Skip to main content

First Night · Chapter 2

Chapter 2

Unit 2 of 60First Night · Chapter 2First Night · Chapter 21 source entries

First Night · Chapter 2

Source

द्वितीयोऽध्यायः शुक उवाच— कुत्र वा पञ्च-रात्रꣳ च नारदस्य च धीमते । प्रदत्तꣳ शम्भुना तात तन् मे व्याख्यातुम् अर्हसि ॥१॥ अथ नारदस्य तपो-वर्णनम् व्यास उवाच— अधीत्य सर्वान् वेदाꣳश् च वेदाङ्गाण् पितुर् अन्तिके । जगाम तीत्र्हꣳ केदारꣳ सुप्रशस्तꣳ च भारते ॥२॥ हिमालयस्य पूर्वे य गङ्गा-तीरे मनोहरे । सिद्धे नारायण-क्षेत्रे सर्वेषाꣳ अभिवाञ्च्छिते ॥३॥ तपश् चकार स मुनिर् दिव्यꣳ वर्ष-सहस्रकम् । पित्रोक्तेनैव विधिना सततꣳ सꣳयुतः शुचिः ॥४॥ शुश्रावाकाश-वाणीꣳ च तपसो ऽन्ते महा-मुनिः । स्वल्पाक्षराꣳ च बह्व्-अर्थाꣳ परिणाम-सुखावहाम् ॥५॥ अथ नारदꣳ प्रति दैव-वाणी अशरीरिष्य् उवाच— आधारितो यदि हरिस् तपसा ततः किम् । नाधारितो यदि हरिस् तपसा ततः किम् । अन्तर् बहिर् यदि हरिस् तपसा ततः किम् । नान्तर् बहिर् यदि हरिस् तपसा ततः किम् ॥६॥ विरम विरम ब्रह्मन् किꣳ तपस्यासु वत्स । व्रज व्रज द्विज शीघ्रꣳ शङ्करꣳ ज्ञान-सिन्धुम् । लभ लभ हरि-भक्तिꣳ वैष्णवोक्ताꣳ सुपक्वाꣳ । भव-निगड-निबन्ध-छेदिनीꣳ कर्तनीꣳ च ॥७॥ इति श्रुत्वा च स मुनिर् विमनाः स्वर्-णदी-तटे । चकारार्थानुसन्धानꣳ न प्रसन्नम् च तन् मनः ॥८॥ रुरोद स्वर्-णदी-तीरे स्मारꣳ स्मारꣳ हरेः पदम् । ददर्श पुरतस् तातꣳ ब्रह्माणꣳ सकुमारकम् ॥९॥ ननाम सहसा मूर्ध्ना पितरꣳ तꣳ सहोदरम् । पाद्यम् अर्घ्यꣳ च प्रददौ जवेन सादरꣳ मुनिः ॥१०॥ श्लोक-द्वयार्थꣳ पप्रच्छ कुमारꣳ जगताꣳ विधिम् । सुखासीनꣳ सुस्थिरꣳ च सस्मितꣳ च गत-श्रमम् ॥११॥ स्वात्मारामꣳ पूर्ण-कामꣳ ज्ञानिनाꣳ च गुरोर् गुरुम् । साश्रु-नेत्रः पुलकितो भक्त्या प्रणत-कन्धरम् ॥१२॥ नारदस्य वचः श्रुत्वा दृष्ट्वा तꣳ कातरꣳ विधिः । पुत्रेण सार्द्धम् आलोच्य व्याख्याꣳ कर्तुꣳ समारेभे ॥१३॥ अथ दैव-वाण्यर्थः ब्रह्मोवाच— हे वत्स पूर्व-श्लोकार्थꣳ निगूढꣳ श्रुति-सम्मतम् । वेदार्थꣳ द्वि-विधꣳ शुद्धꣳ व्याख्याꣳ कुर्वन्ति वैदिकाः ॥१४॥ आराधितो यदि हरिर् येन पुꣳसा स्व-भक्तितः । किꣳ तस्य तपसा व्यर्थꣳ तीर्थ-पूतस्य नारद ॥१५॥ कृष्ण-मन्त्रोपासकस्य जीवन्-मुक्तस्य भारते । तपश् चोपहास-बीजꣳ तथा चर्वित-चर्वणम् ॥१६॥ मन्त्र-ग्रहण-मात्रेण पुरुषाणाꣳ शतꣳ सुत । पुनाति स्व-स्व-भक्तꣳ च चान्धवꣳश् चावलीलया ॥१७॥ नहि धर्मो नहि तपः श्री-कृष्ण-सेवनात् परम् । परिश्रमꣳ च विफलꣳ तपसा वैष्णवस्य च ॥१८॥ कृष्ण-मन्त्रोपासकस्य तीर्थ-पूतस्य पुत्रक । तीर्थ-स्नानम् अनशनꣳ वेदेषु च विडम्बनम् ॥१९॥ पूर्व-कर्मानुरोधेन यत् पापꣳ वैष्णवस्य च । मन्त्र-ग्रहण-मात्रेण नष्टꣳ वह्नौ यथा तृणम् ॥२०॥ पवित्रः परमो वह्निः पवित्रꣳ चामलꣳ जलꣳ । पवित्रꣳ भारतꣳ वर्षꣳ तीर्थꣳ यत् तुलसी-दलम् ॥२१॥ पुनाति लीलयैतानि शुद्धः कृष्ण-परायणः । उपस्पर्श च भक्तस्याप्य् एते वाञ्च्छन्ति सादरम् ॥२२॥ भक्तस्य पाद-रजसा सद्यः पूता वसुन्धरा । नहि पूत-स्त्रि-भुवने श्री-कृष्ण-सेवकात् परः ॥२३॥ शालिग्राम-शिला-चक्रे करोति कृष्ण-पूजनम् । तत्-पादोदक-नैवेद्यꣳ नित्यꣳ भुङ्क्ते च यः पुमान् ॥२४॥ स वैष्णवो महा-पूतस् तन्-मन्त्रोपासकः शुचिः । पुनाति पुꣳसाꣳ शतकꣳ जन्म-मात्रात् सबान्धवम् ॥२५॥ वत्स श्लोकस्यैक-पादꣳ व्याख्यातꣳ च यथागमम् । व्याख्यातꣳ करोम्य् अन्य-पादꣳ यथाज्ञानꣳ मिशामय ॥२६॥ नाराधितो यदि हरिर् येन पुꣳसाधमेन च । किꣳ तस्य तपसा व्यर्थꣳ निष्फलꣳ तत्-परिश्रमः ॥२७॥ व्रतान्य् एव हि दानानि तपाꣳस्य् अनशनानि च । वेदोपयुक्ता यज्ञाश् च कर्माणि च शुभानि च ॥ न निष्पुनात्य् अभक्तꣳ च सुराकुम्भम् इवापगा ॥२८॥ अभक्त-स्पर्श-मात्रेण तीर्थानि कम्पितानि च । अभक्त-भार-दुःखेन कम्पिता सा वसुन्धरा ॥२९॥ श्लोकार्धꣳ कथितꣳ वत्स किꣳचिद् एव यथागमम् । तस्यार्धस्यापि व्याख्यानꣳ करोमीति निशामय ॥३०॥ वेद-सारꣳ कृष्ण-मतꣳ ममापि नहि कल्पना । अन्तर् बहिर् यदि हैर् येषाꣳ पुꣳसाꣳ महात्मनाꣳ ॥३१॥ स्वप्ने जागरणे शश्वत् तपस् तेषाꣳ च निष्फलम् । स एव विष्णु-तुल्यो हि तद्-अꣳशो भारते मुने ॥३२॥ तस्य रक्षा-निबन्धेन तद्-अभ्यासे सुदर्शनम् । ध्यान-मात्रेण निष्-पापः पुनाति भुवन-त्रयम् ॥३३॥ दत्वा चक्रꣳ च रक्षार्थꣳ न निश्चिन्तो जनार्दनः । स्वयꣳ तन् निकटꣳ याति द्रष्टुꣳ रक्षणाय च ॥३४॥ तत्-परो हि प्रियो नास्ति कृष्णस्य परमात्मनः । नहि भक्तात् परश् चात्मा प्राणाश् चावयवादयः ॥ न लक्ष्मी राधिका वाणी स्वयꣳभुः शम्भुर् एव च ॥३५॥ भक्त-प्राणो हि कृष्णश् च कृष्ण-प्राणा हि वैष्णवाः । ध्यायन्ते वैष्णवाः कृष्णꣳ कृष्णश् च वैष्णवाꣳस् तथा ॥३६॥ व्याख्यातम् च त्रि-पादꣳ च हे मुनीन्द्र यथागमम् । शेष-पादस्य व्याख्यानꣳ करोमीति निशामय ॥३७॥ नान्तर् बहिर् यदि हरिर् येषाꣳ पुꣳसाꣳ च नारद । तेषाम् अपि तपो व्यर्थम् अन्तर्-मलिन-चेतसाꣳ ॥३८॥ किꣳ तज्-ज्ञानेन तपसा व्रतेन नियमेन च । तीर्थ-स्नानेन पुण्येनापि अभक्त-मूढ-चेतसाꣳ ॥३९॥ कृष्ण-भक्ति-विहीनेभ्यो द्विजेभ्यः श्वपचो महान् । शूकरो म्लेच्छ-निवहः स्व-धर्माचरेण च ॥४०॥ स्व-धर्म-हीना विप्राश् चाप्य् अभक्ष्य-भक्षणेन च । नित्यꣳ नित्यꣳ विधर्मेण पतिताः श्वपचाधमाः ॥४१॥ ब्रह्मणानाꣳ स्व-धर्मश् च सन्ततꣳ कृष्ण-सेवनम् । नित्यꣳ ते भुञ्जते सन्तस् तन्-नैवेद्यꣳ पादोदकम् ॥४२॥ न दत्वा हरये यस् तु यदि भुङ्क्ते द्विजाधमः । अन्नꣳ विष्ठा-समꣳ मूत्र-समꣳ तोयꣳ विदुर् बुधाः ॥४३॥ भुङ्क्ते स्व-भक्ष्यꣳ कोलश् च म्लेच्छश् च श्वपचाधमः । विप्रो नित्यम् अभक्ष्यꣳ च भुङ्क्ते च पतितस् ततः ॥४४॥ श्लोकम् एकꣳ च व्याख्यातꣳ यथा-ज्ञानꣳ च नारद । सन्निबोध परस्यार्धꣳ व्याख्यानꣳ च यथोचितꣳ ॥४५॥ तपसो विरम ब्रह्मन् व्यर्थꣳ भक्त-तपो ध्रुवम् । शङ्करश् च गुरुꣳ कृत्वा हरि-भक्तिꣳ लभाचिरम् ॥४६॥ सुपक्वा हरि-भक्तिश् च तरणी भव-तारणे । गुरुर् एव परꣳ ब्रह्म कर्ण-धार-स्वरूपकः ॥४७॥ इत्य् एवम् उक्त्वा त्वाꣳ देवी प्रजगाम सरस्वती । व्याख्यातस् तद्-अभिप्रायः किꣳ भूयः कथयामि ते ॥४८॥ ब्रह्माणश् च वचः श्रुत्वा जहास योगिनाꣳ गुरुः । सनत्-कुमारो भगवान् उवाच पितरꣳ शुक ॥४९॥ सनत्-कुमार उवाच— पूर्व-श्लोकस्य व्याख्यानꣳ न बुद्धꣳ शिशुना मया । पुत्रꣳ शिष्यम् अबोधꣳ च युक्तꣳ बोधयितुम् पुनः ॥५०॥ आराधितो हरिर् येन तस्य व्यर्थꣳ तपो यदि । नाराधितो हैर् येन तस्य व्यर्तꣳ तपो यदि ॥५१॥ तस्यारहितौ तौ द्वौ तपसश् च स्थलꣳ कुतः । तपः कुर्वन्ति ये तात त्वꣳ माꣳ बोधय बालकम् ॥