First Night · Chapter 3
Sourceतृतीयो ऽध्यायः सनत्-कुमार उवाच— अहो तात किम् आश्चर्यꣳ कृष्णस्य परमात्मनः । परꣳ नैवेद्य-माहात्म्यꣳ विस्तराद् वद साम्प्रतम् ॥१॥ अथ श्री-कृष्ण-महिम-वर्णनम् ब्रह्मोवाच— एकदा ब्राह्मणो हृष्टः प्रफुल्ल-वदनेक्षणः । पुत्रेण सार्धꣳ प्रययौ बान्धवस्य गृहꣳ मुदा ॥२॥ निमन्त्रितो विवाहेन महा-सꣳभार-सꣳभृतः । भुक्त्वा पीत्वा च तद्-गृहे स्व-गृहꣳ प्रययौ मुदा ॥३॥ सपुत्रो ब्राह्मणो मार्गे क्षुत्-पिपासार्दितः सुतः । ददर्श चन्द्र-भागाꣳ ताꣳ नदीम् अति-मनोहराम् ॥४॥ उवाच पुत्रः पित्रꣳ स्नात्वा भोक्ष्यामि चेति भोः । क्षुत्-पिपासा बलवती वर्धते तात वर्त्मनि ॥५॥ पुत्रस्य वचनꣳ श्रुत्वा तम् उवाच द्विजः स्वयम् । भयꣳकरꣳ वनम् इदꣳ समीपे सरितः सुतः ॥६॥ सुशीघ्रꣳ गच्छ ग्रामान्तꣳ पुरो रम्य-सरोवरम् । तत्र स्नात्वा च भोक्ष्यावो गच्छ वत्स यथासुखम् ॥७॥ तातस्य वचनꣳ श्रुत्वा जहास च चुकोप ह । पितरꣳ वक्तुम् आरेभे रक्त-पण्ग्कज-लोचनः ॥८॥ शिशुर् उवाच— बालो ऽहꣳ दश-वर्षीयस् त्वꣳ च वृद्धश् च ज्ञानदः । पिता ददाति पुत्राय ज्ञानꣳ सर्वत्र भू-तले ॥९॥ अहो दुरत्ययः कालो वृध्हो वदति बालवत् । कथꣳ प्राक्तनम् उल्लङ्घ्य ब्रूहि तात दुरत्ययम् ॥१०॥ प्राक्तनात् सुख-दुःखꣳ च रोगꣳ शोकꣳ भयꣳ पितः । सुमृत्युर् अपमृत्युर् वा चिरायुर् अल्प-जीवनः ॥११॥ यत्र काले च यन्-मृत्युर् भवनꣳ शुभ-कर्म च । न्यूनाधिकꣳ क्षणꣳ नास्ति निषेकः केन वार्यते ॥१२॥ यस्य हस्ते च यन्-मृत्युर् विधात्रा लिखितः पुरा । न च तꣳ खण्डितुꣳ शक्तः स्वयꣳ विष्णुश् च शङ्करः ॥१३॥ तात व्यर्थम् अधीतꣳ ते दुर्बुद्धेर् जन्म निष्फलम् । सुबुद्धेः सफलꣳ जन्म तत्-क्षणम् जीवनꣳ सुखम् ॥१४॥ येन शुक्ली-कृता हꣳसाः शुकाश् च हरिती-कृताः । मयूराश् चित्रिता येन स मे रक्षाꣳ करिष्यति ॥१५॥ येन कृष्णेन विश्वानि चासꣳख्यानि कृतानि च । चराचरꣳ च यो रक्षेत् स मे रक्षाꣳ करिष्यति ॥१६॥ घोरारण्ये सुखꣳ शेते यो हि कृष्णेन रक्षितः । निर्बन्धो ऽपि यस्य मरणꣳ तस्य मन्दिरे ॥१७॥ यः शेते नाग-शय्यासु प्राक्तनान् मङ्गलाहितः । यो नाग-भक्षितो भोगात् स भृतो गरुडान्तिके ॥१८॥ न समुद्रे च म्रियते नाग्नि-राशौ विषानले । न शस्त्रेण न चास्त्रेणायुर्-मर्माणि रक्षति ॥१९॥ नाप्राप्त-कालो म्रियते विद्धः शर-शतैर् अपि । तृणाग्रेणापि सꣳस्पृष्टः प्राप्त-कालो न जीवति ॥२०॥ कश्चिद् गर्भे च म्रियते कश्चिद् भूमिष्ट-मात्रतः । कश्चिद् यौवन-काले च कश्चिद् एव हि वार्द्धके ॥२१॥ कश्चिद् चिरायु रोगी चाप्य् अरोगी चापि कश्चन । कश्चिद् धनी दरिद्रश् च कश्चिद् एव हि कर्मणा ॥२२॥ कश्चित् कल्पान्त-जीवी च चिर-जीवी च कश्चन । प्राक्तनाद् अमरः कश्चिन् निषेको बलवत्तरः ॥२३॥ कश्चिद् याति च राजेन्द्रो दिव्य-यानेन कर्मणा । कश्चित् कीट-पतङ्गेषु कश्चित् पश्वादि-योनिषु ॥२४॥ कश्चिद् एव हि सन्न्यासी कश्चिच् च नर-घातकः । कश्चिद् गजेन्द्र-गामी च पशु-यायी च कश्चन ॥२५॥ कश्चिद् सूक्ष्माꣳशुका-धारी कश्चिज् जीर्ण-पटी जनः ॥२६॥ कश्चिन् नग्नो ऽअप्य् अनाहारी सुधा-भोजी च च कश्चन । कश्चिच् च सुन्दरः श्रीमान् गलत्-कुष्टी च कश्चन ॥२७॥ कश्चित् कुब्जश् चाङ्ग-हीनो बधिरः काण एव च । कश्चिद् दीर्घो मध्यमश् च कश्चित् खञ्जश् च वामनः ॥२८॥ कश्चित् कृष्णश् च गौरश् च श्यामलश् च स्व-कर्मणा । कश्चिद् भक्त्या च प्राप्नोति कृष्ण-दास्यꣳ सुदुर्लभम् ॥२९॥ ब्रह्मणः परमꣳ स्थानꣳ जन्म-मृत्यु-जरा-हरम् । कश्चित् प्राप्नोति परमꣳ ब्रह्म-लोकꣳ निरामयम् ॥३०॥ कश्चित् स्वर्गम् इन्द्र-पदꣳ शिव-लोकꣳ स्वकर्मणा । कश्चित् वर्गम् इन्द्र-लोकꣳ यम-लोकꣳ च कश्चन॥३१॥ कश्चिच् च नरके घोरे प्राप्नोति क्लेशम् उल्वणम् । तादितो यम-दूतेन क्षुधितस् तृषितः सदा ॥३२॥ भुङ्क्ते विण्-मूत्र-कीटꣳ तन्-मलꣳ श्लेष्मꣳ गरꣳ वसाम् । क्षुर-धारे तप्त-तैले वह्नौ शिते जले स्थले ॥३३॥ प्राप्नोति दारुणꣳ दुःखम् आकल्पꣳ पातकी पितः । तथा भोगावशेषे च लब्धा जन्म स्व-कर्मणा ॥