रनिदेशकर्ता शृण्वन् शुकꣳ मुनिगणेषु सुरर्षिवर्यः ॥५॥ पुरा महर्षयः सर्वे नारदꣳ दण्डके वने । जिज्ञासन्ति स्म भक्त्या च गोपालस्य परात्मनः ॥६॥ नाम्नाः सहस्रꣳ परमꣳ शृणु देवि समासतः । श्रुत्वा श्रीबालकृष्णस्य नाम्नः साहस्रकꣳ प्रिये ॥७॥ व्यपैति सर्वपापानि ब्रह्महत्यादिकानि च । कलौ बालेश्वरो देवः कलौ वृन्दावनꣳ वनम् ॥८॥ कलौ गङ्गा मुक्तिदात्री कलौ गीता परागतिः । नास्ति यज्ञादिकार्याणि हर्र्नामैव केवलम् । कलौ विमुक्तये नृणाꣳ नास्त्येव गतिरन्यथा ॥९॥ बालकृष्णः सुराधीशो भूतावासो व्रजेश्वरः । व्रजेन्द्रनन्दनो नन्दी व्रजाङ्गनविहारणः ॥१०॥ गोगोपगोपिकानन्दकारको भक्तिवर्धनः । गोवत्सपुच्छसꣳकर्षजातानन्दभरोऽजयः ॥११॥ रिङ्गमाणगतिः श्रीमानतिभक्तिप्रकाशनः । धूलिधूसरसर्वाङ्गो धटीपीतपरिच्छदः ॥१२॥ पुरटाभरणः श्रीशो गतिर्गतिमता सदा । योगीशो योगवन्द्याश्च योगाधीशो यशःप्रदः ॥१३॥ यशोदानन्दनः कृष्णो गोवत्सपरिचारकः । गवेन्द्रश्च गवाक्षश्च गवाध्यक्षो गवाꣳ पतिः ॥१४॥ गवेशश्च गवीशश्च गोचारणपरायणः । गोधूलिधामप्रियको गोधूलिकृतभूषणः ॥१५॥ गोरास्यो गोरसाꣳशोगो गोरसाञ्चितधामकः । गोरसास्वादको वैद्यो वेदातीतो वसुप्रदः ॥१६॥ विपुलाꣳशो रिपुꣳहरो विक्षरो जयदो जयः । जगद्वन्द्यो जगन्नाथो जगदाराध्यपादकः ॥१७॥ जगदीशो जगत्कर्ता जगत्पूज्यो जयारिहा । जयताꣳ जयशीलश्च जयातीतो जगद्बलः ॥१८॥ जगर्द्धर्ता पालयिता पाता धाता महेश्वरः । राधिकानन्दनो राधाप्राणनाथो रसप्रदः ॥१९॥ राधाभक्तिकरः शुद्धो राधाराध्यो रमाप्रियः । गोकुलानन्ददाता च गोकुलानन्दरूपधृक् ॥२०॥ गोकुलेश्वरकल्याणो गोकुलेश्वरनन्दनः । गोलोकाभिरितिः स्रग्वी गोलोकेश्वरनायकः ॥२१॥ नित्यꣳ गोलोकवसतिर्नित्यꣳ गोगोपनन्दनः । गणेश्वरो गणाध्यक्षो गणानाꣳ परिपूरकः ॥२२॥ गुणी गुणोत्करो गण्यो गुणातीतो गुणाकरः । गुणप्रियो गुणाधारो गुणाराध्यो गणाग्रणीः ॥२३॥ गणनायको विघ्नहरो हेरम्बः पार्वतीसुतः । पर्वताधिनिवासी च गोवर्धनधरो गुरुः ॥२४॥ गोवर्धनपतिः शान्तो गोवर्धनविहारकः । गोवर्धनो गीतगतिर्गवाक्षो गोवृषेक्षणः ॥२५॥ गभस्तिनेमिर्गीतात्मा गीतगम्यो गतिप्रदः । गवामयो यज्ञनेमिर्यज्ञाङ्गो यज्ञरूपधृक् ॥२६॥ यज्ञप्रियो यज्ञहर्ता यज्ञगम्यो यजुर्गतिः । यज्ञाङ्गो यज्ञगम्यश्च यज्ञप्राप्यो विमत्सरः ॥२७॥ यज्ञान्तकृत् यज्ञगुह्यो यज्ञातीतो यजुःप्रियः । मनुर्मन्वादिरूपी च मन्वन्तरविहारकः ॥२८॥ मनुप्रियो मनोर्वꣳशधारी माधवमापतिः । मायाप्रियो महामायो मायातीतो मयान्तकः ॥२९॥ मायाभिगामी मायाख्यो महामायावरप्रदः । महामायाप्रदो मायानन्दो मायेश्वरः कविः ॥३०॥ करणꣳ कारणꣳ कर्ता कार्यꣳ कर्म क्रिया मतिः । कार्यातीतो गवाꣳ नाथो जगन्नाथो गुणाकरः ॥३१॥ विश्वरूपो विरूपाख्यो विद्यानन्दो वसुप्रदः । वासुदेवो विशिष्ठेशो वाणीशो वाक्पतिर्महः ॥३२॥ वासुदेवो वसुश्रेष्ठो देवकीनन्दनोऽरिहा । वसुपाता वसुपतिर्वसुधापरिपालकः ॥३३॥ कꣳसारिः कꣳसहन्ता च कꣳसाराध्यो गतिर्गवाम् । गोविन्दो गोमताꣳ पालो गोपनारीजनाधिपः ॥३४॥ गोपीरतो रुरुनखधारी हारी जगद्गुरुः । जानुजङ्घान्तरालश्च पीताम्बरधरो हरिः ॥३५॥ हैयङ्गवीनसम्भोक्ता पायसाशो गवाꣳ गुरुः । ब्रह्मण्यो ब्रह्मणाराध्यो नित्यꣳ गोविप्रपालकः ॥३६॥ भक्तप्रियो भक्तलभ्यो भक्त्यातीतो भुवाꣳ गतिः । भूलोकपाता हर्ता च भूगोलपरिचिन्तकः ॥३७॥ नित्यꣳ भूलोकवासी च जनलोकनिवासकः । तपोलोकनिवासी च वैकुण्ठो विष्टरस्रवाः ॥३८॥ विकुण्ठवासी वैकुण्ठवासी हासी रसप्रदः । रसिकागोपिकानन्ददायको बालधृग्वपुः ॥३९॥ यशस्वी यमुनातीरपुलिनेऽतीवमोहनः । वस्त्रहर्ता गोपिकानाꣳ मनोहारी वरप्रदः ॥४०॥ दधिभक्षो दयाधारो दाता पाता हृताहृतः । मण्डपो मण्डलाधीशो राजराजेश्वरी विभुः ॥४१॥ विश्वधृक् विश्वभुक् विश्वपालको विश्वमोहनः । विद्वत्प्रियो वीतहव्यो हव्यगव्यकृताशनः ॥४२॥ कव्यभुक् पितृवर्ती च काव्यात्मा कव्यभोजनः । रामो विरामो रतिदो रतिभर्ता रतिप्रियः ॥४३॥ प्रद्युम्नोऽक्रूरदम्यश्च क्रूरात्मा क्रूरमर्दनः । कृपालुश्च दयालुश्च शयालुः सरिताꣳ पतिः ॥४४॥ नदीनदविधाता च नदीनदबिहारकः । सिन्धुः सिन्धुप्रियोदान्तः शान्तः कान्तः कलानिधिः ॥४५॥ सꣳन्यासकृत्सताꣳ भर्ता साधूच्छिष्टकृताशनः । साधुप्रियः साधुगम्यो साध्वाचारनिषेवकः ॥४६॥ जन्मकर्मफलत्यागी योगी भोगी मृगीपतिः । मार्गातीतो योगमार्गो मार्गमाणो महोरविः ॥४७॥ रविलोचनो रवेरꣳशभागी द्वादशरूपधृक् । गोपालो बालगोपालो बालकानन्ददायकः ॥४८॥ बालकानाꣳ पतिः श्रीशो विरतिः सर्वपापिनाम् । श्रीलः श्रीमान् श्रीयुतश्च श्रीनिवासः श्रियः पतिः ॥४९॥ श्रीदः श्रीशः श्रियःकान्तो रमाकान्तो रमेश्वरः । श्रीकान्तो धरणीकान्त उमाकान्तप्रियः प्रभुः ॥५०॥ इष्टाभिलाषी वरदो वेदगम्यो दुराशयः । दुःखहर्ता दुःखनाशो भवदुःखनिवारकः ॥५१॥ यथेच्छाचारनिरतो यथेच्छाचारसुरप्रियः । यथेच्छालाभसन्तुष्टो यथेच्छस्य मनोऽन्तरः ॥५२॥ नवीननीरदाभासो नीलाञ्जनचयप्रभः । नवदुर्दिनमेघाभो नवमेघच्छविः क्वचित् ॥५३॥ स्वर्णवर्णो न्यासधारो द्विभुजो बहुबाहुकः । किरीटधारी मुकुटी मूर्तिपञ्जरसुन्दरः ॥५४॥ मनोरथपथातीतकारको भक्तवत्सलः । कण्वान्नभोक्ता कपिलो कपिशो गरुडात्मकः ॥५५॥ सुवर्णपर्णो हेमाभः पूतनान्तक इत्यपि । पूतनास्तनपाता च प्राणान्तकरणो रिपोः ॥५६॥ वत्सनाशो वत्सपालो वत्सेश्वरवसूत्तमः । हेमाभो हेमकण्ठश्च श्रीवत्सः श्रीमताꣳ पतिः ॥५७॥ सनन्दनपथाराध्यो पातुर्धातुमताꣳ पतिः । सनत्कुमारयोगात्मा सनकेश्वररूपधृक् ॥५८॥ सनातनपदो दाता नित्यꣳ चैव सनातनः । भाण्डीरवनवासी च श्रीवृन्दावननायकः ॥