५२॥ पुत्रस्य वचनꣳ श्रुत्वा सन्दिग्धो जगताꣳ गुरुः । दध्यौ कृष्ण-पदाम्भोजꣳ परꣳ कल्प-तरुꣳ शुक ॥५३॥ क्षणꣳ सꣳचित्य पादाब्जꣳ प्राप राद्धान्तम् ईप्सितम् । व्याख्याꣳ कर्तुꣳ समारेभे विधाता जगताम् अपि ॥५४॥ अथ नैवेद्य-प्रशꣳसा ब्रह्मोवाच— धन्यो ऽहꣳ भवतः पुत्रात् ज्ञानिनाꣳ च गुरोर् गुरोः । विष्णु-भक्ताच् च धर्मिष्ठात् सत्-पुत्राच् च पिता सुखी ॥५५॥ धन्यो ऽसि पण्डितो ऽसि त्वꣳ हरि-भक्तो ऽसि पुत्रक । ममापि सफलꣳ जन्म जीवनꣳ च त्वया बुध ॥५६॥ निबोध पूर्व-श्लोकार्थꣳ पुनर् व्याख्याꣳ करोमि च । तथापि चेन् न सन्तोषो भवान् व्याख्याꣳ करिष्यति ॥५७॥ आशब्दः सम्यग्-अर्थे च राधितः प्राप्त-वाचकः । सꣳप्राप्तश् च हरिर् येन व्यर्थस् तस्य तपः-श्रमः ॥५८॥ येन सम्यक्-प्रकारेण सꣳप्राप्तो हरिर् ईश्वरः । स्वप्ने ज्ञाने च ज्ञातस् तेषाꣳ व्यर्थस् तपः-श्रमः ॥५९॥ श्री-कृष्ण-विमुखꣳ मूढꣳ द्विजम् एव नराधमम् । तीर्थꣳ दानꣳ तापः पुण्यꣳ व्रतꣳ नैव पुनाति तम् ॥६०॥ यश् च मूढतमो लोके यश् च भक्तिꣳ पराꣳ गतः । ताव् उभौ सुख-सेधेते तपः कुर्वन्ति मध्यमाः ॥६१॥ देवान् अन्याꣳश् च भजते हरिꣳ जानाति तत्-परः । तपः करोति तꣳ प्राप्तुम् आकाङ्क्षन् मध्यमो जनः ॥६२॥ प्राक्तनाद् अनुरागी च गृही सꣳसार-सꣳवृतः । तपः करोति श्री-कृष्ण-पाद-पद्मार्थम् ईप्सितम् ॥६३॥ परꣳ श्री-कृष्ण-भजनꣳ ध्यानꣳ तन्-नाम-कीर्तनम् । तत्-पादोदक-नैवेद्य-भक्षणꣳ सर्व-वाञ्च्छितम् ॥६४॥ अतीव मूढो विप्रश् च प्राक्तनाद् गुरु-दोषतः । तामसो हि न जानाति श्री-कृष्णꣳ त्रि-गुणात् परम् ॥६५॥ अज्ञानाद् अथ वा ज्ञानात् सत्-सङ्गाद् एव प्राक्तनात् । भुङ्क्ते नैवेद्यꣳ ईशस्य कृष्णस्य परमात्मनः ॥६६॥ स च मुक्तो भवेत् पुत्र मुच्यते सर्व-पातकात् । स याति दिव्य-यानेन गोलोकꣳ लोकम् उत्तमम् ॥६७॥ शृणु वत्स प्रवक्ष्यामि पूर्वाख्यानꣳ पुरातनम् । अतीव सुश्रवꣳ चारु मधुरꣳ मुक्तिदꣳ परम् ॥६८॥ कान्यकुब्जः सुक्षुब्धश् च ब्राह्मणो ग्राम-याजकः । देवलो वृष-वाहश् च महा-मूढश् च पातकी ॥६९॥ स्वप्ने ज्ञाने न जानाति पुण्यꣳ वा कृष्ण-पूजनम् । कृष्ण-भक्त-सहालाप-दर्शन-स्पर्शनꣳ शुभꣳ ॥७०॥ बभूव प्राक्तनात् तस्य क्षण-मात्रꣳ सुदुर्लभम् । तेन पुण्येन नैवेद्यꣳ लेभे कृष्णस्य ब्राह्मणः ॥७१॥ पितुः पुण्येन पुत्रश् च मार्गे पतितम् अल्पकम् । स्वयꣳ भुक्तावशेषꣳ च पतितꣳ वैष्णवाज् जनात् ॥७२॥ सुस्निग्धाक्षत-जीर्णꣳ च रजसा मिश्रितꣳ परम् । गच्छतस् तत्र विप्रस्य पतितꣳ भक्ष्य-वस्तु च ॥७३॥ नैवेद्योपरि कृष्णस्य त्वरायुक्तस्य पुत्रक । तद्-वस्तु भुक्तꣳ विप्रेण कृष्ण-नैवेद्य-मिश्रितम् ॥७४॥ सपुत्रेण क्षुधार्तेन तौ ययतुर् गृहम् । विप्रोच्छिष्टꣳ च बुभुजे तस्य पत्नी पति-व्रता ॥७५॥ परम्परानुसꣳबन्धात् पवित्रा सा बभूव ह । जीवन्-मुक्तो ब्राह्मणश् च बभूव स सपुत्रकः ॥७६॥ कालेन तेन पुण्येन व्याघ्र-भुक्तश् च कानने । सार्धꣳ च व्याघ्र-पुत्राभ्याꣳ गोलोकꣳ प्रययौ द्विज । पति-व्रता सह-मृता भर्ता सार्धꣳ जगाम सा ॥७७॥ इति श्री-नारद-पञ्च-रात्रे ज्ञानामृत-सारे प्रथमैक-रात्रे ब्रह्म-सनत्-कुमार-सꣳवादे नैवेद्य-प्रशꣳसनꣳ नाम द्वितीयो ऽध्यायः ॥२॥ … ________________

dvitīyo'dhyāyaḥ śuka uvāca— kutra vā pañca-rātraṁ ca nāradasya ca dhīmate | pradattaṁ śambhunā tāta tan me vyākhyātum arhasi ||1|| atha nāradasya tapo-varṇanam vyāsa uvāca— adhītya sarvān vedāṁś ca vedāṅgāṇ pitur antike | jagāma tītrhaṁ kedāraṁ supraśastaṁ ca bhārate ||2|| himālayasya pūrve ya gaṅgā-tīre manohare | siddhe nārāyaṇa-kṣetre sarveṣāṁ abhivāñcchite ||3|| tapaś cakāra sa munir divyaṁ varṣa-sahasrakam | pitroktenaiva vidhinā satataṁ saṁyutaḥ śuciḥ ||4|| śuśrāvākāśa-vāṇīṁ ca tapaso 'nte mahā-muniḥ | svalpākṣarāṁ ca bahv-arthāṁ pariṇāma-sukhāvahām ||5|| atha nāradaṁ prati daiva-vāṇī aśarīriṣy uvāca— ādhārito yadi haris tapasā tataḥ kim | nādhārito yadi haris tapasā tataḥ kim | antar bahir yadi haris tapasā tataḥ kim | nāntar bahir yadi haris tapasā tataḥ kim ||6|| virama virama brahman kiṁ tapasyāsu vatsa | vraja vraja dvija śīghraṁ śaṅkaraṁ jñāna-sindhum | labha labha hari-bhaktiṁ vaiṣṇavoktāṁ supakvāṁ | bhava-nigaḍa-nibandha-chedinīṁ kartanīṁ ca ||7|| iti śrutvā ca sa munir vimanāḥ svar-ṇadī-taṭe | cakārārthānusandhānaṁ na prasannam ca tan manaḥ ||8|| ruroda svar-ṇadī-tīre smāraṁ smāraṁ hareḥ padam | dadarśa puratas tātaṁ brahmāṇaṁ sakumārakam ||9|| nanāma sahasā mūrdhnā pitaraṁ taṁ sahodaram | pādyam arghyaṁ ca pradadau javena sādaraṁ muniḥ ||10|| śloka-dvayārthaṁ papraccha kumāraṁ jagatāṁ vidhim | sukhāsīnaṁ susthiraṁ ca sasmitaṁ ca gata-śramam ||11|| svātmārāmaṁ pūrṇa-kāmaṁ jñānināṁ ca guror gurum | sāśru-netraḥ pulakito bhaktyā praṇata-kandharam ||12|| nāradasya vacaḥ śrutvā dṛṣṭvā taṁ kātaraṁ vidhiḥ | putreṇa sārddham ālocya vyākhyāṁ kartuṁ samārebhe ||13|| atha daiva-vāṇyarthaḥ brahmovāca— he vatsa pūrva-ślokārthaṁ nigūḍhaṁ śruti-sammatam | vedārthaṁ dvi-vidhaṁ śuddhaṁ vyākhyāṁ kurvanti vaidikāḥ ||14|| ārādhito yadi harir yena puṁsā sva-bhaktitaḥ | kiṁ tasya tapasā vyarthaṁ tīrtha-pūtasya nārada ||15|| kṛṣṇa-mantropāsakasya jīvan-muktasya bhārate | tapaś copahāsa-bījaṁ tathā carvita-carvaṇam ||16|| mantra-grahaṇa-mātreṇa puruṣāṇāṁ śataṁ suta | punāti sva-sva-bhaktaṁ ca cāndhavaṁś cāvalīlayā ||17|| nahi dharmo nahi tapaḥ śrī-kṛṣṇa-sevanāt param | pariśramaṁ ca viphalaṁ tapasā vaiṣṇavasya ca ||18|| kṛṣṇa-mantropāsakasya tīrtha-pūtasya putraka | tīrtha-snānam anaśanaṁ vedeṣu ca viḍambanam ||19|| pūrva-karmānurodhena yat pāpaṁ vaiṣṇavasya ca | mantra-grahaṇa-mātreṇa naṣṭaṁ vahnau yathā tṛṇam ||20|| pavitraḥ paramo vahniḥ pavitraṁ cāmalaṁ jalaṁ | pavitraṁ bhārataṁ varṣaṁ tīrthaṁ yat tulasī-dalam ||21|| punāti līlayaitāni śuddhaḥ kṛṣṇa-parāyaṇaḥ | upasparśa ca bhaktasyāpy ete vāñcchanti sādaram ||22|| bhaktasya pāda-rajasā sadyaḥ pūtā vasundharā | nahi pūta-stri-bhuvane śrī-kṛṣṇa-sevakāt paraḥ ||23|| śāligrāma-śilā-cakre karoti kṛṣṇa-pūjanam | tat-pādodaka-naivedyaṁ nityaṁ bhuṅkte ca yaḥ pumān ||24|| sa vaiṣṇavo mahā-pūtas tan-mantropāsakaḥ śuciḥ | punāti puṁsāṁ śatakaṁ janma-mātrāt sabāndhavam ||25|| vatsa ślokasyaika-pādaṁ vyākhyātaṁ ca yathāgamam | vyākhyātaṁ karomy anya-pādaṁ yathājñānaṁ miśāmaya ||26|| nārādhito yadi harir yena puṁsādhamena ca | kiṁ tasya tapasā vyarthaṁ niṣphalaṁ tat-pariśramaḥ ||27|| vratāny eva hi dānāni tapāṁsy anaśanāni ca | vedopayuktā yajñāś ca karmāṇi ca śubhāni ca || na niṣpunāty abhaktaṁ ca surākumbham ivāpagā ||28|| abhakta-sparśa-mātreṇa tīrthāni kampitāni ca | abhakta-bhāra-duḥkhena kampitā sā vasundharā ||29|| ślokārdhaṁ kathitaṁ vatsa kiṁcid eva yathāgamam | tasyārdhasyāpi vyākhyānaṁ karomīti niśāmaya ||30|| veda-sāraṁ kṛṣṇa-mataṁ mamāpi nahi kalpanā | antar bahir yadi hair yeṣāṁ puṁsāṁ mahātmanāṁ ||31|| svapne jāgaraṇe śaśvat tapas teṣāṁ ca niṣphalam | sa eva viṣṇu-tulyo hi tad-aṁśo bhārate mune ||32|| tasya rakṣā-nibandhena tad-abhyāse sudarśanam | dhyāna-mātreṇa niṣ-pāpaḥ punāti bhuvana-trayam ||33|| datvā cakraṁ ca rakṣārthaṁ na niścinto janārdanaḥ | svayaṁ tan nikaṭaṁ yāti draṣṭuṁ rakṣaṇāya ca ||34|| tat-paro hi priyo nāsti kṛṣṇasya paramātmanaḥ | nahi bhaktāt paraś cātmā prāṇāś cāvayavādayaḥ || na lakṣmī rādhikā vāṇī svayaṁbhuḥ śambhur eva ca ||35|| bhakta-prāṇo hi kṛṣṇaś ca kṛṣṇa-prāṇā hi vaiṣṇavāḥ | dhyāyante vaiṣṇavāḥ kṛṣṇaṁ kṛṣṇaś ca vaiṣṇavāṁs tathā ||36|| vyākhyātam ca tri-pādaṁ ca he munīndra yathāgamam | śeṣa-pādasya vyākhyānaṁ karomīti niśāmaya ||37|| nāntar bahir yadi harir yeṣāṁ puṁsāṁ ca nārada | teṣām api tapo vyartham antar-malina-cetasāṁ ||38|| kiṁ taj-jñānena tapasā