३४॥ व्याधि-युक्तः प्रमुच्येत तया चेद् ईश्वरेच्छया । यद्-भयाद् वाति वातो ऽयꣳ सूर्यस् तपति यद्-भयात् ॥३५॥ वर्षतीन्द्रो दहत्य् अग्निर् मृत्युश् चरति जन्तुषु । यस्याज्ञया सृष्टि-विधौ मूर्मो ऽनन्तꣳ दधाति च॥ ३६॥ स च सर्वꣳ च ब्रह्माण्डꣳ लीलया चेश्वरेच्छया । यस्याज्ञया महा-भीता सर्वाधारा वसुन्धरा ॥३७॥ धरा सा सर्वस्याद्या रत्नवाꣳश् च हिमालयः । स्वयꣳ विधाता भगवान् ध्यायते यम् अहर्-निशम् ॥३८॥ यꣳ ध्यायते च भजते स्वयꣳ मृतुञ्जयः शिवः । सहस्र-वक्त्रो ऽयꣳ स्तौति ध्यायते भजते सदा ॥३९॥ स्वय्ꣳ सरस्वती स्तौति यम् ईश्वरम् अभीप्सितम् । सेवते पाद-पद्मꣳ च स्वयꣳ पद्मालया पितः ॥४०॥ माया भीता च यꣳ स्तौति दुर्गा दुर्गति-नाशिनी । स्तुवन्ति वेदाः सततꣳ सावित्री वेद-मातृका ॥४१॥ सिद्धेन्द्राश् च मुनीन्द्राश् च योगीन्द्राः सनकादयः । राजेन्द्राश् चासुरेन्द्राश् च सुरेन्द्रा मनवस् तथा ॥४२॥ ध्यायन्ते च भजन्ते च भक्ताः सन्तो हि सन्ततम् । केचिद् विदन्ति यꣳ ब्रह्माꣳ भगवन्तꣳ सनातनम् ॥४३॥ केचित् प्रधानꣳ सर्वाद्यꣳ केचिच् च ज्योतिर् ईश्वरम् । केचिच् च सर्व-रूपꣳ च सर्व-कारण-कारणम् ॥४४॥ केचित् स्वेच्छाभयꣳ रूपꣳ भक्तानुग्रह-विग्रहम् । केचित् सुरुचिरꣳ श्याम-सुन्दरꣳ मनोहरम् ॥४५॥ सानन्दꣳ परमानन्दꣳ गोविन्दꣳ नन्द-नन्दनम् । भज तात परꣳ ब्रह्म स्मर शश्वत् सुरेश्वरम् ॥४६॥ इत्य् एवम् उक्त्वा पितरꣳ चन्द्र-भागा-नदी-जले । स्नात्वा पपौ जलꣳ स्वच्छꣳ बुभुजे मिष्ट-मोदकम् ॥४७॥ पिता तद्-वचनꣳ श्रुत्वा सानन्दाश्रु मुमोच सः । चुचुम्ब गण्डꣳ पुत्रस्य समाश्लेषण-पूर्वकम् ॥४८॥ पिता स्नात्वा समारेभे सन्ध्याꣳ कर्तुꣳ च पूजनम् । सुस्नातꣳ पितरꣳ दृष्ट्वा पुत्रः स प्रययौ वनम् ॥४९॥ पत्रꣳ भोजन-पात्रार्थम् अर्हतुꣳ चञ्चलः शिशुः । चकार चयनꣳ तूर्णꣳ प्रशस्तꣳ पत्र-पञ्चकम् ॥५०॥ सुन्दरꣳ कुसुमꣳ वन्यꣳ पूजनार्थꣳ पितुस् तथा । ददर्श पुरतो बालः सुपक्वꣳ वदरी-फलम् ॥५१॥ चकार चयनꣳ तानि फलानि शोभनानि च । धात्री-फलꣳ सुपक्वꣳ च पक्वम् आम्रातकꣳ तथा ॥५२॥ सुपक्वꣳ च कदम्बꣳ च चकार चयनꣳ पुनः । सुपक्वꣳ सुन्दरꣳ रम्यꣳ दाडिमꣳ श्री-फलꣳ तथा ॥५३॥ रम्यꣳ जम्बु-फलꣳ चैव खर्जूरꣳ सुमनोहरम् । करञ्जकꣳ च जाम्बीरꣳ सुन्दरꣳ चिकुरꣳ तथा ॥५४॥ तत् सर्वꣳ चयनꣳ कृत्वा ददर्श पुरतः सरः । सुनिर्मलꣳ जलꣳ स्वच्छꣳ श्वेत-पद्मꣳ मनोहरम् ॥५५॥ रुचिरꣳ रक्त-कह्लारꣳ प्रस्फुटꣳ च जलान्तिके । विहाय तानि सर्वाणि सरः-शिरसि सुस्थले ॥५६॥ पपौ सरः-स्वच्छ-तोयꣳ जहार पद्मम् उल्वणम् । किꣳचित् सुरक्त-कह्लारꣳ पक्वꣳ पद्म-फलꣳ तथा ॥५७॥ सर्वम् आहरणꣳ कृत्वा पितरꣳ गन्तुम् उद्यतः । प्रफुल्ल-वदनः श्रीमान् सस्मितो द्विज-बालकः ॥५८॥ प्रफुल्ल-चम्पक-तरुꣳ ददर्श पुरतः शिशुः । मल्लिका-मालती-कुन्दयूथिका-माधवी-लताः ॥५९॥ चकार चयनꣳ स्फीतः पुष्पाणि सुन्दराणि च । पुष्पेण फल-पत्रेण तस्य भारो बभूव ह ॥६०॥ बालो वोढुम् अशक्यन्तश् च ययौ गमन-मन्थरः । न फलꣳ बुभुजे सो ऽपि धर्माधर्म-भयेन च ॥६१॥ पुरो ददर्श स शिशुर् घोरꣳ व्याघ्रालयꣳ भिया । तात तातेति शब्दꣳ च चकार ह पुनः पुनः ॥६२॥ न ददर्श च तातꣳ च शार्दुलꣳ च ददर्श सः । भिया सस्मार गोविन्द-पादारवैन्दम् ईप्सितम् ॥६३॥ हरिꣳ नर-हरिꣳ रामꣳ कृष्णꣳ विष्णुꣳ च माध्वम् । दामोदरꣳ हृषीकेशꣳ मुकुन्दꣳ मधु-सूदनम् ॥६४॥ एतानि दश नामानि जपन् विप्र-शिशुर् भिया । प्रययौ पुरतः शीघ्रꣳ पुनर् एव सरोवरम् ॥६५॥ सरसो निर्मले तीरे पुष्पाणि च फलानि च । ददौ भक्त्या भगवते कृष्णाय परमात्मने ॥६६॥ श्री-कृष्ण-पूजाꣳ कुर्वन्तꣳ ध्यानमानाꣳ पदाम्बुजम् । निकटꣳ न ययौ व्याघ्रो दृष्ट्वा बालꣳ च दूरतः ॥६७॥ व्याघ्रꣳ ददर्श बालश् च प्रकटास्यꣳ भयानकम् । विकृताकार-दशनꣳ विकटाक्षꣳ महोदरम् ॥६८॥ दृष्ट्वा च दुरतो व्याघ्रम् उवास सरसस् तटे । दध्यौ कृष्ण-पदाम्भोजꣳ जन्म-मृत्यु-जरा-हरम् ॥६९॥ मूलाधारꣳ स्वाधिष्ठानꣳ मणिपूरम् अनाहतम् । विशुद्धꣳ च तथाज्ञाख्यꣳ षट्-चक्रꣳ च विभाव्य च ॥७०॥ कुण्डलिन्या स्व-शक्त्या च सहितꣳ परमेश्वरम् । सहस्र-दल-पद्म-स्थꣳ हृदये स्वात्मनः प्रभुम् ॥७१॥ ददर्श द्विभुजꣳ कृष्णꣳ पीत-कौशेय-वाससम् । सस्मितꣳ सुन्दरꣳ शुद्धꣳ नवीन-जलद-प्रभम् ॥७२॥ कोटि-कन्दर्प-सौन्दर्य-लीला-धाम-मनोहरम् । कोटि-पार्वण-पूर्णेन्दु-प्रभा-जुष्टꣳ च सुन्दरम् ॥७३॥ सुख-दृश्यꣳ सुरूपꣳ च भक्तानुग्रह-कारकम् । चन्दनोक्षित-सर्वाङ्गꣳ रत्न-भूषण-भूषितम् ॥७४॥ प्रफुल्ल-पद्म-नयनꣳ राधा-वक्षः-स्थल-स्थितम् । मालती-माल्य-सम्बद्ध-चूडा-चारु-सुशोभनम् ॥७५॥ धृत-रत्नꣳ रत्न-पद्मꣳ दक्षिणेन करेण च । वामेन मणि-निर्माण-दीप्त-दर्पणम् उज्ज्वलम् ॥७६॥ रत्न-कुण्डाल-युग्मेन गण्ड-स्थल-विराजितम् । कौस्थुभेन मणीन्द्रेण चारु-वक्षः-स्थलोज्ज्वलम् ॥७७॥ मुक्ताराजि-विनिन्दैक-दन्त-राजि-विराजितम् । आजानु-मालती-माला-वन-माला-विभूषितम् ॥७८॥ वेदानन-सरस्वत्या स्तुतꣳ ब्रह्मेश-वन्दितम् । पद्मापद्मालया-माया-सꣳसेवित-पदाम्बुजम् ॥७९॥ परि-पूर्णतमम् ब्रह्म परमात्मानम् ईश्वरम् । निर्लिप्तꣳ साक्षि-भूतꣳ च भगवन्तꣳ सनातनम् ॥८०॥ सर्वेशाꣳ सर्व-रूपꣳ च सर्व-कारण-कारणम् । पुरुषꣳ परमात्मैकꣳ परेशꣳ प्रकृतेः परꣳ ॥८१॥ एवꣳ भूतꣳ विभुꣳ दृष्ट्वा मनसा प्रणनाम तम् । तुष्टाव परया भक्त्या तम् ईशꣳ सम्पुटाञ्जलिः ॥८२॥ श्री-सुभद्र उवाच— हे नाथ दर्श्नꣳ देहि माꣳ भक्तꣳ शरणागतम् । श्रीद श्रीश श्री-निवास श्री-निधे श्री-निकेतन ॥८३॥ श्रिया सेवित-पादाब्ज श्री-समुत्पत्ति-कारण । वेदानिर्वचनियेश निरीह निर्गुणाधिप ॥८४॥ सर्वाद्य सर्व-निलय सर्व-बीज सनातन । शान्त सरस्वती-कान्त नितान्त सर्व-कर्मसु ॥८५॥ सर्वाधार निराधार काम-पूर परात् पर । दुष्पारासार-सꣳसार-कर्ण-धार नमो ऽस्तु ते ॥८६॥ इत्य् एवम् उक्त्वा स शिशु रुरोद च पुनः पुनः । ध्यायेन तत्-पदाम्भोजꣳ शरणꣳ च चकार सः ॥८७॥ इति विप्रकृतꣳ स्तोत्रꣳ त्रि-सन्ध्यꣳ यः पठेन् नरः । मुच्यते सर्व-पापेभ्यो विष्णु-लोकꣳ स गच्छति ॥८८॥ इति श्री-नारद-पञ्च-रात्रे ज्ञानामृत-सारे प्रथमैक-रात्रे ब्रह्म-सनत्-कुमार-सꣳवादे श्री-कृष्ण-महिमोपालम्भनꣳ नाम तृतीयो ऽध्यायः ॥३॥ …
tṛtīyo 'dhyāyaḥ sanat-kumāra uvāca— aho tāta kim āścaryaṁ kṛṣṇasya paramātmanaḥ | paraṁ naivedya-māhātmyaṁ vistarād vada sāmpratam ||1|| atha śrī-kṛṣṇa-mahima-varṇanam brahmovāca— ekadā brāhmaṇo hṛṣṭaḥ praphulla-vadanekṣaṇaḥ | putreṇa sārdhaṁ prayayau bāndhavasya gṛhaṁ mudā ||2|| nimantrito vivāhena mahā-saṁbhāra-saṁbhṛtaḥ | bhuktvā pītvā ca tad-gṛhe sva-gṛhaṁ prayayau mudā ||3|| saputro brāhmaṇo mārge kṣut-pipāsārditaḥ sutaḥ | dadarśa candra-bhāgāṁ tāṁ nadīm ati-manoharām ||4|| uvāca putraḥ pitraṁ snātvā bhokṣyāmi ceti bhoḥ | kṣut-pipāsā balavatī vardhate tāta vartmani ||5|| putrasya vacanaṁ śrutvā tam uvāca dvijaḥ svayam | bhayaṁkaraṁ vanam idaṁ samīpe saritaḥ sutaḥ ||6|| suśīghraṁ gaccha grāmāntaṁ puro ramya-sarovaram | tatra snātvā ca bhokṣyāvo gaccha vatsa yathāsukham ||7|| tātasya vacanaṁ śrutvā jahāsa ca cukopa ha | pitaraṁ vaktum ārebhe rakta-paṇgkaja-locanaḥ ||8|| śiśur uvāca— bālo 'haṁ daśa-varṣīyas tvaṁ ca vṛddhaś ca jñānadaḥ | pitā dadāti putrāya jñānaṁ sarvatra bhū-tale ||9|| aho duratyayaḥ kālo vṛdhho vadati bālavat | kathaṁ prāktanam ullaṅghya brūhi tāta duratyayam ||10|| prāktanāt sukha-duḥkhaṁ ca rogaṁ śokaṁ bhayaṁ pitaḥ | sumṛtyur apamṛtyur vā cirāyur alpa-jīvanaḥ ||11|| yatra kāle ca yan-mṛtyur bhavanaṁ śubha-karma ca | nyūnādhikaṁ kṣaṇaṁ nāsti niṣekaḥ kena vāryate ||12|| yasya haste ca yan-mṛtyur vidhātrā likhitaḥ purā | na ca taṁ khaṇḍituṁ śaktaḥ svayaṁ viṣṇuś ca śaṅkaraḥ ||13|| tāta