५९॥ वृन्दावनेश्वरीपूज्यो वृन्दारण्यविहारकः । यमुनातीरगोधेनुपालको मेघमन्मथः ॥६०॥ कन्दर्पदर्पहरणो मनोनयननन्दनः । बालकेलिप्रियः कान्तो बालक्रीडापरिच्छदः ॥६१॥ बालानाꣳ रक्षको बालः क्रीडाकैतुककारकः । बाल्यरूपधरो धन्वी धानुष्की शूलधृक् विभुः ॥६२॥ अमृताꣳशोऽमृतवपुः पीयूषपरिपालकः । पीयूषपायी पौरव्यानन्दनो नन्दिबर्धनः ॥६३॥ श्रीदामाꣳशुकपाता च श्रीदामपरिभूषणः । वृन्दारण्यप्रियः कृष्णः किशोरः कान्तरूपधृक् ॥६४॥ कामराजः कलातीतो योगिनाꣳ परिचिन्तकः । वृषेश्वरः कृपापालो गायत्रीगतिवल्लभः ॥६५॥ निर्वाणदायको मोक्षदायी वेदविभागकः । वेदव्यासप्रियो वैद्यो वैद्यानन्दप्रियः शुभः ॥६६॥ शुकदेवो गयानाथो गयासुरगतिप्रदः । विष्णुर्जिष्णुर्गरिष्ठश्च स्थविष्ठश्च स्थवीयसाम् ॥६७॥ वरिष्ठश्च यविष्ठश्च भूयिष्ठश्च भुवः पतिः । दुर्गतेर्नाशको दुर्गपालको दुष्टनाशकः ॥६८॥ कालीयसर्पदमनो यमुनानिर्मलोदकः । यमुनापुलिने रम्ये निर्मले पावनोदके ॥६९॥ वसन्तुबालगोपालरूपधारी गिराꣳ पतिः । वाग्दाता वाक्प्रदो बाणीनाथो ब्राह्मणरक्षकः ॥७०॥ ब्रह्मण्यो ब्रह्मकृद्ब्रह्म ब्रह्मकर्मप्रदायक । बह्मण्यदेवो ब्रह्मण्यदायको बाह्मणप्रियः ॥७१॥ स्वस्तिप्रियोऽस्वस्थधरोऽस्वस्र्थनाशो धियाꣳ पतिः । क्वणन्नूपुरधृग्विश्वरूपी विश्वेश्वरः शिवः ॥७२॥ शिवात्मको बाल्यवपुः शिवात्मा शिवरूपधृक् । सदाशिवप्रियो देवः शिववन्द्यो जगत्शिवः ॥७३॥ गोमध्यवासी गोवासी गोपगोपीमनोऽन्तरः । धर्मो धर्मधुरीणश्च धर्मरूपो धराधरः ॥७४॥ स्वोपार्जितयशाः कीर्तिवर्धनो नन्दिरूपकः । देवहूतिज्ञानदाता योगसाङ्ख्यनिवर्तकः ॥७५॥ तृणावर्तप्राणहारी शकटासुरभञ्जनः । प्रलम्बहारी रिपुहा तथा धेनुकमर्दनः ॥७६॥ अरिष्टानाशनोऽचिन्त्यः केशिहा केशिनाशनः । कङ्कहा कꣳसहा कꣳसनाशनो रिपुनाशनः ॥७७॥ यमुनाजलकल्लोलदर्शी हर्षी प्रियꣳवदः । स्वच्छन्दहारी यमुनाजलहारी सुरप्रियः ॥७८॥ लीलाधृतवपुः केलिकारको धरणीधरः । गोप्ता गरिष्ठो गदिदो गतिकारी गयेश्वरः ॥७९॥ शोभाप्रियः शुभकरो विपुलश्रीप्रतापनः । केशिदैत्यहारो दानी दाता धर्मार्थसाधनः ॥८०॥ त्रिसामा त्रिक्कृत्सामः सर्वात्मा सर्वदीपनः । सर्वज्ञः सुगतो बुद्धो बौद्धरूपी जनार्दनः ॥८१॥ देत्यारिः पुण्डरीकाक्षः पद्मनाभोऽच्यतोऽसितः । पद्याक्षः पद्मजाकान्तो गरुडासनविग्रहः ॥८२॥ गारुत्मतधरो धेनुपालकः सुप्तविग्रहः । आर्तिहा पापहानेहा भूतिहा भूतिवर्धनः ॥८३॥ वाञ्छाकल्पद्रुमः साक्षान्मेधावी गरुडध्वजः । नीलःश्वेतः सितः कृष्णो गौरः पीताम्बरच्छदः ॥८४॥ भक्तार्तिनाशनो गीर्णः शीर्णो जीर्णतनुच्छदः । बलिप्रियो बलिहरो बलिबन्धनतत्परः ॥८५॥ वामनो वामदेवश्च दैत्यारिः कञ्जलोचनः । उदीर्णः सर्वतो गोप्ता योगगम्यः पुरातनः ॥८६॥ नारायणो नरवपुः कृष्णार्जुनवपुर्धरः । त्रिनाभिस्त्रिवृताꣳ सेव्यो युगातीतो युगात्मकः ॥८७॥ हꣳसो हꣳसी हꣳसवपुर्हꣳसरूपी कृपामयः । हरात्मको हरवपुर्हरभावनतत्परः ॥८८॥ धर्मरागो यमवपुस्त्रिपुरान्तकविग्रहः । युधिष्ठिरप्रियो राज्यदाता राजेन्द्रविग्रहः ॥८९॥ इन्द्रयज्ञहरो गोवर्धनधारी गिराꣳ पतिः । यज्ञभुग्यज्ञकारी च हितकारी हितान्तकः ॥९०॥ अक्रूरवन्द्यो विश्वध्रुगश्वहारी हयास्यकः । हयग्रीवः स्मितमुखो गोपीकान्तोऽरुणध्वधः ॥९१॥ निरस्तसाम्यातिशयः सर्वात्मा सर्वमण्डनः । गोपीप्रीतिकरो गोपीमनोहारी हरिर्हरिः ॥९२॥ लक्ष्मणो भरतो रामः शत्रुघ्नो नीलरूपकः । हनूमज्ज्ञानदाता च जानकीवल्लभो गिरिः ॥९३॥ गिरिरूपी गिरिमखो गिरियज्ञप्रवर्तकः ॥९४॥ भवाब्धिपोतः शुभकृच्छुभभुक् शुभवर्धनः । वारारोही हरिमुखो मण्डूकगतिलालसः ॥९५॥ नेत्रवद्धक्रियो गोपबालको बालको गुणः । गुणार्णवप्रियो भूतनाथो भूतात्मकश्च सः ॥९६॥ इन्द्रजिद्भयदाता च यजुषाꣳ पतिरप्पतिः । गीर्वाणवन्द्यो गीर्वाणगतिरिष्टोगुरुर्गतिः ॥९७॥ चतुर्मुखस्तुतिमुखो ब्रह्मनारदसेवितः । उमाकान्तधियाराध्यो गणनागुणसीमकः ॥९८॥ सीमान्तमार्गो गणिकागणमण्डलसेवितः । गोपीदृक्पद्ममधुपो गोपीदृङ्मण्डलेश्वरः ॥९९॥ गोप्यालिङ्गनकृद्गोपीहृदयानन्दकारकः । मयूरपिच्छशिखरः कण्कङाङ्गदभूषणः ॥१००॥ स्वर्णचम्पकसन्दोलः स्वर्णनूपुरभूषणः । स्वर्णताटङ्ककर्णश्च स्वर्णचम्पकभूषितः ॥१०१॥ चूडाग्रार्पितरत्नेन्द्रसारः स्वर्णाम्बरच्छदः । आजनबाहु सुमुखो जगज्जननतत्परः ॥१०२॥ बालक्रीडातिचपलो भाण्डीरवननन्दनः । महाशालः श्रुतिमुखो गङ्गाचरणसेवनः ॥१०३॥ गङ्गाम्बुपादः करजाकरतोयाजलेश्वरः । गण्डकोतीरसम्भूतो गण्डकीजलमर्दनः ॥१०४॥ शालग्रामः शालरूपी शशिभूषणभूषणः । शशिपादः शशिनखो वरार्हो युवतीप्रियः ॥१०५॥ प्रेमप्रदः प्रेमलभ्यो भक्त्यातीतो भवप्रदः । अनन्तशायी शवकृच्छयनो योगिनीश्वरः ॥१०६॥ पूतनाशकुनिप्राणहारको भवपालकः । सर्वलक्षणलक्षण्यो लक्ष्मीमान् लक्ष्मणाग्रजः ॥१०७॥ सर्वान्तकृत्सर्वगुह्यः सर्वातीतोसुरान्तकः । प्रातराशनसम्पूर्णो धरणीरेणुगुण्ठितः ॥१०८॥ इज्यो महोज्यः सर्वेज्य इज्यरूपीज्यभोजनः । ब्रह्मार्पणपरो नित्यꣳ ब्रह्माग्निप्रीतिलालसः ॥१०९॥ मदनो मदनाराध्यो मनोमथनरूपकः । नीलाञ्चिताकुञ्चितको बालवृन्दविभूषितः ॥११०॥ स्तोकक्रीडापरो नित्यꣳ स्तोकभोजनतत्परः । ललिताविशखाश्यामलतावन्दिपादकः ॥१११॥ श्रीमतीप्रियकारी च श्रीमत्या पादपूजितः । श्रीसꣳसेवितपादाब्जो वेणुवाद्यविशारदः ॥११२॥ शृङ्गवेत्रकरो नित्यꣳ शृङ्गवाद्यप्रियः सदा । बलरामानुजः श्रीमान् गजेन्द्रस्तुतपादकः ॥११३॥ हलायुधः पीतवासा नीलाम्बरपरिच्छदः । गजेन्द्रवक्त्रो हेरम्बो ललनाकुलपालकः ॥११४॥ रासक्रीडाविनोदश्च गोपीनयनहारकः । बलप्रदो वीतभयो भक्तार्तिपरिनाशनः ॥११५॥ भक्तिप्रियो भक्तिदाता दामोदर इभस्पतिः । इन्द्रदर्पहरोऽनन्तो नित्यानन्दश्चिदात्मकः ॥११६॥ चैतन्यरूपश्चैतन्यश्चेतनागुणवर्जितः । अद्वैताचारनिपुणोऽद्वैतः परमनायकः ॥११७॥ शिवभक्तिप्रदो भक्तो भक्तानामन्तराशयः । विद्वत्तमो दुर्गतिहा पुण्यात्मा पुण्यपालकः ॥११८॥ ज्येष्ठः श्रेष्ठः कनिष्ठश्च निष्ठहोऽतिष्ठ उमापतिः । सुरेन्द्रवन्द्यचरणो गोत्रहा गोत्रवर्जितः ॥११९॥ नारायणप्रियो नारशायी नारदसेवितः । गोपालबालसꣳसेव्यः सदानिर्मलमानसः ॥१२०॥ मनुमन्त्री मन्त्रपतिर्धाता धामविवर्जितः । धराप्रदो धृतिगुणो योगीन्द्रः कल्पपादपः ॥१२१॥ अचिन्त्यातिशयानन्दरूपी पाण्डवपूजितः । शिशुपालप्राणहारी दन्तवक्रनिसूदनः ॥१२२॥ अनादिरादिपुरुषो गोत्री गात्रविवर्जितः । सर्वापत्तारकोदुर्गो दुष्टदैत्यकुलान्तकः ॥१२३॥ निरन्तरःशुचिमुखो निकुम्भकुलदीपनः । भानुर्हनूर्द्धनुःस्थाणुः कृशानुः कृतनुर्धनुः ॥१२४॥ अनुर्जन्मादिरहितो जातिगोत्रविवर्जितः । दावानलनिहन्ता च दनुजारिर्बकापहा ॥१२५॥ प्रह्लादभक्तो भक्तेष्टदाता दानवगोत्रहा । सुरभिर्दुग्धपो दुग्धहारी शौरिः शुचाꣳ हरिः ॥१२६॥ यथेष्टदोऽतिसुलभः सर्वज्ञः सर्वतोमुखः । दैत्यारिः कैटभारिश्च कꣳसारिः सर्वतापनः ॥१२७॥ द्विभुजः षड्भुजो ह्यन्तर्भुजो मातलिसारथिः । शेषः शेषाधिनायश्च शेषी शेषान्तविग्रहः ॥१२८॥ केतुर्धरित्रीचारित्रश्चतुर्मूर्तिश्चतुर्गतिः । चतुर्धा चतुरात्मा च चतुर्वर्गप्रदायकः ॥१२९॥ कन्दर्पदर्पहारी च नित्यꣳ सर्वाङ्गसुन्दरः । शचीपतिपतिर्नेता दाता मोक्षगुरुर्द्विजः ॥१३०॥ हृतस्वनाथोऽनाथस्य नाथः श्रीगरुडासनः । श्रीधरः श्रीकरः श्रेयःपतिर्गतिरपाꣳ पतिः ॥१३१॥ अशेषवन्द्यो गीतात्मा गीतागानपरायणः । गायत्रीधामशुभदो वेलामोदपरायणः ॥१३२॥ धनाधिपः कुलपतिर्वसुदेवात्मजोऽरिहा । अजैकपात् सहस्राक्षो नित्यात्मा नित्यविग्रहः ॥१३३॥ नित्यः सर्वगतः स्थाणुरजोऽग्निर्गिरिनायकः । गोनायकः शोकहन्ता कामारिः कामदीपनः ॥१३४॥ विजितात्मा विधेयात्मा सोमात्मा सोमविग्रहः । ग्रहरूपी ग्रहाध्यक्षो ग्रहमर्दनकारकः ॥१३५॥ वेखानसः पुण्यजनो जगदादिर्जगत्पतिः । नीलेन्दीवरभो नीलवपुः कामाङ्गनाशनः ॥१३६॥ कामवीजान्वितः स्थूलः कृशः कृशतनुर्निजः । नैगमेयोग्निपुत्रश्च षाण्मातुर उमापतिः ॥१३७॥ मण्डूकवेशाध्यक्षश्च तथा नकुलनाशनः । सिꣳहो हरीन्द्रः केशीन्द्रहन्ता तापनिवारणः ॥१३८॥ गिरीन्द्रजापादसेव्यः सदा निर्मलमानसः । सदाशिवप्रियो देवः शिवः सर्व उमापतिः ॥१३९॥ शिवभक्तो गिरामादिः शिवाराध्यो जगद्गुरुः । शिवप्रियो लीलकण्ठः शितिकण्ठः ऊषापतिः ॥१४०॥ प्रद्युम्नपुत्रो निशठः शठः शठधनापहा । धूपाप्रियो धूपदाता गग्गुल्वगुरुधूपितः ।१४१॥ नीलाम्बरः पीतवासा रक्तश्वेतपरिच्छदः । निशापतिर्दिवानाथो देवब्राह्मणपालकः ॥१४२॥ उमाप्रियो योगिमनोहारी हारविभूषितः । खगेन्द्रवन्द्यपादाब्जः सेवातपपराङ्मुखः ॥१४३॥ परार्थदोऽपरपतिः परात्परतरो गुरुः । सेवाप्रियो निर्गुणश्च सगुणः श्रुतिसुन्दरः ॥१४४॥ देवाधिदेवो देवेशा देवपूज्यो दिवापतिः । दिवः पतिर्बृहद्भानुः सेवितेप्सितदायकः ॥१४५॥ गोतमाश्रमवासी च गोतमश्रीनिषेवितः । रक्ताम्बरधरो दिव्यो देवीपादाब्जपूजितः ॥१४६॥ सेवितार्थप्रदाता च सेवासेव्यगिरीन्द्रजः । धातुर्मनोविहारी च विधाता धातुरुत्तमः ॥१४७॥ अज्ञानहन्ता ज्ञानेन्द्रवन्द्यो वन्द्यधनाधिपः । अपाꣳ पतिर्जलनिधिर्धरापतिरशेषकः ॥१४८॥ देवेन्द्रवन्द्यो लोकात्मा त्रिलोकात्मा त्रिलोकपात् । गोपालदायको गन्धद्रदो गुह्यकसेवितः ॥१४९॥ निर्गुणः पुरुषातीतः प्रकृतेः पर उज्ज्वलः । कार्तिकेयोऽमृताहर्ता नागारिर्नागहारकः ॥१५०॥ नागेन्द्रशायी धरणीपतिरादित्यरूपकः । यशस्वी विगताशी च कुरुक्षेत्राधिपः शशी ॥१५१॥ शशङ्कारिःशुभचारो गीर्वाणगणसेवितः । गतिप्रदो नरसखः शीतलात्मा यशःपतिः ॥१५२॥ विजितारिर्गणाध्यक्षो योगात्मा योगपालकः । देवेन्द्रसेव्यो देवेन्द्रपापहारी यशोधनः ॥१५३॥ अकिञ्चनधनः श्रीमानमेयात्मा महाद्रिधृक् । महाप्रलयकारी च शचीसुतजयप्रदः ॥१५४॥ जनेश्वरः सर्वविधिरूपी ब्राह्मणपालकः । सिꣳहासननिवासी च चेतनारहितः शिवः ॥१५५॥ शिवप्रदो दक्षयज्ञहन्ता भृगुनिवारकः । वीरभद्रभयावर्तः कालः परमनिर्वणः ॥१५६॥ उदूखलनिबद्धश्च शोकात्मा शोकनाशनः । आत्मयोनिः स्वयꣳजातो वैखानः पापहारकः ॥१५७॥ कीर्तिप्रदः कीर्तिदाता गजेन्द्रभुजपूजितः । सर्वान्तरात्मा सर्वात्मा मोक्षरूपी निरायुधः ॥१५८॥ उद्धवज्ञानदाता च यमलार्जुनभञ्जनः । इत्येतत्कथितꣳ देवि सहस्रꣳ नाम चोत्तमम् ॥१५९॥ आदिदेवस्य वै विष्णोर्बालकत्वमुपेयुषः । यः पठेत् पाठयेद्वापि शृणुयात् श्रावयीत वा ॥१६०॥ किꣳ फलꣳ लभते देवि वक्तुꣳ नास्ति मम प्रिये । शक्तिगोपालनाम्नश्च सहस्रस्य महेश्वरि ॥१६१॥ ब्रह्महत्यादिकानीह पापानि च महान्ति च । विलयꣳ यान्ति देवेशि गोपालस्य प्रसादतः ॥१६२॥ द्वादश्याꣳ पौर्णमास्याꣳ वा सप्तम्याꣳ रविवासरे । पक्षद्वये च सम्प्राप्य हरिवासरमेव च ॥१६३॥ यः पठेच्छृणुयाद्वापि न जनुस्तस्य विद्यते । सत्यꣳ सत्यꣳ महेशानि सत्यꣳ सत्यꣳ न सꣳशयः ॥१६४॥ एकादश्याꣳ शुचिर्भूत्वा सेव्या भक्तिहरिः शुभाः । श्रुत्वा नाम सहस्राणि नरो मुच्येत पातकात् ॥१६५॥ न शठाय प्रदातव्यꣳ न धर्मध्वजिने पुनः । निन्दकाय च विप्राणाꣳ देवानाꣳ वैष्णवस्य च ॥१६६॥ गुरुभक्तिविहीनाय शिवद्वेषरताय च । राधादुर्गाभेदमतौ सत्यꣳ सत्यꣳ न सꣳशयः ॥१६७॥ यदि निन्देन्महेशानि गुरुहा स भवेद्ध्रुवम् । वैष्णवेषु च शान्तेषु नित्यꣳ वैराग्यरागिषु ॥१६८॥ ब्राह्मणाय विशुद्धाय सन्ध्यार्चनरताय च । अद्वैताचारनिरते शिवभक्तिरताय च ॥१६९॥ गरुवाक्यरतायैव नित्यꣳ देयꣳ महेश्वरि । गोपितꣳ सर्वतन्त्रेषु तव स्नेहात्प्रकीर्तितम् ॥१७०॥ नातः परतरꣳ स्तोत्रꣳ नातः परतरो मनुः । नातः परतरो देवो यगेष्वपि चतुर्ष्वपि ॥१७१॥ हरिभक्तेःपरा नास्ति मोक्षश्रेणी नगेन्द्रजे । वैष्णवेभ्यः परꣳ नास्ति प्राणेभ्योऽपि प्रिया मम ॥१७२॥ वैष्णवेषु च सङ्गो मे सदा भवतु सुन्दरि । यस्य वꣳशे क्वचिद्दैवात्वैष्णवो रागवर्जितः ॥१७३॥ भवेत्तद्वꣳशके ये ये पूर्वे स्यः पितरस्तथा । भवन्ति निर्मलास्ते ह यान्ति निर्वाणताꣳ हरेः ॥१७४॥ बहुना किमिहोक्तेन वैष्णवानान्तु दर्शनात् । निर्मलाः पापरहिताः पापिनः स्युर्न सꣳशयः ॥१७५॥ कलौ बालेश्वरो देवः कलौ गङ्गैव केवला । कलौ नास्त्येव नास्त्येव नास्त्येव गतिरन्यथा ॥१७६॥ इति श्रीनारदपञ्चरात्रे ज्ञानामृतसारे चतुर्थरात्रे गोपाल सहस्रनामस्तोत्रमष्टमोऽध्यायः ॥८॥ …
aṣṭamo'dhyāyaḥ gopālasahasranāmastotram śrīpārvatyuvāca— bhagavan sarvadeveśa devadeva jagadguro | kathitaṁ kavacaṁ divyaṁ bālagopālarūpiṇam ||1|| śrutaṁ mayā tava mukhāt paraṁ kautūhalaṁ mama | idānīṁ śrotumicchāmi gopālasya parātmanaḥ ||2|| sahasraṁ nāmnāṁ divyānāmaśeṣeṇānukīrtaya | tameva śaraṇaṁ nātha trāhi māṁ bhaktavatsala ||3|| yadi sneho'sti deveśa māṁ prati prāṇaballabha | kena prakāśitaṁ pūrvaṁ kutra kiṁ vā kadā kva nu | pibato'cyutapīyūṣaṁ na me'trāsti birāmatā ||4|| śrī mahādeva uvāca— śrībālakṛṣṇasya sahasranāmnaḥ stotrasya kalpākhyasuradrumasya | vyāso vadatyakhilaśāstranideśakartā śṛṇvan śukaṁ munigaṇeṣu surarṣivaryaḥ ||5|| purā maharṣayaḥ sarve nāradaṁ daṇḍake vane | jijñāsanti sma bhaktyā ca gopālasya parātmanaḥ ||6|| nāmnāḥ sahasraṁ paramaṁ śṛṇu devi samāsataḥ | śrutvā śrībālakṛṣṇasya nāmnaḥ sāhasrakaṁ priye ||7|| vyapaiti sarvapāpāni brahmahatyādikāni ca | kalau bāleśvaro devaḥ kalau vṛndāvanaṁ vanam ||8|| kalau gaṅgā muktidātrī kalau gītā parāgatiḥ | nāsti yajñādikāryāṇi harrnāmaiva kevalam | kalau vimuktaye nṛṇāṁ nāstyeva gatiranyathā ||9|| bālakṛṣṇaḥ surādhīśo bhūtāvāso vrajeśvaraḥ | vrajendranandano nandī vrajāṅganavihāraṇaḥ ||10|| gogopagopikānandakārako bhaktivardhanaḥ | govatsapucchasaṁkarṣajātānandabharo'jayaḥ ||11|| riṅgamāṇagatiḥ śrīmānatibhaktiprakāśanaḥ | dhūlidhūsarasarvāṅgo dhaṭīpītaparicchadaḥ ||12|| puraṭābharaṇaḥ śrīśo gatirgatimatā sadā | yogīśo yogavandyāśca yogādhīśo yaśaḥpradaḥ ||13|| yaśodānandanaḥ kṛṣṇo govatsaparicārakaḥ | gavendraśca gavākṣaśca gavādhyakṣo gavāṁ patiḥ ||14|| gaveśaśca gavīśaśca gocāraṇaparāyaṇaḥ | godhūlidhāmapriyako godhūlikṛtabhūṣaṇaḥ ||15|| gorāsyo gorasāṁśogo gorasāñcitadhāmakaḥ | gorasāsvādako vaidyo vedātīto vasupradaḥ ||16|| vipulāṁśo ripuṁharo vikṣaro jayado jayaḥ | jagadvandyo jagannātho jagadārādhyapādakaḥ ||17|| jagadīśo jagatkartā jagatpūjyo jayārihā | jayatāṁ jayaśīlaśca jayātīto jagadbalaḥ ||18|| jagarddhartā pālayitā pātā dhātā maheśvaraḥ | rādhikānandano rādhāprāṇanātho rasapradaḥ ||19|| rādhābhaktikaraḥ śuddho rādhārādhyo ramāpriyaḥ | gokulānandadātā ca gokulānandarūpadhṛk ||20|| gokuleśvarakalyāṇo gokuleśvaranandanaḥ | golokābhiritiḥ sragvī golokeśvaranāyakaḥ ||21|| nityaṁ golokavasatirnityaṁ gogopanandanaḥ | gaṇeśvaro gaṇādhyakṣo gaṇānāṁ paripūrakaḥ ||22|| guṇī guṇotkaro gaṇyo guṇātīto guṇākaraḥ | guṇapriyo guṇādhāro guṇārādhyo gaṇāgraṇīḥ ||23|| gaṇanāyako vighnaharo herambaḥ pārvatīsutaḥ | parvatādhinivāsī ca govardhanadharo guruḥ ||24|| govardhanapatiḥ śānto govardhanavihārakaḥ | govardhano gītagatirgavākṣo govṛṣekṣaṇaḥ ||25|| gabhastinemirgītātmā gītagamyo gatipradaḥ | gavāmayo yajñanemiryajñāṅgo yajñarūpadhṛk ||26|| yajñapriyo yajñahartā yajñagamyo yajurgatiḥ | yajñāṅgo yajñagamyaśca yajñaprāpyo vimatsaraḥ ||27|| yajñāntakṛt yajñaguhyo yajñātīto yajuḥpriyaḥ | manurmanvādirūpī ca manvantaravihārakaḥ ||28|| manupriyo manorvaṁśadhārī mādhavamāpatiḥ | māyāpriyo mahāmāyo māyātīto mayāntakaḥ ||29|| māyābhigāmī māyākhyo mahāmāyāvarapradaḥ | mahāmāyāprado māyānando māyeśvaraḥ kaviḥ ||30|| karaṇaṁ kāraṇaṁ kartā kāryaṁ karma kriyā matiḥ | kāryātīto gavāṁ nātho jagannātho guṇākaraḥ ||31|| viśvarūpo virūpākhyo vidyānando vasupradaḥ | vāsudevo viśiṣṭheśo vāṇīśo vākpatirmahaḥ ||32|| vāsudevo vasuśreṣṭho devakīnandano'rihā | vasupātā vasupatirvasudhāparipālakaḥ ||33|| kaṁsāriḥ kaṁsahantā ca kaṁsārādhyo gatirgavām | govindo gomatāṁ pālo gopanārījanādhipaḥ ||34|| gopīrato rurunakhadhārī hārī jagadguruḥ | jānujaṅghāntarālaśca pītāmbaradharo hariḥ ||35|| haiyaṅgavīnasambhoktā pāyasāśo gavāṁ guruḥ | brahmaṇyo brahmaṇārādhyo nityaṁ goviprapālakaḥ ||36|| bhaktapriyo bhaktalabhyo bhaktyātīto bhuvāṁ gatiḥ | bhūlokapātā hartā ca bhūgolaparicintakaḥ ||37|| nityaṁ bhūlokavāsī ca janalokanivāsakaḥ | tapolokanivāsī ca vaikuṇṭho viṣṭarasravāḥ ||38|| vikuṇṭhavāsī vaikuṇṭhavāsī hāsī rasapradaḥ | rasikāgopikānandadāyako bāladhṛgvapuḥ ||39|| yaśasvī yamunātīrapuline'tīvamohanaḥ | vastrahartā gopikānāṁ manohārī varapradaḥ ||40|| dadhibhakṣo dayādhāro dātā pātā hṛtāhṛtaḥ | maṇḍapo maṇḍalādhīśo rājarājeśvarī vibhuḥ ||41|| viśvadhṛk viśvabhuk viśvapālako viśvamohanaḥ | vidvatpriyo vītahavyo havyagavyakṛtāśanaḥ ||42|| kavyabhuk pitṛvartī ca kāvyātmā kavyabhojanaḥ | rāmo virāmo ratido ratibhartā ratipriyaḥ ||43|| pradyumno'krūradamyaśca krūrātmā krūramardanaḥ | kṛpāluśca dayāluśca śayāluḥ saritāṁ patiḥ ||44|| nadīnadavidhātā ca nadīnadabihārakaḥ | sindhuḥ sindhupriyodāntaḥ śāntaḥ kāntaḥ kalānidhiḥ ||45|| saṁnyāsakṛtsatāṁ bhartā sādhūcchiṣṭakṛtāśanaḥ | sādhupriyaḥ sādhugamyo sādhvācāraniṣevakaḥ ||46|| janmakarmaphalatyāgī yogī bhogī mṛgīpatiḥ | mārgātīto yogamārgo mārgamāṇo mahoraviḥ ||47|| ravilocano raveraṁśabhāgī dvādaśarūpadhṛk | gopālo bālagopālo bālakānandadāyakaḥ ||48|| bālakānāṁ patiḥ śrīśo viratiḥ sarvapāpinām | śrīlaḥ śrīmān śrīyutaśca śrīnivāsaḥ śriyaḥ patiḥ ||49|| śrīdaḥ śrīśaḥ śriyaḥkānto ramākānto rameśvaraḥ | śrīkānto dharaṇīkānta umākāntapriyaḥ prabhuḥ ||50|| iṣṭābhilāṣī varado vedagamyo durāśayaḥ | duḥkhahartā duḥkhanāśo bhavaduḥkhanivārakaḥ ||51|| yathecchācāranirato yathecchācārasurapriyaḥ | yathecchālābhasantuṣṭo yathecchasya mano'ntaraḥ ||52|| navīnanīradābhāso nīlāñjanacayaprabhaḥ | navadurdinameghābho navameghacchaviḥ kvacit ||53|| svarṇavarṇo nyāsadhāro dvibhujo bahubāhukaḥ | kirīṭadhārī mukuṭī mūrtipañjarasundaraḥ ||54|| manorathapathātītakārako bhaktavatsalaḥ | kaṇvānnabhoktā kapilo kapiśo garuḍātmakaḥ ||55|| suvarṇaparṇo hemābhaḥ pūtanāntaka ityapi | pūtanāstanapātā ca prāṇāntakaraṇo ripoḥ ||56|| vatsanāśo vatsapālo vatseśvaravasūttamaḥ | hemābho hemakaṇṭhaśca śrīvatsaḥ śrīmatāṁ patiḥ ||57|| sanandanapathārādhyo pāturdhātumatāṁ patiḥ | sanatkumārayogātmā sanakeśvararūpadhṛk ||58|| sanātanapado dātā nityaṁ caiva sanātanaḥ | bhāṇḍīravanavāsī ca śrīvṛndāvananāyakaḥ ||59|| vṛndāvaneśvarīpūjyo vṛndāraṇyavihārakaḥ | yamunātīragodhenupālako meghamanmathaḥ ||60|| kandarpadarpaharaṇo manonayananandanaḥ | bālakelipriyaḥ kānto bālakrīḍāparicchadaḥ ||61|| bālānāṁ rakṣako bālaḥ krīḍākaitukakārakaḥ | bālyarūpadharo dhanvī dhānuṣkī śūladhṛk vibhuḥ ||62|| amṛtāṁśo'mṛtavapuḥ pīyūṣaparipālakaḥ | pīyūṣapāyī pauravyānandano nandibardhanaḥ ||63|| śrīdāmāṁśukapātā ca śrīdāmaparibhūṣaṇaḥ | vṛndāraṇyapriyaḥ kṛṣṇaḥ kiśoraḥ kāntarūpadhṛk ||64|| kāmarājaḥ kalātīto yogināṁ paricintakaḥ | vṛṣeśvaraḥ kṛpāpālo gāyatrīgativallabhaḥ ||65|| nirvāṇadāyako mokṣadāyī vedavibhāgakaḥ | vedavyāsapriyo vaidyo vaidyānandapriyaḥ śubhaḥ ||66|| śukadevo gayānātho gayāsuragatipradaḥ | viṣṇurjiṣṇurgariṣṭhaśca sthaviṣṭhaśca sthavīyasām ||67|| variṣṭhaśca yaviṣṭhaśca bhūyiṣṭhaśca bhuvaḥ patiḥ | durgaternāśako durgapālako duṣṭanāśakaḥ ||68|| kālīyasarpadamano yamunānirmalodakaḥ | yamunāpuline ramye nirmale pāvanodake ||69|| vasantubālagopālarūpadhārī girāṁ patiḥ | vāgdātā vākprado bāṇīnātho brāhmaṇarakṣakaḥ ||70|| brahmaṇyo brahmakṛdbrahma brahmakarmapradāyaka | bahmaṇyadevo brahmaṇyadāyako bāhmaṇapriyaḥ ||71|| svastipriyo'svasthadharo'svasrthanāśo dhiyāṁ patiḥ | kvaṇannūpuradhṛgviśvarūpī viśveśvaraḥ śivaḥ ||72|| śivātmako bālyavapuḥ śivātmā śivarūpadhṛk | sadāśivapriyo devaḥ śivavandyo jagatśivaḥ ||73|| gomadhyavāsī govāsī gopagopīmano'ntaraḥ | dharmo dharmadhurīṇaśca dharmarūpo dharādharaḥ ||74|| svopārjitayaśāḥ kīrtivardhano nandirūpakaḥ | devahūtijñānadātā yogasāṅkhyanivartakaḥ ||75|| tṛṇāvartaprāṇahārī śakaṭāsurabhañjanaḥ | pralambahārī ripuhā tathā dhenukamardanaḥ ||76|| ariṣṭānāśano'cintyaḥ keśihā keśināśanaḥ | kaṅkahā kaṁsahā kaṁsanāśano ripunāśanaḥ ||77|| yamunājalakalloladarśī harṣī priyaṁvadaḥ | svacchandahārī yamunājalahārī surapriyaḥ ||78|| līlādhṛtavapuḥ kelikārako dharaṇīdharaḥ | goptā gariṣṭho gadido gatikārī gayeśvaraḥ ||79|| śobhāpriyaḥ śubhakaro vipulaśrīpratāpanaḥ | keśidaityahāro dānī dātā dharmārthasādhanaḥ ||80|| trisāmā trikkṛtsāmaḥ sarvātmā sarvadīpanaḥ | sarvajñaḥ sugato buddho bauddharūpī janārdanaḥ ||81|| detyāriḥ puṇḍarīkākṣaḥ padmanābho'cyato'sitaḥ | padyākṣaḥ padmajākānto garuḍāsanavigrahaḥ ||82|| gārutmatadharo dhenupālakaḥ suptavigrahaḥ | ārtihā pāpahānehā bhūtihā bhūtivardhanaḥ ||83|| vāñchākalpadrumaḥ sākṣānmedhāvī garuḍadhvajaḥ | nīlaḥśvetaḥ sitaḥ kṛṣṇo gauraḥ pītāmbaracchadaḥ ||84|| bhaktārtināśano gīrṇaḥ śīrṇo jīrṇatanucchadaḥ | balipriyo