vratena niyamena ca | tīrtha-snānena puṇyenāpi abhakta-mūḍha-cetasāṁ ||39|| kṛṣṇa-bhakti-vihīnebhyo dvijebhyaḥ śvapaco mahān | śūkaro mleccha-nivahaḥ sva-dharmācareṇa ca ||40|| sva-dharma-hīnā viprāś cāpy abhakṣya-bhakṣaṇena ca | nityaṁ nityaṁ vidharmeṇa patitāḥ śvapacādhamāḥ ||41|| brahmaṇānāṁ sva-dharmaś ca santataṁ kṛṣṇa-sevanam | nityaṁ te bhuñjate santas tan-naivedyaṁ pādodakam ||42|| na datvā haraye yas tu yadi bhuṅkte dvijādhamaḥ | annaṁ viṣṭhā-samaṁ mūtra-samaṁ toyaṁ vidur budhāḥ ||43|| bhuṅkte sva-bhakṣyaṁ kolaś ca mlecchaś ca śvapacādhamaḥ | vipro nityam abhakṣyaṁ ca bhuṅkte ca patitas tataḥ ||44|| ślokam ekaṁ ca vyākhyātaṁ yathā-jñānaṁ ca nārada | sannibodha parasyārdhaṁ vyākhyānaṁ ca yathocitaṁ ||45|| tapaso virama brahman vyarthaṁ bhakta-tapo dhruvam | śaṅkaraś ca guruṁ kṛtvā hari-bhaktiṁ labhāciram ||46|| supakvā hari-bhaktiś ca taraṇī bhava-tāraṇe | gurur eva paraṁ brahma karṇa-dhāra-svarūpakaḥ ||47|| ity evam uktvā tvāṁ devī prajagāma sarasvatī | vyākhyātas tad-abhiprāyaḥ kiṁ bhūyaḥ kathayāmi te ||48|| brahmāṇaś ca vacaḥ śrutvā jahāsa yogināṁ guruḥ | sanat-kumāro bhagavān uvāca pitaraṁ śuka ||49|| sanat-kumāra uvāca— pūrva-ślokasya vyākhyānaṁ na buddhaṁ śiśunā mayā | putraṁ śiṣyam abodhaṁ ca yuktaṁ bodhayitum punaḥ ||50|| ārādhito harir yena tasya vyarthaṁ tapo yadi | nārādhito hair yena tasya vyartaṁ tapo yadi ||51|| tasyārahitau tau dvau tapasaś ca sthalaṁ kutaḥ | tapaḥ kurvanti ye tāta tvaṁ māṁ bodhaya bālakam ||52|| putrasya vacanaṁ śrutvā sandigdho jagatāṁ guruḥ | dadhyau kṛṣṇa-padāmbhojaṁ paraṁ kalpa-taruṁ śuka ||53|| kṣaṇaṁ saṁcitya pādābjaṁ prāpa rāddhāntam īpsitam | vyākhyāṁ kartuṁ samārebhe vidhātā jagatām api ||54|| atha naivedya-praśaṁsā brahmovāca— dhanyo 'haṁ bhavataḥ putrāt jñānināṁ ca guror guroḥ | viṣṇu-bhaktāc ca dharmiṣṭhāt sat-putrāc ca pitā sukhī ||55|| dhanyo 'si paṇḍito 'si tvaṁ hari-bhakto 'si putraka | mamāpi saphalaṁ janma jīvanaṁ ca tvayā budha ||56|| nibodha pūrva-ślokārthaṁ punar vyākhyāṁ karomi ca | tathāpi cen na santoṣo bhavān vyākhyāṁ kariṣyati ||57|| āśabdaḥ samyag-arthe ca rādhitaḥ prāpta-vācakaḥ | saṁprāptaś ca harir yena vyarthas tasya tapaḥ-śramaḥ ||58|| yena samyak-prakāreṇa saṁprāpto harir īśvaraḥ | svapne jñāne ca jñātas teṣāṁ vyarthas tapaḥ-śramaḥ ||59|| śrī-kṛṣṇa-vimukhaṁ mūḍhaṁ dvijam eva narādhamam | tīrthaṁ dānaṁ tāpaḥ puṇyaṁ vrataṁ naiva punāti tam ||60|| yaś ca mūḍhatamo loke yaś ca bhaktiṁ parāṁ gataḥ | tāv ubhau sukha-sedhete tapaḥ kurvanti madhyamāḥ ||61|| devān anyāṁś ca bhajate hariṁ jānāti tat-paraḥ | tapaḥ karoti taṁ prāptum ākāṅkṣan madhyamo janaḥ ||62|| prāktanād anurāgī ca gṛhī saṁsāra-saṁvṛtaḥ | tapaḥ karoti śrī-kṛṣṇa-pāda-padmārtham īpsitam ||63|| paraṁ śrī-kṛṣṇa-bhajanaṁ dhyānaṁ tan-nāma-kīrtanam | tat-pādodaka-naivedya-bhakṣaṇaṁ sarva-vāñcchitam ||64|| atīva mūḍho vipraś ca prāktanād guru-doṣataḥ | tāmaso hi na jānāti śrī-kṛṣṇaṁ tri-guṇāt param ||65|| ajñānād atha vā jñānāt sat-saṅgād eva prāktanāt | bhuṅkte naivedyaṁ īśasya kṛṣṇasya paramātmanaḥ ||66|| sa ca mukto bhavet putra mucyate sarva-pātakāt | sa yāti divya-yānena golokaṁ lokam uttamam ||67|| śṛṇu vatsa pravakṣyāmi pūrvākhyānaṁ purātanam | atīva suśravaṁ cāru madhuraṁ muktidaṁ param ||68|| kānyakubjaḥ sukṣubdhaś ca brāhmaṇo grāma-yājakaḥ | devalo vṛṣa-vāhaś ca mahā-mūḍhaś ca pātakī ||69|| svapne jñāne na jānāti puṇyaṁ vā kṛṣṇa-pūjanam | kṛṣṇa-bhakta-sahālāpa-darśana-sparśanaṁ śubhaṁ ||70|| babhūva prāktanāt tasya kṣaṇa-mātraṁ sudurlabham | tena puṇyena naivedyaṁ lebhe kṛṣṇasya brāhmaṇaḥ ||71|| pituḥ puṇyena putraś ca mārge patitam alpakam | svayaṁ bhuktāvaśeṣaṁ ca patitaṁ vaiṣṇavāj janāt ||72|| susnigdhākṣata-jīrṇaṁ ca rajasā miśritaṁ param | gacchatas tatra viprasya patitaṁ bhakṣya-vastu ca ||73|| naivedyopari kṛṣṇasya tvarāyuktasya putraka | tad-vastu bhuktaṁ vipreṇa kṛṣṇa-naivedya-miśritam ||74|| saputreṇa kṣudhārtena tau yayatur gṛham | viprocchiṣṭaṁ ca bubhuje tasya patnī pati-vratā ||75|| paramparānusaṁbandhāt pavitrā sā babhūva ha | jīvan-mukto brāhmaṇaś ca babhūva sa saputrakaḥ ||76|| kālena tena puṇyena vyāghra-bhuktaś ca kānane | sārdhaṁ ca vyāghra-putrābhyāṁ golokaṁ prayayau dvija | pati-vratā saha-mṛtā bhartā sārdhaṁ jagāma sā ||77|| iti śrī-nārada-pañca-rātre jñānāmṛta-sāre prathamaika-rātre brahma-sanat-kumāra-saṁvāde naivedya-praśaṁsanaṁ nāma dvitīyo 'dhyāyaḥ ||2|| … ________________

English translation

CHAPTER II ON EULOGISING THE OFFERING TG SRI KRSNA

Sri Suka said ;—O Father ! kindly tell me where the Pafca Ratram, was communicated to the intelligent Narada by Sathbhu.

: (1) Sri Vyasa said :—After studying from his father all the Vedas and the limbs of the Vedas (the Vedangas :—Siksa, Kalpa, Vyakra-

nam, Nirukta, Chanda, and Jyotiga), Narada went to that celebrated Tirtha, Kedara, so highly praised. (2)

This Narayana Ksetra, most lovely and enchanting,

desired by all, is situated on the east bank of the river Ganges. (3)

~ Here Narada practised tapasya for one thousand divine years,

always keeping himself holy and attentive to the rules dictated by his father. (4)

At the expiry of his tapasya, that great Muni beard a celestial voice in short {sentences, deeply pregnant of meaning and leading to happiness in the end. (5)

The Incorporeal voice said :— ‘6)

If Hari be worshipped, what need is there for tapasya (asceticism) ; What purpose will Tapasya serve if Hari be not worshipped ? If Hari be (realised) within and without, then what need there

is for tapasya ? Of what avail will one’s tapasya be, if Hari be not (realised) within and without. (6)

Note :—This verse inculcates the doctrine of devotion to Hari as highly superior to Tapasya. The fruits derived from practising tapasya (purification etc.) are all to be found where Hari is worshipped ; whereas mere tapasya, will not lead one to one’s goal. if one fails to worship Hari. Again what is the worship of Hari ? Realising Him within and without, seeing Him actually that He is

on Eulogising the offerings to Sri Krsna 13

within the hearts and outside in this Universe. The Prana is Hari- The sun is Hari; the moon is Hari, the cup is Hari, the cot is Hari, every thing is Hari. This whole Universe is made up of Hari. The soul is Hari, and Hari is the Supreme Self. This Tapasya will not yield.

Cease, Cease ; O Brahmana, what will you gain by Tapasyd ?

O Child ! go ere long to Sankara, the ocean of knowlege and get from Him the nature Hari bhakti (devotion to Hari) as spoken by §ri Vaisnava, that will sever like an axe, the hard bonds of Sathsara. (7)

[Note :—Therefore, one should not pay undue importance to asceticism. One should be absorbed in one’s devotion and love towards God. It is love, love, that is the quintessence of this universe and of this body (the macrocosm and the microcosm) Love to God, love to man. Thus humanity willfind its goal]. ,

Hearing this, on the banks of the Mandakini, the celestial Ganges the Muni became sadly depressed and being absent-minded. began to find out the deep meaning of these words ; but his mind was not satisfied. (8) F

There, on the banks of the Mandakini, he began to weep thinking of the feet of Hari; and he saw before him Brahma with

His son.