vyartham adhītaṁ te durbuddher janma niṣphalam | subuddheḥ saphalaṁ janma tat-kṣaṇam jīvanaṁ sukham ||14|| yena śuklī-kṛtā haṁsāḥ śukāś ca haritī-kṛtāḥ | mayūrāś citritā yena sa me rakṣāṁ kariṣyati ||15|| yena kṛṣṇena viśvāni cāsaṁkhyāni kṛtāni ca | carācaraṁ ca yo rakṣet sa me rakṣāṁ kariṣyati ||16|| ghorāraṇye sukhaṁ śete yo hi kṛṣṇena rakṣitaḥ | nirbandho 'pi yasya maraṇaṁ tasya mandire ||17|| yaḥ śete nāga-śayyāsu prāktanān maṅgalāhitaḥ | yo nāga-bhakṣito bhogāt sa bhṛto garuḍāntike ||18|| na samudre ca mriyate nāgni-rāśau viṣānale | na śastreṇa na cāstreṇāyur-marmāṇi rakṣati ||19|| nāprāpta-kālo mriyate viddhaḥ śara-śatair api | tṛṇāgreṇāpi saṁspṛṣṭaḥ prāpta-kālo na jīvati ||20|| kaścid garbhe ca mriyate kaścid bhūmiṣṭa-mātrataḥ | kaścid yauvana-kāle ca kaścid eva hi vārddhake ||21|| kaścid cirāyu rogī cāpy arogī cāpi kaścana | kaścid dhanī daridraś ca kaścid eva hi karmaṇā ||22|| kaścit kalpānta-jīvī ca cira-jīvī ca kaścana | prāktanād amaraḥ kaścin niṣeko balavattaraḥ ||23|| kaścid yāti ca rājendro divya-yānena karmaṇā | kaścit kīṭa-pataṅgeṣu kaścit paśvādi-yoniṣu ||24|| kaścid eva hi sannyāsī kaścic ca nara-ghātakaḥ | kaścid gajendra-gāmī ca paśu-yāyī ca kaścana ||25|| kaścid sūkṣmāṁśukā-dhārī kaścij jīrṇa-paṭī janaḥ ||26|| kaścin nagno 'apy anāhārī sudhā-bhojī ca ca kaścana | kaścic ca sundaraḥ śrīmān galat-kuṣṭī ca kaścana ||27|| kaścit kubjaś cāṅga-hīno badhiraḥ kāṇa eva ca | kaścid dīrgho madhyamaś ca kaścit khañjaś ca vāmanaḥ ||28|| kaścit kṛṣṇaś ca gauraś ca śyāmalaś ca sva-karmaṇā | kaścid bhaktyā ca prāpnoti kṛṣṇa-dāsyaṁ sudurlabham ||29|| brahmaṇaḥ paramaṁ sthānaṁ janma-mṛtyu-jarā-haram | kaścit prāpnoti paramaṁ brahma-lokaṁ nirāmayam ||30|| kaścit svargam indra-padaṁ śiva-lokaṁ svakarmaṇā | kaścit vargam indra-lokaṁ yama-lokaṁ ca kaścana||31|| kaścic ca narake ghore prāpnoti kleśam ulvaṇam | tādito yama-dūtena kṣudhitas tṛṣitaḥ sadā ||32|| bhuṅkte viṇ-mūtra-kīṭaṁ tan-malaṁ śleṣmaṁ garaṁ vasām | kṣura-dhāre tapta-taile vahnau śite jale sthale ||33|| prāpnoti dāruṇaṁ duḥkham ākalpaṁ pātakī pitaḥ | tathā bhogāvaśeṣe ca labdhā janma sva-karmaṇā ||34|| vyādhi-yuktaḥ pramucyeta tayā ced īśvarecchayā | yad-bhayād vāti vāto 'yaṁ sūryas tapati yad-bhayāt ||35|| varṣatīndro dahaty agnir mṛtyuś carati jantuṣu | yasyājñayā sṛṣṭi-vidhau mūrmo 'nantaṁ dadhāti ca|| 36|| sa ca sarvaṁ ca brahmāṇḍaṁ līlayā ceśvarecchayā | yasyājñayā mahā-bhītā sarvādhārā vasundharā ||37|| dharā sā sarvasyādyā ratnavāṁś ca himālayaḥ | svayaṁ vidhātā bhagavān dhyāyate yam ahar-niśam ||38|| yaṁ dhyāyate ca bhajate svayaṁ mṛtuñjayaḥ śivaḥ | sahasra-vaktro 'yaṁ stauti dhyāyate bhajate sadā ||39|| svayṁ sarasvatī stauti yam īśvaram abhīpsitam | sevate pāda-padmaṁ ca svayaṁ padmālayā pitaḥ ||40|| māyā bhītā ca yaṁ stauti durgā durgati-nāśinī | stuvanti vedāḥ satataṁ sāvitrī veda-mātṛkā ||41|| siddhendrāś ca munīndrāś ca yogīndrāḥ sanakādayaḥ | rājendrāś cāsurendrāś ca surendrā manavas tathā ||42|| dhyāyante ca bhajante ca bhaktāḥ santo hi santatam | kecid vidanti yaṁ brahmāṁ bhagavantaṁ sanātanam ||43|| kecit pradhānaṁ sarvādyaṁ kecic ca jyotir īśvaram | kecic ca sarva-rūpaṁ ca sarva-kāraṇa-kāraṇam ||44|| kecit svecchābhayaṁ rūpaṁ bhaktānugraha-vigraham | kecit suruciraṁ śyāma-sundaraṁ manoharam ||45|| sānandaṁ paramānandaṁ govindaṁ nanda-nandanam | bhaja tāta paraṁ brahma smara śaśvat sureśvaram ||46|| ity evam uktvā pitaraṁ candra-bhāgā-nadī-jale | snātvā papau jalaṁ svacchaṁ bubhuje miṣṭa-modakam ||47|| pitā tad-vacanaṁ śrutvā sānandāśru mumoca saḥ | cucumba gaṇḍaṁ putrasya samāśleṣaṇa-pūrvakam ||48|| pitā snātvā samārebhe sandhyāṁ kartuṁ ca pūjanam | susnātaṁ pitaraṁ dṛṣṭvā putraḥ sa prayayau vanam ||49|| patraṁ bhojana-pātrārtham arhatuṁ cañcalaḥ śiśuḥ | cakāra cayanaṁ tūrṇaṁ praśastaṁ patra-pañcakam ||50|| sundaraṁ kusumaṁ vanyaṁ pūjanārthaṁ pitus tathā | dadarśa purato bālaḥ supakvaṁ vadarī-phalam ||51|| cakāra cayanaṁ tāni phalāni śobhanāni ca | dhātrī-phalaṁ supakvaṁ ca pakvam āmrātakaṁ tathā ||52|| supakvaṁ ca kadambaṁ ca cakāra cayanaṁ punaḥ | supakvaṁ sundaraṁ ramyaṁ dāḍimaṁ śrī-phalaṁ tathā ||53|| ramyaṁ jambu-phalaṁ caiva kharjūraṁ sumanoharam | karañjakaṁ ca jāmbīraṁ sundaraṁ cikuraṁ tathā ||54|| tat sarvaṁ cayanaṁ kṛtvā dadarśa purataḥ saraḥ | sunirmalaṁ jalaṁ svacchaṁ śveta-padmaṁ manoharam ||55|| ruciraṁ rakta-kahlāraṁ prasphuṭaṁ ca jalāntike | vihāya tāni sarvāṇi saraḥ-śirasi susthale ||56|| papau saraḥ-svaccha-toyaṁ jahāra padmam ulvaṇam | kiṁcit surakta-kahlāraṁ pakvaṁ padma-phalaṁ tathā ||57|| sarvam āharaṇaṁ kṛtvā pitaraṁ gantum udyataḥ | praphulla-vadanaḥ śrīmān sasmito dvija-bālakaḥ ||58|| praphulla-campaka-taruṁ dadarśa purataḥ śiśuḥ | mallikā-mālatī-kundayūthikā-mādhavī-latāḥ ||59|| cakāra cayanaṁ sphītaḥ puṣpāṇi sundarāṇi ca | puṣpeṇa phala-patreṇa tasya bhāro babhūva ha ||60|| bālo voḍhum aśakyantaś ca yayau gamana-mantharaḥ | na phalaṁ bubhuje so 'pi dharmādharma-bhayena ca ||61|| puro dadarśa sa śiśur ghoraṁ vyāghrālayaṁ bhiyā | tāta tāteti śabdaṁ ca cakāra ha punaḥ punaḥ ||62|| na dadarśa ca tātaṁ ca śārdulaṁ ca dadarśa saḥ | bhiyā sasmāra govinda-pādāravaindam īpsitam ||63|| hariṁ nara-hariṁ rāmaṁ kṛṣṇaṁ viṣṇuṁ ca mādhvam | dāmodaraṁ hṛṣīkeśaṁ mukundaṁ madhu-sūdanam ||64|| etāni daśa nāmāni japan vipra-śiśur bhiyā | prayayau purataḥ śīghraṁ punar eva sarovaram ||65|| saraso nirmale tīre puṣpāṇi ca phalāni ca | dadau bhaktyā bhagavate kṛṣṇāya paramātmane ||66|| śrī-kṛṣṇa-pūjāṁ kurvantaṁ dhyānamānāṁ padāmbujam | nikaṭaṁ na yayau vyāghro dṛṣṭvā bālaṁ ca dūrataḥ ||67|| vyāghraṁ dadarśa bālaś ca prakaṭāsyaṁ bhayānakam | vikṛtākāra-daśanaṁ vikaṭākṣaṁ mahodaram ||68|| dṛṣṭvā ca durato vyāghram uvāsa sarasas taṭe | dadhyau kṛṣṇa-padāmbhojaṁ janma-mṛtyu-jarā-haram ||69|| mūlādhāraṁ svādhiṣṭhānaṁ maṇipūram anāhatam | viśuddhaṁ ca tathājñākhyaṁ ṣaṭ-cakraṁ ca vibhāvya ca ||70|| kuṇḍalinyā sva-śaktyā ca sahitaṁ parameśvaram | sahasra-dala-padma-sthaṁ hṛdaye svātmanaḥ prabhum ||71|| dadarśa dvibhujaṁ kṛṣṇaṁ pīta-kauśeya-vāsasam | sasmitaṁ sundaraṁ śuddhaṁ navīna-jalada-prabham ||72|| koṭi-kandarpa-saundarya-līlā-dhāma-manoharam | koṭi-pārvaṇa-pūrṇendu-prabhā-juṣṭaṁ ca sundaram ||73|| sukha-dṛśyaṁ surūpaṁ ca bhaktānugraha-kārakam | candanokṣita-sarvāṅgaṁ ratna-bhūṣaṇa-bhūṣitam ||74|| praphulla-padma-nayanaṁ rādhā-vakṣaḥ-sthala-sthitam | mālatī-mālya-sambaddha-cūḍā-cāru-suśobhanam ||75|| dhṛta-ratnaṁ ratna-padmaṁ dakṣiṇena kareṇa ca | vāmena maṇi-nirmāṇa-dīpta-darpaṇam ujjvalam ||76|| ratna-kuṇḍāla-yugmena