baliharo balibandhanatatparaḥ ||85|| vāmano vāmadevaśca daityāriḥ kañjalocanaḥ | udīrṇaḥ sarvato goptā yogagamyaḥ purātanaḥ ||86|| nārāyaṇo naravapuḥ kṛṣṇārjunavapurdharaḥ | trinābhistrivṛtāṁ sevyo yugātīto yugātmakaḥ ||87|| haṁso haṁsī haṁsavapurhaṁsarūpī kṛpāmayaḥ | harātmako haravapurharabhāvanatatparaḥ ||88|| dharmarāgo yamavapustripurāntakavigrahaḥ | yudhiṣṭhirapriyo rājyadātā rājendravigrahaḥ ||89|| indrayajñaharo govardhanadhārī girāṁ patiḥ | yajñabhugyajñakārī ca hitakārī hitāntakaḥ ||90|| akrūravandyo viśvadhrugaśvahārī hayāsyakaḥ | hayagrīvaḥ smitamukho gopīkānto'ruṇadhvadhaḥ ||91|| nirastasāmyātiśayaḥ sarvātmā sarvamaṇḍanaḥ | gopīprītikaro gopīmanohārī harirhariḥ ||92|| lakṣmaṇo bharato rāmaḥ śatrughno nīlarūpakaḥ | hanūmajjñānadātā ca jānakīvallabho giriḥ ||93|| girirūpī girimakho giriyajñapravartakaḥ ||94|| bhavābdhipotaḥ śubhakṛcchubhabhuk śubhavardhanaḥ | vārārohī harimukho maṇḍūkagatilālasaḥ ||95|| netravaddhakriyo gopabālako bālako guṇaḥ | guṇārṇavapriyo bhūtanātho bhūtātmakaśca saḥ ||96|| indrajidbhayadātā ca yajuṣāṁ patirappatiḥ | gīrvāṇavandyo gīrvāṇagatiriṣṭogururgatiḥ ||97|| caturmukhastutimukho brahmanāradasevitaḥ | umākāntadhiyārādhyo gaṇanāguṇasīmakaḥ ||98|| sīmāntamārgo gaṇikāgaṇamaṇḍalasevitaḥ | gopīdṛkpadmamadhupo gopīdṛṅmaṇḍaleśvaraḥ ||99|| gopyāliṅganakṛdgopīhṛdayānandakārakaḥ | mayūrapicchaśikharaḥ kaṇkaṅāṅgadabhūṣaṇaḥ ||100|| svarṇacampakasandolaḥ svarṇanūpurabhūṣaṇaḥ | svarṇatāṭaṅkakarṇaśca svarṇacampakabhūṣitaḥ ||101|| cūḍāgrārpitaratnendrasāraḥ svarṇāmbaracchadaḥ | ājanabāhu sumukho jagajjananatatparaḥ ||102|| bālakrīḍāticapalo bhāṇḍīravananandanaḥ | mahāśālaḥ śrutimukho gaṅgācaraṇasevanaḥ ||103|| gaṅgāmbupādaḥ karajākaratoyājaleśvaraḥ | gaṇḍakotīrasambhūto gaṇḍakījalamardanaḥ ||104|| śālagrāmaḥ śālarūpī śaśibhūṣaṇabhūṣaṇaḥ | śaśipādaḥ śaśinakho varārho yuvatīpriyaḥ ||105|| premapradaḥ premalabhyo bhaktyātīto bhavapradaḥ | anantaśāyī śavakṛcchayano yoginīśvaraḥ ||106|| pūtanāśakuniprāṇahārako bhavapālakaḥ | sarvalakṣaṇalakṣaṇyo lakṣmīmān lakṣmaṇāgrajaḥ ||107|| sarvāntakṛtsarvaguhyaḥ sarvātītosurāntakaḥ | prātarāśanasampūrṇo dharaṇīreṇuguṇṭhitaḥ ||108|| ijyo mahojyaḥ sarvejya ijyarūpījyabhojanaḥ | brahmārpaṇaparo nityaṁ brahmāgniprītilālasaḥ ||109|| madano madanārādhyo manomathanarūpakaḥ | nīlāñcitākuñcitako bālavṛndavibhūṣitaḥ ||110|| stokakrīḍāparo nityaṁ stokabhojanatatparaḥ | lalitāviśakhāśyāmalatāvandipādakaḥ ||111|| śrīmatīpriyakārī ca śrīmatyā pādapūjitaḥ | śrīsaṁsevitapādābjo veṇuvādyaviśāradaḥ ||112|| śṛṅgavetrakaro nityaṁ śṛṅgavādyapriyaḥ sadā | balarāmānujaḥ śrīmān gajendrastutapādakaḥ ||113|| halāyudhaḥ pītavāsā nīlāmbaraparicchadaḥ | gajendravaktro herambo lalanākulapālakaḥ ||114|| rāsakrīḍāvinodaśca gopīnayanahārakaḥ | balaprado vītabhayo bhaktārtiparināśanaḥ ||115|| bhaktipriyo bhaktidātā dāmodara ibhaspatiḥ | indradarpaharo'nanto nityānandaścidātmakaḥ ||116|| caitanyarūpaścaitanyaścetanāguṇavarjitaḥ | advaitācāranipuṇo'dvaitaḥ paramanāyakaḥ ||117|| śivabhaktiprado bhakto bhaktānāmantarāśayaḥ | vidvattamo durgatihā puṇyātmā puṇyapālakaḥ ||118|| jyeṣṭhaḥ śreṣṭhaḥ kaniṣṭhaśca niṣṭhaho'tiṣṭha umāpatiḥ | surendravandyacaraṇo gotrahā gotravarjitaḥ ||119|| nārāyaṇapriyo nāraśāyī nāradasevitaḥ | gopālabālasaṁsevyaḥ sadānirmalamānasaḥ ||120|| manumantrī mantrapatirdhātā dhāmavivarjitaḥ | dharāprado dhṛtiguṇo yogīndraḥ kalpapādapaḥ ||121|| acintyātiśayānandarūpī pāṇḍavapūjitaḥ | śiśupālaprāṇahārī dantavakranisūdanaḥ ||122|| anādirādipuruṣo gotrī gātravivarjitaḥ | sarvāpattārakodurgo duṣṭadaityakulāntakaḥ ||123|| nirantaraḥśucimukho nikumbhakuladīpanaḥ | bhānurhanūrddhanuḥsthāṇuḥ kṛśānuḥ kṛtanurdhanuḥ ||124|| anurjanmādirahito jātigotravivarjitaḥ | dāvānalanihantā ca danujārirbakāpahā ||125|| prahlādabhakto bhakteṣṭadātā dānavagotrahā | surabhirdugdhapo dugdhahārī śauriḥ śucāṁ hariḥ ||126|| yatheṣṭado'tisulabhaḥ sarvajñaḥ sarvatomukhaḥ | daityāriḥ kaiṭabhāriśca kaṁsāriḥ sarvatāpanaḥ ||127|| dvibhujaḥ ṣaḍbhujo hyantarbhujo mātalisārathiḥ | śeṣaḥ śeṣādhināyaśca śeṣī śeṣāntavigrahaḥ ||128|| keturdharitrīcāritraścaturmūrtiścaturgatiḥ | caturdhā caturātmā ca caturvargapradāyakaḥ ||129|| kandarpadarpahārī ca nityaṁ sarvāṅgasundaraḥ | śacīpatipatirnetā dātā mokṣagururdvijaḥ ||130|| hṛtasvanātho'nāthasya nāthaḥ śrīgaruḍāsanaḥ | śrīdharaḥ śrīkaraḥ śreyaḥpatirgatirapāṁ patiḥ ||131|| aśeṣavandyo gītātmā gītāgānaparāyaṇaḥ | gāyatrīdhāmaśubhado velāmodaparāyaṇaḥ ||132|| dhanādhipaḥ kulapatirvasudevātmajo'rihā | ajaikapāt sahasrākṣo nityātmā nityavigrahaḥ ||133|| nityaḥ sarvagataḥ sthāṇurajo'gnirgirināyakaḥ | gonāyakaḥ śokahantā kāmāriḥ kāmadīpanaḥ ||134|| vijitātmā vidheyātmā somātmā somavigrahaḥ | graharūpī grahādhyakṣo grahamardanakārakaḥ ||135|| vekhānasaḥ puṇyajano jagadādirjagatpatiḥ | nīlendīvarabho nīlavapuḥ kāmāṅganāśanaḥ ||136|| kāmavījānvitaḥ sthūlaḥ kṛśaḥ kṛśatanurnijaḥ | naigameyogniputraśca ṣāṇmātura umāpatiḥ ||137|| maṇḍūkaveśādhyakṣaśca tathā nakulanāśanaḥ | siṁho harīndraḥ keśīndrahantā tāpanivāraṇaḥ ||138|| girīndrajāpādasevyaḥ sadā nirmalamānasaḥ | sadāśivapriyo devaḥ śivaḥ sarva umāpatiḥ ||139|| śivabhakto girāmādiḥ śivārādhyo jagadguruḥ | śivapriyo līlakaṇṭhaḥ śitikaṇṭhaḥ ūṣāpatiḥ ||140|| pradyumnaputro niśaṭhaḥ śaṭhaḥ śaṭhadhanāpahā | dhūpāpriyo dhūpadātā gaggulvagurudhūpitaḥ |141|| nīlāmbaraḥ pītavāsā raktaśvetaparicchadaḥ | niśāpatirdivānātho devabrāhmaṇapālakaḥ ||142|| umāpriyo yogimanohārī hāravibhūṣitaḥ | khagendravandyapādābjaḥ sevātapaparāṅmukhaḥ ||143|| parārthado'parapatiḥ parātparataro guruḥ | sevāpriyo nirguṇaśca saguṇaḥ śrutisundaraḥ ||144|| devādhidevo deveśā devapūjyo divāpatiḥ | divaḥ patirbṛhadbhānuḥ sevitepsitadāyakaḥ ||145|| gotamāśramavāsī ca gotamaśrīniṣevitaḥ | raktāmbaradharo divyo devīpādābjapūjitaḥ ||146|| sevitārthapradātā ca sevāsevyagirīndrajaḥ | dhāturmanovihārī ca vidhātā dhāturuttamaḥ ||147|| ajñānahantā jñānendravandyo vandyadhanādhipaḥ | apāṁ patirjalanidhirdharāpatiraśeṣakaḥ ||148|| devendravandyo lokātmā trilokātmā trilokapāt | gopāladāyako gandhadrado guhyakasevitaḥ ||149|| nirguṇaḥ puruṣātītaḥ prakṛteḥ para ujjvalaḥ | kārtikeyo'mṛtāhartā nāgārirnāgahārakaḥ ||150|| nāgendraśāyī dharaṇīpatirādityarūpakaḥ | yaśasvī vigatāśī ca kurukṣetrādhipaḥ śaśī ||151|| śaśaṅkāriḥśubhacāro gīrvāṇagaṇasevitaḥ | gatiprado narasakhaḥ śītalātmā yaśaḥpatiḥ ||152|| vijitārirgaṇādhyakṣo yogātmā yogapālakaḥ | devendrasevyo devendrapāpahārī yaśodhanaḥ ||153|| akiñcanadhanaḥ śrīmānameyātmā mahādridhṛk | mahāpralayakārī ca śacīsutajayapradaḥ ||154|| janeśvaraḥ sarvavidhirūpī brāhmaṇapālakaḥ | siṁhāsananivāsī ca cetanārahitaḥ śivaḥ ||155|| śivaprado dakṣayajñahantā bhṛgunivārakaḥ | vīrabhadrabhayāvartaḥ kālaḥ paramanirvaṇaḥ ||156|| udūkhalanibaddhaśca śokātmā śokanāśanaḥ | ātmayoniḥ svayaṁjāto vaikhānaḥ pāpahārakaḥ ||157|| kīrtipradaḥ kīrtidātā gajendrabhujapūjitaḥ | sarvāntarātmā sarvātmā mokṣarūpī nirāyudhaḥ ||158|| uddhavajñānadātā ca yamalārjunabhañjanaḥ | ityetatkathitaṁ devi sahasraṁ nāma cottamam ||159|| ādidevasya vai viṣṇorbālakatvamupeyuṣaḥ | yaḥ paṭhet pāṭhayedvāpi śṛṇuyāt śrāvayīta vā ||160|| kiṁ phalaṁ labhate devi vaktuṁ nāsti mama priye | śaktigopālanāmnaśca sahasrasya maheśvari ||161|| brahmahatyādikānīha pāpāni ca mahānti ca | vilayaṁ yānti deveśi gopālasya prasādataḥ ||162|| dvādaśyāṁ paurṇamāsyāṁ vā saptamyāṁ ravivāsare | pakṣadvaye ca samprāpya harivāsarameva ca ||163|| yaḥ paṭhecchṛṇuyādvāpi na janustasya vidyate | satyaṁ satyaṁ maheśāni satyaṁ satyaṁ na saṁśayaḥ ||164|| ekādaśyāṁ śucirbhūtvā sevyā bhaktihariḥ śubhāḥ | śrutvā nāma sahasrāṇi naro mucyeta pātakāt ||165|| na śaṭhāya pradātavyaṁ na dharmadhvajine punaḥ | nindakāya ca viprāṇāṁ devānāṁ vaiṣṇavasya ca ||166|| gurubhaktivihīnāya śivadveṣaratāya ca | rādhādurgābhedamatau satyaṁ satyaṁ na saṁśayaḥ ||167|| yadi nindenmaheśāni guruhā sa bhaveddhruvam | vaiṣṇaveṣu ca śānteṣu nityaṁ vairāgyarāgiṣu ||168|| brāhmaṇāya viśuddhāya sandhyārcanaratāya ca | advaitācāranirate śivabhaktiratāya ca ||169|| garuvākyaratāyaiva nityaṁ deyaṁ maheśvari | gopitaṁ sarvatantreṣu tava snehātprakīrtitam ||170|| nātaḥ parataraṁ stotraṁ nātaḥ parataro manuḥ | nātaḥ parataro devo yageṣvapi caturṣvapi ||171|| haribhakteḥparā nāsti mokṣaśreṇī nagendraje | vaiṣṇavebhyaḥ paraṁ nāsti prāṇebhyo'pi priyā mama ||172|| vaiṣṇaveṣu ca saṅgo me sadā bhavatu sundari | yasya vaṁśe kvaciddaivātvaiṣṇavo rāgavarjitaḥ ||173|| bhavettadvaṁśake ye ye pūrve syaḥ pitarastathā | bhavanti nirmalāste ha yānti nirvāṇatāṁ hareḥ ||174|| bahunā kimihoktena vaiṣṇavānāntu darśanāt | nirmalāḥ pāparahitāḥ pāpinaḥ syurna saṁśayaḥ ||175|| kalau bāleśvaro devaḥ kalau gaṅgaiva kevalā | kalau nāstyeva nāstyeva nāstyeva gatiranyathā ||176|| iti śrīnāradapañcarātre jñānāmṛtasāre caturtharātre gopāla sahasranāmastotramaṣṭamo'dhyāyaḥ ||8|| …
English translation
CHAPTER VIII ON THE THOUSAND NAMES OF GOPALA
Sri Parvati said: O Bhagavan ! G World-teacher ! The Deva of the Devas ! Superior to all the Devas ! Thou hast revealed this divine Kavacam of Valagopala qd)