The Muni Narada seeing his brother and father, bowed down at once and offered them quickly with great love, water (Padya) and Arghya (flowers, etc.) for their reception. (10)

And when they became free of their troubles of the journey and when they sat down smiling with pleasure, then Narada wiped out his tears and his body became filled with joy ; bowing down his head with devotion, he asked the Creator of the world, Brahma, the highest Guru of the Jaanins who revel in their selves and who have all their desires fulfilled, and the Kumara (his brother) of’ the meaning of the two verses (celestial). (11—12)

Hearing the words of Narada. Brahma embraced him deeply and began to expound the meaning of the verses. (13)

44 NGrada-Pajicaratram

Brahma said :—O child ! The learned -people, versed in the Vedas, explain the above verses in two ways, in accordance with the Vedas, whose meanings are hidden and mysterious. ( 14)

If Hari be worshipped by any person, with his own devotion

and love, then O Narada, he becomes sanctified and made holy ; -

what use then.is there of his Tapasya, who has been already holy. (15)

[Note :—Tapasya will purify ; but his devotion has already purified him].

In this Bharatavarsa, the worshipper of Krsna mantra is Jivanmukta (liberated while living in this body) ; his practising Tapasya becomes a laughable stock like a masticated thing going again to be masticated (a repetition of the same thought ; vain and tedious reiteration). (16)

O Son ! being just initiated into the Krsna mantra, one purifies hundred persons and one’s devotees and friends and acquaintances. (17) ;

Dharma, (doing one’s duty) and Tapah (asceticism) are not ‘superior to the Seva of Sri Krsna ; the labour in practising tapasya goes in vain to one who is a Sri Vaisnava. (18)

OSon! soa worshipper who is purified by the Tirtha of Sri Krsna mantra, bathings in other trithas, fasting and studying the “Vedas are mere mockery and vexation. (19)

Whatever sins, due to past Karmas are found ina Vaisnva, they are all burnt and destroyed at once on his being initiated in the Krsna mantra as heaps of straw are consumed ina burning fire. (20)

The great Fire is holy ; the pure clean water is holy ; this Bharata Varga is holy ; the Tulasi leaves are holy, (21)

But the person devoted to Krsna easily purifies all these ; and they again, intheir turn, want eagerly to have a touch of the Bhaktas. (22)

The earth becomes purified at once by the dust of the fect of the Krsna Bhaktas. Nothing is purer, holier in this world than a person who serves the feet of Sri Krsna. (23)

On Eurogising the offerings to Sri Krsna 15

He who daily worships Krgna on the Sdlagrama Sila (stone -ammonite) and drinks and eats the water washing His feet and offerings offered to Him is highly sacred. (24)

On his being born in this world, the worshipper of the Krsna ‘mantra purifies hundreds of persons with friends and acquaintances. ; (25)

O Child! ThusI have explained the first foot of the verse in accordance with Agama (the Vedas) : I would now explain to you ‘the meaning of the other foot according to my knowledge. Hear:

(26)

If Hari be not worshipped by a vile man, what will be derived ‘by his performing tapasya ? His Jabour goes in vain. (27)

Asa wine bottle cannot be purified the Ganges, so one who jg not a Bhakta cannot be purified by vows, gifts,. tapasy4, fasting, yajfias according to the Vedas and all other auspicious acts. (28)

All the Tirthas tremble at the touch of a non-devotee. Even the Earth trembles at the load of a non-devotee (Abhakta). (29)

OSon! Thus the meaning of half the verse is explained a little in accordance with the Agama. Inow explain the other half

.of the verse. (30)

This cult of Krsna is the essence of the Vedas ; it is not my mere fancy. To that high-souled man within whose hearts and without him Sri Hari resides in his waking and dreaning state, tapasya is quite useless. O Muni ! That man who is a part of Visnu is equivalent to Visnu. (31)

Forhis protection Sudarsana Cakra watches, guards him © always ; and he, by the meditation of Krsna, becomes sinless and purifies the three worlds. (33)

Jandardana does not remain free from anxiety, though Sudarsan a Cakra is guarding the devotee ; He Himself goes to him to see that he is safe. (34)

Nothing is dearer to Krsna, the Supreme Spirit than His devotee ; Even Self, Prana, Bodies, Laksmi, Radhika, Sarasvatl!, Svyambhi, Sambhu are not superior to His devotee. Sri Krsna

16 Naradg-Pajcaratram.

is the life and soul of His bhakta ; and Sri Vaignava is the life and. soul of Sri Krsna. Sri Vaignavas meditate on Sri Krgna; and Sri Krsna too meditates on the Sri Vaignavas. (35-36)

O Best of munis! ThusI have explained the third foot in

accordance with the Agama. NowI will explain the fourth i.e., the last foot. (37)

O. Narada! If Hari do not exist within and without those

filthy and polluted persons, the asceticism (tapasyd) of these go

in vain. (38)

What fruits will the knowledge, tapasyd, vows, ordinances, tirthas, and the bathings and meritorious services of these persons bear? (39)

Evena Candala, hog and Mlecchas are superior by doing.

their Svadharma (duty) to a Brahmana who is devoid of any Bhakti to Sri Krisna. (40) ‘

A Brahmana, void of his own Dharma (duty), falls down and

degrades himself lower than a Candala by eating uneatables and. commiting himself daily to acting contrary to his Dharma. (41)

{Note :—Candala—A general name for the lowest and most

despised of the mixed castes originating from a Sidra father and a Brahmana mother.

A man of this caste ; an outcast].