gaṇḍa-sthala-virājitam | kausthubhena maṇīndreṇa cāru-vakṣaḥ-sthalojjvalam ||77|| muktārāji-vinindaika-danta-rāji-virājitam | ājānu-mālatī-mālā-vana-mālā-vibhūṣitam ||78|| vedānana-sarasvatyā stutaṁ brahmeśa-vanditam | padmāpadmālayā-māyā-saṁsevita-padāmbujam ||79|| pari-pūrṇatamam brahma paramātmānam īśvaram | nirliptaṁ sākṣi-bhūtaṁ ca bhagavantaṁ sanātanam ||80|| sarveśāṁ sarva-rūpaṁ ca sarva-kāraṇa-kāraṇam | puruṣaṁ paramātmaikaṁ pareśaṁ prakṛteḥ paraṁ ||81|| evaṁ bhūtaṁ vibhuṁ dṛṣṭvā manasā praṇanāma tam | tuṣṭāva parayā bhaktyā tam īśaṁ sampuṭāñjaliḥ ||82|| śrī-subhadra uvāca— he nātha darśnaṁ dehi māṁ bhaktaṁ śaraṇāgatam | śrīda śrīśa śrī-nivāsa śrī-nidhe śrī-niketana ||83|| śriyā sevita-pādābja śrī-samutpatti-kāraṇa | vedānirvacaniyeśa nirīha nirguṇādhipa ||84|| sarvādya sarva-nilaya sarva-bīja sanātana | śānta sarasvatī-kānta nitānta sarva-karmasu ||85|| sarvādhāra nirādhāra kāma-pūra parāt para | duṣpārāsāra-saṁsāra-karṇa-dhāra namo 'stu te ||86|| ity evam uktvā sa śiśu ruroda ca punaḥ punaḥ | dhyāyena tat-padāmbhojaṁ śaraṇaṁ ca cakāra saḥ ||87|| iti viprakṛtaṁ stotraṁ tri-sandhyaṁ yaḥ paṭhen naraḥ | mucyate sarva-pāpebhyo viṣṇu-lokaṁ sa gacchati ||88|| iti śrī-nārada-pañca-rātre jñānāmṛta-sāre prathamaika-rātre brahma-sanat-kumāra-saṁvāde śrī-kṛṣṇa-mahimopālambhanaṁ nāma tṛtīyo 'dhyāyaḥ ||3|| …
English translation
- CHAPTER III
Sanat Kumara said :—O Sire! O ! What a wonder today I , have heard about the ‘greatness of eating the excellent Naivedyam of the Supreme Soul, Sri Krgna : kindly explain this in detail. (1)
Brahma spoke :—Once ona time, that Brahmana went toa friend’s house, with a gladdened heart and cheerful mind, his eyes opening wide with joy. (2)
This invitation was on a marriage ceremony ; and the Bramana with his son ate a lot of diverse good dishes and sweetmeats and drank nice cool water and then was on his return way tohome. (2) ae
On the way the Brahman: and his son felt themselves very much afflicted with hunger and thirst ; they then saw the exceedingly lovely Candrabhaga river. (4)
The son, then, exclaimed to his father :—‘‘O father ! I am very hungry and thirsty. Therefore I take my bath in this river and then eat something. (5)
Hearning the words of the son, the Brahmana addressed him :— “© son! This isa place of great danger; and a river is also seen so close. (6)
Therefore let us march on quickly toa village; there we will certainly see a beavtiful tank and we will bathe there and then eat and drink. O son! let usnow goon. (7)
Hearing the above words, the Brahmana’s son laughed a little and expressed his anger too, and with eyes, reddened like a red lotus, looked at his father and began to reply thus :— (8)
The boy said :—I am ten years old and you are aged, experic-
need, and my instructer ; morever it is the rule everywhere that
fathers instruct their sons. (9)
22 Narada Paficaratram But alas! Such is the nature of insurmountable time that an aged and experienced man talks like a child; O father! Why do you speak contrary words, taking no notice of what we call “Fate” (adrista). (10)
O Father !It is Fate that brings us pleasure, pain, disease, sorrow, fear, a good and happy death, long life, and short life.