What I have heard from Thy face has increased my curiousity to hear further from Thee. Now kindly recite to me the thousand names of Gopala, the Supreme Spirit. (2)
Kindly describe it in full. O Lord! Thou art kind to Thy devotees. Iam under Thy refuge. Protect me. (3)
O Lord of the Devas ! Dear as my heart! If thou lovest me, Kindly tell how, in what place and by whom was that namamrta
(nectar of names) of Acyuta Gopala, revealed. I am unable to wait. (4)
Sri Mahadeva said : The thousand names stotra of Sri Bala Krsna are like the Kalpa-vrksa tree. While Vedavyasa, the author of all the Sastras, was speaking to Sukadeva, the Sage Narada, superior amongst the Devarsis, heard their talk. (5)
In days of yore, in the midst of the Dandakaran,a, the Maharsis :’ asked devotedly to Narada Muni about the thousand names of Gopala, the Highest Spirit. (6)
O Devi ! O Beloved ! Hear the excellent Sahasranama of §r1 Balakrgsna. — (7) All sins Brahmahatya and others, are eliminated by this. And
in this Kali age, this Balesvara is the Devata and Vrndavana is the * forest. (8) ;
In the Kali age the Ganga is the giver of mukti (liberation) ; Gita is the Paragati (excellent course) and Yajiias, etc., not being
extant in this Kali age, only the name of Hari exists for the mukti of all, No other goal is there. (9)
(he Fourth Night, Ch, VIII 263
Of this Sahasranama of §:i Balakrsna, Narada isthe Rsi, the Devata is §ri Baiakrsna, and its application for the Siddhi (success) of purugsartha (fourfold aims of human existence). Now the names ;— (See Sanskrit Text)
O Devi, Thus have spoken to you this excellent thousand
names of Gopala, (159) e thousand names of the Adideva Sri
Whoever recites thes s others recite or
Visnu who assumed the firm of Gcrala, or make hears or makes others hear. (160)
O Dear Mahesvari ! The fruits that they derive, I am unable
to declare. (161) O Devegi! Under the favour of Go other hosts of great sins are completely destroyed.
pala, Brabmahatya and (162)
or Ek4daéi tithis
devotee reads Or
y doubt that his
On the Dvadaégi, Prinima, Saptami, Sunday, in both the dark and bright fortnights whichever hears this, O Mahesani, I dare say without aD: future birth is thereby prevented. (163-164)
One ought to shew one’s devotion tow pure on the ekadaéi tithi, and on this tithi, peo sand names, be entirely freed from the sins.
ards Sri Hari, being ple if they hear the (165)
r hypocrite, or the or the
thou This ought not to be given to the cheat, ©:
cunning or to those who abuse the Devatas, Brahmanas
Vaisnavas. (166)
nto those who are
Note this especially it would never be give! ainst Siva and who
without devotion to one’s Guru, who are ag makes distinction between Radha and Durga. (167)
O Maheégani! This is to be carefully borne in mind that whoever blames any Vaisnava who js controlled and peaceful and always practises dispassion, is certainly the slayer of his Guru. (168)
Rather this is certainly to be given to th §andhya-Vandanas, who are pure Brahmanas an
ose who do their d who is advaitist,
264 Narada Pajicaratram
who is devoted to Siva, who is ever ready to act acording to the words of Sri Guru. O Maheégvari! This is secret in all the Tantras ; but I reveal this to Thee. (169-170)
There is no stotra, mantra and Devata equal to this in the four Yugas. (171)
O Nagendraja ! There is nothing superior to Hari-bhakti that leads to Moksa (liberation final). That isdearer to me that my life. There is none superior to Vaisnava. (172)
O beautiful! The Vaisnava are alawys to be sought for company. For if perchance any Vaisnava, free form passions, be born, in his family, all the forefathers of the family become sinless and acquire Mukti. (173-174)
What more to say, the sinful become pure and free from sins
no sooner they see the Vaisnavas. (175) The Devata in this Kaliyuga is, Balakrsna Gopala (Bale- §vara) and the Ganges. There is no other way in this Kali age. (176)
Here ends the Eighth Chapter on the thousand names of Gopala in Sri Narada Paitcaratram, Fourth Night.
Complete chapter-aligned witnesses. Sanskrit/IAST is the GGM complete amended text, version 1.1, based on Vijñānānanda’s 1997 edition; the displayed Devanagari is transliterated directly from that proofread IAST witness. English is Swami Vijñānānanda’s complete translation, printed pages 262–264 (scan pages 279–281). It was extracted with Tesseract 5 English OCR from the 200 ppi published scan, with chapter boundaries controlled against the printed contents. No unsupported verse-by-verse equivalence is asserted.