The Svadharma (one’s duty) of the Brahmanas is always to, serve Krsna ; they become saints by daily eating His Naivedya (an. offering of eatables to a deity) and His Padodaka (water with which the feet of a deity are washed). (42)

The food that the vile Brahmana eats without previously offering the food to Hari is like feces and the water that he drinks ‘is like urine. So the Pandits say, (43)

The Kolas, Mlecchas, Candalas eat what they ought to eat according to their Dharma: but a Brahmana becomes fallen by daily eating what he ought not to eat. (44)

On the Highest Knowledge 17

O Narada! Thus I have explained, as farasmy knowledge goes, one gloka. Now I will explain the other sloka. (45)

O Brahmana ! Cease from the performance of your austerities ; O devoted one, your asceticism is certainly fruitless. Go and adopt Sankara as your Guru and get ere long from Him the Dasyabhakti (devotion of a servant to God) of Sri Hari. (46)

Well-matured, devotion to Sri Hari is a boat to carry one across this ocean of wood. The Guru is Parabrahma and the Guru is the helmsman. (47)

Thus saying to you, the Devi Sarasvati went away ; Her opinion is thus explained to you. What more do you want me to say? (48)

O Suka ! Hearing the words of Brahma, Bhagvan Sanat Kumara, the best amongst the Yogis, smiled and addressed to his father :— (49)

Sanat Kumara said :—I ama boy; so I cannot understand the meaning of the previous Sloka. A son, a disciple, if unable to understand at once, ought to be explained again. (50)

Tapasyd is useless toa man_ who has worshipped Sri Hari and

his tapasya is also useless who has not worshipped Sri Hari. Now if the tapasyas of both persons such as those above-mentioned be

useless then where is the room for tapasya.. (51)

O Father! Iama boy; kindly explain tome who are the persons that ought to perform tapasya ; and how? (52)

Hearing the querries of His son, Brahma, the World Teacher became doubtful and began to meditate the lotus feet of the Highest, Sri Krsna who is like a Kalpataru tree (that yields the fruits of all one’s desires). (53)

Thus meditating for a moment the lotus feet of Sri Krsna, He found out the meaning and began to explain confidently :— (54)

Brahma said :—Certainly I am blessed in getting you as my son, the Guru of the Gurus of the Jianins. Fora father becomes happy when he gets a good son devoted to Visnu and religions. (55)

O son! You are blessed ; you are Pandit; you are devoted to

18 Narada Pajicaratram Hari! O learned one! In getting you as my son my birth and life are certainly fruitful and have been crowned with success. (56)

Listen! I amexplaining again the meaning of the second

Sloka. If you are not satisfied with that, you can then explain yourself. (57)

The letter A means completely and the word ‘Radhita’ means “acquired”. Therefore the meaning is the labour of performing tapasya is in vain to him who has acquired fully Sri Hari (in every way). (58)

He who has rezlised fully Sri Hari in all his Bhdvas finds his labour in tapasya, whether waking or dreaming, to no purpose. (5Y)

Going to Tirthas, gifts, tapasya, Punyam and vow cannot

purify a Brahmana who turns his face away from Sri Hari. He is so stupid and mean. (60) ,

The two classes of people are happy ; those who have attained the highest Hari Bhakti and those who are quite dull and stupid. For this reason the middle class persons are fit to perform —

(

The middle class persons are those who worship other Devas and eagerly believe in Sri Hari and do practise tapasya (asceticism) to get Him. What more can such persons desire? (62)

If any householder, engaged in household affairs owing to his past Karma wants eagerly the lotus feet of Sri Krsna and for that Purpose performs tapasyd, he must be considered highly fortunate. In other words he is the follower of the above school. (63).

Worshipping Sri Krsna, meditating on Him, reciting His name, drinking His Padodaka (water with which His feet are washed)

and eating offerings of food dedicated to Him are all excellent Dharmas and desired by all. (64)

There are certain Brahmanas who are very stupid and dull and due to their past Karmas or due to some fallacy of the feet of their Gurus, do not understand Sri Krsna, who is beyond the three Gunas, as they are entirely under the away of the Tamogunas.

(65)

On the Highest Knowledge 19

If, knowingly or unknowingly, or out of the association with the saints or out of good fortune, any person eats the food offered to Sri Krsna, the God, the Supreme Spirit, he-becomes freed of all his sins and goes to Go-loka ona divine chariot (the higher vehicle) or to any other region if he likes so. (66-67)

O child ! Listen; there is an ancient anecdote on this point wellworth-hearing, beautiful and leading to the highly excellent Mukti (liberation). (68)

There was a Brahmana of Kanouj doing the office of a priest in the village Suksubdha, subsisting upon the offerings made to the images which he attends driving the bulls, very stupid and awfully sinful. (69) .

(Note : Suksubdha means also afraid, distracted).

Never did he do, knowingly or dreamingly, any virtuous act or worship Sri Krsna ; he used not also to see, converse cr make friends with the devotees of Sri Krsna. (70)

Now owing toa little of his past good Karma, a rare good opportunity came to him for a while ; he ate a portion of the food (Naivedyam) offered to Sri Krsna. (71)

Seeing a little such Naivedyam lying on the roadside his boy ate that, due to the good deeds of his father ; and the father, the above Brahmana also got a little of the remnant of that Naivedya already eaten by another Vaisnava. (72)

Washing those grains of rice fora long time from dirt and dust, that Bradhmana ate that; though worn out and wasted, it appeared a good food to him. (73)

But the Brahmana, out of haste, mixed his rerimant with Sri Krsan’s Naivedyam and ate that; the remnant was found lying on the Naivedyam. (74)

And his good son too, was very much hazgry also. Both then returned home. Then the Prat-naia’s chaste wife took whatever was left of that Naivedyam. (75)

Thus, the Brahmana’s wife became pure and holy; and through each other’s connection, that Brahmana and his son became Jivanmukta (liberated whilst living.) (76)

yaad ate that

Now once on an occasion that Brhmaana who ate a portion of Sri Krsna’s Naivedyam was eaten up bya tiger; on account of this merit that tiger went to Go-loka along with that Brahmana and hisson. His chaste wife died a sati and she also went along with them to the region of Goloka. (77)

Here ends the second chapter of Sri Narada Pajicaratram in the first Ratra on eulogizing Sri Krsna’s Naivedyam in course of a dialogue between Brahma and Sanatkumara.

Complete chapter-aligned witnesses. Sanskrit/IAST is the GGM complete amended text, version 1.1, based on Vijñānānanda’s 1997 edition; the displayed Devanagari is transliterated directly from that proofread IAST witness. English is Swami Vijñānānanda’s complete translation, printed pages 12–20 (scan pages 29–37). It was extracted with Tesseract 5 English OCR from the 200 ppi published scan, with chapter boundaries controlled against the printed contents. No unsupported verse-by-verse equivalence is asserted.