(11) No one can avert the time when birth, death, or an auspicious act will take place ; no one can act to thecontrary. (12)
What has been ordained bythe Creator, in whose band one
would meet one’s death, cannot be averted even by Visnu or Mahadeva. (13)
O father! Out of your dulness of understanding, your birth and your study of the Sastras are in vain and have borne no fruit ; good understanding makes one’s life happy and fruitful. (14)
He will save me Who has made the swans of a white colour,
Who, has made parrots green, Who has made the peacocks of variegated colour. (15)
Will He not save me Who has created endless infinite Universe, Who is protecting all these beings, moveable and non-moveable. (16) There are some persons who sleep in the deep jungles protected by Sri Krsna ; again there are others who are dying in their homes, due to the curse of Fate. (17)
Persons, by virtue of their previous good, sleeping on snakes, do not lie, though bitten by snakes, and they again on account of their bad luck quit their lives though they live in company with ‘Garuda (the bird out of whose fear the serpents fly away). (18)
Again persons do not die in oceans, fire, and out of Poisons, weapons and arrows ; their longevity protects them. (19)
Until the proper time comes, one’s death does not take place, even pierced by hundreds of arrows ; again when time comes one dies by the edge of a straw. (20)
Rather some die in wombs, some die just after being born,
On the Highest Knowledge 23
some die in their vigorous youth and some die in their good
old age. (21)
By virtue of their karmas some are long-Jived, some are diseased, some are healthy, some wealthy and some again are poor. (22)
Some by their luck live till the end of a Kalpa ; some live very long ; some again are immortal. So Fate is the strongest. (23)
Some, again, on account of their karmas become Kings of kings and drive on divine chariots ; some again become worms and
insects ; some are born as animals. (24)
Some, again, by virtue of their karmas, become Sannya some again kill men; some go on Gajendras ; some again go on vehicles dragged by animals. (25)
Some again make presents of gems and jewels ; some again subsist by begging ; some put on silken and fine garments, some others wear tattered clothes. (26)
Some are naked and do not get food ; some drink nectar ; some are beautiful and prosperous and some are lepers. (77)
Some are haunch-backed ; some are deformed ; some are deaf ; some tall, some of mediocre size ; some dwarfish
sins >
some blind ; and some are lame. (28)
Some are of black complexion ; some fair, some pretty fair and some again by their respective karmas get rare devotion to Krsna, as His servant. (29)
Some acquire the highest place of Brahma free from birth, death and old age; some others acquire the highest region of Brahma, free from all diseases. (30)
Some go to Heaven and become Indra ; some others acquire Sivaloka; some again by virtue of their karmas acquire Yamaloka, Indraloka or Paradise. (31)
Some again suffer endless troubles in hell ; some others are chastised by the servants of Yama and suffer terribly from hunger and thirst. (32)
Some again eat insects of urine and foeces and the dirt excreted by insects ; some again eat fat and marrow ; some again suffer terribly
24 Narada Pajicaratram
from the edges of swords, hot oils, from fire, cold water and cold place. (33)
O Father! The sinners thus get endless terrific pains till the eud of a Kalpa; then after the expiry of their karmic effects, quit that life by the grace of God. (34)
By the will of God the people become attacked with disease and go themselves again freed from disease. It is through the terror of God that wind blows, the Sun radiates heat, Indra rains, Fire burns and Death occurs amongst the beings. By the command of
God Karma (Tortoise Supports the infinite Brahmanda, the Universe) (35—36)
That Sri Krsna pervades everywhere and protects all; thus He sports it is by His will that the earth is very afraid and is the support of all. (37)
That Barth yields all sorts of grains ; the Mount Himalayas has Stored up gems and the Creator Brahma is meditating whom day and night. (38)
Whom Mrtyufijaya Mahadeva (Conquerer of Death) is medi-
tating and worshipping ; Indra too meditates on Him and worships Him always. (39)
The Devi Sarasv. Krsna) O Father, L always. (40)
att Herself too chants hymns to Him (Sri aksmi, residing on lotuses, serves His feet
Him the Maya Sakti fears and therefore chants hymns ; and Durga the Destroyer of all evils and dangers and Savitri, the mother of the four Vedas praise Him. (41)
The Siddhendras, the Munindras, the Yogindras, Sanaka, etc. Rajendras, Surendras, Asirendras, the fourteen Manus all praise and chant hymns to Him incessantly ; the saints and Bhaktas medi-
tate on Him and worship Him always and some call Him as the Eternal Bhagavan. (42)
Some denominate Him as the Origin and Chief (Pradhana) of all ; some others name Him as Jyotirmaya (full of light) and some others call Him as embodying all forms (Sarvarapi) and some mention Him as the cause of all causes. (43—44)
On the Highest Knowledge 25
Some call Him as Svecchamaya Ruipadari, as assuming forms at His will, for favouring His Bhaktas ; some call Him as exceedingly beautiful blue and extremely lovely and charming Govinda Nandanandana, Sananda Paramananda (son of Nanda, with highest
bliss.) (44)
O Father ! So remember Krsna, the God of the Immortals.. (46)
Thus speaking to his father, the boy bat
‘phaga river and drank the pure clear water an sweet modakas (Laddus ; sweet balls). (47)
dened io his heart to hear the and kissed his
and worship that Parna Brahma Sri
hed in the Candrad ate some good
The father too became glad words of his son and, shedding tears of joy, embraced
son. (48) Then his father finished his Sandhya and worship. Seeing his father hav
the boy went to the forest. (49) yy cut readily five broad leaves on which they
bath and began to perform e had a good bath,
That restless bo would eat their edibles. (50) He collected beautiful forest flowers forthe worship by his
father ; He then saw nice ripe jujube fruits (plums) and collected ki fruits and ripe Amra fruits.
them ; then He took ripe Amala (51-52) the beautiful ripe
He then culled full blown Kadamba flowers, Karanjas,
pomegranate, Bel fruits, nice jack fruits, nice dates, Jambiras, beautiful Chikuras, etc (53-54) ‘
When he had thus collected various fruits, he saw a tank in
front and close to its pure water beautiful white lotuses and red lotuses (Rakta kahlaras) keeping all what he had collected close by on a pure spot, the boy drank the crystal-like water ; he collected the red lotuses and ripe seeds of lotuses (Padma-Vijas’. (55-56)
Collecting all these, he became ready to go to his father. That joyous and prosperous lad, the Brahmana boy smilingly and fearlessly saw before a nice Champaka tree and Mallika, Malati, Kunda, Yuthika and Madhavi creeper. He then got a load of the
26 Narada Pajjcaratram
various beautiful flowers and fruits from the above mentioned trees-
(57-60)
That load was somewhat heavy for the boy and he went on slowly and thought within himself whether it would be Tight or not to
eat any fruit on the way and he did not a eat single fruit even. (61)
Then he saw a terrible cave of a tiger and became panic stricken and exclaimed frequently “Father |? “Father !? (62)
He did not see his father but he saw a tiger. He became very much afraid and beganto remember firmly but distressedly the lotus feet of Sri Govinda. (63)
He who repeats like the above boy the ten names of Sri Hari, Nara Hari, Rama, Sri Krsna, Visnu Madhava, Damodara, Hrsikesa, Mukunda, Sri Madhusidana, is saved from fear. So remembering those names, the boy again went to the tank. (64-65)
Knowing Sri Krsna as Bhagavan, the Supreme Self, endowed with six Aigvaryas (supernatural lordly powers) he offered to Him those flowers and fruits with great devotion. (66)
In the meanwhile the tiger came there, but, seeing the boy in Contemplation of the lotus feet of Sri Krsna, could not come close to him. (67)
The boy then saw the terrible face, fierce teeth, ferocious eyes. and belly ;and meditated again the lotus feet of Sri Krsna that takes away birth, death and old age ; thus becoming the object of prey ue remained at a distance. (68-69)
He thought on the six chakras Muladhara, Svadhisthana, Manipira, Andhata, Visuddha, and Ajiia and then began to meditate in his heart on the Supreme Spirit, the Lord, situated in the
thousand petalled lotus in the head united with His own Sakti and Kundalini. (70-71)
He saw within his heart Sri Krsna, two armed, wearing yellow silken garment, smiling, beautiful, pure, and looking like fresh rainclouds. (72)
He looked exceedingly beautiful like Koyi Kandarpas (gods of | love) ; He is the source of all Lilas and radiant like a Kofi full moons. (73)
On the Highest Knowledge 27
It is extremely pleasant to look at Him; all His limbs are so proportionate and lovely ; He was sandal-pasted and wore ornaments, gems and jewels all over His body ; He was ready to show
His grace to His devotees. (74)
His lotus like eyes, looked beautiful; He was lying on the breast of Sri Radha ; His hair was tied to a tuft on His head ; and was encircled with a garland of Malati flowers and looked very charming. (75)
On His right hand was the excellent pure Ratna Padma (the lotus made of jewels); and on His left hand was the luminous looking-glass decked with brilliant gems and jewels. (76)
Two jewelled ear-rings were adoring His cheeks; and His
breast was illumined with brilliant Kaustubha gem, the prince of gems. (77)
His rows of teeth defied the row of pearls ; He was garlanded with Malati flowers and forest flowers ; thus His neck hada remarkable beauty all round it. (78)
He was praised by Sarasvati whose mouth was represented by the Vedas ; Brahma and Mahadeva were worshipping Him and Lakgmi and Maya were serving Him (champooing His lotus like feet). (79) ;
Thus the boy saw the Lord as the Highest Brahma Supreme Spirit, Full, Unattached, Witness, the Eternal Bha the Lord of all, the Form of all, the Cause of all causes, the Purusa, beyond Prakrti, and Paramatma Vibhu. (80-82)
‘thus the boy saw the Lord and saluted Him and fell prostrate before Him mentally with great devotion and with folded palms began to chant hymns to Him.—(82)
Sri Subhadra said :—O Lord ! Let me be refugee and devotee, O Thou Srida ! O Srisa; Niketana ! (83)
Thy lotus feet are served by Sri, not be described by the Vedas; Thou artt without any desire, tributeless and the Lord of all.
n, the gavan,
hold Thee ; Iam your §ri Nivasa Sri Nidhe !
the cause of Sri; Thou can’st he Supreme Lord‘ (84)
28 Narada Pajcaratram The origin of all, the abode of all, the seed of all, eternal, calm and peaceful, the Lord of Sarasvat!, and the Finale of all actions.
(85)
The Shelter of all, receptacle of all, Itself without any receptacle, assuming forms at will and yielding to all the objects of all their desires, and the helmsman to this ocean of world which has really no substance init and which is very difficult to be crossed. Isalute Thee. (86)
Thus saying, the boy began to weep intensely and remembered the lotus feet in meditation. (87) :
Whoever reads this stotra (hymn) uttered by the Brahmana boy becomes freed of allsins and goes to Visnu loka (the region of Visnu). (88)
Here ends the third Chapter of the first Ratra on reciting
the glories of Sri Krsna.
>
Complete chapter-aligned witnesses. Sanskrit/IAST is the GGM complete amended text, version 1.1, based on Vijñānānanda’s 1997 edition; the displayed Devanagari is transliterated directly from that proofread IAST witness. English is Swami Vijñānānanda’s complete translation, printed pages 21–28 (scan pages 38–45). It was extracted with Tesseract 5 English OCR from the 200 ppi published scan, with chapter boundaries controlled against the printed contents. No unsupported verse-by-verse equivalence is asserted.